प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
१३८ ] प्रतिमानाटकम्
अत्राभिषेकोदक...—भरत चाहते हैं कि उनके ऊपर इस बात का कलङ्क
किञ्चिन्मात्र भी न रहे कि वे राज्य के लोभी हैं । अतः राम के प्रतिनिधि के रूप
में उनकी पादुकाओं को लेकर उन्हीं पर राज्याभिषेक के जल को छिड़कवाते हैं ।
राज्यं मुहूर्तमपि नोपेक्षणीयम् — राज्यशासन निरन्तर शासक की दृष्टि
चाहता है कि राजा को सतत जागरूक रहना चाहिये । क्षण भर की लापरवाही भी
बहुत अधिक विनाश का कारण हो सकती है ।
अलमतिस्नेहेन — भरत को जाना तो पड़ेगा ही । अतः राम का सीता से
कहना है कि तुम अब बहुत अधिक स्नेह मत दिखाओ और भरत को जाने दो ।
रामः — वत्स कैकेयीमातः ! राज्यं नाम मुहूर्तमपि नोपेक्षणीयम् ।
तस्मादद्यैव विजयाय प्रतिनिवर्ततां कुमारः ।
सीता -- हं, अज्ज एव्व गमिस्सदि कुमारो भरदो ? [हूँ, अद्यैव गमिष्यति
कुमारो भरतः ? ]
रामः -- अलमतिस्नेहेन । अद्यैव विजयाय प्रतिनिवर्ततां कुमारः ।
हिन्दी रूपान्तर—
राम—वत्स कैकेयीपुत्र ! राज्य की क्षण भर भी उपेक्षा नहीं करनी चाहिये ।
इसलिये आज ही विजय प्राप्त करने के लिये कुमार लौट जावें ।
सीता—हूँ, कुमार भरत आज ही लौट जायेंगे ?
राम—अत्यधिक स्नेह मत दिखाओ । विजय प्राप्त करने के लिये कुमार
आज ही लौट जावें ।
भरतः—आर्य ! अद्यैवाहं गमिष्यामि ।
आशावन्तः पुरे पौराः स्थास्यन्ति त्वद्दिदृक्षया ।
तेषां प्रीतिं करिष्यामि त्वत्प्रसादस्य दर्शनात् ॥२८॥
[अन्वयः—पुरे आशावन्तः पौराः त्वद्दिदृक्षया स्थास्यन्ति । त्वत्प्रसादस्य
दर्शनात् तेषां प्रीतिं करिष्यामि ॥२८॥]
हिन्दी रूपान्तर—
भरत—आर्य ! मैं आज ही चला जाऊँगा ।
अर्थ [श्लोक २८]—नगर में आशाओं से भरे हुये नगरनिवासी आपके
दर्शन की इच्छा कर रहे होंगे । आपकी कृपा रूप इन पादुकाओं का दर्शन कराकर
उनको प्रसन्न करूँगा ॥२८॥
संस्कृत व्याख्या—पुरे नगरे आशा वन्तः उत्कण्ठावन्तः रामः प्रतिनिवर्तिष्यते
तस्य राज्याभिषेको भविष्यति, स च राजसिंहासनमधिरुह्य प्रजारञ्जनं करिष्यतीति
चतुर्थोऽङ्कः [ १३६
हृदयेषु तवागमनाभिलाषां धारयन्ति इति भावः, पौराः नगरनिवासिनः जनाः
त्वद्दिदृक्षया तव दर्शनेच्छया स्थास्यन्ति भविष्यन्ति । त्वत्प्रसादस्य त्वया दत्तयोः प्रसाद-
रूपयोः पादुकयोः दर्शनात्, त्वां प्रतिनिवर्तयितुमशक्तः भरतः पादुकयोरेवाभिषेकं कृत्वा
आनीतवान् च ते इति पौराः द्रक्ष्यन्ति, तेषां पौराणां प्रीतिं प्रसन्नतां करिष्यामि
विधास्यामि । ते पादुके एव द्रष्ट्वा ते तव दर्शनं प्राप्स्यन्ति ॥२८॥
व्याकरण—आशाः सन्ति येषां ते = आशा + मतुप् = आशावत् । प्रथमा का
बहुवचन = आशावन्तः । तव दिदृक्षया = त्वद्दिदृक्षया । द्रष्टुम् इच्छा = दिदृक्षा ।
√दृश् + सन् + अ + टाप् = दिदृक्षा । तृतीया विभक्ति का एकवचन दिदृक्षया ।
√प्री + क्तिन् = प्रीति ।
छन्दः—अनुष्टुप् ।
सुमन्त्रः—आयुष्मन् ! मयेदानीं किं कर्तव्यम् ?
रामः—तात ! महाराजवत् परिपाल्यतां कुमारः ।
सुमन्त्रः—यदि जीवामि, तावत् प्रयतिष्ये ।
रामः—वत्स कैकेयीमातः ! आरुह्यतां ममाग्रतो रथः ।
भरतः—यदाज्ञापयत्यार्यः ।
(रथमारोहतः)
रामः—मैथिलि ! इतस्तावत् । वत्स लक्ष्मण ! इतस्तावत् । आश्रम-
पदद्वारमात्रमपि भरतस्यानुयात्रं भविष्यामः ।
(इति निष्क्रान्ताः सर्वे)
हिन्दी रूपान्तर—
सुमन्त्र—आयुष्मान् ! मुझे अब क्या करना है ।
राम—तात ! कुमार भरत का महाराज के समान ही पालन करें ।
सुमन्त्र—यदि जीवित रहूँगा, तो प्रयत्न करूँगा ।
राम—वत्स कैकेयीपुत्र ! मेरे सामने ही रथ पर चढ़ जाओ ।
भरत—आर्य जैसा आदेश देते हैं ।
(सुमन्त्र और भरत रथ पर चढ़ते हैं)
राम—सीते ! इधर आओ । वत्स लक्ष्मण ! इधर आओ । आश्रम के द्वार
तक भरत के पीछे चलते हैं ।
(सब बाहर निकल जाते हैं)
इति चतुर्थोऽङ्कः
चतुर्थ अङ्क पूरा हुआ
इति भासविरचितप्रतिमानातके डा० कृष्ण कुमारकृतव्याख्याः
चतुर्थोऽङ्कः समाप्तः
पञ्चमोऽङ्कः
(ततः प्रविशति सीता तापसी च)
सीता—अय्ये ! उवहारसुमणाइण्णो सम्माजिदो अस्समो । अस्समपदविभ-
वेण अणुट्ठिठओ देवसमुदाआरो ता जाव अय्यउत्तो ण आअच्छदि, दाव इमाणं वालरु-
क्खाणं उदअप्पादाणेण अणुक्कोसइस्सं । [आर्ये ! उपहारसुमनआकीर्णः सम्मा-
र्जित आश्रमः । आश्रमपदविभवेनानुष्ठितो देवसमुदाचारः । तद्यावदार्यपुत्रो
नागच्छति, तावदिमान् बालवृक्षानुदकप्रदानेनानुक्रोशिष्यामि ।]
तापसी—अविग्धं से होदु । (अविघ्नमस्य भवतु)
(ततः प्रविशति रामः)
रामः—(सशोकम्)
त्यक्त्वा तां गुरुणा मया च रहितां रम्यामयोध्यापुरी—
मुद्यम्यापि समाभिषेकमखिलं मत्सन्निधावागतः ।
रक्षार्थं भरतः पुनर्गुणनिधिस्तत्रैव सम्प्रेषितः
कष्टं भोः ! नृपतेर्धुरं सुमहतीमेकः समुत्कर्षति ॥१॥
[अन्वयः—गुरुणा मया च रहितां तां रम्याम् अयोध्यापूरीं त्यक्त्वा, मम
अखिलम् अभिषेकम् अपि उद्यम्य मत्सन्निधौ आगतः । गुणनिधिः भरतः रक्षार्थं पुनः
तत्र एव सम्प्रेषितः । भोः ! कष्टम् । नृपतेः सुमहतीं धुरम् एकः समुत्कर्षति ॥१॥
हिन्दी रूपान्तर—
(तदनन्तर सीता और तापसी प्रवेश करते हैं)
सीता—आर्ये ! देवीपहार के पुष्पों से आकीर्ण आश्रम को झाड़—बुहार कर
स्वच्छ कर दिया है। आश्रम के वैभव के अनुरूप पुष्प आदि से देवपूजन को सम्पन्न
कर दिया । तो जब तक आर्यपुत्र नहीं आते हैं, तब तक इन छोटे वृक्षों को जल
देकर सींच देती हूँ ।
तापसी—यह कार्य निर्विघ्न पूरा हो ।
(तदनन्तर राम प्रवेश करते हैं)
राम—(दुःख के साथ)
अर्थ {श्लोक १]—पिता से तथा मुझसे रहित उस रमणीय अयोध्या नगरी
को छोड़ कर, मेरे सम्पूर्ण राज्याभिषेक की सामग्री को उठाकर जो मेरे समीप आया
