सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

प्रथमाननम् २५५
रेफघटितसंयोगस्यासकृत्प्रयोगो यथा—
तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः ।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥
यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु ।
स्पष्टः । अत्र णकारस्याप्यसकृत्प्रयोगमननुकूलमभिमन्यते रसगिचन्द्रकाकृत्, तस्य-
स्मिन् परिष्कृते पाठे 'हरिणाक्षि' इति पूर्वपाठस्थाने 'सखि'-शब्दप्रयोगं कारणं
मत्वा । वस्तुतस्तु नेदं सम्यक्, णकारस्य माधुर्यानुगुणत्वस्य पण्डितराजसम्मत-
त्वात् । कथमन्यथा पूर्णा करुणेति णकारप्राचुर्यस्य पूर्वार्धे सत्त्वेऽपि उत्तरार्धमात्र-
मननुगुणं मत्वा तत्तस्थान एव पाठान्तरं कल्पयेत् ? यस्तु 'हरिणाक्षि' इत्यत्र 'सखि'
इति पाठान्तरं कृतं तन्न णकारस्यामधुरत्वादपि तु विवक्षितस्य तत्रेति पदस्य समा-
वेशायैवेति बोध्यम् । तदेवं पूर्वस्मिन् पाठे उत्तरार्धे टवर्गप्राचुर्यं प्रदर्शितम् ।
अन्येषां टवर्गसहचरितानां ककारादीनां झयामपि प्राचुर्यं व्यक्तमेवात्र ।
तुलामनालोक्येत्यादि । हे गौराङ्गि ! निजां तुलां स्वकीयगुणसादृश्यमापात-
तोऽन्यस्यां कामिन्यामनालोक्य कदापि अखर्वं गर्वं न कुर्याः, यतो नानाफलभार-
सम्पन्नाः कियत्योऽपरिमिता लता गहनान्तरेषु वनान्तःप्रदेशेषु लसन्ति ।
अतस्त्वमतुलनीया न वर्त्तस इत्याशयः । अत्र पद्ये अखर्वं गर्वं कुर्या इत्येतेषु
पदेषु त्रयाणां रेफघटितसंयोगानां सत्त्वादानुगुण्याभाव इति हेतोः पाठान्तरं प्रदर्श-
यति—'तुलामनालोक्य महीतलेऽस्मिन्' इति । एतावताऽपि 'गर्वं कुर्याः' इत्युभयत्र
रेफघटितसंयोगस्य सत्त्वाद् द्विःप्रयोगेऽपि असकृत्त्वस्य निर्वाहात् कथमानुगुण्यमिति न
ज्ञायते । 'न कदापि' इत्यनेन व्यवधानेऽपि नैकट्यं त्वक्षतमेव, कथमन्यथा सङ्गतिः
स्यादुदाहरणान्तराणाम् । अतोऽत्रानुगुण्यसम्पादनाय 'तुलामनालोक्य महीतलेऽस्मिन्
गौराङ्गि मानं न कदापि कुर्याः' इति, 'तुला .... गौराङ्गि गर्वं न कदापि धेयाः'
इति वा पाठान्तरं कल्पनीयम् । द्वितीयपादे गर्वं कुर्या इत्यादेः सत्त्वेऽपि
रेफघटित संयोग के प्रचुर प्रयोग का उदाहरण 'तुलामनालोक्य.....' आदि पद्य
है । इसमें 'अखर्वं'; 'गर्वं', और 'कुर्याः' इन पदों में तीन बार रेफघटित संयोग
हैं । ये शृङ्गाररस के प्रतिकूल हैं । हां, यदि इसके पूर्वार्द्ध का 'तुलामनालोक्य
महीतलेऽस्मिन् गौराङ्गि मानं न कदाऽपि कुर्याः' यह पाठ हो तो पूर्वोक्त दोष नहीं
रह जाता । उदाहृत पद्य का अर्थ है—
"अरी गौराङ्गी सखी ! स्तनों के भार से अवनत अपनी देहयष्टि की अन्य
युवतियों में समानता न पाने मात्र से इतना असीम अहङ्कार कदापि मत कर,
क्योंकि नाना प्रकार के फलों के भार से अवनत कितनी हीं लताएं जङ्गल के
अन्दर सुशोभित हो रही हैं ।"

त्यादि । खण्डिता नायिका नायकमुपालभते । मम निकाय्यं गृहं

Line 11:
विगणय्य परित्यज्य यत्त्वं तामन्यां नायिकामनुयातोऽसि तत् कथमपि न्याय्यं

Line 12:
न्यायादनपेतमुचितं नेत्यर्थः । अत्र यकारद्वयघटितः संयोगस्त्रिःकृत्वः प्रयुक्त इति

Line 13:
प्रातिकूल्यम् ।

Line 14:
तथेति । अधिकमित्यर्थः । अतश्च लादीनामपि परिहरणीय एव भूयो भूयः

Line 15:
स्वात्मना संयोगो महाकविनेति सूच्यते । आवहतीति । अत एव हलां ल-म-न-

Line 16:
भिन्नानां स्वात्मना संयोगस्य असकृत्प्रयोगं वर्जयेदिति पूर्वमुक्तम् ।

Line 17:
इयमुल्लसितेत्यादि । कृष्णदर्शनप्रसन्नां गोपीं तत्सखी पृच्छति—हे आलि ?

Line 18:
तव मुखस्येयमेतावतो विलक्षणा वा शोभा उल्लसिता, नयनकमलद्वयं च परिफुल्लं
Wait, look at

प्रथमाननम् २५७
झय्द्वयघटितसंयोगस्य यथा—
आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा ।
अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याप्ता ॥
अत्र द्वितीयार्धमरम्यम् । 'सरसिजकुलेन संप्रति भामिनि ते मुखतुला-
धि्रगता' इति तु साधु ।
सवर्णझय्द्वयघटितसंयोगस्य सकृत्प्रयोगे यथा—
अयि मन्दस्मितमधुरं वदन तन्वङ्गि यदि मनाक्कुरुषे ।
अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥
झय्द्वयेति । असवर्णझय्द्वयेत्यर्थः ।
आ सायमिति । मानापनोदनाय कश्चिन्मानिनीं स्तौति । ह्यः प्रातरारभ्य
सायंकालपर्यन्तं सलिले स्थित्वा सवितारं सादरमुपास्याब्जं यत्तपस्तेपे तेन निमित्त-
भूतेन, हे मानिनि ! अधुना अद्य तव मुखस्य मानात्पूर्वं विकसितस्य तेनाब्जेन
मनागीषत् तुलना प्राप्ता ।
अत्राब्जशब्दे आप्तशब्दे च बकार-जकारयोः पकार-तकारयोश्च झयोः संयोगद्वय-
मित्यननुकूलमिदमित्याह—अरम्यमिति । अत्रानुकूलं विन्यासं प्रदर्शयति—सरसि-
जेत्यादिना ।
अयि मन्देत्यादि । अयि तन्वङ्गि ! यदि त्वं स्ववदनं मनागपि मन्दस्मितेन
झय्-प्रत्याहार के असवर्ण व्यञ्जनों के संयोग का प्राचुर्य “आ सायं सलिलभरे
···” इत्यादि पद्य में उपलब्ध है । पद्यार्थ निम्नलिखित है—
“ओ मानिनी ! कल प्रातः काल से लेकर सायंकाल तक जल के भीतर रहकर
सूर्य की श्रद्धापूर्वक उपासना करने वाली कमलिनी अपने तप के फलस्वरूप आज
तेरे मुख की थोड़ी-सी समानता पा सकी है ॥”
इस पद्य के उत्तरार्द्ध में 'अब्ज' शब्द में ब् + ज् का और 'आप्ता' शब्द में
प्-+त् का संयोग झय्-द्वयसंयोग है । यह शृङ्गार रस के प्रतिकूल है । हाँ, यदि
'सरसिजकुलेन सम्प्रति भामिनि ते मुखतुलाधिगता' यह पाठ उत्तरार्द्ध का होता
तो उक्त दोष नहीं होता ।
दो सवर्ण झयों का एक बार संयोग 'अयि मन्दस्मित···' आदि पद्य में प्राप्त
होता ।
“ओ कोमलाङ्गी ! यदि तूं अपने मुह को थोड़ी सी मुस्कुराहट से आकर्षक
बना ले तो सच मान कि पूर्ण चन्द्र का सौन्दर्य पर जो आधिपत्य है वह समाप्त
हो चुका ॥”

