सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

१५८ ] प्रतिमानाटकम्
राम—नहीं, नहीं—
अर्थ [श्लोक १३]—यदि यह स्वयं ही यहां आगया है, तो ये पिता जी के अच्छे
भाग्य हैं। हे सीते ! लक्ष्मण से कहो कि यह मृग निश्चय से पूजा के योग्य
है ॥१३॥
संस्कृत-व्याख्या—यदि अयं काञ्चनमृगः स्वयम् आत्मनैव इह अस्मिन् स्थाने
विन्ध्यवने मत्सन्निधौ आगतः विनेव मे प्रयासेन समायातः, एतानि इमानि तु तातस्य
जनकस्यैव भाग्यानि भागधेयानि । पितुः भाग्यैरेवायं काञ्चनमृगस्तस्याभ्युदयायात्र
समायातः । हे मैथिलि सीते ! लक्ष्मणं सौमित्रिं ब्रूहि कथय, एष मृगः हि निश्चयेन
पूजायां वार्षिकश्राद्धविधौ अर्हति उपयुक्तो विद्यते । एनमानीय अनेनैव शीघ्रं श्राद्धकर्म
समापनीयम् ॥१३॥
व्याकरण—भज् + ण्यत् = भाग्य । अस्मिन् अर्थ में = इदम् + ह (इदम् को
इ आदेश) = इह ।
छन्दः—अनुष्टुप् ।
─── ••• ───
सीता—अय्यउत्त ! णं तित्थअत्तादो उवावत्तमाणं कुलवदिं पच्चुग्गच्छेहि
त्ति सन्दिट्ठो सोमित्ती । [आर्यपुत्र ! ननु तीर्थयात्रात उपावर्तमानं कुलपतिं प्रत्यु-
द्गच्छेति सन्दिष्टः सौमित्रिः ।]
रामः--तेन हि अहमेव यास्यामि ।
सीता—अय्यउत्त अहं किं करिस्सं ? [आर्यपुत्र ! अहं किं करिष्यामि ?]
रामः--शुश्रूषयस्व भगवन्तम् ।
सीता—जं अज्जउत्तो आणवेदि । [यदार्यपुत्र आज्ञापयति ।]
(निष्क्रान्तो रामः)
रावणः—अये, अयमर्घ्यमादायोपसर्पति राघवः । एष इदानीं पूजामन-
वेक्ष्य धावन्तं मृगं दृष्ट्वा धनुरारोपयति राघवः—
अहो बलमहो वीर्यमहो सत्त्वमहो जवः ।
राम इत्यक्षरैरल्पैः स्थाने व्याप्तमिदं जगत् ॥१४॥
अन्वय—अहो बलम्, अहो वीर्यम्, अहो सत्त्वम्, अहो जवः । स्थाने, राम
इति अल्पैः अक्षरैः इदं जगद् व्याप्तम् ॥१४॥
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! निश्चय से आपने ही, तीर्थयात्रा से वापिस लौटे हुये
कुलपति की अगवानी करने के लिये लक्ष्मण को आदेश दिया है।
राम—इसलिये मैं ही जाऊँगा।

पञ्चमोऽङ्कः । १५६
सीता—आर्यपुत्र ! मैं क्या करूंगी ?
राम—भगवान् की सेवा करो।
सीता—आर्यपुत्र जो आदेश देते हैं।
(राम निकल जाते हैं)
रावण—अरे, ये राम तो मेरे सत्कार की पूजन सामग्री की लेकर आ रहे
थे। अब पूजा-सामग्री की उपेक्षा करके, मृग को दौड़ते हुये देखकर ये राम धनुष पर
बाण चढ़ा रहे हैं।
अर्थ [श्लोक १४]—राम का बल आश्चर्यजनक है, राम का पराक्रम
आश्चर्यजनक है, राम का पौरुष आश्चर्यजनक है और राम का वेग आश्चर्यजनक है।
यह बात ठीक है कि राम इन थोड़े से अक्षरों से यह संसार व्याप्त हो गया है।
राम का यश सारे संसार में व्याप्त हो गया है ॥१४॥
संस्कृत-व्याख्या—अहो बलं रामस्य शारीरिकी शक्तिः आश्चर्यभूता वर्तते,
अहो वीर्यं रामस्य आन्तरिकपराक्रमः विस्मयास्पदः वर्तते, अहो सत्त्वं रामस्य धैर्यमा-
श्चर्यजनकं वर्तते, अहो जवः रामस्य वेगः शीघ्रगमनं धनुषि च वेगेन बाणसंयोजनं
विस्मयास्पदतां गतः । अतः स्थाने, उचितमेवेदं यत् राम इति अल्पैः त्रित्त्वमपि भजद्भिः
अक्षरैः इदमेतत् जगत् विश्वं व्याप्तम् । अस्य रामस्य कीर्तिः सर्वस्मिन्नेव जगति
प्रथिता इति भावः ॥१४॥
व्याकरण—वीरे साधु अथवा वीर्यते अनेन = वीर + यत् = वीर्यं । सतोभावः =
सत् + त्व = सत्त्व । √ गम् + क्विप् = जगत् । वि + √ आप् + क्त = व्याप्त ।
छन्दः—अनुष्टुप् ।
अलङ्कार—उदात्त । राम के अतिशय गुणों का कथन करने से उदात्त
अलङ्कार है।
कुलपतिम्—शिक्षा का प्रधान अधिकारी कुलपति होता था । वह दस हजार
छात्रों का भरण-पोषण करने तथा शिक्षा का प्रबन्ध करने में समर्थ होता था—
मुनीनां दश साहस्त्रं योऽन्नदानादिपोषणात् ।
अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥
एष मृग एकप्लुतातिक्रान्तशरविषयो वनगहनं प्रविष्टः ।
सीता—(आत्मगतम्) अय्यउत्तविरहिदाए भअं मे एत्थ उप्पज्जइ । [आर्य-
पुत्रविरहिताया भयं मेऽत्रोत्पद्यते ।
रावणः—(आत्मगतम्)
माययापहृते रामे सीतामेकां तपोवनात् ।
हरामि रुदतीं बालाम्मन्त्रोक्तामिव आहुतिम् ॥१५॥

१६० ] प्रतिमानाटकम्
अन्वयः—मायया रामे अपहृते एकां रुदतीं बालां सीतां तपोवनात् अमन्त्रो-
क्ताम् आहुतिम् इव हरामि ॥१५॥
हिन्दी रूपान्तर—
एक ही कूद में बाण के लक्ष्य को लांघ कर यह मृग घने वनों में घुस गया है।
सीता—(अपने मन में) आर्यपुत्र से वियुक्त होकर मुझ में यह भय उत्पन्न
हो रहा है ।
रावण—(अपने मन में)
अर्थ [श्लोक १५]—काञ्चनमृग की माया के द्वारा राम को दूर कर देने
पर, मैं, अकेली, रोती हुई और स्वल्पायु सीता को तपोवन से, मन्त्रोच्चारण से रहित
आहुति के समान हर लेता हूँ ॥१५॥
संस्कृत व्याख्या—मायया काञ्चनपार्श्वमृगोपस्थानरूपेण छलेन रामे दाशरथो
अपहृते दूरदेशं प्रापिते सति, एकाम् असहायां रुदतीं क्रन्दन्तीं बालां स्वल्पवयस्कां
सीतां जानकीं तपोवनात् मुन्याश्रमस्थानात्, अमन्त्रोक्तां मन्त्रोच्चारणविरहितां स्वा-
हेतिवचनशून्याम् आहुतिं हव्यम् इव हरामि अपनयामि । यथा मन्त्रोच्चारणरहिता
यज्ञाहुतिः राक्षसैैरपह्रियते, तथैव रामरहितामेकाकिनीं सीतामहं हरामि ॥१५॥
व्याकरण—अप + हृ + क्त = अपहृत । मीयते अनया = √ मा + य + टाप् =
माया ।
छन्द—अनुष्टुप् ।
अलङ्कार—उपमा । यहाँ सीता उपमेय, आहुति उपमान, इव उपमा-
वाचक शब्द और हरण करना साधारण धर्म हैं । उपमा के चारों अंग होने से
पूर्णोपमा है ।
एकप्लुतातिक्रान्तशरविषयः—एकेन प्लुतेन अतिक्रान्तः शराणां विषयः
येन स ।
सीता—जाव उडजं पविसाभि । [यावदुटजं प्रविशामि।] । (गन्तुमीहते) ।
रावणः—(स्वरूपं गृहीत्वा) सीते ! तिष्ठ तिष्ठ ।
सीता—(सभयम्) हं को दाणि अअं ? [हं क इदानीमयम् ? ]
रावणः—किं न जानीषे ?
युद्धे येन सुराः सदानवगणाः शक्रादयो निर्जिताः
दृष्ट्वा शूर्पणखाविरूपकरणं श्रुत्वा हतौ भ्रातरौ ।
दर्पाद दुर्मतिमप्रमेयबलिनं रामं विलोभ्यच्छलैः
स त्वां हर्तु मना विशालनयने प्राप्तोऽस्म्यहं रावणः ॥१६॥