था, गुणों के निधान उस भरत को, राज्य की रक्षा के लिये पुनः वहीं भेज दिया
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पञ्चमोऽङ्कः । १४१
है । हे लोगो ! यह कष्ट का विषय है कि महाराज के उस अत्यधिक महान् राजकीय
भार को वह अकेला ही वहन कर रहा है ॥१॥
संस्कृत-व्याख्या—गुरुणा जनकेन मया रामेण च रहितां शून्यीकृतां तां रम्यां
रमणीयां मनोहारिणीं अयोध्यां पुरीम् अयोध्यानगरों त्यक्त्वा विसृज्य, मम वनवासिनो
रामस्य अखिलं सम्पूर्णम् अभिषेकं राज्याभिषेकसामग्रीम् उद्यम्य गृहीत्वा, अत्र वने स
मम राज्याभिषेकं सम्पादयिष्यतीति सकलामेव राज्याभिषेकसामग्रीमत्रानीय, मत्स-
न्निधौ मम समीपम् आगतः आयातः । स गुणनिधिः गुणानां निधिः निधानं भरतः
पुनः अङ्ग रक्षार्थं राज्यस्य परिपालनाय तत्र अयोध्यायामेव प्रेषितः प्रहितः । त्वं
राज्यपालनकर्तव्यं सुचारुरूपेण निर्वह, इति आदिश्य पुनरयोध्यायां प्रेषितः । भोः
जनाः ! कष्टं सुकष्टकरमिदं यत्, नृपतेः राज्ञः दशरथस्य सुमहतीं नानाविधमहत्कार्य-
वशीभूतत्वादतिगुर्वी धुरं राज्यशासनभारं स भरतः एकः एकाकी सहायान्तररहितः
समुत्कर्षति समुद्वहति । इति वार्ता मामात्यन्तं खेदयति ॥१॥
व्याकरण—√रम् + यत् + टाप् = रम्या । उत् + √यम् + क्त्वा (ल्यप्)
= उद्यम्य । अस्मत् + सम् + नि + √धा + कि = मत्सन्निधि । गुणानां निधिः =
गुणनिधिः । तत् + त्रल् = तत्र ।
छन्दः—शार्दूलविक्रीडित ।
सम्मार्जित......—सम् + √मृज् + णिच् + क्त = सम्मार्जित । इस वर्णन
से विदित होता है कि आश्रम में पुष्प आदि से समृद्ध वृक्षों की बहुतायत थी और
ये पुष्प आश्रम में बिखरते रहते थे । सीता इनको प्रतिदिन झाड़-बुहार कर आश्रम
की सफाई करती थी । वह वहाँ प्रतिदिन पुष्प आदि से देवताओं का पूजन करती
थी और आश्रम के छोटे पौधों को सींचती थी ।
(विमृश्य) ईदृशमेवैतत् । यावदिदानीमीदृशशोकविनोदनार्थमवस्थाकुटु-
म्बिनीं मैथिलीं पश्यामि । तत् क्व नु खलु गता वैदेही ? (परिक्रम्यावलोक्य)
अये, इमानि प्रत्यग्राभिषिक्तानि वृक्षमूलानि अदूरगतां मैथिलीं सूचयन्ति ।
तथाहि—
भ्रमति सलिलं वृक्षावर्ते सफेनमवस्थितं
तृषितपतिता नैते क्लिष्टं पिबन्ति जलं खगाः ।
स्थलमभिपतन्त्यार्द्राः कीटा बिले जलपूरिते
नववलयिनो वृक्षा मूले जलक्षयरेखया ॥२॥
[अन्वयः—सफेनम् अवस्थितं सलिलं वृक्षावर्ते भ्रमति । तृषितपतिताः
एते खगाः जलं क्लिष्टं न पुनः पिबन्ति । बिले जलपूरिते आर्द्राः कीटाः स्थलम्
अभिपतन्ति । जलक्षयरेखया वृक्षाः मूले नववलयिनः ॥२॥
१४२ ] प्रतिमानाटकम्
हिन्दी रूपान्तर—
(विचार करके) यह राज्य-कार्य तो ऐसा ही होता रहता है। इसलिये अब
मैं इस प्रकार के शोक को दूर करने के लिये प्रत्येक अवस्था में साथ देने वाली
सीता को देखता हूँ। तो सीता कहाँ गई होगी ? (घूम कर और देख कर) अये,
ये ताजे तत्काल ही सींची गई वृक्षों की जड़ें निश्चय से सूचित कर रही हैं कि सीता
दूर नहीं गई हैं। क्योंकि—
अर्थ [श्लोक २]—जल से तत्काल ही सिंचाई करने के कारण झाग से युक्त
होता हुआ जल वृक्षों के आलवाल में प्रवेश कर रहा है। प्यासे तथा जल के समीप
उतरते हुये ये पक्षी जल को व्याकुल होकर नहीं पी रहे हैं। बिल के जल से भर
जाने पर भीगे हुये कीड़े स्थल पर बाहर आ रहे हैं। भूमि में जज्ब होने के कारण
जल के कम हो जाने से बनी रेखा से वृक्षों के मूल में नये घेरे (वलय) बन
गये हैं ॥२॥
संस्कृत-व्याख्या—प्रत्यग्राभिषिक्तत्वाद् वृक्षाणामेषावस्था विद्यते—सफेनं फेनेन
डिण्डीरेण सहितं फेनिलमित्यर्थः अवस्थितं तदवस्थया विशिष्टं सलिलं जलं वृक्षावर्ते
वृक्षाणां पादपानाम् आवर्ते आलवाले भ्रमति भूम्यन्तरं प्रविशति । वृक्षाणामालवालेषु
दीयमानं जलं पूर्वं तावत् फेनिलं जायते, तदनन्तरं च धरया शोष्यते । जलस्य फेनिल-
भावेन धरया च तस्य शोष्यमाणत्वेन प्रत्यग्राभिषक्तभावः सूच्यते । तृषितपतिताः
तृषिताः पिपासाकुलाः अत एव पतिताः जलपानाय भूमौ अवतीर्णा एते इमे खगाः
पक्षिणः जलं सलिलं क्लिष्टं कष्टभावेन न एव पिबन्ति पानं कुर्वन्ति । आलवालेषु
निर्मलं प्रचुरं च सलिलं वर्तते । अतः जलपाने पक्षिणः न कमपि कष्टम् अनुभवन्ति ।
बिले कीटनिवासभूते गर्ते जलपूरिते जलेन नीरेण पूरिते संपूर्गे सति आर्दाः जल-
क्लिन्नाः कीटाः स्थलं धराया उपरिभागम् अभिपतन्ति आगच्छन्ति । आलवालेषु
प्रत्यग्रमेव जलप्रक्षेपणात्तत्र गर्ताः जलेन पूरिताः कीटाश्च आर्द्राः सञ्जाताः । जलप्ला-
वनमसहमानास्ते कीटाः बिलगर्भभागान् परित्यज्य बहिः स्थलमागच्छन्ति । जलक्षय-
रेखया जलस्य सलिलस्य क्षयस्य ह्रासस्य या रेखा पंक्तिः तया वृक्षाः पादपाः मूले
नववलयिनः नवमण्डलाकाररेखाचिह्निताः दृश्यन्ते । मूलभागे वृक्षाः पङ्कमिश्रितजलेन
पूर्णाः । किञ्चित्क्षणानन्तरं जलांशस्य भूमौ शोष्यमाणत्वात् तत्र मूले जलमिश्रित-
पङ्कस्य नववलयानि चिह्नितानि । एतैः चतुर्भिर्लक्षणैरनुमीयते, प्रत्यग्रमेव सीतया
एते सिञ्चिताः । अतः सा अदूरवर्तिनी एव वर्तते ॥२॥
व्याकरण—वृक्षाणाम् आवर्ते = वृक्षावर्ते । आ + वृत् + अच् = आवर्तं ।
फेनेन सहितम् = सफेनम् । पूर्वं तृषिताः पश्चात् पतिताः = तृषितपतिताः । खे गच्छन्ति
इति खगाः । नवानि वलयानि येषां ते = नव + वलय + इनि = नववलयिन् ।
छन्द—हरिणी।
पञ्चमोऽङ्कः [ १४३
अलङ्कार—स्वभावोक्ति। जलसेचन के तुरन्त बाद की अवस्था का स्वाभा-
विक वर्णन करने के कारण स्वभावोक्ति अलङ्कार है।
(विलोक्य) अये, इयं वैदेही। भोः ! कष्टम्—
योऽस्याः करः श्राम्यति दर्पणेऽपि
स नैति खेदं कलशं वहन्त्याः ।
कष्टं वनं स्त्रीजनसौकुमार्यं
समं लताभिः कठिनीकरोति ॥३॥
(उपेत्य) मैथिलि ! अपि तपो वर्धते ?
