सामग्री पर जाएँ
सर्वकोश
रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)

Rasagangadhara of Panditaraja Jagannatha with Commentary

पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 326, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 326

२९४ रसगङ्गाधरः
तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्व-कृतज्ञत्व,-
निर्दयत्व दयावतीत्वाद्यनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते, सेति स्मृत्या च
लेशतः प्रतीयमानया ।
इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनितो ध्यानपरपर्यायो वैवर्ण्य-भूलेखनाऽ-
धोमुखत्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता ।
सादृश्यं संघटते । तस्याश्च सीतायास्तु श्रुतिसादृश्यमिति उपमालङ्कारोऽत्र स्फुटतया
वाच्यो व्यङ्ग्यं दैन्यमलङ्करोति । व्यङ्ग्यप्राधान्यादत्रोत्तमकाव्यतैवति । दैन्यभावोदाहरण-
त्वमस्य भवत्येव ।
मयेति । वनवासेऽपि सीतया अत्यक्तोऽहं, तादृशेनात्यक्तेन मयेत्युपादानलक्षणया
'स्वसिद्धये पराक्षेप' इत्युक्तलक्षणशक्त्या ज्ञायते । तेन लक्ष्यार्थेन रामे कृतघ्नत्व-निर्दयत्व-
गर्हितत्वादिध