पञ्चमोऽङ्कः । १६१
[अन्वयः—येन युद्धे सदानवगणाः शक्रादयः सुराः निर्जिताः, शूर्पणखाविरूप-
करणं दृष्ट्वा, भ्रातरौ हतौ श्रुत्वा, विशालनयने ! स अहं रावणः अप्रमेयबलिनं दुर्मतिं
रामं छलैः विलोभ्य दर्पात् त्वां हर्तुमनाः प्राप्तः अस्मि ॥१६॥]
हिन्दी रूपान्तर—
सीता—तो मैं कुटी में प्रविष्ट होती हूँ। (जाने की चेष्टा करती है) ।
रावण—(अपने वास्तविक स्वरूप को धारण करके) सीते ! ठहरो,
ठहरो।
सीता—(भयभीत होकर) हं, अब यह कौन है ?
रावण—क्या तुम नहीं जानती—
अर्थ [श्लोक १६]—जिसने युद्ध में दानवों सहित इन्द्र आदि देवताओं को
जीत लिया था, शूर्पणखा को नाक-कान कर विरूप किया गया देखकर तथा खर-
दूषण दोनों भाइयों को मारा गया सुनकर, हे विशाल नेत्रों वाली सीते ! वह
मैं रावण, असीम बलशाली तथा दुष्ट बुद्धि वाले राम को कपट द्वारा विलोभित
करके, घमण्ड में भरकर तुम्हारा अपहरण करने के लिये आ पहुँचा हूँ ॥१६॥
संस्कृत-व्याख्या—येन रावणेन युद्धे समरे सदानवगणाः दैत्यानां संघैः सहिताः
शक्रादयः इन्द्रादयः सुराः देवताः निर्जिताः निरवशेषं परास्ताः, शूर्पणखाविरूपकरणं
शूर्पणखायाः एतदभिधेयायाः स्वभगिन्याः विरूपकरणं रामलक्ष्मणाभ्यां नासाकर्णच्छेदनेन
विरूपतासम्पादनं दृष्ट्वा अवलोक्य, मे भ्रातरौ खरदूषणौ हतौ रामेण । व्यापादितौ
इति श्रुत्वा आकर्ण्य, विशालनयने विशाले आयते नयने नेत्रे यस्याः तादृशी हे सीते !
स अहं एतद्गुणविशिष्टः अहं रावणः दशाननः, अप्रमेयबलिनम् अप्रमेयं न मातुं
शक्यम् अप्रतिमं बलं शारीरिकसामर्थ्यं यस्य तादृशं दुर्मतिं दुष्टा भ्रष्टा मतिः बुद्धिः
यस्य तं रामं दाशरथि छलैः कपटैः मायामृगरूपैः विलोभ्य लोभयित्वा प्रतार्य इत्यर्थः,
दर्पात् स्वभुजवीर्याभिमानात् त्वां जानकीं हर्तुमनाः अपहर्तुमिच्छुः सन् प्राप्तः अस्मि
अत्र दण्डकारण्य समागतोऽस्मि ॥१६॥
व्याकरण—दानवानां गणाः दानवगणाः तैः सा...
पत्यम् = दनु + अण् = दानव । शूर्पणखायाः विरूपस्य वा, लक्ष्मणं वा स्वदेवरं
करणम् । शूर्पा इव नखाः यस्या सा शूर्पणखा । √कृ + ल्युट्न्तानामानं स्वश्वशुरं वा,
मतिः यस्य स = दुर्मतिः । मन् + क्तिन् = मति । हर्तुं मनः मति । कुपुरुषसंश्रितैः
√हृ + तुमुन् = हर्तुम् । तान् प्रति प्रयुक्तैः
छन्दः—शार्दूलविक्रीडित । ऽपि प्रयोजनसिद्धिः
हरिणानां शिशवः
सीता—हं लावणो णाम ? [हुं रावणो नाम ?] (प्रतिष्ठते) रामलक्ष्मण-
रावणः—आः, रावणस्य चक्षुर्विषयमागता क्व यास्यसि ? शक्यन्ति ।

१६२ ] प्रतिमानाटकम्
सीता—अय्यउत्त ! परित्ताआहि परित्ताआहि । सोमित्ती ! परित्ताआहि,
परित्ताआहि मं । [आर्यपुत्र ! परित्रायस्व, परित्रायस्व । सौमित्रे ! परित्रायस्व
परित्रायस्व माम् ।]
रावणः—सीते ! श्रूयतां मत्पराक्रमः—
भग्नः शक्रः कम्पितो वित्तनाथः
कृष्टः सोमो मर्दितः सूर्यपुत्रः ।
धिग् भा स्वर्गं भीतदेवैर्निविष्टं
धन्याभूमिर्वर्तते यत्र सीता ॥१७॥
[अन्वयः—शक्रः भग्नः, वित्तनाथः कम्पितः, सोमः कृष्टः, सूर्यपुत्रः मर्दितः
भो ! भीतदेवैः निविष्टं स्वर्गं धिक्, भूमिः धन्या, यत्र सीता वर्तते ॥१७॥]
हिन्दी रूपान्तर—
सीता—हुँ, तो यह रावण है ? (चलने लगती है) ।
रावण—आः, रावण की दृष्टि में आकर कहाँ जायगी ?
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो । हे लक्ष्मण ! मेरी रक्षा करो;
रक्षा करो ।
रावण—सीते ! मेरे पराक्रम के विषय में सुनो—
अर्थ [श्लोक १७]—युद्ध में मैंने इन्द्र को पराजित कर दिया, धन के देवता
कुबेर को कँपा दिया, चन्द्रमा को खींच लिया और सूर्य के पुत्र यम को मसल डाला ।
हे सीते ! डरे हुये देवता जिसमें प्रविष्ट होकर छिप गये उस स्वर्ग को धिक्कार है ।
वह भूमि धन्य है, जहाँ सीता विद्यमान है ॥१७॥
संस्कृत-व्याख्या—शक्रः इन्द्रः भग्नः मया युद्धे पराजितः, वित्तनाथः वित्तानां :
धनानां नाथः स्वा... ...वणः कम्पितः भयेन चालितः, सोमः चन्द्रः कृष्टः
स्वदेशात्... ...हर्म्यशिखरे निहितः, सूर्यपुत्रः सूर्यस्य पुत्रः यमः
म... ...तः । एतादृशो मे रावणस्य पराक्रमः । भीतदेवैः भीतैः
सीता—जाव ...विष्टं निलिय स्थितं यत्र तथाभूतं स्वर्गं नाकं धिक् । अतीव-
रावणः—( ...तरजननिवासयोग्यम् । भूमि सा धरित्री एव धन्या प्रशंसनीया
सीता— ...स्थाने सीता त्वादृशी रमणीयसौन्दर्यादिगुणशालिनी स्त्री वर्तते
रावणः
य—√भञ्ज् + क्त = भग्न । √विद् + क्त = वित्त । सु + मन् =
र
—शालिनी ।
ङ्कार—उदात्त । रावण द्वारा अपने पराक्रमरूप उदार सम्पत्ति का वर्णन
...दात्त अलङ्कार है ।