[अन्वयः—दर्पणे अपि अस्याः यः करः श्राम्यति, स कलशं वहन्त्याः खेदं न
एति। कष्टम्, स्त्रीजनसौकुमार्यं वनं लताभिः समं कठिनीकरोति ॥३॥
हिन्दी रूपान्तर—
(देखकर) अये, ये सीता हैं। हे लोगो ! कष्ट की बात है—
अर्थ [श्लोक ३]—दर्पण को उठाने में भी इसका जो हाथ थक जाता था,
वह हाथ घड़े को उठाते हुये भी थकावट के कष्ट को नहीं अनुभव कर रहा है।
कष्ट का विषय है कि स्त्रियों की सुकुमारता को वन, लताओं के साथ ही कठोर
बना देता है ॥३॥
संस्कृत व्याख्या—दर्पणमुखाद्यवलोकनावसरेषु आदर्शस्य करे धारणे अपि
अस्याः सीतायाः यः करः हस्तः श्राम्यति श्रमजनितायासमनुभवति, स एव करः कलशं
घटं वहन्त्याः धारयन्त्याः जलसेकनिमित्तं जलपूर्णं घटमुत्थाप्य आनयन्त्याः खेदं
श्रमजनितायासं न एति प्राप्नोति। आयासं न अनुभवति इत्यर्थः। कष्टम् अत्यधिक-
खेदावहोऽयं विषयः यत्, स्त्रीजनसौकुमार्यं स्त्रीजनस्य ललनानां सौकुमार्यं मार्दवं वनम्
अरण्यं लताभिः वल्लरीभिः समं सार्धं कठिनीकरोति कठोरं विदधाति। सर्वविध-
श्रमायासासहनशीलतां प्रददातीत्यर्थः। वने निवसन्त्योऽतिसुकुमारस्वभावा अपि
ललनाः कठोरगुणं सम्प्राप्य तत्र श्रमायासासहिष्णुतामापाद्यन्ति ॥३॥
व्याकरण—कृ + अच् = कर । स्त्रीजनस्य सौकुमार्यम् = स्त्रीजनसौकुमार्यम् ।
सुकुमारस्य भावः = सुकुमार + ष्यञ् = सौकुमार्य । अकठिनं कठिनं करोति = कठिन +
च्वि (दीर्घ) + करोति = कठिनीकरोति ।
छन्दः—उपेन्द्रवज्रा।
अलंकार—विषम, सहोक्ति और उपमा। अति कोमल सीता द्वारा वृक्ष
सेचनरूप कठोर कार्य के साथ सम्बन्ध दिखाने से विषम अलंकार है। लताओं तथा
स्त्रीजन का मनोरम साथ वर्णन करने से सहोक्ति अलंकार है। यहाँ लता और स्त्री
का सादृश्य अभिव्यञ्जित होने से उपमा अलंकार है।
(समीप आकर) सीते ! क्या तुम्हारी तपस्या में वृद्धि हो रही है ?
अवस्थाकुटुम्बिनीम्—अवस्थासु सर्वास्वेव दशासु कुटुम्बिनी गृहिणीधर्मपालन-
१४४ ] प्रतिमानाटकम्
तत्पराम् । भारतीय स्त्रियां प्रत्येक अवस्था में सुख-दुःख में समृद्धि-निर्धनता में, यश-
अपयश में, मान-अपमान में पति का साथ देती हैं। यही उनका धर्म है । अतः वे
पति के शोक को दूर करने और उनकी प्रसन्नता को बढ़ाने में सहायक होती हैं ।
प्रत्यग्राभिषिक्तानि...—वृक्षों को सीता ने अभी अभी सींचा है । अतः उनके
आलवाल में जल भरा हुआ है । पक्षी उसको आनन्द से पी रहे हैं । बिलों में जल
भर जाने से कीड़े बाहर निकल रहे हैं और वृक्षों के मूल में पंक मिश्रित जल की रेखा
का वलय बन गया है ।
भोः कष्टम्—राजमहलों में पली अति कोमल सीता को, घड़ा उठा कर
वृक्षों का सेचन करते देख कर राम के मन में व्यथा होती है ।
अपि तपो वर्धते—तपस्वियों का कुशल मंगल पूछने के लिये तप के सम्बन्ध
प्रश्न किया जाता है । अपि यहाँ प्रश्नार्थक है ।
❖
सीता—हुं अय्यउत्तो ? जेदु अय्यउत्तो । (हुं, आर्यपुत्र ?
जयत्वार्यपुत्रः ।)
रामः—मैथिलि ! यदि ते नास्ति धर्मविघ्नः, आस्यताम् ।
सीता—जं अय्यउत्तो आणवेदि । (यदार्यपुत्र आज्ञापयति ।) (उपविशति)
रामः—मैथिलि ! प्रतिवचनाथिनीमिव त्वां पश्यामि । किमिदम् ?
सीता—सोअसुण्णहिअअस्स विअ अय्यउत्तस्स मुहराओ । किं एदं ।
(शोकशून्यहृदयस्येवार्यपुत्रस्य मुखरागः किमेतत् ?)
रामः—मैथिलि ! स्थाने खलु कृता चिन्ता ।
कृतान्तशल्याभिहते शरीरे
तथैव तावद्धृदयव्रणो मे ।
नानाफलाः शोकशरामिघाता-
स्तत्रैव तत्रैव पुनः पतन्ति ॥४॥
[अन्वयः—कृतान्तशल्याभिहते मे शरीरे हृदयव्रणः तावत् तथा एव । नाना-
फलाः शोकशरामिहताः पुनः तत्र एव तत्र एव विशन्ति ॥४॥]
हिन्दी रूपान्तर—
सीता—हुं, आर्यपुत्र हैं ? आर्यपुत्र की जय हो ।
राम—सीते ! यदि आपके धार्मिक कार्य में विघ्न न हो रहा हो तो
बैठिये ।
सीता—जैसा आर्यपुत्र आदेश देते हैं । (बैठती है)
राम—सीते ! मैं देख रहा हूँ कि तुम कुछ पूछना चाहती हो, यह क्या
बात है ? CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA.
पञ्चमोऽङ्कः [ १४५
सीता—आर्यपुत्र के मुख का रंग ऐसा प्रतीत हो रहा है ।' जैसे कि शोक से
से हृदय सूना हो रहा हो । यह क्या बात है ?