२५८ रसगङ्गाधरः

नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्कखसंयो-
गस्य महाप्राणसंयोगनिषेधविषयत्वात्तृतीयसंयोगस्य चासंभवात्सवर्णेझयद्वय-
मधुरं कुरुषे तर्हि राकारमणस्य पूर्णचन्द्रस्य सौन्दर्यसाम्राज्यमधुनेव सद्य एव शमितं
कलय जानीहि। अत्रैकस्यैव 'क्कु' ऽति सवर्णझयद्वयघटितसंयोगस्य प्रयोगात्
प्रतिकूलत।
सवर्णझयद्वयघटितसंयोगस्य वर्जनीयत्वेन पृथगुपादानं निरर्थकमिति शङ्कते—
नन्वित्यादिना। स्वात्मेत्यादि 'हलां ल-म-न-भिन्नानां स्वात्मना संयोगस्य••••'
इत्यनेन पूर्वमिदमुक्तम्। असम्भवादिति। गकारे परे पूर्वस्य ककारस्य नियमेन
यही उदाहृत पद्य का अर्थ है। इसमें 'मनाकुरुषे' इस अंश में क्+क् का
संयोग सवर्णझय् संयोग है। यह शृङ्गार रस के प्रतिकूल है।
इस प्रसङ्ग में यह प्रश्न उठाया गया है—
पहले ल्, म् और न् से भिन्न व्यञ्जनों के समान व्यञ्जन के साथ संयोग
का मधुर-रसाभिव्यञ्जक रचना में निषेध किया जा चुका है। अतः टवर्गातिरिक्त
व्यञ्जनवर्गों के प्रथम+प्रथम के संयोग (जैसे दो-दो ककार आदि के संयोग) का तो
उक्त निषेध में ही समावेश स्पष्ट है। जहाँ तक चार व्यञ्जनवर्गों के प्रथम तथा
द्वितीय व्यञ्जनों (क्+ख् आदि) के संयोग के निषेध की बात है वह भी व्यञ्जनवर्गीय
द्वितीय वर्णों के महाप्राण होने से महाप्राणघटित संयोग के पूर्वोक्त निषेध में गतार्थ
है। यही स्थिति सवर्ण तृतीय-चतुर्थ व्यञ्जनों के संयोग (ग्+घ्) की भी है।
वर्गों के प्रथम-तृतीय का संयोग तो असम्भव है, क्योंकि तृतीय व्यञ्जन के परे
पूर्ववर्ती प्रथम व्यञ्जन का नियमतः जश् (उसी वर्ग के तृतीय व्यञ्जन) के रूप में
परिवर्तन हो जाने से वह सवर्ण प्रथम-तृतीय व्यञ्जनों (ग्+ग्) में ही होगा। इसका
निषेध भी एक व्यञ्जन का स्वसमानरूप दूसरे व्यञ्जन (क्+क्) के संयोग के
पूर्वोक्त निषेध से ही हो जाता है। न् और म् को छोड़ कर अन्य व्यञ्जनवर्गीय
पञ्चम व्यञ्जनों का सवर्ण पञ्चम व्यञ्जनों के साथ (ङ्+ङ् आदि) जो संयोग
होगा उसका भी इसीसे निषेध स्पष्ट है। ऐसी स्थिति में कौन-सा दो सवर्ण झयो
का संयोग बचा रह जाता जिसके निषेधके लिए सवर्णझय्-द्वय-संयोग का स्वतन्त्र
रूप में यह निषेध सार्थक है?
इसके उत्तर में यह कहा गया है—स्वसमानरूप व्यञ्जनों के संयोग का एक से
अधिक बार प्रयोग होने पर हीं पूर्वोक्त निषेध किया गया है, एक बार प्रयोग होने
पर नहीं। अतः यदि प्रथम-प्रथम, तृतीय-तृतीय और पञ्चम-पञ्चम व्यञ्जनों के
संयोगों को भी पूर्वोक्त निषेधके हीं विषय मानेंगे तो इनमें भी मधुररस-प्रतिकूलता

प्रथमाननम् २५९
संयोगनिषेधो निरवकाश इति चेत् ? न, सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् ।
अन्यथा मनाक्कुरुष इति निर्दोषं स्यात् ।
महाप्राणघटितसंयोगो यथा—
अयि मृगमदबिन्दुं चेद्भाले बाले समातनुषे ।
जश्त्वाद् गकाररूपेणैवोपलब्धिर्न तु ककाररूपेण, यस्तु गकारद्वयसंयोगस्तस्य
हलां स्वात्मना संयोगनिषेधोक्तरेव संग्रहादिदमुक्तम् । सकृदित्यादि । अत्र
महाप्राणघटितसंयोगातिरिक्तस्य सवर्णझ्य्द्वयसंयोगस्य सकृत्प्रयोगो निषेधस्य विषय-
त्वेन विवक्षित इति बोध्यम् । अत एवाग्रिमपद्यव्याख्याने 'अधुनैव महाप्राणसंयोग-
स्याऽसकृत्प्रयोगे निषेधविषयतां व्यवस्थाप्य तत्सकृत्प्रयोगे पुनरेतदुदाहरणप्रदर्शनं कथं
संगच्छत इति चिन्त्यम्' इति चन्द्रिकोक्तिश्चिन्त्या, पूर्वमप्यस्य सकृत्प्रयोगस्यैव
निषेधात् । अस्य = प्रकृतनिषेधस्य । अन्यथेति । यदि निषेधान्तरविषयत्वमस्य
सवर्णझ्य्द्वयनिषेधस्योच्येत तर्हीत्यर्थः । निर्दोषं स्यादिति । प्रकृतस्य संयोगस्य
निषेधान्तरविषयत्वे स्वीकृते महाप्राणघटितातिरिक्तसवर्णझ्य्द्वयसंयोगोऽपि असकृदेव
प्रयुक्तो निषिद्धः स्यात्, न तु सकृदपि, पूर्वं तस्य तस्य निषेधस्याऽसकृत्प्रयोगविषय-
त्वोक्तेः; तथा च सकृत्संयोगे 'क्कु' इत्यत्रोदाहृतपद्यस्थे प्रतिकूलतयाऽभिमतेऽपि निषेध-
विषयत्वं न स्यादिति तात्पर्यम् ।
अयीत्यादि । अयि बाले ! यदि त्वं स्वभाले मृगमदस्य कस्तूरिकाया विन्दुं
समातनुषे तर्हि राकारमणस्य साम्राज्यमधुनैव शमितं कलयेति पूर्वपद्योत्तराद्धेनेदं
तभी प्रतीत होगी यदि इनका अनेक बार प्रयोग किया गया हो, एक बार प्रयोग
करने पर नहीं। किन्तु ऐसा संयोग एक बार प्रयुक्त होने पर भी मधुर रस के लिए
प्रतिकूल है। अतः ऐसे संयोगों का एक बार भी प्रयोग करना अनुचित है—इस
विषय को सिद्ध करने के लिए सवर्ण-झय् द्वय-संयोग का स्वतन्त्र रूप में निषेध
किया जाना सर्वथा आवश्यक है। अन्यथा उदाहृत पद्य में 'मनाक्कुरुषे' इस अंश में
सवर्ण-झय्-द्वय का एक संयोग कथमपि दुष्ट नहीं होता, जबकि वस्तुतः यह रसप्रति-
कूल होने से दुष्ट है हीं। अतः यह स्वतन्त्र निषेध सार्थक है।
महाप्राणघटित संयोग का एक बार प्रयोग 'अयि मृगमद....' आदि पद्य के
'द्भाले' अंश मे है। इस पद्य का उत्तरार्द्ध पूर्वोदाहृत पद्य का उत्तरार्द्ध—"अधुनैव
कलय...साम्राज्यम्' हीं है ! इस प्रकार पद्य का अर्थ यह हुआ —
"अरी बाले ! अगर तूं अपने माथे पर कस्तुरी की बिन्दी लगा ले तब तो
सच मान पूर्णचन्द्र का सौन्दर्य पर जो आधिपत्य है वह समाप्त हो चुका ॥"
१९ २०

२६० रसगङ्गाधरः
उत्तरार्धं तु प्राचीनमेव ।
एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिकप्रियाण्यपि
मधुररसे न प्रयुञ्जीत । एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापात-
तोऽधिकचमत्कारिणोऽनुप्रासनिचयान् यमकादींश्च संभवतोऽपि कविर्न
निबध्नीयात् । यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं
विदधाना रसपराङ्मुखं विदधीरन्, विप्रलम्भे तु सुतराम् । यतो मधुरतमत्वे-
नास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यमावहन्पदार्थः
सहृदयहृदयारुन्तुदतया न सर्वथैव सामानाधिकरण्यमर्हति ।
पद्यं प्रपूर्य व्याख्येयमित्याह - उत्तरार्द्धमित्यादि । अत्र दकारभकारयोस्संयोगः
सकृत् प्रयुक्तो दोषः, भकारस्य महाप्राणत्वेन तद्घटितस्य संयोगस्य निषेधात् ।
एवमन्येषामपि भूयःप्रयोगे प्रातिकूल्यं प्रतिपादयति—एवमिति । पूर्वोक्त-
वदित्यर्थः । अन्यानि=कृदन्ततद्धितान्तानि अमधुरवर्णघटितानि पदानि तोष्टूयमान
इत्यादीनि ।
व्यङ्ग्येत्यादि । व्यङ्ग्यो रसः, तस्य चर्वणाया अतिरिक्ता बहिर्भूता अत एव
योजनाविशेषापेक्षाः आपाततोऽधिकचमत्कारयुक्ताश्च ये तानित्यर्थः । स्वाभिमुख-
मिति । स्वमनुप्रसादयः । अत्र हेतुरापाततोऽधिकचमत्कारित्वमेषामिति पूर्वोक्तः ।
तनीयानपीत्यादि । स्वातन्त्र्यमावहन् तनीयानपि पदार्थ इत्यन्वयः । स्वातन्त्र्यं चात्र
रसव्यञ्जकभावनाऽविषयत्वेन रसव्यञ्जकभावनाभिन्नभावनाविषयत्वेन वा
बोध्यम् । सामानाधिकरण्यमिति । विप्रलम्भविषयकाव्यविषयत्वम् । यस्मिन्
काव्ये विप्रलम्भस्य निबन्धनम् तस्मिन्नेव काव्येऽनुप्रसादादेरपि निबन्धनमिति
इसी प्रकार त्व-प्रत्ययान्त शब्दों, यङ्लुगन्त क्रिया-पदों या संज्ञा-शब्दों और
अन्यान्य कटु शब्दों, जो वैयाकरणों के लिये प्रिय हों, का भी भूयो-भूयः प्रयोग
मधुर-रसाभिव्यञ्जक रचना में कवि को नहीं करना चाहिए ।
इसी तरह व्यङ्ग्य अर्थ की चर्वणा के लिए जिनकी योजना आवश्यक हो उससे
भिन्न योजना की अपेक्षा रखने वाले अनुप्रास-यमक आदि अलङ्कारों का भी कवि को
अपने काव्य में समावेश नहीं करना चाहिए, भले हीं वे अनुप्रासादि सामान्य दृष्टि
से पाठकों के अधिक आकर्षक क्यों न हों । इसका कारण यह है कि वे अनुप्रासादि
पाठकों को अपनी हीं ओर आकृष्ट कर लेते जिससे पाठकों को रसास्वाद हो नहीं
पाता । विप्रलम्भ शृंगार में तो उक्तविध अनुप्रासादि का परिहार विशेष रूप में करना
चाहिए । कारण यह है कि यह मधुरतम रस है । अतः निर्मल चीनी से बनी हुई