पञ्चमोऽङ्कः । १६३
चक्षुर्विषयम्—चक्षुषोः विषयम् । रावण की दृष्टि में जो पड़ गया, वह बच
नहीं सकता ।
सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि । सोमित्ती परित्ताआहि,
परित्ताआहि मं । [आर्यपुत्र ! परित्रायस्व, परित्रायस्व । सौमित्रे ! परित्रायस्व,
परित्रायस्व माम् ।]
रावणः—
रामं वा शरणमुपेहि लक्ष्मणं वा
स्वर्गस्थं दशरथमेव वा नरेन्द्रम् ।
किं वा स्यात् कुपुरुषसंश्रितैर्वचोभि-
र्न व्याघ्रं मृगशिशवः प्रधर्षयन्ति ॥१८॥
[अन्वयः—रामं वा, लक्ष्मणं वा, स्वर्गस्थं नरेन्द्रं दशरथम् एव वा शरणम्
उपेहि, कुपुरुषसंश्रितैः वचोभिः किं वा स्यात् ? मृगशिशवः व्याघ्रं न प्रधर्ष-
यन्ति ॥१८॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो । हे लक्ष्मण ! मेरी रक्षा करो,
रक्षा करो ।
रावण—
अर्थ [श्लोक १८]—चाहे तुम राम की, अथवा लक्ष्मण की अथवा स्वर्ग में
स्थित राजा दशरथ की ही शरण में जाओ, कायर पुरुषों का आश्रय लेकर
कहे गये इन वचनों से क्या लाभ है ? मृगों के बच्चे बाघ को घर्षित नहीं कर
सकते । तुम किसी की शरण को क्यों न पुकारो, मुझसे तुमको कोई बचा नहीं
सकता ॥१८॥
संस्कृत-व्याख्या—रामं वा स्वभर्त्तारं दाशरथिं वा, लक्ष्मणं वा स्वदेवरं
सौमित्रिं वा, स्वर्गस्थं स्वर्गे वर्तमानं नरेन्द्रं राजानं दशरथं तन्नामानं स्वश्वसुरं वा,
शरणं त्रातारम् उपेहि आश्रयस्व, अनेन तव किमपि न सिध्यति । कुपुरुषसंश्रितैः
कुत्सिताः दुर्बलत्वेन कुत्साविषयाः पुरुषाः रामलक्ष्मणदशरथाः तान् प्रति प्रयुक्तैः
वचोभिः परित्रायस्वेति कथनैः किं वा स्यात् को लाभः ? न कोऽपि प्रयोजनसिद्धिः
भविष्यति । न कोऽपि तव रक्षां विधातुं समर्थः । मृगशिशवः मृगाणां हरिणानां शिशवः
बालकाः व्याघ्रं द्वीपिनं न प्रधर्षयन्ति पराजेतुं समर्थाः भवन्ति । एते सर्वे रामलक्ष्मण-
दशरथाः पराक्रमे मृगशिशुसदृशाः अहं च व्याघ्रतुल्यः । न ते मां पराजेतुं शक्ष्यन्ति ।
अतः व्यर्थमेव ते समुद्दिश्य विलापः ॥१८॥

१६४ ] प्रतिमानाटकम्
व्याकरण—शृणाति दुःखम् अनेन = √शृ + ल्युट् (अन) = शरण। कुत्सितः
पुरुषः = कुपुरुषः ।
छन्दः—प्रहर्षिणी ।
अलङ्कार—दृष्टान्त । उपमान में उपमेय के सामान्य धर्म का प्रतिबिम्बित
होना दृष्टान्त अलङ्कार है । राम आदि मुझको पराजित नहीं कर सकते इस उपमेय
के सामान्य धर्म का, मृगशिशु व्याघ्र को पराजित नहीं कर सकते, इस उपमान में
प्रतिबिम्बन होने से दृष्टान्त अलङ्कार है ।
सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि । सोमित्ती ! परित्ताआहि,
परित्ताआहि मं । [आर्यपुत्र ! परित्रायस्व, परित्रायस्व । सौमित्रे ! परित्रायस्व,
परित्रायस्व माम् ।]
रावणः—
विलपसि किमिदं विशालनेत्रे
विगणय मां च यथा तवार्यपुत्रम् ।
विपुलबलयुतो ममैवयोद्धुं
ससुरगणोऽप्यसमर्थ एव रामः ॥१६॥
[अन्वयः—विशालनेत्रे ! इदं किं विलपसि ? यथा तव आर्यपुत्रं मां
च विगणय । विपुलबलयुतः ससुरगणः अपि रामः मम एव योद्धुम् असमर्थ
एव ।।१६।।]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो । हे लक्ष्मण ! मेरी रक्षा करो,
रक्षा करो ।
रावण—
अर्थ [श्लोक १६]—विशाल नेत्रों वाली हे सीते ! यह तुम क्या विलाप
कर रही हो ? जैसे तुम्हारे आर्यपुत्र हैं, मुझको तुम वैसा ही समझ लो । बहुत अधिक
बल से युक्त होते हुये और समस्त देवताओं को साथ लेकर भी राम मेरे साथ युद्ध
करने में असमर्थ ही हैं ।।१६।।
संस्कृत-व्याख्या—विशालनेत्रे विशाले आयते नेत्रे यस्याः तथाभूते हे सीते !
इदं किं विलपसि कस्माद्धेतोस्त्वमेवं विलापं कुरुषे ? व्यर्थमेव तव इदं विलपनम्, न
कोऽपि ते साहाय्यं करिष्यति । यथा येन प्रकारेण तव ते आर्यपुत्रं भर्तारं रामं तमिव
मां रावणमपि विगणय सम्भावय । अहं रामादपि बलशाली वर्ते, अतः मामेव त्वं
भर्तृरूपेण जानीहि । विपुलबलयुतः विपुलेन महता बलेन शारीरिकसामर्थ्येन सैन्येन
वा युतः सहितः, ससुरगणः सुराणां देवानां गणेन संघेन सहितः देवानां साहाय्यं प्राप्य

अपि रामः ते भर्ता मम एव रावणस्य युद्धे समरे अवस्थातुम् असमर्थः अशक्तः।
विपुलसैन्यसहितः देवगणसहितश्चापि स न मां युद्धे पराजेतुं समर्थः। अतस्त्वं मामेव
पतिरूपेण सम्भावय ॥१६॥
व्याकरण—विशाले नेत्रे यस्याः सा = विशालनेत्रा। नीयते अनेन = √नी +
ष्ट्रन् = नेत्र। √ऋ + ण्यत् = आर्य। विपुलेन बलेन युतः = विपुलबलयुतः। √यु +
क्त = युत।
छन्दः—पुष्पिताग्रा।
अलङ्कार—हेतु। तुम मुझको पति समझो, इस कथन का हेतु कहा गया
है कि राम मुझको युद्ध में हरा नहीं सकता। हेतु और हेतुमान् का कथन करने से
हेतु अलङ्कार है।
सीता—(सरोषम्) सत्तो सि। [शप्तोऽसि।]
रावणः—अहह अहो पतिव्रतायास्तेजः—
योऽहमुत्पतितो वेगान्न दग्धः सूर्यरश्मिभिः।
अस्याः परिमितैर्दग्धः शप्तोऽसीत्येभिरक्षरैः ॥२०॥
[अन्वयः—वेगाद् उत्पतितः यः अहं सूर्यरश्मिभिः न दग्धाः, अस्याः परिमितैः,
शप्तः असि, इति एभिः अक्षरैः दग्धः ॥२०॥]
हिन्दी रूपान्तर—
सीता—मैं तुझको शाप देती हूँ।
रावण—हाय, हाय। पतिव्रता का तेज आश्चर्यजनक है—
अर्थ [श्लोक २०]—वेग से ऊपर आकाश में उड़ता हुआ भी जो मैं सूर्य की
किरणों से जलाया नहीं जा सका, इस सीता के थोड़े से ही, "मैंने तुझको शाप दिया
है", इस प्रकार के इन अक्षरों से झुलस गया हूँ ॥२०॥
संस्कृत-व्याख्या—वेगात् अतिशीघ्रगत्यो उत्पतितः व्योम्नि उड्डीयमानः यः अहं
रावणः सूर्यरश्मिभि भास्करप्रखरकिरणैरपि न दग्धः परितापितः, सोऽहम् अस्याः
सीतायाः परिमितैः अतिस्वल्पैः "शप्तः असि", इति एभिः अक्षरैः वर्णैः दग्धः
परितापितोऽस्मि सूर्यस्य तेजसोऽपि अभिभवने समर्थोऽहं सीतायाः शापेन व्याकुली-
भूतः ॥२०॥
व्याकरण—सूर्यस्य रश्मिभिः = सूर्यरश्मिभिः। √सृ + क्यप् (निपातनात्) =
सूर्य। √अश् + मि (धातु को रशादेश) = रश्मि। दह् + क्त = दग्ध। शप् + क्त =
शप्त।
छन्दः—अनुष्टुप्।