राम—सीते ! आपने उचित ही चिन्ता की है—
अर्थ [श्लोक ४]—विधाता के बाणों से आहत किये गये मेरे शरीर में हृदय
का घाव अभी तो वैसा ही था, अभी वह घाव भरा भी नहीं था कि अनेक प्रकार के
फलों अर्थात् दुःखों को उत्पन्न करने वाले शोकरूपी बाणों के आघातः बार-बार वहीं
और वहीं गिर रहे हैं । अभी तो पिता की मृत्यु और वनवास के दुःख का घाव भरा
भी नहीं है कि हृदय पर पुनः-पुनः और आघात पड़ रहे हैं ॥४॥
संस्कृत-व्याख्या—कृतान्तशल्याभिहते कृतान्तस्य विधातुः शल्यैः बाणैः
अभिहते आहते मे मम शरीरे वपुषि हृदयस्य व्रणः पितृनिधन-जन्यशोकरूपः मान-
सिकाघातव्रणः तावत् तथा एव तथाविध एव वर्तते, न साम्प्रतमपि विरूढः । अपितु
नानाफला नानाविधानि फलानि प्रयोजनानि दुःखदायकानि येषां तथाविधाः
शोकroundशराभिघाताः शोकः विषादः एव शराः बाणाः तेषाम् अभिघाताः प्रहाराः पुनः
वारं वारं तत्र एव तत्र एव तस्मिन् हृदये एव पतन्ति । पितृमरणजन्यस्य
हृदयस्थितशोकस्य व्रणः अद्यापि न विरूढः, अपरश्च शोकशराभिघातः हृदये
आपतितः ॥४॥
व्याकरण—कृतान्तस्य शल्यैः अभिहते = कृतान्तशल्याभिहते । कृतः अन्तः
येन स = कृतान्तः । अभि + √हन् + क्त = अभिहत । शोकः एव शराः तेषाम्
अभिघाताः = शोकशराभिघाताः । अभि + √हन् + णिच् + क्त = अभिघात ।
छन्दः—उपजाति ।
अलङ्कार—विषम और रूपक । व्रणित हृदय पर पुनः आघात होने से विषम
अलङ्कार है । शोकः एव शराः में उपमेय पर उपमान का आरोप होने से रूपक
अलङ्कार है ।
धर्म विघ्नः—धर्मे विघ्नः = धर्मविघ्नः । वि + हन् + क = विघ्नः आश्रमों में
वृक्ष आदि का सेचन तपस्वियों का धर्म माना गया है ।
शोकशून्यहृदस्य—शोकेन शून्यं हृदयं यस्य तस्य । मुखस्य रागः = मुखरागः ।
रञ्ज् + घञ् = राग । राम को श्राद्ध की चिन्ता थी, अतः उनके मुख पर चिन्ता के
भावों के कारण मुख का रंग फीका हो जाना स्वाभाविक था ।
❖❖❖
सीता—अय्यउत्तस्स को विअ सन्तावो ? [आर्यपुत्रस्य क इव
सन्तापः ? ]
रामः—श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्धविधिः । कल्पविशेषेण
निर्वपणक्रियामिच्छन्ति पितरः । तत् कथं निर्वर्तयिष्यामीत्येतच्चिन्त्यते ।
१४६ ] प्रतिमानाटकम्
अथवा—
गच्छन्ति तुष्टिं खलु येन केन
त एव जानन्ति हि तां दशां मे ।
इच्छामि पूजां च तथापिकर्तुं
तातस्य रामस्य च सानुरूपाम् ॥५॥
[अन्वयः—येन केन खलु तुष्टिं गच्छन्ति । ते एव हि मे तां दशां जानन्ति ।
तथापि रामस्य सानुरूपां तातस्य पूजां कर्तुम् इच्छामि ॥५॥
हिन्दी रूपान्तर—
सीता—आर्यपुत्र को कौन सा सन्ताप हो रहा है ?
राम—कल आदरणीय पिता जी का वार्षिक श्राद्ध का दिन है । पितरों की
इच्छा होती है कि उनकी सन्तान शास्त्रोक्त विधि के अनुसार अपनी सामर्थ्य से
पिण्डदान की क्रिया करें । तो मैं इस पिण्डदान की क्रिया को कैसे करूँगा, यह विचार
कर रहा हूँ। अथवा—
अर्थ [श्लोक ५]—जिस किसी प्रकार से वे सन्तुष्ट हो जाते हैं तो हो जावें ।
वे ही निश्चय से मेरी उस अवस्था को जानते हैं। तो भी जो राम के सामर्थ्य से करने
के योग्य हो, मैं पिता की वैसी ही श्राद्ध-पूजा करना चाहता हूँ । यद्यपि मेरी अवस्था
को, वन में निवास को तथा धनहीनता को वे पितर जानते हैं, अतः जैसा भी मैं श्राद्ध
करूंगा, उससे वे सन्तुष्ट हो जायेंगे, तथापि मैं अपने सामर्थ्य के अनुरूप उनका
श्राद्ध करना चाहता हूँ ॥५॥
संस्कृत-व्याख्या—श्राद्धक्रियासु ते पितरः येन केन येन केनापि प्रकारेण पुत्र-
वैभवानुरूपेण श्राद्धविधिना तुष्टिं तृप्तिं गच्छन्ति । तथापि रामस्य सानुरूपां सामर्थ्या-
नुसारं तातस्य पितुः जनकस्य पूजां श्राद्ध-निर्वपणक्रियां कर्तुं विधातुम् इच्छामि
अभिलषामि । यद्यपि मम वर्तमानदशां वने निवासं धनरहितत्वं च मे पितरः जानन्ति,
अतः यथैवाहं तेषां निर्वपणविधिं करिष्यामि तथैव ते सन्तोषं प्राप्स्यन्ति, तथापि
रामोऽहं जगति विख्यातप्रभावः । अतः तदनुसारमेव मया श्राद्धविधिः सम्पादनीया ।
परं विगतधनः कथं तन्निर्वहियेयमिति मे चिन्ता ॥५॥
व्याकरण—√तुष् + क्तिन् = तुष्टि । √दृश् + अङ् + टाप् = दशा । रूपस्य
योग्यम् = अनुरूपम् ।
छन्दः—उपजाति ।
अलङ्कार—परिकर और दीपक । सानुरूपाम् इस अभिप्रायगर्भित विशेषण
होने के कारण परिकर अलङ्कार है । तातस्य रामस्य च इन दोनों कारकों का एक
क्रिया से सम्बन्ध होने से दीपक अलङ्कार है ।
तातस्य अनुसंवत्सरश्राद्धविधिः—हिन्दू धर्म में परम्परा है कि पिता के
स्वर्ग चले जाने पर उनकी स्मृति में पुत्र श्राद्ध करते हैं। इस अवसर पर ब्राह्मणों को
पञ्चमोऽङ्कः [ १४७
विशेष भोजन कराया जाता है । विश्वास किया जाता है। कि यह भोजन पितृलोक
में स्थित पितरों को प्राप्त होता है । श्राद्ध का लक्षण है—
संस्कृतव्यञ्जनाढ्यञ्च पयोदधिघृतान्वितम् ।
श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते ॥
प्रतिवर्ष आश्विन मास के शुक्ल पक्ष में मृत्यु की तिथि के अनुसार श्राद्ध
किया जाता है । इसको अनुसंवत्सर (वार्षिक) श्राद्ध कहते हैं । संवत्सरं संवत्सरम्
अनु = अनुसंवत्सरम् ।
सीता—अय्यउत्त णिव्वत्तइस्यदि सद्धं भरदो रिद्धीए, अवत्थाणुरूंव ।
फलोदएण वि अय्यउत्तो । एदं तादस्स बहुमदअरं भविस्सदि । [आर्यपुत्र ! निर्वर्त्त-
यिष्यति श्राद्धं भरत ऋद्ध्या, अवस्थानुरूपम् फलोदकेनाप्यार्यपुत्रः । एतत्
तातस्य बहुमततरं भविष्यति । ]
रामः—मैथिलि !
फलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः ।
स्मारितो वनवासं च तातस्तत्रापि रोदिति ॥६॥
[अन्वयः—दर्भेषु नः स्वहस्तरचितानि फलानि दृष्ट्वा, वनवासं च स्मारितः
तातः तत्र अपि रोदिति ॥६॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! अवस्था के अनुरूप वैभव के साथ भरत श्राद्ध को सम्पन्न
करा देंगे । आर्यपुत्र फल और जल से श्राद्ध सम्पन्न कर लें । तात के लिये यही बहुत
अधिक सम्माननीय होगा ।
राम—सीते !