प्रथमाननम् २६१
यदाहुः—
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् ।
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥
सरलार्थः । एतच्च सामानाधिकरण्यं रसान्तरेणापि दोष एव । अत्र योजनाविशेषा-
पेक्षा इत्यनेन चानुप्रासादीनां रसचर्वणापेक्षप्रयत्नभिन्नप्रयत्ननिर्वर्त्यानामेव निषेध्य-
त्वमुच्यते । आपाततोऽधिकेत्यादिना च रसचर्वणापूर्वकालिकभावनावषयत्वं ज्ञाप्यते ।
अत एवैतेषां रसानामलक्ष्यक्रमव्यङ्ग्यत्वे बाधकत्वं पर्यवस्यति । एतत्प्रतिषेध्यस्य
व्यङ्ग्यविषयत्वोक्त्या चाङ्गिरसाभिव्यञ्जक एव काव्येऽनुप्रासादीनां निबन्धनं
निषेध्यमिति सूच्यते । ध्वन्यालोके चैकरूपानुबन्धवानित्युक्त्या विचित्रो भिन्न-भिन्न-
व्यञ्जनावृत्त्यात्मकोऽनुप्रासो न दोषायेत्यपि लभ्यते । परन्तु अङ्गरसेऽनुप्रासादि-
निबन्धने कामचारे किं बीजमिति नावगच्छामः । एवमेव शार्दूलविक्रीडितादौ प्रति-
पादं विचित्रानुप्रासयोजने का वार्त्तेत्यपि चिन्तनीयम् ।
उक्तार्थे ध्वनिकारवचनं प्रमाणयति—यदाहुरित्यादि । ध्वन्यात्मेत्यादि ।
ध्वनिस्वरूपे प्रधानीभूते शृङ्गारे यमकादेः यमकादिप्रकारस्य क्लिष्टस्य यमकस्य,
शब्दभङ्गश्लेषस्य च क्लिष्टस्य, खड्गबन्धादेश्च निबन्धनं कवेस्तन्निबन्धनशक्तौ
सत्यामपि प्रमादित्वं प्रतिपादयतीत्यतस्तन्निबन्धनं कविना कदाऽपि न कर्तव्यम् ।
सुकुमारातिशयाद्विप्रलम्भे त्विदं निबन्धनं विशेषेण प्रमादित्वं प्रतिपादयति, अतस्तत्र
विशेषेण नियमतः परिहरणीयमित्याशयः । अत्र 'प्रमादित्वमित्यनेनैतद्दर्श्यते—काक-
तालीयेन कदाचित् कस्यचिदेकस्य यमकादेर्निष्पत्तावपि भूम्नाऽलङ्कारान्तरवद्रसाङ्ग-
त्वेन निबन्धो न कर्त्तव्यः' इति तद्वृत्तिः । वयं त्ववगच्छामः=सर्वत्रैव परिहरणीयत्वे
क्लिष्टत्वं सहृदयोद्वेजकत्वमेव तन्त्रम् । तथा चैकस्यानैकस्य वा यमकादेः प्रयोगे
नाग्रहः । यदि एकोऽप्युद्वेजकस्तर्हि स परिहरणीय एव, अनेकोऽप्यनुद्वेजकस्तर्हि
शर्बत में थोड़े से बालू मिल जाने से जैस वह अनास्वाद्य हो जाती वैसे हीं इस रस
में भी यदि थोड़ा-सा भी रस-चर्वणा के प्रतिकूल किसी पदार्थ का मिश्रण हो जाये
तो यह रस अनास्वाद्य हो जाता। अतः सहृदय का उद्वेजक होने से उक्त अनुप्रासादि
का विप्रलम्भ-शृंगार-रसाभिव्यञ्जक काव्य में कभी नहीं समावेश करना चाहिए ।
अत एव ध्वन्यालोककार ने कहा है:—
'यदि कवि में यमक-अनुप्रास आदि के विन्यास का सामर्थ्य हो तो भी ध्वनि-
काव्यों में प्रधानतम शृंगाराभिव्यञ्जक काव्य में उन यमक आदि का समावेश कवि
का प्रमाद हीं है, गुण नहीं । विप्रलम्भ-शृंगार-रसाभिव्यञ्जक काव्य में तो उक्त
यमक आदि का समावेश और भी अधिक प्रतिकूल होने से विशेषतया त्याज्य है ॥'

२६२ रसगङ्गाधरः
ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च न पृथग्भावनामपेक्षन्ते, किं तु
रसचर्वणायामेव सुसुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो
युक्तः।
यथा-
कस्तूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम् ।
तत्परिहारे नाग्रहप्रहिलेन कविना भाव्यम्। प्रायेण यमकादीनां भूम्ना प्रयोग उद्वेज-
कत्वसम्भावनेति ध्वन्यत्।
तदेवं पूर्वकारिकार्थं संगृह्य-
रसाक्षिप्ततया येषां बन्धः शक्यक्रियो भवेत्।
अपृथग्यत्ननिर्वर्त्यः सोऽलङ्कारो ध्वनौ मतः ॥
इत्यनन्तरकारिकोक्तमर्थं संगृह्णाति--ये त्वित्यादिना। अक्लिष्टा इति।
क्लिष्टा उद्वेजकास्तदभिन्ना इत्यर्थः। 'क्लिष्टा विलम्बेनास्वादपथमवतीर्णाः' इति
रसचन्द्रिकोक्तमपव्याख्यानम्। यतो हि असंलक्ष्यक्रमव्यङ्ग्ये रसे ये तदभिव्यक्ति-
पूर्वकालिकाभिव्यक्तिविषया रसप्रतीतौ व्यवधायकास्त एव परिहरणीयत्वेनाभि-
मताः। तथा च परिहरणीयानां झटित्यास्वादविषयतैवोचिता, विलम्बेनास्वादपथा-
वतीर्णत्वे तु तदास्वादात्पूर्वं रसास्वादे सम्पन्ने किम्प्रयोजनं तेषां परिहरणीयत्वम्?
अनुन्नतस्कन्धा इति। पूर्वप्रतीतिविषया उन्नतस्कन्धास्तद्भिन्नाः। यद्वा विभावादि-
योजनाविशेषातिरिक्तो यो योजनाविशेषस्तद्धेतुभूतः प्रयत्नोऽत्र क्लेशः, तत्साध्याः
क्लिष्टास्तद्भिन्ना इत्यर्थोऽक्लिष्टा इत्यस्य। तथा चानुन्नतस्कन्धा इत्यस्य
विभावादियोजनानान्तरीयकतया योजिताः, रसप्रतीतिपूर्वकालिकप्रतीतिविषयत्वा-
भाववन्त इत्यभिप्रायः। शिष्टं निगदव्याख्यातम्।
कस्तूरिकेत्यादि। हे आलि! स्मेरानना सती त्वं सायं कस्तूरिकातिलकं विधाय
हां, जिन अनुप्रास आदि के निबन्धन के लिये कवि को स्वतन्त्र प्रयत्न न करना
पड़े-जो अनुप्रासादि रसाभिव्यञ्जक सामग्री के वर्णन में अनायास उपनिबद्ध हो
जांय और इस लिये रस-चर्वणा के बहिर्भूत न हों उनका यत्नपूर्वक परित्याग करना
भी अच्छा नहीं है।
जैसे 'कस्तूरिकातिलक...' आदि पद्य में अनायास-निबद्ध अनुप्रासादि रस-चर्वणा
के अनुकूल हैं, प्रतिकूल नहीं। पद्यार्थ निम्नलिखित है-
"अरी सखी ! शाम के वक्त अपने माथे पर कस्तूरी का टीका लगा कर मुसकु-