१६६ [ ] प्रतिमानाटकम्
अलङ्कार—व्यतिरेक । उपमा सूर्य की अपेक्षा उपमेय सीता में तेज के
आधिक्य का वर्णन करने से व्यतिरेक अलङ्कार है ।

सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि । [आर्यपुत्र ! परित्रायस्व;
परित्रायस्व ।]
रावणः—(सीतां गृहीत्वा) भो भोः ! जनस्थाननिवासिनस्तपस्विनः !
शृण्वन्तु भवन्तः—
बलादेव दशग्रीवः सीतामादाय गच्छति ।
क्षात्रधर्मे यदि स्निग्धः कुर्याद् रामः पराक्रमम् ॥२१॥
[अन्वयः—दशग्रीवः बलाद् एव सीताम् आदाय गच्छति । यदि रामः क्षात्र-
धर्मे स्निग्धः, पराक्रमं कुर्यात् ॥२१॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो ।
रावण—(सीता को पकड़कर) हे हे ! जनस्थान में रहने वाले तपस्वियों !
आप सुनें—
अर्थ [श्लोक २१]—यह रावण जबरदस्ती सीता को लेकर जा रहा है ।
यदि राम को क्षात्रधर्म के प्रति आस्था है, तो पराक्रम प्रकट करे ॥२१॥
संस्कृत-व्याख्या—दशग्रीवः दश ग्रीवाः कण्ठाः यस्य स दशग्रीवः दशमनुष्य-
तुल्यपराक्रमशाली अयं रावणः बलात् स्वभुजसामर्थ्यादेव सीतां जानकीम् आदाय
अपहृत्य गच्छति स्वपुरीं याति । यदि रामः क्षात्रधर्मे स्वक्षत्रियाणां कर्तव्ये स्निग्धः
अनुरागवान्, पराक्रमं कुर्यात् प्रकटयेत् । रावणेन मयेयं सीता बलादपह्रियते । यदि
रामः सत्यमेव क्षत्रियोऽस्ति, युद्धे मां विजित्य स्वभार्यायाः सीतायाः मोक्षणं
कुर्यात् ॥२१॥
व्याकरण—दश ग्रीवाः यस्य स = दशग्रीवः । क्षात्राणां धर्मं = क्षात्रधर्मं ।
क्षतात् त्रायते = क्षत + √त्रै + क = क्षत्र । क्षत्रस्येदम् = क्षत्र + अण् = क्षात्र । धरति
लोकान्, ध्रियते वा यः पुण्यशालिभिः = √धृ + मन् = धर्म । √स्निह् + क्त =
स्निग्ध ।
छन्दः—अनुष्टुप् ।

सीता—अय्यउत्त ! परित्ताआहि, परित्ताआहि ।
रावणः—(परिक्रामन् विलोक्य) अये, स्वपक्षपवनोत्क्षेपक्षुभितवनखण्ड-
श्चण्डचञ्चुरभिधावत्येष जटायुः । आः, तिष्ठेदानीम्—
मद्‌भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः ।
रुधिरैराद्रपक्षस्त्वां नयामि यमसादनम् ॥२२॥

पञ्चमोऽङ्कः [ १६७
(निष्क्रान्तौ)
[अन्वयः—मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः रुधिरैः आर्द्रगात्रं त्वां यम-
सादनं नयामि ॥२२॥]
हिन्दी रूपान्तर—
सीता—आर्यपुत्र ! रक्षा करो, रक्षा करो ।
रावण—(घूमते हुये देखकर) अरे, अपने पंखों की वायु के तेज प्रवाह से इस
वनप्रान्त को क्षुब्ध कर देने वाला तथा कठोर भयानक चोंच वाला यह जटायु मेरी
ओर दौड़ा आ रहा है। आः, अब ठहर—
अर्थ [श्लोक २२]—अपनी भुजाओं से खींचे गये तीक्ष्ण खड्ग से काटे
गये पंखों के घाव से गिरते रुधिर से भीगे शरीर वाले तुमको मैं यम के घर पहुँचा
देता हूँ ॥२२॥
(सीता और रावण दोनों निकल जाते हैं।)
इति पञ्चमोऽङ्कः
पाँचवा अङ्क पूरा हुआ।
संस्कृत-व्याख्या—मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः मम रावणस्य भुजाभ्यां
बाहुभ्याम् आकृष्टेन उद्धृतेन निस्त्रिंशेन तीक्ष्णखड्गेन कृत्तयोः छिन्नयोः पक्षयोः यत्
क्षतं व्रणः तस्मात् च्युतैः प्रवहमानैः रुधिरैः शोणितैः आर्द्रगात्रं आर्द्राणि क्लिन्नानि
गात्राणि अङ्गानि यस्य तथाभूतं त्वां जटायुषं यमसादनं यमस्य सादनं गृहं यमलोक-
मित्यर्थः नयामि प्रापयामि। त्वं मामभिभवितुमुद्यतः । अहं स्वभुजबलसामर्थ्येन खड्ग-
माकृष्य तव पक्षच्छेदं करिष्यामि तदनन्तरं ततः प्रवहमानैः रुधिरैः तव वपुः क्लिन्नं
भविष्यति । तदनन्तरं त्वं मरणमवाप्य यमलोकं गमिष्यसि ॥२२॥
व्याकरण—मम भुजाभ्याम् आकृष्टेन निस्त्रिंशेन कृत्तयोः पक्षयोः क्षतात्
च्युतैः = मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः । आ + √कृष् + क्त = आकृष्ट ।
निस् + त्रिंश = निस्त्रिंश । √क्षण् + क्त = क्षत । आर्द्राणि गात्राणि यस्य तम् =
आर्द्रगात्रम् । √अर्द् + रक् (दीर्घ) = आर्द्र । √गम् + त्रन् = गात्र । यमस्य साद-
नम् = यमसादनम् ।
छन्दः—अनुष्टुप् ।
अलङ्कार—पर्यायोक्त । मैं तुम्हारे प्राण नष्ट कर दूंगा, इस अर्थ का कथन
अन्य प्रकार से, यम के घर पहुँचा दूंगा, करने से पर्यायोक्त अलङ्कार है ।
स्वपक्षपवनोत्क्षेपक्षुभितवनखण्डः—स्वस्य पक्षयोः पवनस्य उत्क्षेपेण क्षुभितः
वनखण्डः येन सः ।
चण्डचञ्चुः—चण्डा चञ्चूः यस्य स । √चण्ड् + अच् = चण्ड । चञ्च् +
उन् = चञ्चु । स्त्रीलिङ्ग में—चञ्चु + अङ् = चञ्चू ।
इति भासविरचितप्रतिमानाटके डा० कृष्णकुमारकृतव्याख्यायाः
पञ्चमोऽङ्कः समाप्तः
—:०:—
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