अर्थ [श्लोक ६]—दर्भों पर हमारे अपने हाथों से रखे हुये फलों को देख
कर और हमारे वनवास को स्मरण करके पिता वहाँ भी रो पडेंगे विश्वास किया
जाता है कि श्राद्ध में जो वस्तु ब्राह्मणों को अर्पित की जाती है, वही पितृलोक में
पितरों को प्राप्त होती है । हम दर्भों पर फल रख कर देंगे, तो वहाँ पिता को हमारे
वनवास का स्मरण हो आयेगा और वे निश्चय ही उसको देखकर रोयेंगे ॥६॥
संस्कृत-व्याख्या—दर्भेषु कुशेषु नः अस्माकं स्वहस्तरचितानि स्वैः निजैः
हस्तैः करैः रचितानि स्थापितानि फलानि दृष्ट्वा अवलोक्य, वनवासम् अस्माकमरण्ये
निवसनं च स्मारितः तातः पिता दशरथः तत्र पितृलोके अपि रोदिति विलापं करि-
ष्यति । अस्माकं सौवर्णादीनि पात्राणि न सन्ति, अतः दर्भाणामेव प्रयोगो भविष्यति
आधारत्वेन । एवं च श्राद्धवस्तूनि फलान्येव भविष्यन्ति महार्घ व्यञ्जनाद्यभावात् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१४८ ] प्रतिमानाटकम्
भृत्याद्यभावात् तानि निजकरैरेव रचितानि भविष्यन्ति । एतद् दृष्ट्वा पितृलोकेऽपि
तातोऽस्माकं वनवासं स्मृत्वा रोदिष्यति । श्राद्धेषु पुत्रैः ब्राह्मणेभ्यः प्रदत्तान्येव
वस्तूनि पितरो लभन्त इति प्रसिद्धिः ।।६।।
व्याकरण — स्वैः हस्तैः रचितानि = स्वहस्तरचितानि । √हस् + तन् = हस्त ।
√रच् + णिच् + क्त = रचित । √स्मृ + णिच् + क्त = स्मारित ।
छन्दः — अनुष्टुप् ।
अलङ्कार — भाविक और स्मरण । पितरों की भविष्य की अवस्था का प्रत्यक्ष
के समान वर्णन करने से भाविक अलङ्कार है । समान वस्तु को देखकर अन्य समान
वस्तु का स्मरण करना स्मरण अलङ्कार है । वनवास के योग्य दर्भ और फल देखकर
वनवास का स्मरण करने से स्मरण अलङ्कार है ।
भरतः श्राद्धम् ऋद्धया — भरत के पास राज्यवैभव है, अतः वह पिता के
योग्य श्राद्ध का निर्वाह बड़े वैभव से करेगा ही ।
अवस्थानुरूपं फलोदकेन — अवस्थायाः अनुरूपम् = अवस्थानुरूपम् । रूपस्य
योग्यम् = अनुरूपम् । वन में रहने के कारण राम को केवल फल और जल ही प्राप्य
हैं, अतः वे इसी से श्राद्ध सम्पन्न कर सकते हैं ।
(ततः प्रविशति परिव्राजकवेषो रावणः)
रावण—एष भोः ।
नियतमनियतात्मा रूपमेतद् गृहीत्वा
खरवधकृतवैरं राघवं वञ्चयित्वा ।
स्वरपदपरिहीणां हव्यधारामिवाहं
जनकनृपसुतां तां हर्तुकामः प्रयामि ॥७॥
[अन्वयः—अनियतात्मा अहम् एतत् रूपं गृहीत्वा नियतं खरवधकृतवैरं राघवं
वञ्चयित्वा स्वरपदपरिहीणां हव्यधाराम् इव तां जनकनृपसुतां हर्तुकामः प्रयामि ॥७॥]
हिन्दी रूपान्तर—
(तदनन्तर परिव्राजक के वेष में रावण प्रवेश करता है)
रावण—हे लोगो ! यह—
अर्थ [श्लोक ७]—इन्द्रियों के अधीन होता हुआ मैं इस परिव्राजक के रूप
को धारण करके, नियमों का पालन करने वाले और खर राक्षस के साथ वैर को
करने वाले अर्थात् उसका वध करने वाले रघुवंशी राम को ठग कर, स्वरों और पदों
से विहीन आहुत की जाती हुई घृतधारा के समान उस जनकराजा की पुत्री सीता का
अपहरण करने की इच्छा से जा रहा हूँ । जिस प्रकार हवन में घृत की आहुति, यदि
वह स्वर तथा पद से अशुद्ध मन्त्रोच्चारण करके डाली जावे, तो उसका राक्षस
अपहरण कर लेते हैं, उसी प्रकार मैं सीता का अपहरण करूँगा ॥७॥
पञ्चमोऽङ्कः [ १४६
संस्कृत-व्याख्या—अनियततात्मा अनियतः अविजितः आत्मा इन्द्रियाणि येन स,
आत्मेति पदस्य इन्द्रियार्थे प्रयोगः । इन्द्रियाधीनोऽहं रावणः एतद् इदं रूपं परिव्राजक-
रूपं गृहीत्वा सन्धार्य, नियतं नित्यनियमपालकं जितेन्द्रियमिति भावः, खरवधकृतवैरं
खरस्य एतन्नामकस्य रावणभ्रातुः राक्षसस्य वधेन मारणेन कृतं विहितं वैरं शत्रुता येन
तादृशं, रामेण खरराक्षसस्य वधं कृत्वा मया सह वैरभावः कृतः, अतः तस्याः पत्न्या
अपहरणं समुचितमेव, राघवं रघुवंशीयं रामं वञ्चयित्वा प्रतार्य, मायामृगरूपेण छलेन
आश्रमाद् अन्यत्र कृत्वा, स्वरपदपरिहीणां स्वरेभ्यः पदेभ्यश्च परिहीणां वर्जिताम्
अशुद्धप्रयोगविहीनां हव्यधारां हवनेषु हूयमानानाज्यधाराम् इव तां जनक-
नृपसुतां जनकराजपुत्रीं सीतां हर्तुकामः अपहरणाभिलाषी सन् प्रयामि गच्छामि । यथा
स्वरैः पदैश्च विहीनां हव्यधारां राक्षसा अपहरन्ति, तथैवाहं, तस्याः सीताया अपहरणं
करिष्यामि ॥७॥
व्याकरण—न नियतः = अनियतः । अनियतः आत्मा यस्य स = अनियततात्मा ।
नि + √ यम् + क्त = नियत । स्वरेभ्यः पदेभ्यश्च परिहीणाम् = स्वरपदपरिहीणाम्
√ हा + क्त = हीन । हव्यस्य धारा = हव्यधारा । √ हू + यत् = हव्य । √ धृ +
णिच् + अङ् + टाप् = धारा ।
छन्दः—मालिनी ।
अलङ्कार—उपमा । जनकनृपसुता उपमेय, हव्यधारा उपमान, इव उपमा-
वाचक, अपहरण करना सामान्य धर्म हैं । उपमा के चारों अङ्गों के होने से पूर्णो-
पमा है ।
❖❖❖❖
(परिक्रम्याधो विलोक्य) इदं रामस्याश्रमद्वारपदम् । यावदवतरामि ।
(अवतरति) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहमतिथिः ।
कोऽत्र भोः ?
रामः—(श्रुत्वा) स्वागतमतिथये ।
रावणः—साधु विशेषितं खलु रूपं स्वरेण ।
रामः—(विलोक्य) अये, भगवान् ? भगवन् ! अभिवादये ।
रावणः—स्वस्ति ।
रामः—भगवन् ! एतदासनमास्यताम् ।
रावणः—(आत्मगतम्) कथमाज्ञप्त इवास्म्यनेन । (प्रकाशम्) वाढम् ।
(उपविशति)
रामः—मैथिलि ! पाद्यमानय भगवते ।
सीता—जं अय्यउत्तो आणवेदि । (निष्क्रम्य प्रविश्य) इमा आवो । [यदार्य-
पुत्र आज्ञापयति । इमा आपः ।]
रामः—शुश्रूषय भवन्तम् ।
१५० ] प्रतिमानाटकम्
सीता—जं अय्यउत्तॊ आणवेदि । [यदार्यपुत्र आज्ञापयति ।]
रावणः—(मायाप्रकाशनपर्याकुलो भूत्वा) भवतु, भवतु—
इयमेका पृथिव्यां हि मानुषीणामरुन्धती ।
यस्या भर्तेति नारीभिः सत्कृतः कथ्यते भवान् ॥८॥
अन्वयः—हि इयं पृथिव्यां मानुषीणाम् एका अरुन्धती ; यस्याः भर्ता भवान्
नारीभिः सत्कृतः इति कथ्यते ॥८॥
हिन्दी रूपान्तर—
(घूमकर और देखकर) यह राम के आश्रम के द्वार का स्थान है। तो
उतरता हूँ । (उतरता है) तो अब मैं अतिथियों के आचरण का पालन करूंगा। मैं
अतिथि हूँ। हे ! यहाँ कौन है ?
