सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 205, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 205

पञ्चमोऽङ्कः । १४१
है । हे लोगो ! यह कष्ट का विषय है कि महाराज के उस अत्यधिक महान् राजकीय
भार को वह अकेला ही वहन कर रहा है ॥१॥
संस्कृत-व्याख्या—गुरुणा जनकेन मया रामेण च रहितां शून्यीकृतां तां रम्यां
रमणीयां मनोहारिणीं अयोध्यां पुरीम् अयोध्यानगरों त्यक्त्वा विसृज्य, मम वनवासिनो
रामस्य अखिलं सम्पूर्णम् अभिषेकं राज्याभिषेकसामग्रीम् उद्यम्य गृहीत्वा, अत्र वने स
मम राज्याभिषेकं सम्पादयिष्यतीति सकलामेव राज्याभिषेकसामग्रीमत्रानीय, मत्स-
न्निधौ मम समीपम् आगतः आयातः । स गुणनिधिः गुणानां निधिः निधानं भरतः
पुनः अङ्ग रक्षार्थं राज्यस्य परिपालनाय तत्र अयोध्यायामेव प्रेषितः प्रहितः । त्वं
राज्यपालनकर्तव्यं सुचारुरूपेण निर्वह, इति आदिश्य पुनरयोध्यायां प्रेषितः । भोः
जनाः ! कष्टं सुकष्टकरमिदं यत्, नृपतेः राज्ञः दशरथस्य सुमहतीं नानाविधमहत्कार्य-
वशीभूतत्वादतिगुर्वी धुरं राज्यशासनभारं स भरतः एकः एकाकी सहायान्तररहितः
समुत्कर्षति समुद्वहति । इति वार्ता मामात्यन्तं खेदयति ॥१॥
व्याकरण—√रम् + यत् + टाप् = रम्या । उत् + √यम् + क्त्वा (ल्यप्)
= उद्यम्य । अस्मत् + सम् + नि + √धा + कि = मत्सन्निधि । गुणानां निधिः =
गुणनिधिः । तत् + त्रल् = तत्र ।
छन्दः—शार्दूलविक्रीडित ।
सम्मार्जित......—सम् + √मृज् + णिच् + क्त = सम्मार्जित । इस वर्णन
से विदित होता है कि आश्रम में पुष्प आदि से समृद्ध वृक्षों की बहुतायत थी और
ये पुष्प आश्रम में बिखरते रहते थे । सीता इनको प्रतिदिन झाड़-बुहार कर आश्रम
की सफाई करती थी । वह वहाँ प्रतिदिन पुष्प आदि से देवताओं का पूजन करती
थी और आश्रम के छोटे पौधों को सींचती थी ।
(विमृश्य) ईदृशमेवैतत् । यावदिदानीमीदृशशोकविनोदनार्थमवस्थाकुटु-
म्बिनीं मैथिलीं पश्यामि । तत् क्व नु खलु गता वैदेही ? (परिक्रम्यावलोक्य)
अये, इमानि प्रत्यग्राभिषिक्तानि वृक्षमूलानि अदूरगतां मैथिलीं सूचयन्ति ।
तथाहि—
भ्रमति सलिलं वृक्षावर्ते सफेनमवस्थितं
तृषितपतिता नैते क्लिष्टं पिबन्ति जलं खगाः ।
स्थलमभिपतन्त्यार्द्राः कीटा बिले जलपूरिते
नववलयिनो वृक्षा मूले जलक्षयरेखया ॥२॥
[अन्वयः—सफेनम् अवस्थितं सलिलं वृक्षावर्ते भ्रमति । तृषितपतिताः
एते खगाः जलं क्लिष्टं न पुनः पिबन्ति । बिले जलपूरिते आर्द्राः कीटाः स्थलम्
अभिपतन्ति । जलक्षयरेखया वृक्षाः मूले नववलयिनः ॥२॥