षष्ठोऽङ्कः
(ततः प्रविशतो वृद्धतापसौ)
उभौ—परित्रायन्तां परित्रायन्तां भवन्तः ।
प्रथमः— इयं हि नीलोत्पलदामवर्चसा
मृणालशुक्लोज्ज्वलदंष्ट्रहासिना ।
निशाचरेन्द्रेण निशार्धचारिणा
मृगीव सीता परिभूय नीयते ॥१॥
[अन्वय—नीलोत्पलदामवर्चसा मृणालशुक्लोज्ज्वलदंष्ट्रहासिना निशार्धचारिणा
निशाचरेन्द्रेण इयं सीता मृगी इव हि परिभूय नीयते ॥१॥]
हिन्दी रूपान्तर—
(तदनन्तर दो वृद्ध तपस्वी प्रवेश करते हैं)
दोनों—आप सब रक्षा करें, रक्षा करें।
पहला—
अर्थ [श्लोक १]—नीले कमलों की माला के समान कान्ति वाला अर्थात्
काले रंग का, कमलनाल के समान शुभ्र तथा उज्ज्वल दाढ़ों को दिखा कर हंसने
वाला आधी, रात में विचरण करने वाला यह राक्षसराज इस सीता को हरिणी के
समान, बलपूर्वक अपहरण करके ले जा रहा है ॥१॥
संस्कृत व्याख्या—नीलोत्पलदामवर्चसा नीलं कृष्णवर्णं यदुत्पलं नीलकमल-
मित्यर्थः तेषां दाम माला इव वर्चः कान्तिः वर्णः यस्य तादृशः, अत्यधिक श्यामल-
कान्तिः, मृणालशुक्लोज्ज्वलदंष्ट्रहासिना मृणालानि कमलनालाः तानीव शुक्लाः
शुभ्रवर्णाः उज्ज्वलाः कान्तिमत्यः याः दंष्ट्राः ताभिः हसति इति तादृशेन यदैव हसति
तदैव तस्य मृणालवत् शुक्लाः उज्ज्वलाश्च दंष्ट्राः भासन्ते, निशार्धचारिणा निशायाः
रजन्याः अर्धं निशार्धं तस्मिन् समये भ्रमति इति तथाभूतेन निशाचरेन्द्रेण निशा-
चराणां राक्षसानाम् इन्द्रेण स्वामिना राक्षसराजेन रावणेन इयम् एषा सीता जानकी
मृगी इव हरिणी इव परिभूय तिरस्कृत्य बलात् नीयते अपह्रियते । अयं राक्षसराजो
रावणः सीतां हठाद् अपहृत्य नयति ॥१॥
व्याकरण—नीलं च तदुत्पलं नीलोत्पलम् तेषां दाम इव वर्चः यस्य तेन =
नीलोत्पलदामवर्चसा । √वर्च् + असुन् = वर्चस् । उन् + √पल् + अच् = उत्पल ।
मृणालानीव शुक्लाः उज्ज्वलाश्च याः दंष्ट्राः ताभिः हसितुं शीलं यस्य तेन । मृण् +
कालन् = मृणालम् । √दंश् + ष्ट्रन् + टाप् = दंष्ट्रा । हसितुं शीलं यस्य स = हस् +

षष्ठोऽङ्कः [ १६६ ]
णिनि = हासिन् । निशायां चरति = निशा + √ चर् + ट = निशाचर । निशाचरणाम्
इन्द्रः = निशाचरेन्द्रः । निशायाः अर्धम् = निशार्धम् । परि + √ भू + क्त्वा (ल्यप्) =
परिभूय ।
छन्दः—वंशस्थ ।
अलङ्कार—यमक और उपमा । निशाचरेन्द्रेण और निशार्धचारिणा में यमक
अलङ्कार है । नीलोत्पलदाम वर्चसा में नीलोत्पलदाम उपमान निशाचरेन्द्र उपमेय
वर्चस् साधारण धर्म है । उपमा वाचक पद का लोप होने से वाचकलुप्तोपमा
समासगा अलङ्कार है । मृणालशुक्लोज्ज्वलदंष्ट्रहासिना में मृणाल उपमान, दंष्ट्रा
उपमेय, शुक्ल और उज्ज्वल साधारण धर्म है । उपमा वाचक पद का लोप होने से
वाचकलुप्तोपमा समासगा अलङ्कार है । मृगीव सीता में मृगी उपभान, सीता उपमेय
इव उपमावाचक पद तथा परिभूय नीयते साधारण धर्म हैं । अतः पूर्णोपमा है ।
द्वितीयः—एषा खलु तत्रभवती वैदेही—
विचेष्टमानेव भुजङ्गमाङ्गना
विधूयमानेव च पुष्पिता लता ।
प्रसह्य पापेन दशाननेन सा
तपोवनात् सिद्धिरिवापनीयते ॥२॥
[अन्वयः—विचेष्टमाना भुजङ्गमाङ्गना इव, विधूयमाना प्रष्पिता लता इव; सा
पापेन दशाननेन प्रसह्य तपोवनात् सिद्धिः इव अपनीयते ॥२॥ ]
हिन्दी रूपान्तर—
दूसरा—ये आदरणीय सीता—
अर्थ [श्लोक २]—तड़पती हुई सर्पिणी से समान और कांपती हुई पुष्पित
लता के समान वह सीता, पापी रावण के द्वारा बलपूर्वक तपोवन से मानो सिद्धि हो,
इस प्रकार ले जाई जा रही हैं ॥२॥
संस्कृत-व्याख्या—विचेष्टमाना समुपस्थितविपत्प्रतीकाराम विविर्ध चेष्टमाना
भुजङ्गमाङ्गना सर्पिणी यथा निगृह्य नीयमाना सर्पिणी आत्मानं मोचयितुं विविधं
चेष्टते, तथैवेयं सीता चेष्टमाना वर्तते । विधूयमाना पवनादिवेगेन कम्पमाना पुष्पिता
पुष्पादि समृद्धिसमृद्धा लता वल्लरी इव सा तत्र भवती जानकी पापेन पापकमंकारिणा
दशाननेन दश आननानि मुखानि यस्य तेन रावणेन प्रसह्य हठात् बलप्रयोगं
कृत्वा तपोवनात् अस्मात् आश्रमात् सिद्धिः इयं तपःफल सम्पद वर्तते सेव अपनीयते
अपहृत्यनीयते । अतः अस्य रक्षा कर्तव्येतिभावः ॥२॥
व्याकरण—वि + √ चेष्ट् + शानच् + टाप् = विचेष्टमाना । भुजङ्गमानाम्
अङ्गना = भुजङ्गमाङ्गना । भुजं कुटिलं गच्छति = भुजम् + √ गम् + खच् (मुम् का

१७० ] प्रतिमानाटकम्
आगम) = भुजङ्गम । कल्याणानि अङ्गानि यस्याः = अङ्ग + न + टाप् = अङ्गना ।
√ सिध् + क्तिन् = सिद्धि ।
छन्दः—वंशस्थ ।
अलङ्कार—मालोपमा और उत्प्रेक्षा । एक ही उपमेय सीता के अनेक उपमान
होने से उत्प्रेक्षा अलङ्कार है । सिद्धिरिव में सीता उपमेय में सिद्धि उपमान की
सम्भावना करने से उत्प्रेक्षा अलङ्कार है ।
❖❖❖❖
उभौ—परित्रायन्तां परित्रायन्तां भवन्तः ।
प्रथमः—(ऊर्ध्वमवलोक्य) अये, वचनसमकाल एव दशरथस्यानृण्यं
कर्तुं 'मयिस्थिते क्व यास्यसीति' रावणमाहूयान्तरिक्षमुत्पतितो जटायुः ।
द्वितीयः—एष रोषादुद्वृत्तनयनः प्रतिनिवृत्तो रावणः ।
प्रथमः—एष रावणः ।
द्वितीयः—एष जटायुः ।
उभौ—हन्तैतदन्तरिक्षे प्रवृत्तं युद्धम् ।
प्रथमः—काश्यप ! काश्यप ! पश्य क्रव्यादीश्वरस्य सामर्थ्यम्—
पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं परिव्यूहते
तुण्डाभ्यां सुनिघृष्टतीक्ष्णमचलः संवेष्टनं चेष्टते ।
तीक्ष्णैरायसकण्टकैरिव नखैर्भीमान्तरं वक्षसो
वज्राग्रैरिव दार्यमाणविषमाच्छैलाच्छिला पाट्यते ॥३१॥
[अन्वयः—पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते । अचलः तुण्डाभ्यां
सुनिघृष्ट तीक्ष्णं संवेष्टनं चेष्टते । आयसकण्टकैः इव वज्राग्रैः इव तीक्ष्णैः नखैः
वक्षसः भीमान्तरं पाटयते, इव वज्राग्रैः दार्यमाणविषमात् शैलात् शिला पाटयते ॥३१॥]
हिन्दी रूपान्तर—
दोनों—आप सब रक्षा करें, रक्षा करें ।
पहला—(ऊपर देखकर) अरे, कहने के साथ ही मित्र दशरथ के उपकारों
के ऋण से मुक्त होने के लिये "मेरे होते हुये तुम कहाँ जाओगे", इस प्रकार रावण
को ललकार कर जटायु आकाश में उड़ गया है ।
दूसरा—क्रोध से आंखों की पुतलियों को घुमाता हुआ यह रावण लौट
आया है ।
पहला—यह रावण है ।
दूसरा—यह जटायु है ।
दोनों—अहो, आकाश में इनका युद्ध प्रारम्भ हो गया है ।
पहला—काश्यप ! काश्यप ! गृध्रों के राजा के सामर्थ्य को देखो—