प्रथमाननम् २६३
प्रौढिं भजन्तु कुमुदानि मुदामुदारा-
मुल्लासयन्तु परितो हरितो मुखानि ।
इत्थमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरूपिता
दोषाः ॥
एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता ।
माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा ।।
व्युत्पत्तिमदुद्गिरन्ती निर्मातुर्या प्रसादयुता ।
तां विबुधा वैदर्भीं वदन्ति वृत्तिं गृहीतपरिपाकाम् ॥
सुधाधवलस्य प्रासादस्य शिखरं शीलय । एतेन मुखचन्द्रोदयः सूच्यते । तेन च
कुमुदानि मुदां हर्षाणामुदारां प्रौढि परमां काष्ठां भजन्तु, हरितो दिशश्च अन्धका-
रावगुण्ठनं निरस्य स्वमुखानि उल्लासयन्त्विति पद्यार्थः ।
अत्र वृत्त्यनुप्रासः, 'मुदामुदा' इत्यत्र चांशे यमकमित्येतत्सर्वं शृङ्गाराभिव्यञ्जक-
योजनानान्तरीयकतया योजितं रसप्रतीत्यतिरिक्तप्रतीत्यविषयत्वान्न प्रतिकूल-
मित्याशयः ।
उपसंहरति—इत्थमित्यादि ॥
अन्ते माधुर्यव्यञ्जकरचनायां वैदर्भीरीतेरुचितत्वात् प्रसङ्गतः तां वर्णयति—
एभिरित्यादिकेन पद्यद्वयेन । विशेषविषयाः समान्यविषया दोषाश्च पूर्वोक्ता एव ।
राती हुई चमकती अटारी पर चली जा जिससे तेरे मुख-चन्द्र की चन्द्रिका से ये
कुमुदिनी प्रफुल्लित हो उठे ओर सारी दिशाएं चमक उठें ।।”
इस पद्य में ककार आदि का वृत्त्यनुप्रास और 'मुदामुदा••••'शब्द में यमक का
स्वाभाविक रूप में विन्यास होने से ये अनुप्रासादि सम्भोग-शृंगार की चर्वणा के
अनुकूल हैं, अतः ये त्याज्य नहीं हैं ।
इस प्रकार प्रसङ्ग आ जाने के कारण मधुर-रसों के अभिव्यञ्जक काव्य में
जो दोष हो सकते हैं उनका, संक्षेप में, निरूपण किया गया है ॥
इसी प्रसङ्ग में वैदर्भी रीति ( =उपनागरिका ) का स्वरूप भी स्पष्ट
कर दिया जा रहा है—
“पूर्वोक्त सामान्य ओर विशेष दोषों से रहित, माधुर्य गुण के भार से लदे हुए
सुन्दर पदों ओर वर्णों से संग्रथित, रचनाकार की व्युत्पत्ति—निपुणता को प्रकट
करने वाली, प्रसादगुण-समन्वित ओर रस-परिपाक कराने में समर्थ वृत्ति ( रीति )
को विद्वज्जन 'वैदर्भी' कहते ॥”

अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि ।
यथा वा—
आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तर
भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् ।
वामे मानमपाकरोषि न मनागद्यापि, रोषेण ते
हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति ॥
अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम् । अन्यथा तु
परिपाकभङ्गः स्यात् ।
या तै रहिता माधुर्यस्य भारेण भङ्गुरो नम्रः कमनीयः सुन्दरपदवर्णानां विन्यासो
यत्र तथाविधा, निर्मातुः कवेर्व्युत्पत्तिं निर्माणकौशलं प्रकटयन्ती अथ च प्रसादगुण-
समन्विता वृत्तिस्तां गृहीतः परिपाको मधुररसाभिव्यक्तिसामर्थ्यकाष्ठा रसचर्वणा
' वा यया तादृशीं वैदर्भी विबुधा वदन्ति ।
अस्याम् = वैदर्भ्यां वृत्तौ । उदाहरणान्तरम् — आयातैवेत्यादि । मानिनीं
प्रसादयितुर्नायकस्योक्तिरियम् । हे वामे ! निशा आयातैव, दिशामन्तरं च निशा-
पतेश्चन्द्रस्य किरणैः कीर्णं व्याप्तम्, प्रेमार्द्रा अन्या भामिन्यः स्वस्वकेलिगृहेषु भूषण-
गणैरलङ्कारराशिभिरात्मनां श्रियं सौन्दर्यं वर्धयन्ति । परन्तुत्वमधुनाऽपि स्वस्य मानं
मनागीषदपि नापाकरोषि, पश्य—तव रोषेण बालमृणालतोऽपि तन्वी कृशतरा ते
तनुरतितमां ताम्यति ।
अस्याश्चेत्यादि । एतच्च मधुरसाभिव्यञ्जककाव्यविषये ज्ञेयम् । परि-
पाकोऽत्र रसस्य विवक्षितः ।
पूर्वनिर्दिष्ट अनेक उदाहरण-पद्यों में इसे देखा जा सकता है ।
अथवा, यह एक अन्य उदाहरण भी देखिए:—
( कोई नायक मानिनी नायिका से कह रहा है— )
“रात भी आ गई, चन्द्रमा चारों तरफ अपनी चन्द्रिका बिखेर चुका, कामिनियां
अपने-अपने घर में अपने को तरह-तरह के आभूषणों से सजा कर जगमगा रही हैं
पर तू अब भी अपना मान नहीं छोड़ रही है । कितने दुःख की बात है कि नवीन
मृणाल से भी अधिक कोमल तेरा शरीर इस कोप से स्याह पड़ गया है ।”
इस रीति के निर्माण में कवि को अत्यधिक सावधान रहना चाहिए, नहीं तो
रस-परिपाक हीं न हो सकेगा ।

प्रथमाननम् २६५
यथाऽमरुककविपद्ये—
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥
अत्रोत्थाय किंचिच्छनैरित्यत्र सवर्णझयद्वयसंयोगस्तत्रापि नैकट्येनेति
अधुना मुक्तकरचनापटीयसोऽमरुकस्य शल्यकर्म कर्त्तुमारभते – यथेत्यादिना ।
शून्येत्यादि । प्रथमावतीर्णमदनाविकारक्रियावर्णनमिदम् । नवोढा मुग्धा स्ववास-
गृहं कौतुकागारं शून्यं स्वपतिभिन्नजनरहितं विलोक्य, शयनात् शय्यायाः वलयादि-
क्वणनेन पतिनिद्राभङ्गभयात् शनैः किञ्चिदपरकायेन उत्थाय निद्राया व्याजं
छलमुपागतस्य प्रियत्वेनाऽनुभवाभावात् पत्युः मुखं सुचिरं निर्वर्ण्यीयवलोक्य विस्रब्धं
विश्वासयुक्तं यथा स्यात्तथा परिचुम्ब्य तस्य गण्डस्थलीं तच्चुम्बनप्रभावेण जात-
पुलकां दृष्ट्वा पतिजागरणनिश्चयात् लज्जया नम्रमुखी जाता, अथ च व्याज-
साफल्येन हसता तेन प्रियेण चिरं चुम्बिताऽभूदित्यर्थः ।
अत्र विलोक्येत्यादौ पदपञ्चके विहिते क्त्वाप्रत्यये समानकर्तृकत्वमुपपादयितु
लज्जेति पृथगसमस्तं पदं लज्जत इति लज्जेति पचाद्यजन्तं वा अर्शाद्यजन्तं वा
मन्यन्ते मर्मप्रकाशकृतः । यद्वा लज्जाहेतुकनम्रमुखीभवनक्रियापेक्षमेव विलोकनादि-
क्रियायाः समानकर्तृकत्वं पूर्वकालिकत्वं चोपपाद्यम् । तथा च लज्जाशब्दस्य समस्त-
त्वेऽपि न क्षतिः । अधिकं व्यक्तिविवेकादिभ्योऽवसेयम् । अत्र व्यभिचारिणोर्लज्जा-
हासयोः शब्दत उपादाने दोषोऽपि विवेचनीयः ।
अत्रोत्थायेत्यादि । 'त्थ'-शब्दे 'च्छ' शब्दे च सवर्णझयद्वयसंयोगो । यदा
उदाहरणार्थ, अमरुक कवि का 'शून्यं वासगृहं ......' आदि पद्य द्रष्टव्य है
जिसकी रचना में कवि की असावधानी से इतनी कमियां आ गई हैं जिनके कारण
रस-परिपाक हो नहीं पाता । पद्यार्थ इस प्रकार है—
“पतिदेव सोने का बहाना करके आंखें मून्द कर लेटा हुआ था। घर में कोई और
न था । ऐसी स्थिति में एकाएक धीरे से अपने बिस्तर से नायिका उठी और पति
के मुँह को कुछ देर तक देखती रही । फिर जब उसे अपने पतिदेव के सो जाने
का विश्वास हो गया तो उसने उस ( प्रियतम ) का गाल चूम लिया जिससे सोने
का बहाना कर लेटे हुए उसके प्रियतम के गाल पर रोमाञ्च हो उठा । यह देखकर
उस नायिका ने लाज से सर झुका लिया और उसका प्रियतम उसे देर तक
चूमता रहा ।”
इस पद्य के 'उत्थाय किञ्चिच्छनैः' इस अंश में त्-थ् और च्-छ् के संयोग