राम—(सुन कर) अतिथि का स्वागत है।
रावण—इस सुन्दर रूप को मधुर स्वर ने निश्चय से बहुत अधिक विशिष्ट
बना दिया है।
राम—(देख कर) अये, भगवान् हैं ? हे भगवन् ! अभिवादन करता हूँ ।
रावण—कल्याण हो ।
राम—भगवन् ! यह आसन है । बैठिये ।
रावण—(अपने मन में) क्या, इसने मुझको आदेश सा दिया है । (प्रकट रूप
में) अच्छा । (बैठ जाता है)
राम—सीते ! भगवान् के लिये पैर धोने का जल ले आओ ।
सीता—आर्यपुत्र जैसा आदेश देते हैं । (निकल कर और प्रवेश करके) ये
जल है।
राम—भगवान् की सेवा करो ।
सीता—आर्यपुत्र जैसा आदेश देते हैं ।
रावण—(माया के खुल जाने के भय से व्याकुल होकर) रहने दो, रहने दो।
अर्थ [श्लोक ८]—निश्चय से यह सीता मानव स्त्रियों में अकेली अरुन्धती
है, पतिव्रताओं में शिरोमणि है । जिसके पति आपका नारियां बहुत अधिक यशोगान
करती हैं ॥८॥
संस्कृत-व्याख्या—हि निश्चयेन इयम् एषा सीता पृथिव्याम् अस्यां धरायां
मानुषीणां मानवस्त्रीणाम् एका अद्वितीया अरुन्धती अरुन्धती इव पतिव्रताशिरोमणि-
भूता वर्तते । अरुन्धती नाम्नी वसिष्ठपत्नी स्वपातिव्रत्यप्रभावेण सप्तर्षिमध्ये निवसति ।
सा पतिव्रतासु मानवीषु सर्वश्रेष्ठरूपेण गण्यते । यस्याः सीतायाः भर्ता पतिः भवान्
नारीभिः विश्वस्य सर्वाभिः वनिताभिः सत्कृतः पूजितः इति कथ्यते लोके वर्ण्यते ।
इयं सीता पातिव्रत्यप्रभावेण सकलजनमाननीया । भवांश्चास्या पतिः । तत्पातिव्रत्य-
प्रभावेण भवान् सर्वाभिः नारीभिः वन्द्यमानत्वात् सकलजनपूजनीया । अतः नाहं
योग्यो यदेषा मम पादप्रक्षालनं कुर्यात् ॥८॥
व्याकरण—√प्रथ् + ष्वन् + ङीप् (इट् का आगम तथा सम्प्रसारण) =
पृथिवी । मनुष्य + अण् + ङीप् = मानुषी ।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
पञ्चमोऽङ्कः [ १५१ ]
छन्दः—अनुष्टुप्।
अलङ्कार—उदात्त। सीता के प्रभावातिशय का वर्णन करने से उदात्त
अलङ्कार है।
मायाप्रकाशपर्याकुलः--मायायाः प्रकाशतेनपर्याकुलः। { रावण को भय हुआ
कि पतिव्रता सीता के स्पर्श से कहीं उसकी माया प्रकट न हो जावे। } अतः उसने सीता
द्वारा चरणप्रक्षालन को स्वीकार करना नहीं चाहा।
रामः—तेन हि आनय, अहमेव शुश्रूषयिष्ये।
रावणः—अयि, छायां परिहृत्य शरीरं न लङ्घयामि। वाचानुवृत्तिः
खल्वतिथिसत्कारः। पूजितोऽस्मि। आस्यताम्।
रामः—बाढम्। (उपविशति)
हिन्दी रूपान्तर—
राम—तो ले आओ। मैं ही सेवा करूँगा।
रावण—अरे, छाया को छोड़कर मैं शरीर का लंघन नहीं करूँगा। सच्चा
अतिथिसत्कार तो वाणी से ही हो जाता है। मेरा सत्कार हो गया है। आप बैठिये।
राम—बहुत अच्छा। (बैठ जाते हैं)
छायां परिहृत्य शरीरं न लङ्घयामि—पत्नी को पति की छाया के समान
माना गया है। राम शरीर हैं तो सीता उनकी छाया है। जब रावण ने सीता से
सेवा कराना स्वीकार नहीं किया तो राम से सेवा कराना शिष्टाचार का उल्लङ्घन
होता।
रावणः—(अ त्मगतम्) यावदहमपि ब्राह्मणसमुदाचारमनुष्ठास्यामि।
(प्रकाशम्) भोः ! काश्यपगोत्रोऽस्मि। साङ्गोपाङ्गं वेदमधीये, मानवीयं धर्म-
शास्त्रं, माहेश्वरं योगशास्त्रं, बार्हस्पत्यमर्थशास्त्रं, मेधातिथेर्न्यायशास्त्रं,
प्राचेतसं श्राद्धकल्पं च।
रामः—कथं कथं श्राद्धकल्पमिति ?
रावणः--सर्वाः श्रुतीरतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता। किमेतत् ?
रामः—भगवन् ! भ्रष्टायां पितृमत्तायामागम इदानीमेषः।
रावणः—अलं परिहृत्य। पृच्छतु भवान्।
रामः—भगवन् ! निर्वपणक्रियाकाले केन पितॄंस्तर्पयामि ?
रामः [रावणः]--सर्वं श्रद्धया दत्तं श्राद्धम्।
रावणः [रामः]—भगवन् ! अनादरतः परित्यक्तं भवति। विशेषार्थं पृच्छामि।
रावणः—श्रूयताम्। विरूढेषु दर्भाः, ओषधीषु तिलाः, कलायं शाकेषु,
१५२ ] प्रतिमानाटकम्
मत्स्येषु महासफरः, पक्षिषु वार्ध्रीणसः, पशुषु गौः खड्गो वा, इत्येते मानुषाणां
विहिताः ।
रामः—भगवन् ! वाशब्देनावगतमन्यदप्यस्तीति ।
रावणः—अस्ति प्रभावसम्पाद्यम् ।
रामः—एष एव मे निश्चयः—
उभयस्यास्ति सान्निध्यं यद्येतत् साधयिष्यति ।
धनुर्वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥६॥
(अन्वयः—उभयस्य अपि सान्निध्यम् अस्ति, यद् एतत् साधयिष्यति । तपसि
श्रान्ते धनुः धनुषि वा श्रान्ते तपः ॥६॥)
हिन्दी रूपान्तर—
रावण—(अपने मन में) तो मैं भी अपने ब्राह्मण के योग्य आचरण का पालन
करूँगा । (प्रकट रूप में) हे राम ? मेरा गोत्र काश्यप है । मैंने अङ्गों और उपाङ्गों
सहित वेदों का अध्ययन किया है, मनु द्वारा रचित धर्मशास्त्र का, महेश्वर द्वारा
रचित योगशास्त्र का, बृहस्पति द्वारा रचित अर्थशास्त्र का, मेवातिथि द्वारा रचित
न्यायशास्त्र का और प्रचेतस् ऋषि द्वारा रचित श्राद्धकल्प का अध्ययन किया है ।
राम—क्या कहा, क्या कहा, श्राद्धकल्प का ?
रावण—सब विद्याओं को लांघकर आपने श्राद्धकल्प के प्रति इच्छा दिखाई
है । यह क्या बात है ?
राम—भगवन् ! पिता की मृत्यु हो जाने के कारण अब इस शास्त्र की
अपेक्षा है ।
रावण—आप इस विषय को न छोड़ें । आप पूछें ।
राम—भगवन् ! पिण्डदान के समय पितरों को किस वस्तु से तृप्त करूँ ?
