सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 318, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 318

२८६ रसगङ्गाधरः
अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षताव-
लोकनजन्यहर्षविद्योतकतत्पुलकादेर्दर्शनं च विभावः। सद्यः सदनप्रवेशोऽनु-
भावः।
यथा वा -
निरुद्ध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो ददाने।
मयि स्मिताद्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव॥
पूर्वत्र त्रास इवात्रापि हर्षो लेशतया सन्नपि व्रीडाया अनुगुण एव। प्रिय-
कुचकलशौ तयोर्युगमिति भावः। बाला नवोढा नायिका। चकितेत्यनेन
त्रासोऽपि व्यज्यते।
प्रियस्येति कर्त्तरि षष्ठी। तेन = प्रियेण।
निरुद्ध्येत्यादि। तरसाऽतिशीघ्रं यान्तीं पलायमानां कपोतीं निरुध्य कूजतः
कपोतस्य पुरो ददाने मयि सति सा मुग्धा मम कामुकत्वमधि