सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 312, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 312

२८० रसगङ्गाधरः
संस्कारजन्यं ज्ञानं स्मृतिः ॥
यथा—
तन्मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायन्तनाम्बुजसहोदरलोचनायाः ॥
चिन्ताविशेषोऽत्र विभावः । स्रस्तगात्रतानिश्चलत्वादय आक्षेपगम्या
व्यजत इत्यर्थः ॥
मुद्रणेऽतिविलम्बेन व्याख्या नष्टा पुरातनी ॥
साम्प्रतं समयाभावादक्षराथॊ निरूप्यते ॥
संस्कारजन्यमिति । संस्कारमात्रव्यापारकमित्यर्थः ।
तन्मञ्जु मन्देत्यादि । चिरविप्रयुक्तस्य नायकस्योक्तिरियम् । यदीयम्
उक्तिरात्मगता हसितादिस्वरूपविशेषज्ञानवन्मित्रकर्मिका वा तर्हि तत्पदं बुद्धिस्थ-
प्रकारावच्छिन्नबोधकम्, यदि तु अज्ञातहसितादिस्वरूपविशेषमित्रकर्मिका तर्हि तत्पदं
बुद्धिस्थत्वावच्छि