रावण—श्रद्धा से दिया गया सब कुछ श्राद्ध ही है ।
राम—हे भगवन् ! अनादर से दिया गया तो त्याग देने योग्य होता है । मैं
विशेष रूप से देने योग्य के लिये पूछ रहा हूँ ।
रावण—सुनो । घासों में दर्भ, ओषधियों में तिल, शाकों में कलाय, मछलियों
में महासफर, पक्षियों में वार्ध्रीणस, पशुओं में गाय या गैंडा, मनुष्य जाति में तो
श्राद्धों में ये ही विहित हैं ।
राम—भगवन् ! वा शब्द से मैं समझता हूँ कि इस विषय में और भी
कुछ है ।
रावण—है तो, परन्तु उसको प्रभाव-सामर्थ्य से ही सम्पादित किया जा
सकता है ।
राम—भगवन् ! यही मेरा निश्चय है ।
अर्थ [श्लोक ६]—मेरे पास दोनों ही प्रकार के साधन तपस्या और धनुष भी
हैं, जिनसे कि मैं इस साध्य को सिद्ध करूँगा । तपस्या के विफल हो जाने पर धनुष
से कार्य सिद्ध करूँगा अथवा धनुष के विफल हो जाने पर तपस्या से सिद्ध
करूँगा ॥६॥
पञ्चमोऽङ्कः । १५३
संस्कृत-व्याख्या-उभयस्य अपि मयि सदृशे जने उभयप्रकारस्यापि धनुषो
तपसश्च साधनद्वयस्य सान्निध्यं सामीप्यमस्ति । द्वयोरपि साधनयोः मयि सामीप्यं
वर्तते । धनुषा वा तपसा वा अहं सर्वमपि कार्यजातं साधयितुं शक्नोमीति भावः ।
तपसि तपस्यायां श्रान्ते अतिशयेन खिन्ने विफले सञ्जाते धनुः वा कोदण्डो वा वर्तते ।
धनुषि कोदण्डे वा श्रान्ते सञ्जाते तपः विद्यते । यत्कार्यं तपसा साधयितुं न शक्यते
तत् धनुषा साधयितुं शक्यते, यच्च कार्यं धनुषा साधयितुं न शक्यते, तत् तपसा साध-
यितुं शक्यते । अनेन प्रकारेण अहं सर्वाण्यपि कार्याणि प्रभावातिशयेन साधयितुं
शक्नोमि ॥६॥
व्याकरण—सम् + नि + धा + कि = सन्निधि । सन्निधेः भावः = सन्निधि +
ष्यञ् = सान्निध्यम् । श्रम् + क्त = श्रान्त ।
छन्दः—अनुष्टुप् ।
साङ्गोपाङ्गम्—वेदों का अध्ययन अङ्गों तथा उपाङ्गों सहित किया जाता है ।
शिक्षा, कल्प, व्याकरण, निरुक्त, छन्दः, ज्योतिष ये छः वेदाङ्ग हैं। पुराण, न्याय,
मीमांसा और धर्मशास्त्र ये चार उपाङ्ग हैं।
मानव्यम्—मनुना प्रोक्तम् = मनु + अण् = मानव । मानवस्येदम् = मानव
- छ (ईय) = मानवीय । मनु ने धर्मशास्त्र की रचना करके धर्म का अनुशासन
किया था । योगशास्त्र की रचना महेश्वर (शिव) ने की थी, जो पतञ्जलि के योग-
दर्शन का मूल है। अर्थशास्त्र का प्रवर्तन बृहस्पति ने किया था, जो चाणक्य के अर्थ-
शास्त्र का मूल है । न्यायशास्त्र का प्रवर्तन मेधातिथि ने किया था, जो गौतम के
न्यायदर्शन का मूल है। श्राद्धकल्प का प्रवर्तन प्रचेतस् ने किया था । प्रचेतस् का अर्थ
वरुण देवता है। प्रचेतस् नाम के ऋषि भी हुये हैं।
भ्रष्टायां पितृमञ्जायाम्—पितृत्व से वञ्चित हो जाने पर । भ्रंश् + क्त + टाप् =
भ्रष्टा ।
वार्ध्रीणसः—वार्ध्रीणस एक विशेष पक्षी का नाम है । मार्कण्डेय पुराण में
इसका लक्षण है:—
रक्तपादो रक्तशिरा रक्तचक्षुर्विहङ्गमः ।
कृष्णवर्णेन न तथा पक्षी वार्ध्रीणसो मतः ॥
रावणः—सन्ति । हिमवति प्रतिवसन्ति ।
रामः—हिमवतीति । ततस्ततः ।
रावणः—हिमवतः सप्तमे शृङ्गे प्रत्यक्षस्थाणुशिरःपतितगङ्गाम्बुगायिनो
वैदूर्यश्याम्पृष्ठाः पवनसमजवाः काञ्चनपार्श्वा नाम मृगाः यैर्वैखानसबालखिल्य-
नैमोषादयो महर्षयश्चिन्तितमात्रोपस्थितविपन्नैः श्राद्धान्यभिवर्धयन्ति ।
CC-0. JK Sanskrit Academy, Jammu, Digitized by S3 Foundation USA
१५४ ] प्रतिमानाटकम्
तैस्तर्पिताः सुतफलं पितरो लभन्ते
हित्वा जरां खमुपयान्ति हि दीप्यमानाः ।
तुल्यं सुरैः समुपयान्ति विमानवास-
मावर्तिभिश्च विषयैर्न बलाद् ध्रियन्ते ॥१०॥
[अन्वयः—तैः तर्पिताः पितरः सुतफलं लभन्ते, जरां हित्वा च दीप्यमानाः हि
खम् उपयान्ति । सुरैः तुल्यं विमानवासं समुपयान्ति । आवर्तिभिः च विषयैः बलात् न
ध्रियन्ते ॥१०॥
हिन्दी रूपान्तर—
रावण—हँ । वे हिमालय पर रहते हैं ।
राम—हिमालय पर रहते हैं । उसके बाद ?
रावण—हिमालय के सातवें शिखर पर, प्रत्यक्ष रूप से शिव के सिर पर
गिरती हुई गङ्गा के जल का पान करने वाले, वैडूर्य मणि के समान श्यामल पीठ
वाले, वायु के समान वेगशाली, काञ्चनपार्श्व नाम के मृग हैं । वैखानस, बालखिल्य,
नैमिषीय आदि महर्षियों के ध्यान मात्र से उपस्थित होकर वे मृत हो जाते हैं ।
तथा उनके द्वारा वे ऋषि श्राद्ध कार्यों को करते हैं ।
अर्थ [श्लोक १०]—उन काञ्चनपार्श्व मृगों के मांस से तृप्त होकर पितर
लोग पुत्र होने के फल को प्राप्त कर लेते हैं और वृद्धावस्था को छोड़ कर वे दीप्ति-
शाली होते हुये स्वर्ग में पहुँचते हैं । देवताओं के समान वे विमानों में निवास करते
हैं । तथा आवागमन (पुनर्जन्म) को कराने वाले विषय भोग उनका बलपूर्वक अपहरण
नहीं कर सकते ॥१०॥
संस्कृत व्याख्या—तैः काञ्चनपार्श्वमृगैः तेषां मांसप्रयोगैः तर्पिताः संतृप्ता
सञ्जाताः पितरः पितृलोके विद्यमानाः पूर्वजाः सुतफलं पुत्रजन्मजन्यप्रयोजनं लभन्ते
प्राप्नुवन्ति । तेन च जरां वृद्धावस्थां त्यक्त्वा हित्वा सततं यौवनावस्थामनुभवन्तस्ते
दीप्यमानाः भ्राजमानाः सन्तः हि निश्चयेन खं स्वर्गम् उपयान्ति प्राप्नुवन्ति । वार्धक्य-
मपहाय स्वर्गं सेवन्ते । तत्र स्वर्गे च सुरैः देवैः तुल्यं समानं विमानवासं विमानेषु
सप्तभूमिकप्रासादेषु व्योमयानेषु वा वास निवसनं समुपयान्ति प्राप्नुवन्ति ।
आवर्तिभिः जननमरणावागमनकारिभिः विषयैः इन्द्रियार्थप्रदीपकैः सांसारिकभोगविषयैः
बलात् हठात् न ध्रियन्ते बाध्यन्ते । जन्ममरणकारणभूतानि विषयाणि तान् न
बाधन्ते ॥१०॥
व्याकरण—दीप् + यक् + शानच् (मुक् का आगम) = दीप्यमान ।
छन्दः—वसन्ततिलका ।
हिमवतः सप्तमे शृङ्गे...—पौराणिक कथाओं के अनुसार भगीरथ की
तपस्या के प्रभाव से स्वर्ग से गिरती हुई गंगा को शिव ने अपने सिर पर ग्रहण किया
था । उस समय वे हिमालय के शिखर पर स्थित थे ।
काञ्चनपार्श्वः—यह एक काल्पनिक मृग है, जिससे रावण ने राम को
पञ्चमोऽङ्कः [ १५५
लुभाने का विचार किया था। इनकी पीठ श्यामवर्ण तथा पार्श्व भाग सुनहरे कल्पित
किये गये थे।
वैखानसबालखिल्यनैमोषादयः—वैखानस नाम वानप्रस्थियों का है।
बालखिल्य नाम के ६० हजार ऋषियों का समुदाय पुराणों में प्रसिद्ध है। इनका
आकार एक अंगुष्ठमात्र माना गया था। नैमिषारण्य में रहने वाले ऋषि नैमिषीय
कहलाते थे।
चिन्तितमात्रोपस्थितविपन्नैः—चिन्तितमात्रेण उपस्थितैः विपन्नैः मृतैश्च।
ऋषियों के विचारमात्र से वे उपस्थित हो जाते हैं तथा मर जाते हैं। इससे उनका
मांस श्राद्ध में दिया जा सकता है।
रामः—मैथिलि !