षष्ठोऽङ्कः । १७१
अर्थ [श्लोक ३] — यह जटायु पंखों से रावण पर आक्रमण करके अपने
पराक्रम के अनुसार द्वन्द्व युद्ध कर रहा है । स्थिर रहता हुआ यह चोंचों से अच्छी
प्रकार से तीक्ष्णता से उनको चुभाता हुआ रावण को घेरने की चेष्टा कर रहा है ।
लोहे के बने कांटों के समान और वज्र की नोक के समान तीक्ष्ण नाखूनों से रावण
के वक्षःस्थल को भयानक रूप से अन्दर तक विदीर्ण कर रहा है, जैसे कि वज्र की
नाकों से विदीर्ण कर देने के कारण विषम पर्वत से शिलायें उखाड़ दी जाती हैं ॥३॥
संस्कृत व्याख्या — अयं जटायुः पक्षाभ्यां परिभूय एनं रावणं प्रहृत्य वीर्यविषयं
स्वस्य वीर्यस्य पराक्रमस्य विषयं स्वपराक्रमानुरूपं द्वन्द्वं युगलयुद्धं प्रत्यूहते प्रत्या-
क्रमणरूपेण युध्यते । अचलः युद्धे स्थिरः सन् तुण्डाभ्यां चण्डचञ्चुभ्यां सुनिघृष्ट तीक्ष्णं
सु सुष्टुप्रकारेण घृष्टं कतितं तीक्ष्णं यस्मिन् कर्मणि यथा स्यात्तथा संवेष्टनं सम्यक्
वेष्टनसहितं चेष्टते चेष्टां करोति । रावणस्य वपुषि चञ्चुभ्यामतीतीक्ष्णरूपेण प्रहरन्
तं वलयाकारेण आवर्तयितुं चेष्टते इत्यर्थः । आयसकण्टकैः लोहनिर्मितैः कण्टकैरिव
वज्राग्रैः कुटिशकोटिभिरिव तीक्ष्णैः निशितैः नखैः नखरैः वक्षसः रावणस्य वक्षःस्थलस्य
भीमान्तरं भीमं भयानकरूपेण आन्तरम् अभ्यन्तरभागः पाट्यते विदीर्यते, इव यथा
वज्राग्रैः दीर्यमाणविषमात् दीर्यमाणत्वात् विपाटनव्यापारात् अतः विषमात् भीषणात्
शैलात् पर्वतात् शिलाः पाषाणः पाट्यते उद्रियते । यथा वज्राग्रैः शैलानां शिलाः
पाट्यन्ते तथैव जटायोः नखैः रावणस्य वक्षसोन्तःभागः विपाट्य बहिः नीयते ॥३॥
व्याकरण — परि + √भू + क्त्वा (ल्यप्) = परिभूय । द्वौ द्वौ सह अभि-
व्यक्तौ = द्वन्द्व । सु + नि + घृष् + क्त = सुनिघृष्ट । √निज् + क्स्न (दीर्घ) = तीक्ष्ण ।
सम् + √वेष्ट् + ल्युट् (अन) = संवेष्टन । आयसैः कण्टकैः = आयसकण्टकैः । अयस्

  • अण् = आयस । √कण्ट् + वुन् (अक) = कण्टक । शिलानां समूहः शिला +
    अण् = शैल ।
    छन्दः — शार्दूलविक्रीडित ।
    अलङ्कार — मालोपमा । एक नख उपमेय के अनेक उपमान आयसकण्टक
    तथा वज्राग्र होने से मालोपमा अलङ्कार है ।
    द्वितीयः — हन्त ! संक्रुद्धेन रावणेनासिना क्रव्यादिश्वरः स दक्षिणांसदेशे
    हतः ।
    उभौ — हा धिक् । पतितोऽत्रभवान् जटायुः ।
    प्रथमः — भोः कष्टम् । एष खलु तत्रभवान् जटायुः—
    कृत्वा स्ववीर्यसदृशं परमं प्रयत्नं
    क्रीडामयूरमिव शत्रुमचिन्तयित्वा ।
    दीप्तं निशाचरपतेरवधूय तेजो
    नागेन्द्रभग्नवनवृक्ष इवावसन्नः ॥४॥

१७२ ] प्रतिमानाटकम्
उभौ—स्वर्ग्योऽयमस्तु ।
प्रथमः—काश्यप ! आगम्यताम् । इमं वृत्तान्तं तत्र भवते राघवाय
निवेदयिष्यावः ।
द्वितीयः—वाढम् । प्रथमः कल्पः । (निष्क्रान्तौ)
(विष्कम्भकः)
[अन्वयः—स्ववीर्यसदृशं परमं प्रयत्नं कृत्वा शत्रुं क्रीडामयूरमिव अचिन्तयित्वा;
निशाचरपतेः दीप्तं तेजः अवधूय नागेन्द्रभग्न वनवृक्षः इव अवसन्नः ॥४॥]
हिन्दी रूपान्तर—
दूसरा—खेद है, अति कुपित हुये रावण ने खड्ग से उस गृध्रराज के दाहिने
पर प्रहार किया है ।
दोनों—हाय, धिक्कार है । आदरणीय जटायु गिर गये हैं ।
पहला—अरे, बड़ा कष्ट है । ये आदरणीय जटायु—
अर्थ [श्लोक ४]—अपने पराक्रम के अनुसार अत्यधिक प्रयत्न करके, शत्रु
रावण की, मानों वह खेलने योग्य मोर हो, इस प्रकार परवाह न करके, राक्षसराज
रावण के प्रचण्ड तेज का तिरस्कार करके गजराज के द्वारा तोड़े गये जंगली वृक्ष के
समान नीचे गिर गया है ॥४॥
दोनों—इसको स्वर्ग प्राप्त हो ।
पहला—काश्यप ! आओ । इस घटना को आदरणीय राम से निवेदन करें ।
दूसरा—हाँ । अच्छा प्रस्ताव है । (दोनों निकल जाते हैं)
(इस प्रकार विष्कम्भक पूरा हुआ)
संस्कृत व्याख्या—अयं जटायुः स्ववीर्यसदृशं स्वस्य आत्मनः वीर्यस्य पराक्रमस्य
सदृशं योग्यं स्वपराक्रमानुरूपं परमं महान्तं प्रयत्नं प्रयासं कृत्वा विधाय, शत्रुं रिपुं
रावणं क्रीडामयूरमिव क्रीडनक शिखण्डिनमिव अचिन्तयित्वा अविगणय्य उपेक्ष्य, निशा-
चरपतेः राक्षसराजस्य रावणस्य दीप्तम् अतिसमिद्धं तेजः प्रतापम् अवधूय स्वपराक्रमेन
तिरस्कृत्य, स्वपराक्रमं प्रदर्श्य इति भावः, नागेन्द्रभग्नवनवृक्षः नागेन्द्रेण गजराजेन
भग्नः त्रोटितः यः वनवृक्षः आरण्यपादपः स इव अवसन्नः अवसादं प्राप्य अधः
पतितः । रावणेन आघातं प्राप्य अचेतनो भूत्वा अधो भूम्यां निपतितः ॥४॥
व्याकरण—स्वस्य वीर्यस्य सदृशम् = स्ववीर्यसदृशम् । √शद् + क्रुन् = शत्रु ।
अव + √धू + क्त्वा (ल्यप्) = अवधूय । नागानाम् इन्द्रः = नागेन्द्रः । नगे पर्वते भवः
= नग + अण् = नाग । इदी परमैश्वर्ये, इन्द + र = इन्द्र । अव + सद् + क्त = अवसन्न ।
छन्दः—वसन्ततिलका ।
अलङ्कार—उत्प्रेक्षा और उपमा । शत्रु उपमेय में क्रीडामयूर उपमान की
सम्भावना करने से उत्प्रेक्षा अलङ्कार है । उपमेय जटायु का उपमान वनवृक्ष के साथ
सादृश्य प्रदर्शित करने से उपमा है । यहाँ इव उपमावाचक और अवसन्न साधारण
धर्म हैं ।

