प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 206, कुल 296 में से
संदर्भ में पढ़ें१४२ ] प्रतिमानाटकम्
हिन्दी रूपान्तर—
(विचार करके) यह राज्य-कार्य तो ऐसा ही होता रहता है। इसलिये अब
मैं इस प्रकार के शोक को दूर करने के लिये प्रत्येक अवस्था में साथ देने वाली
सीता को देखता हूँ। तो सीता कहाँ गई होगी ? (घूम कर और देख कर) अये,
ये ताजे तत्काल ही सींची गई वृक्षों की जड़ें निश्चय से सूचित कर रही हैं कि सीता
दूर नहीं गई हैं। क्योंकि—
अर्थ [श्लोक २]—जल से तत्काल ही सिंचाई करने के कारण झाग से युक्त
होता हुआ जल वृक्षों के आलवाल में प्रवेश कर रहा है। प्यासे तथा जल के समीप
उतरते हुये ये पक्षी जल को व्याकुल होकर नहीं पी रहे हैं। बिल के जल से भर
जाने पर भीगे हुये कीड़े स्थल पर बाहर आ रहे हैं। भूमि में जज्ब होने के कारण
जल के कम हो जाने से बनी रेखा से वृक्षों के मूल में नये घेरे (वलय) बन
गये हैं ॥२॥
संस्कृत-व्याख्या—प्रत्यग्राभिषिक्तत्वाद् वृक्षाणामेषावस्था विद्यते—सफेनं फेनेन
डिण्डीरेण सहितं फेनिलमित्यर्थः अवस्थितं तदवस्थया विशिष्टं सलिलं जलं वृक्षावर्ते
वृक्षाणां पादपानाम् आवर्ते आलवाले भ्रमति भूम्यन्तरं प्रविशति । वृक्षाणामालवालेषु
दीयमानं जलं पूर्वं तावत् फेनिलं जायते, तदनन्तरं च धरया शोष्यते । जलस्य फेनिल-
भावेन धरया च तस्य शोष्यमाणत्वेन प्रत्यग्राभिषक्तभावः सूच्यते । तृषितपतिताः
तृषिताः पिपासाकुलाः अत एव पतिताः जलपानाय भूमौ अवतीर्णा एते इमे खगाः
पक्षिणः जलं सलिलं क्लिष्टं कष्टभावेन न एव पिबन्ति पानं कुर्वन्ति । आलवालेषु
निर्मलं प्रचुरं च सलिलं वर्तते । अतः जलपाने पक्षिणः न कमपि कष्टम् अनुभवन्ति ।
बिले कीटनिवासभूते गर्ते जलपूरिते जलेन नीरेण पूरिते संपूर्गे सति आर्दाः जल-
क्लिन्नाः कीटाः स्थलं धराया उपरिभागम् अभिपतन्ति आगच्छन्ति । आलवालेषु
प्रत्यग्रमेव जलप्रक्षेपणात्तत्र गर्ताः जलेन पूरिताः कीटाश्च आर्द्राः सञ्जाताः । जलप्ला-
वनमसहमानास्ते कीटाः बिलगर्भभागान् परित्यज्य बहिः स्थलमागच्छन्ति । जलक्षय-
रेखया जलस्य सलिलस्य क्षयस्य ह्रासस्य या रेखा पंक्तिः तया वृक्षाः पादपाः मूले
नववलयिनः नवमण्डलाकाररेखाचिह्निताः दृश्यन्ते । मूलभागे वृक्षाः पङ्कमिश्रितजलेन
पूर्णाः । किञ्चित्क्षणानन्तरं जलांशस्य भूमौ शोष्यमाणत्वात् तत्र मूले जलमिश्रित-
पङ्कस्य नववलयानि चिह्नितानि । एतैः चतुर्भिर्लक्षणैरनुमीयते, प्रत्यग्रमेव सीतया
एते सिञ्चिताः । अतः सा अदूरवर्तिनी एव वर्तते ॥२॥
व्याकरण—वृक्षाणाम् आवर्ते = वृक्षावर्ते । आ + वृत् + अच् = आवर्तं ।
फेनेन सहितम् = सफेनम् । पूर्वं तृषिताः पश्चात् पतिताः = तृषितपतिताः । खे गच्छन्ति
इति खगाः । नवानि वलयानि येषां ते = नव + वलय + इनि = नववलयिन् ।
छन्द—हरिणी।