आपृच्छ पुत्रकृतकान् हरिणान् द्रुमांश्च
विन्ध्यं वनं तव सखीर्दयिता लताश्च।
वत्स्यामि तेषु हिमवद्गिरिकाननेषु
दीप्तैरिवौषधिवनैरुपरञ्जितेषु ॥११॥
[अन्वय—पुत्रकृतकान् हरिणान्, द्रुमान्, विन्ध्यं वनं, तव दयिताः सखीः लताः
च आपृच्छ। दीप्तैः औषधिवनैः उपरञ्जितेषु इव तेषु हिमवद्गिरिकाननेषु वत्स्यामि
।।११।।]
हिन्दी रूपान्तर—
राम—सीते।
अये [श्लोक ११]—अपने पुत्रों के समान हरिणों से, वृक्षों से, विन्ध्य वन
से और प्रिय सखी लताओं से विदा ले लो। मैं चमकती हुई औषधियों से युक्त वनों
से प्रकाशित होते हुये, हिमालय पर्वत के उन अरण्यों में निवास करूंगा ॥११॥
संस्कृत व्याख्या—पुत्रकृतकान् सुततुल्यपालितान् हरिणान् मृगान्, द्रुमान्
वृक्षान्, विन्ध्यं वनं विन्ध्यारण्यं, दयिताः स्नेहशीलाः तव त्वदीया सखीः प्रियवयस्या-
भूताः लताः वल्लर्यः च आपृच्छ गमनकालिकामन्त्रणेन सम्भावय। यतोऽहं दीप्तैः
सततं प्रकाशमानैः औषधिवनैः ज्योतिष्मत्यादिप्रकाशमानवनस्पतियुक्तैररण्यैः प्रकाश-
मानेषु तेषु काञ्चनपार्श्वमृगशालिषु हिमवद्गिरिकाननेषु हिमवद्गिरेः हिमालयपर्वतस्य
काननेषु अरण्येषु वत्स्यामि निवासं करिष्यामि। मया पितृणामुत्तमतर्पणं कर्तव्यम्।
तच्च काञ्चनपार्श्वमृगैः भविष्यति। ते च हिमालयारण्येषु निवसन्ति। अतोऽहं तेषा-
मानयनाय हिमवन्तं गत्वा तत्र तपसा धनुषा वा तानानयिष्यामि। अतः तत्रैव मे
वासो रोचते ॥११॥
व्याकरण—पुत्र + कृत + कन् = पुत्रकृतक। √दय् + क्त (इडागम) + टाप् =
दयिता।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
१५६ ] प्रतिमानाटकम्
छन्दः—वसन्ततिलका ।
अलंकार—उदात्त और दीपक हिमालय को उदात्त शोभा का वर्णन करने से
उदात्त अलंकार है । हरिणान्, द्रुमान्, वनं, लताः इन सब कर्म कारकों का एक क्रिया
आपृच्छ से सम्बन्ध होने के कारण दीपकं अलङ्कार है ।
—o-o-o—
सीता--जं अज्जउत्तो आणवेदि । [यदार्यपुत्र आज्ञापयति ।]
रावणः—कौसल्यामातः ! अलमतिमनोरथेन, न ते मानुषैर्दृश्यन्ते ।
रामः—भगवन् ! किं हिमवति प्रतिवसन्ति ?
रावणः—अथ किम् ?
रामः—तेन हि पश्यतु भवान्—
सौवर्णान् वा मृगांस्तान् मे हिमवान् दर्शयिष्यति ।
भिन्नो मद्बाणवेगेन क्रौञ्चत्वं वा गमिष्यति ॥१२॥
[अन्वयः—सौवर्णान् तान् मृगान् मे हिमवान् वा दर्शयिष्यति । वा मद्बाण-
वेगेन भिन्नः क्रौञ्चत्वं गमिष्यति ।।१२।।
हिन्दी रूपान्तर—
सीता—आर्यपुत्र जो आदेश देते हैं ।
रावण—हे कौसल्यापुत्र ! बहुत अधिक मन की अभिलाषा मत करो ।
मनुष्यों को वे हरिण दिखाई नहीं देते ।
राम—भगवन् ! क्या वे हिमालय पर रहते हैं ?
रावण—और क्या ?
राम—तो आप देखें—
अर्थ [श्लोक १२]—स्वर्ण के रंग के उन काञ्चनमृगों को मुझे हिमालय
दिखा देगा, अथवा मेरे बाणों के वेग से विदीर्ण होकर क्रौञ्च पर्वत की दशा को
प्राप्त होगा । यदि हिमालय मुझे उन स्वर्णमृगों को नहीं दिखायेगा, तो मैं उसको
बाणों के प्रहार से विदीर्ण कर दूंगा । उसकी वैसी ही अवस्था होगी, जैसे कि
परशुराम ने बाणों से बींध कर क्रौञ्च पर्वत की कर दी थी ।।१२।।
संस्कृत-व्याख्या—सौवर्णान् सुवर्णभान् तान् काञ्चनपाश्र्वाभिधेयान् मृगान्
हरिणान् मे मह्यं हिमवान् हिमालयपर्वतः वा दर्शयिष्यति प्रत्यक्षीकारयिष्यति, वा
अथवा मद्बाणवेगेन मम रामस्य बाणानां शराणां वेगेन रंहसा भिन्नः विदीर्णः सन्
क्रौञ्चत्वं क्रौञ्चपर्वतस्य दशां गमिष्यति प्राप्स्यति । यदि हिमालयपर्वतः हिमगिरि-
निवासिनः मुनिजनश्राद्धोपयुक्तान् काञ्चनपाश्र्वाभिधेयान् मृगान् मे न दर्शयिष्यति,
तस्यामवस्थायामहं तं पर्वत स्वबाणपातैः विदारयिष्यामि । तदा स क्रौञ्चपर्वतस्य
षष्ठ एवं सप्तमांक: रावण-वध, राम-प्रत्यागमन, भरतवाक्य व राज्याभिषेक
पञ्चमोऽङ्कः [ १५७
अवस्थां गमिष्यति । कदाचित् शिवशिष्ययोः परशुरामकार्तिकेययोः स्वविद्योत्कृष्टतां
परीक्षितुं स्पर्धा जाता । क्रौञ्चगिरिं य एव स्वबाणैः विदारयिष्यति, स एव विजेता
भविष्यतीति समयः समजति । तदा परशुरामस्य बाणैः विदीर्णः क्रौञ्चपर्वतः सछिद्रः
सञ्जातः । तदेव छिद्रं साहित्ये क्रौञ्चरन्ध्रमिति नाम्ना प्रसिद्धि गतम् । कालिदासेनापि
मेघदूते वर्णितम्-हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम्" । तदेव रन्ध्रं मानससरसो
यात्रां चिकीर्षतां हंसानां मार्गः ॥१२॥
व्याकरण—सुवर्णस्य इदम् = सुवर्ण + अण् = सौवर्ण । मम बाणानां वेगेन =
मद्वाणवेगेन । √भिद् + क्त = भिन्न । क्रोञ्चस्य भावः = क्रोञ्च + त्व =
क्रौञ्चत्व ।
छन्दः—अनुष्टुप् ।
अलंकार—पर्यायोक्त । प्रस्तुत शब्दों से व्यञ्जित होने वाली वस्तु को अन्य
प्रकार से कहना पर्यायोक्त अलङ्कार है । मेरे बाणों से बिंध कर उस हिमालय में
क्रौञ्च पर्वत के समान छिद्र हो जायगा, इस अर्थ के लिए कहा गया कि वह हिमालय
क्रौञ्चत्व को प्राप्त हो जायगा । अतः यहां अन्य प्रकार से कहने से पर्यायोक्त
अलङ्कार है ।
रावणः—(स्वगतम्) अहो, असह्यः खल्वस्यावलेपः । (प्रकाशम्) अये,
विद्युत्सम्पात इव दृश्यते । कौसल्यामातः ! इहस्थमेव भवन्तं पूजयति हिमवान् ।
एष काञ्चनपार्श्वः ।
रामः—भगवतो वृद्धिरेषा ।
सीता—दिट्ठिआ अय्यउत्तो वड्डइ । [दिष्ट्या आर्यपुत्रो वर्धते ।]
रामः—न न—
तातस्यैतानि भाग्यानि यदि स्वयमिहागतः ।
अर्हन्त्येष हि पूजायां लक्ष्मणं ब्रूहि मैथिलि ॥१३॥
। अन्वयः—यदि स्वयम् इह आगतः, तातस्य एतानि भाग्यानि । मैथिली लक्ष्मणं !
ब्रूहि, एष हि पूजायाम् अर्हन्ति ॥१३॥
हिन्दी रूपान्तर—
रावण—(मन में) अहो, इसका घमण्ड तो निश्चय से सहा नहीं जा रहा ।
(प्रकट रूप में) अये, बिजली गिर रही सी प्रतीत होती है । हे कौसल्या के पुत्र !
यहाँ स्थित होते हुये आपका हिमालय पूजन कर रहा है । यह काञ्चनपार्श्व मृग
है ।
राम—यह तो आप भगवान् की महिमा है ।
सीता—भाग्य से आर्यपुत्र की महिमा बढ़ रही हैं ।