२६६ रसगङ्गाधरः
सुतरामश्रव्यः । एवं झय्घटितसयोगपरह्रस्वस्यापि । तथा शनैर्निद्रेत्यत्र,
निर्वर्ण्य पत्युर्मुखमित्यत्र च रेफघटितसंयोगस्य, झय्घटितसंयोगपरह्रस्वस्य च
प्राचुर्यम् । विस्रब्धमित्यत्र महाप्राणघटितस्य, लज्जेत्यत्र स्वात्मसवर्णझयद्वय-
घटितस्य मुखी प्रियेणेत्यत्र भिन्नपदगतदीर्घानन्तरस्य संयोगस्य, तथा क्त्वा-
प्रत्ययस्य पञ्चकृत्वः, लोकतेश्च धातोर्द्विः प्रयोगः कवेर्निर्माणसामग्रीदारिद्र्यं
प्रकाशयति । इत्यलं परकीयकाव्यविमर्शनेन । इति संक्षेपेण निरूपिता
रसाः ॥
अथ भावध्वनिर्निरूप्यते—
सकृदेवायं संयोगोऽश्रव्यतापादकस्तदा द्वौ तु सुतरामेव तथा । नैकट्येन प्रयोगे त्वति-
तमाश्रव्यतेति भावः । एवं झय्घटितेत्यादि । 'दु'-शब्दे, 'चि'-शब्दे, 'नि'-शब्दे,
'प'-शब्दादौ च झय्घटितसंयोगपूर्वस्य ह्रस्वस्य बहुलमुपलब्धिः । अन्यत् स्पष्टम् ।
तदेवं साङ्गोपाङ्गं रसनिरूपणमुपसंहरति — इति संक्षेपेणेत्यादि ।।
भावध्वनिरित्यत्र भावशब्दो हर्षादिचतुस्त्रिंशत्पदार्थपरः, तस्य ध्वनिरित्यर्थः ।
सवर्ण-झय् द्वय-संयोग हैं । ये भी आस-पास हैं । अतः अत्यधिक अश्रव्य हैं ।
इन दोनों संयोगों से पूर्व क्रमशः 'उ' और 'इ' ( श्चि-शब्द में ) ह्रस्व स्वरों में भी
अश्रव्यता है । इसी प्रकार 'शनैर्निद्रा......निर्वर्ण्य पत्युर्मुखम्' इस अंश में रेफघटित
संयोगों का अनेक बार प्रयोग किया गया है । 'द्रा' और 'त्यु' इन झय्-घटित
संयोगों से पूर्व 'इ' और 'अ' इन दो ह्रस्व स्वरों का भी प्रयोग हुआ है। 'विस्रब्धम्'
इस पद में 'ब्ध' यह संयोग महाप्राण घकार से घटित है । 'लज्जा' शब्द में पुनः
सवर्णझय्-द्वय-संयोग तथा उससे पूर्व ह्रस्व स्वर का प्रयोग है । 'मुखी
प्रियेण' इस अंश में दीर्घ स्वर (खी-के) ईकार के बाद अन्य पद 'प्रियेण' में 'प्र'
इस संयोग का भी प्रयोग है । एक हीं पद्य में 'विलोक्य', 'उत्थाय', 'निर्वर्ण्य',
'परिचुम्ब्य' और 'आलोक्य' ये पाँच क्त्वा-प्रत्ययान्त पद भी प्रयुक्त हैं । साथ हीं
'लोक्' धातु का भी दो बार प्रयोग किया गया है । इन सबसे यह स्पष्ट है कि
कवि के पास पद्य-रचना के लिए अपेक्षित सामग्री नहीं थी ।
इसी प्रकार अन्यान्य कवियों की रचनाओं में भी दोषों का अनुसन्धान पाठकों
को स्वयं करना चाहिए । दूसरे के काव्य के दोषों का इस ग्रन्थ में अधिक विवेचन
करना सम्भव नहीं ।
उपर्युक्त रीति से रसों तथा इनसे सम्बद्ध विषयों का निरूपण किया गया ॥
अब भाव-ध्वनियों का निरूपण किया जा रहा है—

प्रथमाननम् २६७
अथ किं भावत्वम् ? विभावानुभावभिन्नत्वे सति रसव्यञ्जकत्वमिति
चेत् ? रसकाव्यवाक्येऽतिव्याप्त्यापत्तेः, अर्थद्वारा शब्दस्यापि व्यञ्जकत्वात् ।
द्वारान्तरनिरपेक्षत्वेन व्यञ्जकत्वे विशेषिते त्वसंभवः प्रसज्येत । भावस्यापि
भावनाद्वारैव व्यञ्जकत्वात्, भावनायामतिव्याप्त्यापत्तेश्च । अत एव च
विभावानुभावभिन्नत्वस्येव शब्दभिन्नत्वस्यापि तद्विशेषणत्वे न निस्तारः;
रसकाव्येति । रसाभिव्यंजककाव्येत्यर्थः । काव्ये रसाभिव्यञ्जकत्वं च तद-
भिव्यंजकार्थोपस्थापनद्वारेणेति सम्प्रदायः 'अर्थस्य व्यंजकत्वे तत् शब्दस्य सहका-
रिता' इत्यादिना वर्णितः । तदाह—अर्थद्वारेत्यादिना । लक्षणवाक्ये साक्षाद्व्यजक-
त्वानुक्तेः परम्परया रसव्यञ्जके काव्यवाक्येऽतिव्याप्तिरुक्ता । भावनायामित्यादि ।
भावनाया द्वारान्तरनिरपेक्षाया एव रसव्यञ्जकत्वादिति भावः । न निस्तार इति ।
भावनायां शब्दभिन्नत्वस्यापि सत्त्वेन तत्रातिव्याप्तेर्यथापूर्वमवस्थानादित्यर्थः ।
इस प्रसङ्ग में सर्वप्रथम यह विवेचनीय है कि 'भाव'' कहते किसे ? इसका
क्या लक्षण है ? 'विभाव और अनुभाव से भिन्न जो रस-व्यञ्जक तत्त्व है वह
भाव है' यह कहना तो उचित नहीं है, क्योंकि रस-व्यञ्जक काव्यात्मक वाक्य में
इस लक्षण की अतिव्याप्ति स्पष्ट है । उक्त काव्य-में विभावानुभाव-भिन्नत्व भी है,
और रस-व्यञ्जकत्व भी, क्योंकि रस-व्यञ्जक अर्थ का प्रतिपादक होने से काव्य को
रस-व्यञ्जक कहना कविसम्प्रदाय में प्रसिद्ध है । यदि 'विभाव-अनुभाव से भिन्न
और रस के साक्षाद् व्यञ्जक को भाव' कहा जाय तो उक्त अतिव्याप्ति तो नहीं
होगी, क्योंकि काव्य-वाक्य में अर्थ-द्वारा रस-व्यञ्जकता होती, साक्षात् नहीं ।
परन्तु असम्भव तो होगा हीं, कारण एक भी 'भाव' बिना भावना के रस-व्यञ्जक
नहीं होता । ऐसी स्थिति में सब भावों में भावना-द्वारा हीं रस-व्यञ्जकता के
प्रसिद्ध होने से ( किसी भी भाव के साक्षाद् रस-व्यञ्जक न होने से ) किसी
भी भाव में उक्त लक्षण समन्वित न हो सकेगा । इसके साथ हीं, भावों की
'भावना' में उक्त लक्षण की अतिव्याप्ति भी होगी हीं, क्योंकि भावों की भावना
साक्षाद् रस-व्यञ्जक भी है और विभावानुभाव से भिन्न भी । 'भाव' की भावना
में इस अतिव्याप्ति के कारण हीं 'विभाव-अनुभाव से भिन्न, शब्द से भिन्न और
साक्षाद् रस-व्यंजक तत्त्व को भाव' कहना भी सम्भव नहीं, क्योंकि भाव की
१. यहाँ परिष्कार भावत्व का अभीष्ट है जिसके आश्रय को 'भाव' कहा जाना
सम्भव है । परन्तु सरलता की दृष्टि से इन सब लक्षणों को भाव के लक्षण
कहा गया है । इससे इन लक्षणों के अनुसार भावत्व का स्वरूप क्या होगा —
यह समझना सरल हो जायेगा ।

