रसगंगाधर (पण्डितराज जगन्नाथ - रसतरङ्गिणी संस्कृत व हिन्दी व्याख्या सम्पूर्ण प्रथम आनन)
Rasagangadhara of Panditaraja Jagannatha with Commentary
पण्डितराज जगन्नाथ (टीकाकार: डॉ. श्रीनारायण मिश्र) द्वारा
पृष्ठ 322, कुल 414 में से
संदर्भ में पढ़ें२९० रसगङ्गाधरः
अत्र राजापराधो विभावः । मुखवैवर्ण्यदय आक्षेप्या अनुभावाः । इयं
तु भयाद्युत्पादनेन कम्पादिकारिणी, न तु चिन्ता ।
आधिव्याधिजन्य-बलहानिप्रभवो वैवर्ण्य-शिथिलाङ्गत्त्वदृग्भ्रमणादि-
हेतुर्दुःखविशेषो ग्लानिः ।
यथा -
शयिता शैवल-शयने, सुपमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे, सत्कुरुते मधुरवीक्षणैरेव ॥
अत्र प्रियविरहो विभावः । मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना
प्रत्युद्गम-चरणनिपतनाश्लेषादीनां निवृत्तिरनुभावः । न चात्र श्रमः शङ्क्यः,
कारणाभावात् ।
अत्रोदाहरणे राज्ञः कामदेवस्य ( तं प्रति ) अपराधो नायिकाकृतः शङ्काख्य-
भावस्य कारणत्वाद् विभावः साक्षादुक्त एव । नायिकाया मुखविवर्णत्वादयः साक्षादनुक्ता
अपि आक्षेपलभ्याः शङ्कायाः कार्यरूपा अनुभावाः । साक्षादुक्तं कारणं दृष्ट्वा तत्कार्यस्या-
नुमानलभ्यत्वमाक्षेप्यत्वम् । शङ्काख्यभावस्य चिन्ताख्यभावतो वैशिष्ट्यं दर्शयति-
इयमिति । इयं शङ्का, भयकष्टादिकमुत्पाद्य कम्प-मुखवैवर्ण्यादिकं जनयति,
चिन्ता तु नैव जनयतीत्यनयोर्भेदः ।
ग्लानिलक्षणमाह-आधिव्याधीति । मानसिक-शारीरिकदुःखेन शरीरे या
बलस्य हानिस्तदुत्पन्नं दुःखमेव ग्लानिभावश्चित्तवृत्तिविशेष एव । तयैव ग्लान्या देहे
विवर्णता-शिथिलतानयनभ्रमणानुत्साहादयो जायन्ते ।
ग्लानिभावमुदाहरति-शयितेति । सुषमा परमा शोभैव शेषा यस्याः सा विर-
हिणी द्वितीयाचन्द्रलेखा इव सूक्ष्मावयववती अतिक्षीणा शारीरिकदुःखयुक्तेति यावत्,
शैवलशयने शयिता मानस-शारीरतापशमनाय शैवालतल्पे शयिता न तूपविष्टा बलहीना-
त्वात्, प्रियं रमणम् सविधे समीपे आगतमपि मधुरदृष्ट्यैव सत्कुरुते, प्रत्युत्थानादिश्व-
सामर्थ्यात् ।
हे सखि ! भाग्य से वञ्चित होने ( भाग्य के साथ न देने ) के कारण मैं प्रिय
के द्वारा संकेतित स्थान पर नहीं जा सकी । 'हाय ! अब न जाने राजा कामदेव मेरे
विषय में क्या करना चाहता हैं' । स्वेच्छा से नहीं, दुर्भाग्यवश मैं अपराधिनी हो गई ।
राजा स्वभावतः क्रूर होते हैं । कामराज कहीं दण्ड न दे दें, इसकी शङ्का है ।
इस शंका का विभाव राजा के प्रति अपराध है, अनुक्त भी मुखविवर्णतादि
आक्षेपलभ्य अनुभाव है । यह शंका 'भय आदि उत्पन्न कर' कम्प आदि ला देती है,
चिन्ता ऐसा नहीं करती है । अतः शंका चिन्ता से भिन्न है ।
मानसिक एवं शारीरिक दुःख के कारण हुई दुर्बलता से उत्पन्न दुःखविशेष को