षष्ठोऽङ्कः [ १७३
क्रव्यादीशवरः—क्रव्यम् आमं मांसम् अत्ति = क्रव्य + अद् + विट् = क्रव्यात् =
कच्चा मांस खाने वाला ; कच्चा मांस खाने के कारण गिद्ध को क्रव्यात् कहा गया ।
क्रव्यादानाम् ईश्वरः = क्रव्यादीश्वरः । राक्षसों को भी क्रव्यात् या क्रव्याद कहा
गया है ।
स्वर्ग्यः--स्वर्गाय योग्यः = स्वर्ग + यत् = स्वर्ग्य ।
विष्कम्भक--पाँचवे और छठे अंक के मध्य की घटना की सूचना देने के
लिये इस विष्कम्भक का प्रयोग हुआ है । पाँचवे अङ्क के अन्त में घटना थी कि रावण
ने सीता को पकड़ कर ले जाना चाहा । इसी समय उसको मुकाबला करता हुआ
जटायु दिखाई दिया । अगले अंक में सुमन्त्र द्वारा सीता-हरण [तथा राम के किष्किन्ध
पहुँचने की सूचना भरत को दी गई । बीच की घटना कि जटायु का वध करके
रावण सीता को ले गया, की सूचना इस विष्कम्भक से दी गई है । इस विष्कम्भक
में मध्यम कोटी के पात्रों का प्रयोग हुआ है । अतः यह शुद्ध विष्कम्भक है ।
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः—क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ?
(प्रविश्य)
प्रतिहारी—अय्य ! अहं विजया । किं करीअदु ? [आर्य ! अहं विजया ।
किं क्रियताम् ?]
काञ्चुकीयः—विजये ! निवेद्यतां निवेद्यतां भरतकुमाराय--'एष खलु
रामदर्शनार्थं जनस्थानं प्रस्थितः प्रतिनिवृत्तस्तत्रभवान् सुमन्त्र इति ।
प्रतिहारी—अय्य ! अवि किदत्थो तादसुमन्तो आओदो ? [आर्य ! अपि
कृतार्थस्तातसुमन्त्र आगतः ?]
कञ्चुकीयः—भवति ! न जाने—
हृदयस्थितशोकाग्निशोषिताननमागतम् ।
दृष्ट्वैवाकुलमासीन्मे सुमन्त्रमधुना मनः ॥५॥
[अन्वयः—हृदयस्थित शोकाग्निशोषिताननम् आगतं सुमन्त्रम् अधुना दृष्ट्वा
एव मे मनः आकुलम् आसीत् ॥५॥]

१७४ ] प्रतिमानाटकम्
हिन्दी रूपान्तर—
(तदनन्तर काञ्चुकीय प्रवेश करता है)
काञ्चुकीय—अरे, यहाँ कौन है ? स्वर्णनिर्मित तोरणद्वार पर कौन
विद्यमान है ?
(प्रवेश करके)
प्रतिहारी—आर्य ! मैं विजया हूँ। क्या करूँ ?
काञ्चुकीय—विजये ! कुमार भरत से निवेदन करो, निवेदन करो—
'ये जो कि आदरणीय सुमन्त्र राम का दर्शन करने के लिये जनस्थान गये थे, लौट
आये हैं।
प्रतिहारी—आर्य ! तात सुमन्त्र क्या सफल होकर आये हैं ?
काञ्चुकीय—आदरणीये ! मैं नहीं जानता—
अर्थ [श्लोक ५]—हृदय में स्थित शोक रूपी अग्नि से सूखे हुये मुख वाले
वापिस आये सुमन्त्र को इस समय देखकर ही मेरा मन व्याकुल हो गया था ॥५॥
संस्कृत-व्याख्या—हृदयस्थितशोकाग्निशोषिताननं हृदये अन्तःकरणे यः शोकः
विषादः स एव अग्निः अनलः तेन शोषितं नीरसतां गतं प्रभाहीनमित्यर्थः आननं मुखं
यस्य तथाभूतम् आगतं वनान्निवृत्य समायातं सुमन्त्रं राजसारथिम् अधुना अस्मिन्
समये दृष्ट्वा अवलोक्य एव मे मनः चित्तम् आकुलं विह्वलम् आसीत् अभवत् ।
वनान्निवृत्य यदैव सुमन्त्रः समायातः तदैव तस्य कान्तिहीनमप्रसन्नवर्णं मुखं दृष्ट्वा
मे चित्ते व्याकुलता सञ्जाता ॥५॥
व्याकरण—हृदये स्थितेन शोकेनैव अग्निना शोषितम् आननं यस्य तम्=
हृदयस्थितशोकाग्निशोषिताननम्। आ+√गम् + क्त = आगत। आ+√कुल्+क=
आकुल। अस्मिन् काले इदम् शब्द से निपातनात् = अधुना।
छन्दः—अनुष्टुप् ।
अलङ्कार—रूपक। शोक उपमेय पर अग्नि उपमान का आरोप करने से
रूपक अलंकार है।
प्रतिहारी—अय्य ! एदं सुणिअ पय्याउलं विअ मे हिअअं । [आर्य एत-
च्छ्रुत्वां पर्याकुलमिव मे हृदयम् ।]
काञ्चुकीयः—भवति ! किमिदानीं स्थिता ? शीघ्रं निवेद्यताम् ।
प्रतिहारी—अय्य ! इअं णिवेदेमि । [आर्य ! इयं निवेदयामि ।]
(निष्क्रान्ता)
काञ्चुकीयः—(विलोक्य) अये, अयमत्रभवान् भरतकुमारः सुमन्त्रागमन-

षष्ठोऽङ्कः [ १७५
जनितकुतूहलहृदयश्चीरवल्कलवसनश्चित्रजटापुञ्जपिञ्जरितोत्तमाङ्ग इत
एवाभिवर्तते । य एषः—
प्रख्यातसद्गुणगणः प्रतिपक्षकाल-
स्तिग्मांशुवंशतिलकस्त्रिदशेन्द्रकल्पः ।
आज्ञावशादखिलभूपरिरक्षणस्थः
श्रीमानुदारकलभेभसमानयानः ॥६॥
[अन्वयः—प्रख्यातसद्गुणगणः, प्रतिपक्षकालः, तिग्मांशुवंश तिलकः, त्रिदशेन्द्र-
कल्पः, आज्ञावशात् अखिलभूपरिरक्षणस्थः श्रीमान्, उदारकलभेभसमानयानः ॥६॥ ]
हिन्दी रूपान्तर
प्रतिहारी—आर्य ! यह सुनकर मेरा हृदय बहुत अधिक व्याकुल हो रहा है ।
काञ्चुकीय—आदरणीये ! अब खड़ी क्यों हो ? शीघ्र निवेदन करो ।
प्रतिहारी—आर्य ! यह मैं निवेदन कर रही हूँ ।
(निकल जाती है)
काञ्चुकीय—(देखकर) अरे, ये आदरणीय कुमार भरत हैं । सुमन्त्र के आने
से इनके हृदय में कौतूहल उत्पन्न हो गया है । इन्होंने चीर और वल्कल वस्त्र पहने
हैं, जटाओं के समूह से इनका सिर पिंगल हो रहा है । ये इधर ही आ रहे हैं ।
ये हैं—
अर्थ [श्लोक ६]—इनके उत्तम गुण लोक में प्रसिद्ध हैं, शत्रुओं के लिये ये
काल के समान हैं, सूर्य वंश के ये तिलकभूत हैं, देवराज इन्द्र के समान ऐश्वर्यशाली
हैं, श्रीराम के आदेश से सारी पृथ्वी की रक्षा करने में तत्पर हैं, श्री से सम्पन्न हैं
और विशालकाय गजराज के समान इनकी गति है ॥६॥
संस्कृत व्याख्या—अयं कुमारो भरतः—प्रख्यातसद्गुणगणः प्रख्यातः लोक-
प्रसिद्धः सद्गुणानां श्रेष्ठ शौर्योदारत्वादिगुणानां गणः समूहः यस्य तादृशः, प्रतिपक्ष-
कालः प्रतिपक्षेषु शत्रुशु कालः यमराजसदृशः तेभ्यः साक्षात् मृत्युरेव, तिग्मांशुवंश-
तिलकः तिग्मांशोः सूर्यस्य वंशः कुलं सूर्यवंशः तस्य तिलकः ललामभूतः, त्रिदशेन्द्रकल्पः
त्रिदशानां देवानाम् इन्द्रः देवराजः तत्कल्पः समानैश्वर्यशाली, आज्ञावशात् श्रीरामस्य
आदेशाद् अखिलभूपरिरक्षणस्थः अखिलायाः समस्तायाः भुवः धरायाः परिरक्षणे
परिपालने तिष्ठति अवहितो भवति इति तथाभूतः, श्रीमान् लक्ष्मीवान्, उदारकल-
भेभसमानयानः उदारस्य विशालकायस्य सत्कुलीनस्य कलभेभस्य गजराजस्य समानं
सदृशं यानं गतिः यस्य तादृशः सर्वगुणगरिमाशाली वर्तते ॥६॥
व्याकरण—प्रख्यातः सद्गुणानां गणः यस्य स = प्रख्यातसद्गुणगणः ।
प्र + √ ख्या + क्त = प्रख्यात । तिग्मांशोः वंशस्यतिलकः = तिग्मांशुवंश-
तिलकः । तिग्माः तीक्ष्णाः अंशवः यस्य स तिग्मांशुः = सूर्यः । अखिलायाः