२६८ रसगङ्गाधरः
प्रधानध्वन्यमानभावे रसव्यञ्जकताभावादव्याप्त्यापत्तेश्च । न च तत्रापि
प्रान्ते रसोऽभिव्यज्यत एवेति वाच्यम्, भावध्वनिविलोपप्रसङ्गात् । भावचम-
त्कारप्रकर्षाद्भावध्वनित्वम्, रसस्तु तत्र व्यज्यमानोऽप्यचमत्कारित्वान्न
ध्वनिव्यपदेशहेतुरित्यपि न शक्यं वदितुम् । चमत्काररहितरसव्र्यक्तौ
मानाभावात् । रसे, हि धर्मिग्राहकमानेनानन्दांशाऽविनाभावस्य प्रागेवावे-
दनात् ।
प्रधानेत्यादि । यत्र भावस्यैव प्राधान्येन ध्वननम्, न तु रसस्य तेन, तथा सति
गुणस्य भावस्य ध्वनिव्यपदेशानुपपत्तेरित्यतः तस्मिन् भावे यथाकथञ्चिदपि
रसव्यंजकत्वाभावाद् भावक्षणाऽव्याप्तिः । दर्प णोयुक्तदिशो निराकरणार्थ-
माह—नचेत्यादि । प्रान्ते = भावध्वननानन्तरम् । विलोप इति । रसस्य
प्रान्तेऽभिव्यज्यमानस्यैव प्रधानतया ध्वनिव्यपदेशहेतुत्वेन तदङ्गभूतभावस्या-
प्रधानस्य कुत्रापि ध्वनिव्यपदेशहेतुत्वानुपपत्तेरित्यर्थः । भावचमत्कारेत्यादिः
पूर्वपक्षः । चमत्कारातिशयनिमित्तकस्तु रसाङ्गीभूतेऽपि भावे ध्वनित्व-
व्यवहार उपपन्न इत्याशयः पूर्वपक्षस्य । चमत्काररहितेत्यादिरुत्तरपक्षः ।
निरतिशयचमत्काररहितेत्यर्थः । यो हि रसः स निरतिशयचमत्कारवानेव, यश्च न
निरतिशयचमत्कारवान् स न रस इत्याशय उत्तरपक्षस्य । एतमेवोपपादयति—रसे
हीत्यादिना । आनन्दांश एव निरतिशयचमत्कारविशिष्टो, न कश्चिदन्यः । तथा
भावना के भी शब्दभिन्न होने से उक्त अतिव्याप्ति दोष इस तृतीय-पक्ष में भी
यथापूर्व बना हीं रहता है । इसके अतिरिक्त, इस तृतीय लक्षण की भाव-ध्वनि
में अव्याप्ति भी होगी हीं, क्योंकि ध्वन्यमान भाव रस व्यंजक नहीं होते । यदि
कोई भी भाव पहले व्यञ्जित होकर भी पश्चात् रस का व्यंजक हो जाय तो उसे
ध्वनि—भाव-ध्वनि कहा नहीं जा सकता । कोई भी तत्त्व 'ध्वनि' तभी कहा
जाता जब वह प्रधान रूप में अभिव्यक्त होता हो । स्वयम् अभिव्यक्त होकर
दूसरे की अभिव्यक्ति करने वाला तो उस अभिव्यज्यमान अन्य तत्त्व का
अङ्ग बन जाता । ऐसी स्थिति में तृतीय लक्षण करने पर तो भाव ध्वनि का
अस्तित्व हीं मिट जाएगा । अतः तृतीय लक्षण असंगत है । भाव द्वारा अन्ततः रस
का अभिव्यंजन होने पर भी जहाँ अभिव्यज्यमान रस की अपेक्षा उसका
अभिव्यंजक भाव अधिक आकर्षक—चमत्कारजनक (और वाच्यार्थ की अपेक्षा प्रधान)
हो वही भाव-ध्वनि कहलाता, अन्य नहीं; अतः तृतीय लक्षण करने पर भी भाव-
ध्वनि के अस्तित्व का मिटना और उस कारण भाव-ध्वनि में अव्याप्ति दिखलाकर
तृतीय लक्षण का खण्डन करना अनुचित है—यह तर्क भी असंगत है, क्योंकि एक

अस्तु वा प्राधान्येन ध्वन्यमानस्यापि भावस्य प्रान्ते रसाभिव्यञ्ज-
कत्वम् । तथापि देशकालवयोवस्थादिनानापदार्थघटिते पद्यवाक्यार्थे तथा-
प्यतिव्याप्तिः, तस्य विभावानुभावभिन्नत्वे सति रसाभिव्यञ्जकत्वात् ।

च रसस्याविर्भूतानन्दांशस्य चमत्कारातिशयवत्त्वस्य नियतत्वेन रसव्यञ्जकत्वे
भावस्य चमत्कारातिशयवत्त्वानुपपत्तिरिति न ध्वनिव्यपदेश्यत्वं सम्भवतीति भावः ।
धर्मिग्राहकमानमत्र सहृदयहृदयं तत्करणकः साक्षात्कारो वा, तदिदं मानं यदा रस-
मास्वादयति तदाविर्भूतानन्दांशमेव तम्, न तद्रहितमित्यर्थः ।
शिष्यबुद्धिवैशद्यायाभ्युपगमवादेनाह — अस्तु वेति । अस्मिंश्च पक्षे आनन्दाऽ-
विनाभूतरसापेक्षया भावस्य चमत्कारातिशयवत्त्वाभावेऽपि प्राधान्यस्य सापेक्षतया
व्यज्यमानस्य तस्य वाच्यातिशायित्वाद् भवति ध्वनिव्यवहारोपपत्तिरिति तात्पर्य-
मवसेयम् । सर्वस्यैव पदार्थस्य विभावाद्यन्यतमत्वेन तद्भिन्नत्वं न घटते ।
अतो वाक्यार्थेऽतिव्याप्तिरुच्यते, तस्य विभावाद्यन्यतमत्वाभावात् — तथापीति ।
प्राधान्येन ध्वन्यमानस्य भावस्य प्रान्ते रसाभिव्यञ्जकत्वस्वीकारेऽपि-
इत्यर्थः । तथाप्यतिव्याप्तिः इत्यत्र 'तस्यातिव्याप्तिः' इति पाठः श्रेयान् ।
तस्य = विभावानुभावभिन्नत्वे सति शब्दभिन्नत्वे सति रसाभिव्यञ्जकत्वमिति
लक्षणस्य । तथापीति पाठेऽपि अयमेवार्थस्तस्य । दर्पणादौ त्वत्रापि रसापे-
क्षयाप्यस्य भावस्य प्राधान्यमुक्तम् राजानुगम्यमानविवाहप्रवृत्तभृत्यवत् ।

ओर कोई रस अभिव्यक्त भी हो और दूसरी ओर वह रस सर्वाधिक चमत्कारी
न हो यह असम्भव है । यदि रस की अभिव्यक्ति होती तो उसे सर्वाधिक
चमत्कारी होना हीं है, क्योंकि जिस प्रमाण से रस का आस्वादन या अस्तित्व सिद्ध
होता वह प्रमाण उसे आनन्दातिशययुक्त तत्त्व के रूप में हीं सिद्ध करता, आनन्द-
रहित तत्त्व के रूप में नहीं । अतः जब रस आनन्दातिशययुक्त होकर हीं अभिव्यक्त
होता तो उसे अन्य भावादि की अपेक्षा कम चमत्कारी कैसे कहा जा सकता ? अतः
भावध्वनि-स्थल में अन्त में रस की अभिव्यक्ति मानने का प्रश्न हीं नहीं उठता ।
ऐसी स्थिति में भाव ध्वनि में पूर्वप्रदर्शित अतिव्याप्ति का कथमपि निराकरण नहीं
किया जा सकता । अतः उपर्युक्त तृतीय लक्षण असंगत है ।
यदि भावध्वनि-स्थल में भी कथञ्चित् रसाभिव्यक्ति मान ली जाय तो भी
उक्त तृतीय लक्षण को निर्दुष्ट नहीं कहा जा सकता, क्योंकि भाव-ध्वनि में अति-
व्याप्ति न होने पर भी देश-काल-वय अवस्था आदि से घटित काव्यार्थ में विभावानु-
भावभिन्नत्व, शब्दभिन्नत्व और रसाभिव्यंजकत्व इन तीनों अंशों के वर्तमान होने
से उस (काव्यार्थ) में अतिव्याप्ति तो अपरिहार्य है ।

