प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 213, कुल 296 में से
संदर्भ में पढ़ेंपञ्चमोऽङ्कः [ १४६
संस्कृत-व्याख्या—अनियततात्मा अनियतः अविजितः आत्मा इन्द्रियाणि येन स,
आत्मेति पदस्य इन्द्रियार्थे प्रयोगः । इन्द्रियाधीनोऽहं रावणः एतद् इदं रूपं परिव्राजक-
रूपं गृहीत्वा सन्धार्य, नियतं नित्यनियमपालकं जितेन्द्रियमिति भावः, खरवधकृतवैरं
खरस्य एतन्नामकस्य रावणभ्रातुः राक्षसस्य वधेन मारणेन कृतं विहितं वैरं शत्रुता येन
तादृशं, रामेण खरराक्षसस्य वधं कृत्वा मया सह वैरभावः कृतः, अतः तस्याः पत्न्या
अपहरणं समुचितमेव, राघवं रघुवंशीयं रामं वञ्चयित्वा प्रतार्य, मायामृगरूपेण छलेन
आश्रमाद् अन्यत्र कृत्वा, स्वरपदपरिहीणां स्वरेभ्यः पदेभ्यश्च परिहीणां वर्जिताम्
अशुद्धप्रयोगविहीनां हव्यधारां हवनेषु हूयमानानाज्यधाराम् इव तां जनक-
नृपसुतां जनकराजपुत्रीं सीतां हर्तुकामः अपहरणाभिलाषी सन् प्रयामि गच्छामि । यथा
स्वरैः पदैश्च विहीनां हव्यधारां राक्षसा अपहरन्ति, तथैवाहं, तस्याः सीताया अपहरणं
करिष्यामि ॥७॥
व्याकरण—न नियतः = अनियतः । अनियतः आत्मा यस्य स = अनियततात्मा ।
नि + √ यम् + क्त = नियत । स्वरेभ्यः पदेभ्यश्च परिहीणाम् = स्वरपदपरिहीणाम्
√ हा + क्त = हीन । हव्यस्य धारा = हव्यधारा । √ हू + यत् = हव्य । √ धृ +
णिच् + अङ् + टाप् = धारा ।
छन्दः—मालिनी ।
अलङ्कार—उपमा । जनकनृपसुता उपमेय, हव्यधारा उपमान, इव उपमा-
वाचक, अपहरण करना सामान्य धर्म हैं । उपमा के चारों अङ्गों के होने से पूर्णो-
पमा है ।
❖❖❖❖
(परिक्रम्याधो विलोक्य) इदं रामस्याश्रमद्वारपदम् । यावदवतरामि ।
(अवतरति) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि । अहमतिथिः ।
कोऽत्र भोः ?
रामः—(श्रुत्वा) स्वागतमतिथये ।
रावणः—साधु विशेषितं खलु रूपं स्वरेण ।
रामः—(विलोक्य) अये, भगवान् ? भगवन् ! अभिवादये ।
रावणः—स्वस्ति ।
रामः—भगवन् ! एतदासनमास्यताम् ।
रावणः—(आत्मगतम्) कथमाज्ञप्त इवास्म्यनेन । (प्रकाशम्) वाढम् ।
(उपविशति)
रामः—मैथिलि ! पाद्यमानय भगवते ।
सीता—जं अय्यउत्तो आणवेदि । (निष्क्रम्य प्रविश्य) इमा आवो । [यदार्य-
पुत्र आज्ञापयति । इमा आपः ।]
रामः—शुश्रूषय भवन्तम् ।