१७६ ] प्रतिमानाटकम्
भुवः परिरक्षणे तिष्ठति इति स = अखिलभूपरिरक्षणस्थः । परि + √रक्ष् + ल्युट्
(अन) = परिरक्षण । उदारस्य कलभेषभस्य समानं यानं यस्य स = उदारकलभेषभसमान-
यानः । √या + ल्युट् (अन) = यान !
छन्दः—वसन्ततिलका ।
अलंकार—रूपक और उपमा । प्रतिपक्षकालः में उपमेय भरत पर उपमान
काल का आरोप करने से रूपक है । त्रिदशेन्द्रकल्पः में भरत और त्रिदशेन्द्र का
साम्य कहने से उपमा है । कलभेषभसमानयानः में कलभेषभ उपमान, भरत उपमेय;
समान उपमावाचक और यान साधारण धर्म हैं ।
सुमन्त्रागमनजनित कुतूहलहृदयः—सुमन्त्रस्य आगमनेन जनितं कुतूहलं यस्य
तादृशं हृदयं यस्य स ।
चीरवल्कलवसनः—चीराणां वल्कलानां च वसनानि यस्य स ।
चित्रजटापुञ्जपिञ्जरितोत्तमाङ्गः—चित्राणां जटानां पुञ्जेन पिञ्जरितम्
उत्तमाङ्गं यस्य स ।
(ततः प्रविशति भरतः प्रतिहारी च)
भरतः—विजये ! एवमुपगतस्तत्रभवान् सुमन्त्रः ?
गत्वा तु पूर्वमयमार्यनिरीक्षणार्थं
लब्धप्रसादशपथे मयि सन्निवृत्ते ।
दृष्ट्वा किमागत इहात्रभवान् सुमन्त्रो
रामं प्रजानयनबुद्धिमनोऽभिरामम् ॥७॥
[अन्वयः—पूर्वम् तु आर्यनिरीक्षणार्थं गत्वा, लब्ध प्रसादशपथे मयि सन्निवृत्ते,
प्रजानयनबुद्धिमनोऽभिरामं रामं दृष्ट्वा अयम् अत्रभवान् सुमन्त्रः किम् इह
आगतः ? ॥७॥]
हिन्दी रूपान्तर
(तदनन्तर भरत और प्रतिहारी प्रवेश करते हैं)
भरत—विजये ! इस प्रकार क्या आदरणीय सुमन्त्र आ गये हैं ?
अर्थ [श्लोक ७]—पहले तो ये राम के दर्शन करने के लिये वे मेरे साथ
तपोवन में गये, तदनन्तर राम के प्रसाद रूप पादुकाओं को और 'तुम राज्य का पालन
करो' इस प्रकार की शपथ को ग्रहण करके मैं वापिस लौट आया । उसके पश्चात्
प्रजाजनों के नेत्रों, बुद्धियों और मनों को आनन्दित करने वाले राम का दर्शन करके
ये आदरणीय सुमन्त्र क्या यहाँ वापिस आ गये हैं ? ॥७॥
संस्कृत व्याख्या--पूर्वं तु प्रथमं तावत् पूर्वकाले मया सह आर्यनिरीक्षणार्थम्
आर्यस्य ममाग्रजस्य रामस्य निरीक्षणार्थं दर्शनार्थं गत्वा तत्र चित्रकूट तपोवनभूमि

षष्ठोऽङ्कः [ १७७
प्रपद्य, तदनन्तरं लब्धप्रसादःशपथे लब्धः प्राप्तः प्रसादः रामप्रतिनिधिरूप पादुका-
युगलप्रसादः शपथः, चतुर्दशवर्षविधिवनवासकाले त्वया राज्यपरिपालनं कर्तव्यं
तदनन्तरं च वनवासावधिसमाप्तावहं सन्निवर्त्य राजधान्यामयोध्यायां राज्यग्रहणं
करिष्यामीति प्रतिज्ञा येनतादृशे मयि भरते सन्निवृत्ते चित्रकूट तपोवनादयोध्यायां
समागते सति, तदनन्तरं च प्रजानयनबुद्धिमनोऽभिरामं प्रजानां लोकानां नयनानि
चक्षूंषि बुद्धीः मतीः मनांसि चेतांसि च अभिरमयति आनन्दयति इति तादृशं लोका-
ह्लादकरं रामं दृष्ट्वा अवलोक्य अयम् एषः अत्रभवान् आदरणीयः सुमन्त्रः किमिति
प्रश्ने इह अयोध्यायाम् आगतः सम्प्राप्तः ? तमेव दर्शयित्वा रामविषयकं समाचारं
प्राप्य स्वमनसो दुःखं दूरीकरिष्यामीति भावः ॥७॥
व्याकरण—आर्यस्य निरीक्षणार्थम् = आर्य निरीक्षणार्थम् । √ऋ + ण्यत् =
आर्य । निर् + √ईक्ष् + ल्युट् (अन) = निरीक्षण । लब्धः प्रसादः शपथश्च येन
तस्मिन् = लब्धप्रसादशपथे । प्रजानां नयनानां बुद्धीनां मनसां च अभिरामम् = प्रजा-
नयनबुद्धिमनोऽभिरामम् । मन्यते बुध्यते अनेन = √मन् + असुन् = मनस् । अभि-
रमयति = अभि + √रम् + घञ् = अभिराम ।
छन्दः--वसन्ततिलका ।
अलङ्कार—यमक । रामम् और मनोभिरामम् में यमक अलंकार है ।
काञ्चुकीयः—(उपगम्य) जयतु कुमारः ।
भरतः—अथ कस्मिन् प्रदेशे वर्तते तत्रभवान् सुमन्त्रः ?
काञ्चुकीयः—असौ काञ्चनतोरणद्वारे ।
भरतः—तेन हि शीघ्रं प्रवेश्यताम् ।
काचुकीयः—यदाज्ञापयति कुमारः । (निष्क्रान्तो)
(ततः प्रविशति सुमन्त्रः प्रतिहारी च)
सुमन्त्रः—(सशोकम्) कष्टं भोः ! कष्टम्--
नृपतिनिधनं मयानुभूतं
नृपतिसुतव्यसनं मयैव दृष्टम् ।
श्रुत इह स च मैथिलीप्रणाशो
गुण इव बह्वपराद्धमायुषा मे ॥८॥
[अन्वयः—नरपतिनिधनं मया अनुभूतम् । नृपतिसुतव्यसनं मया एव अनु-
भूतम् । इह च स मैथिलीप्रणाशः श्रुतः । मे आयुषा गुणे इव बहु अपराद्धम् ॥८॥]