२७० रसगङ्गाधरः
नापि रसाभिव्यञ्जकचर्वणाविषयचित्तवृत्तित्वं तत्त्वम्; भावादिचर्व-
णायामतिप्रसङ्गवारणाय चर्वणाविषयेति चित्तवृत्तिविशेषणमिति वाच्यम् ।
कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् ।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुते ॥
तत्त्वम् = भावत्वम् । ‘नाऽपि’ इत्यस्याग्रिमेण वाच्यमित्येनेनान्वयः । रसाभि-
व्यञ्जकचित्तवृत्तित्वमात्रस्य लक्षणत्वेनाङ्गीकारे दोषं प्रदर्शयन् चर्वणाविषयेति
विशेषणकृत्यमाह—भावादीत्यादिना । उक्तविशेषणाभावे भावादिचर्वणाया अपि
रसाभिव्यञ्जकत्वेन चित्तवृत्तित्वेन च तस्यामतिव्याप्तिः, चर्वणाविषयेति चित्तवृत्ति-
विशेषणोपादाने तु नातिव्याप्तिः, भावादिचर्वणायाश्चित्तवृत्तित्वेपि चर्वणाविषय-
त्वाभावात् । न हि चर्वणा चर्वणाविषयः, तथा सत्यनवस्थाप्रसङ्गात् । एकस्याश्चित्त-
वृत्तेश्चर्वणाख्यचित्तवृत्तिविषयत्वे तु न तथेति चित्तवृत्तिविशेषरूपस्य भावस्य चर्वणा-
स्वरूपविजातीयचित्तवृत्तिविषयत्वे सत्यपि न दोषः । पद्यवाक्यार्थेऽतिव्याप्तिस्तु न,
वाक्यार्थैकदेशस्य क्वचित् चित्तवृत्तिरूपत्वेऽपि वाक्यार्थस्य तथात्वाभावाद् इत्याशयः
पूर्वपक्षस्य । स च निरस्यते—‘नापि...वाच्यम्’ इत्यनेन । हेतुरत्रोच्यते—कालागुरु-
द्रवेत्यादिना ।
अब ‘भाव’ के निम्ननिर्दिष्ट चतुर्थ लक्षण का भी विवेचन कर लेना चाहिए ।
यह लक्षण इस प्रकार है—‘रस का अभिव्यंजन करने वाली चर्वणा का विषय जो
चित्तवृत्ति हो वही भाव है ।’ यद्यपि भावों की चर्वणा भी एक प्रकार की चित्त-
वृत्ति हीं है तथापि यह चर्वणा तो भाव है नहीं । अतः रसाभिव्यंजक चित्तवृत्ति
मात्र को यदि भाव कहा गया होता तो भावचर्वणा-स्वरूप चित्तवृत्ति में, जो
स्वयं भाव नहीं है, इस भाव-लक्षण की अतिव्याप्ति हो जाती । इसी के निरा-
करणार्थ इस लक्षण में ‘चर्वणा का विषय’ यह चित्तवृत्ति का विशेषण जोड़ दिया
गया है । अब भावचर्वणा-स्वरूप चित्तवृत्ति में अतिव्याप्ति नहीं होती, क्योंकि
यह चर्वणारूप चित्तवृत्ति स्वयं ‘चर्वणा का विषय’ नहीं होती। एक चर्वणा को दूसरी
चर्वणा का विषय मानने में अनवस्था होगी, क्योंकि तब तो दूसरी चर्वणा को
तीसरी चर्वणा का, तीसरी को चौथी का विषय मानना अपरिहार्य हो जाने से
प्रत्येक प्रथम चर्वणा को उत्तरकालिक दूसरी चर्वणा का विषय मानना हीं होगा ।
इस प्रकार ‘चर्वणा का विषय’ इस विशेषण से चर्वणा में अतिव्याप्ति न होने से
यह चतुर्थ लक्षण आपाततः निर्दोष अवश्य प्रतीत होता । परन्तु विवेचन करने पर
इसकी भी अतिव्याप्ति हो हीं जाती है । इसे स्पष्ट करने के लिए पहले ‘काला-
गुरुद्रवं सा...’ आदि पद्य का अर्थ जान लेना चाहिए—

इत्यत्र हालाहलसदृशत्वप्रकारज्ञाने अतिव्याप्तेः। तस्य विप्रलम्भानु-
भावत्वेन रसाभिव्यञ्जकचर्वणाविषयत्वात्, चित्तवृत्तित्वाच्च। नाप्यखण्डम्;
तत्त्वे मानाभावात्। अत्रोच्यते--
कालागुरुद्रवेत्यादि। सा विरहकातरा बाला मुग्धा नायिका कालागुरुद्रवं
विरहोद्दीपकत्वाद् हालाहलवन्नितरां विजानती नीलोत्पलमालामपि व्यालावलिं
सर्पपंक्तिम् आ समन्तान्मनुते। किलेत्युत्प्रेक्षायाम्, वाक्यालङ्कारे वा। अत्र
वाचकलुप्तोपमोत्तरार्द्धे, रूपकमेव वा।
अनुभावत्वेनेति। विप्रलम्भकार्यत्वादित्याशयः। चित्तेत्यादि। ज्ञानमात्रस्य
चित्तवृत्तित्वेन हालाहलसदृशत्वप्रकारज्ञानस्यापि चित्तवृत्तित्वं स्पष्टम्। मानाभावा-
दिति। कारणतावच्छेदकतया, कार्यतावच्छेदकतया, शक्यतावच्छेदकतादितया वा
अनुगतप्रतीतिजनकस्याखण्डधर्मस्य सिद्धौ तस्य नित्यत्वे सत्यनेकसमवेतत्वाभा-
वाज्जातिबाधकत्त्वाक्रान्तत्वाद्वा जातित्वाऽसिद्धावखण्डोपाधित्वं सिद्ध्यति। प्रकृते
च विविधभावानां विविधकारणजन्यानां तद्व्यक्तित्वेनैव कार्यत्वं न तु भावत्वेन,
अतिप्रसक्तत्वादभावत्वस्य; विविधभावानां विविधास्वादजनकत्वेन च न भावत्वं
कारणतावच्छेदकमपि; विलक्षणहर्षादिषु सर्वेषु भावव्यपदेशस्य कविसम्प्रदायमात्र-
प्रसिद्धतया सर्वेषु भावेषु भावो भाव इत्यनुगतप्रतीत्यभावाच्च न भावत्वस्य तज्जन-
कत्वमपि; भावत्वेन रूपेण हर्षादीनां हर्षादिशब्दशक्यत्वाभावाच्च न तस्य शक्यता-
वच्छेदकत्वमपीति तस्याखण्डोपाधित्वे न किमपि मानमित्याशयः। यद्यपि
भावशब्देन सकलभावानामभिधाने भावत्वस्यैव शक्यतावच्छेदकत्वं तथापि भावशब्द-
स्यात्र पारिभाषिकतयाऽनुगतप्रतीत्यजनकत्वादेवाखण्डोपाधित्वाभाव इति हृदयम्।
"वियोगाकुल होने से काले अगर (=सुगन्धित-लकड़ी) के रस (घोल) को भी
विष के समान समझने वाली यह मेरी नवोढ़ा सखी नीले कमलों की माला को
भी साँप समझ रही है॥"
इस पद्य में 'कालागुरुद्रव में नवोढ़ा का विषसदृशत्व ज्ञान' उस नायिका में
आश्रित विप्रलम्भ शृङ्गार का अनुभाव (कार्य) है और इसीलिए विप्रलम्भ शृङ्गार
के अभिव्यञ्जक चर्वणा का विषय भी है हीं। उक्त ज्ञान के चित्तवृत्ति-स्वरूप होने
मे भी कोई सन्देह नहीं है। ऐसी स्थिति में रसाभिव्यञ्जक चर्वणा का विषय जो
विषसदृशत्व ज्ञानस्वरूप चित्तवृत्ति, जो वस्तुतः अनुभाव है (व्यभिचारी) भाव नहीं,
उसमें इस चतुर्थ भाव-लक्षण की अतिव्याप्ति का निराकरण नहीं किया जा सकता।
अतः यह लक्षण भी असंगत है। भावत्व का अखण्डोपाधि मानने में भी कोई
प्रमाण न होने से भावत्वाश्रय को भाव कहना भी संगत नहीं है।

२७२ रसगङ्गाधरः
विभावादिव्यज्यमानहर्षाद्यन्यतमत्वं तत्त्वम् ॥
यदाहुः— व्यभिचारी तथाञ्जितः । भावः' इति । हर्षादीनां च सामा-
जिकगतानामेव स्थायिभावन्यायेनाभिव्यक्तिः ।
विभावादीत्यादि । विभावादिव्यज्यमानत्वे सति हर्षाद्यन्यतमत्वं भावत्वमिति
लक्षणार्थः । तत्र हर्षाद्यन्यतमत्वमात्रोक्तौ लौकिकहर्षादावतिव्याप्तिरतो विभावादि
व्यज्यमानत्वमिति विशेषणम् । विभावादिव्यज्यमानत्वमात्रोक्तौ रसेऽतिव्याप्तिरतो
हर्षाद्यन्यतमत्वमप्युक्तम् । विभावादिरित्यत्रादिशब्दादनुभावस्य क्वचिच्च व्यभि-
चारिणोऽपि परिग्रहः ।
उक्तेऽर्थे मम्मटोक्तिं प्रमाणत्वेनोपन्यस्यति—यदाहुरित्यादिना । “व्यभिचारी
तथाञ्जितः । भावः······' इति शुद्धः पाठः (द्र० का० प्र० ४।३२-३६) । 'व्यभि-
चार्यञ्जितो भावः' इति मुद्रितः पाठस्त्वमूलगतत्वादस्माभिरुपेक्षितः । विभावा-
दिभिरञ्जितो व्यंजितो यो व्यभिचारी निर्वेदादिर्हर्षादिर्वा स भाव इति मम्मट
वचनार्थः ।
स्थायिभावन्यायेनेति । यथा कामिन्यादिविषया रत्यादयो वर्त्तमाना एव
सामाजके विभावादिसामग्रीबलादलौकिकत्वमापन्नाः स्थायितया व्यज्यन्ते तथैव
देवादिविषया रत्यादयोऽपि पूर्वत एव सामाजिकहृदये वर्त्तमाना विभागादिसामग्री
बलादलौकिकत्वेन रूपेणाभिव्यक्ता भवन्ति, अत एव च भावपदव्यपदेश्या
उपर्युक्त स्थिति को ध्यान में रखते हुए ग्रन्थकार अब इन ( व्यभिचारी )
भावों का परिष्कृत लक्षण प्रस्तुत कर रहे हैं—
विभाव और अनुभाव से व्यज्यमान हर्ष आदि (३४) चित्तवृत्तियों को 'भाव'
कहा जाता है।
अत एव मम्मट ने कहा है—“( विभाव आदि से ) अभिव्यक्त होने वाले
( निर्वेद, ग्लानि आदि ) को 'व्यभिचारिभाव' कहते ॥”
ये हर्षादि सामाजिक मे पहले से होते । किन्तु स्थायिभाव के समान इनकी
विभावादि-सामग्री से अभिव्यक्ति होने पर हीं ये 'भाव' कहलाते, अन्यथा नहीं ।
तात्पर्य यह है कि जिस प्रकार सामाजिकनिष्ठ रत्यादि हीं विभावादि सभी सामग्री
से अभिव्यक्त होने पर शृङ्गारादि रसों के 'स्थायिभाव' कहलाते, अन्यथा नहीं
उसी प्रकार सामाजिकगत हर्षादि के लिए 'भाव' या 'व्यभिचारिभाव' शब्द का
प्रयोग तभी होता है जब ये अपनी सामग्री से अभिव्यक्त होते, अन्यथा नहीं ।
यह भी ज्ञातव्य है कि रत्यादि 'स्थायिभाव' रूप में भी अभिव्यक्त होते ओर
'व्यभिचारिभाव' के रूप में भी । किन्तु दोनों में अन्तर यही है कि ये जब सकल

प्रथमाननम् २७३
अपीति तात्पर्यम् । तथापि यदा परिपूर्णा विभावादिसामग्री रत्यादेरभिव्यञ्जिका
तदा ध्वन्यमान्यो रत्यादिर्भजते रसव्यपदेशमन्यथा तु भावव्यपदेशम् । अत एवैषां
व्यभिचारित्वमप्युपपद्यते । तदुक्तं संगीतरत्नाकरे—
रत्यादयः स्थायिभावाः स्युर्भूयिष्ठविभावजाः ।
स्तोकैर्विभावैरुत्पन्नास्त एव व्यभिचारिणः ॥ इति ॥
शब्दान्तरेण—
रत्यादिश्चेन्निरङ्गः स्याद् देवादिविषयोऽथवा ।
अन्याङ्गभावभाग्वा स्यान्न तदा स्थायिशब्दभाक् ॥
इत्यनेन प्रदीपेऽप्येतदुक्तमेव ।
इदन्तु बोध्यम्—सविषयकाणां पदार्थानां विषयभेदाद् भेदस्य सर्वतन्त्रसिद्धान्त-
सिद्धतया नायिकादिविषयकरत्यादेः देवादिविषयकरत्यादिभिन्नत्वेऽपि रतित्वेन
साजात्यमादाय 'त एव' इत्युक्तम् । 'स्तोकैर्विभावैः' इत्यस्यायमाशयः—स्थायि-
भावाभिव्यञ्जिका विभावादिसामग्री सकला, भावाभिव्यञ्जिका पुनर्विकला । भावा-
भिव्यञ्जने हि क्वचिदालम्बनत्वे सत्यपि आलम्बनत्वादिनो विशेषरूपेण विभावादेर्न
कारणत्वम्, बहूनां भावानां निर्विषयत्वेन विषयरूपालम्बनस्य तत्रासम्भवात् ।
यत्पुनरुद्दीपनविभावस्यावश्यकत्वं तदपि नोद्दीपनत्वेन विशेषरूपेण कारणत्वमभिप्रेत्येति
स्वयमपि 'विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम्' इत्यनेन वक्ष्यत्येव ।
अधिकमनुपदं वक्ष्यते ।
सामग्री से अभिव्यक्त होने के कारण प्रधान रूप में योग्य आलम्बन को विषय बनाते
तब ये 'स्थायिभाव' होते, विकल सामग्री से अप्रधानरूप में अभिव्यक्त होने पर 'व्यभि-
चारि-भाव' कहलाते । विकल सामग्री का अभिप्राय यही है कि व्यभिचारि-भाव के रूप
में इनकी अभिव्यक्ति के लिये आलम्बन-उद्दीपन आदि की विशेष रूप में (आलम्बन-
त्वादि रूप में ) अपेक्षा नहीं होती । कुछ निर्विषयक व्यभिचारि-भाव तो ऐसे हैं
जिनके आलम्बन विभाव होते ही नहीं । जिनके सविषय होने से आलम्बन-विभाव
होते भी उनकी भी अभिव्यक्ति के लिये आलम्बन-विभाव की विशेष रूप में (आलम्बन-
त्वेन रूपेण) नहीं अपि तु सामान्य निमित्त कारण के रूप में ही आवश्यकता होती ।
यही स्थिति उद्दीपन-विभाव की भी है । परन्तु 'स्थायिभाव' की अभिव्यक्ति के लिये
तो आलम्बन और उद्दीपन इन दोनों ही विभावों की आवश्यकता विशेषरूप में होती
ही है, सामान्य रूपमात्र में नहीं । स्वयं ग्रन्थकार ही 'विभावस्त्वत्र व्यभिचारिणो
निमित्तकारणसामान्यम्' इत्यादि वचनों द्वारा इस तथ्य को स्पष्ट करेंगे ।
इस प्रकार 'स्थायिभाव-न्याय से व्यभिचारि-भाव की अभिव्यक्ति' का तात्पर्य

२७४ रसगङ्गाधरः
सापि रसन्‍यायेनेति केचित् ।
व्यङ्ग्यान्तरन्‍यायेनेत्‍यपरे मन्यन्ते ।
रसन्‍यायेनेति : यथा विभावादिसकलसामग्रीचर्वणाभग्नावरणचिद्विशिष्टो
रत्यादिरूपो भग्नावरणरत्याद्युपहितचित्स्वरूपो वा रसोऽभिव्यज्यते चर्व्यते तथैव
विभावादिचर्वणाभग्नावरणचिद्विशिष्टो हर्षादिभावोऽपीत्यर्थः । इदं चाभिनवगुप्तादि-
मतेनोक्तम् ।
स्वमतमाह—व्यङ्ग्यान्तरन्यायेनेति । व्यङ्ग्याद्रसादन्यो व्यङ्ग्योऽलङ्का-
रादिर्व्यङ्ग्यान्तरम्, तस्य यथा स्वसामग्रीबलेनाभिव्यक्तिस्तथैव हर्षादिभावाना-
मप्यभिव्यक्तिरित्यर्थः । 'अपरे' इत्यस्य 'न परे' इत्यर्थात् स्वमतमिदमिति प्रतीयते ।
अस्य मतस्येदं सारम्—यावानानन्दो रसचर्वणायामनुभूयते सामाजिकैस्तावन्नानन्दो
नालङ्कारादिव्यङ्ग्यचर्वणायामिति वस्तुगतिः । तथा च विभावादिसकलसामग्री-
चर्वणया आनन्दरूपायाश्चितो यादृश आवरणभङ्गस्तादृशो नालङ्कारादिविषय इत्या-
स्थेयं फलबलात् । यत्किञ्चिदानन्दमात्रानुभवाच्चालङ्कारध्वनावपि तदधिष्ठानभूताया-
स्तदुपहिताया वा चित (आनन्दरूपायाः) आनन्दावरणस्य शैथिल्यं पुनरवश्याभ्युपेयम्,
सर्वथा सत्यावरणे तत्रानन्दमात्राप्रत्ययाऽसम्भवात् । एवं भावध्वनावपि रसाप-
कृष्टानन्दमात्रानुभवोपपादनाय विकलविभावादिसामग्रीचर्वणया हर्षाद्यधिष्ठान-
चैतन्यस्य यदावरणं तस्य यथानुभवं यथायथं शैथिल्यमवश्यमास्थेयम् । सकल-
स्पष्ट करना चाहिए।
उपर्युक्त भावाभिव्यक्ति रसाभिव्यक्ति के तुल्य होती—ऐसा कुछ (अभिनव
गुप्त आदि) आचार्यों का मत है। आशय यही है कि जिस प्रकार विभावादि-सकल-
सामग्री की चर्वणा से जिसका आवरणभङ्ग हो चुका होता उस 'चित्' से विशिष्ट रत्यादि
की रस-रूप में अभिव्यक्ति होती उसी प्रकार विभावादि-विकल-सामग्री की चर्वणा
से जिसका आवरण (आंशिक रूप में) हँट चुका होता उस 'चित्' से विशिष्ट हर्षादि
भावों की अभिव्यक्ति होती। इस मत में रस-चर्वणा और भाव-चर्वणा में समान
आनन्दानुभव होना चाहिए था, किन्तु ऐसा होता नहीं। साथ ही सकल सामग्री और
विकल सामग्री से समान रूप में 'चित्' के आवरण का अभिभव मानना भी उचित
नहीं है।
अतः ग्रन्थकार का मत यही है कि रस-चर्वणा और भाव-चर्वणा में अनुभूय-
मान आनन्द के उत्कर्षापकर्ष के अनुसार दोनों प्रकार की सामग्रियों से होने वाले
आवरण भङ्ग में भी उत्कर्षापकर्ष अवश्य मन्तव्य है। अतः जैसे रस-चर्वणा की अपेक्षा
स्वल्प आनन्द का अनुभव अन्य अलङ्कारादि व्यङ्ग्यों की चर्वणा में होता वैसे ही