प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 203, कुल 296 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः [ १३६
हृदयेषु तवागमनाभिलाषां धारयन्ति इति भावः, पौराः नगरनिवासिनः जनाः
त्वद्दिदृक्षया तव दर्शनेच्छया स्थास्यन्ति भविष्यन्ति । त्वत्प्रसादस्य त्वया दत्तयोः प्रसाद-
रूपयोः पादुकयोः दर्शनात्, त्वां प्रतिनिवर्तयितुमशक्तः भरतः पादुकयोरेवाभिषेकं कृत्वा
आनीतवान् च ते इति पौराः द्रक्ष्यन्ति, तेषां पौराणां प्रीतिं प्रसन्नतां करिष्यामि
विधास्यामि । ते पादुके एव द्रष्ट्वा ते तव दर्शनं प्राप्स्यन्ति ॥२८॥
व्याकरण—आशाः सन्ति येषां ते = आशा + मतुप् = आशावत् । प्रथमा का
बहुवचन = आशावन्तः । तव दिदृक्षया = त्वद्दिदृक्षया । द्रष्टुम् इच्छा = दिदृक्षा ।
√दृश् + सन् + अ + टाप् = दिदृक्षा । तृतीया विभक्ति का एकवचन दिदृक्षया ।
√प्री + क्तिन् = प्रीति ।
छन्दः—अनुष्टुप् ।
सुमन्त्रः—आयुष्मन् ! मयेदानीं किं कर्तव्यम् ?
रामः—तात ! महाराजवत् परिपाल्यतां कुमारः ।
सुमन्त्रः—यदि जीवामि, तावत् प्रयतिष्ये ।
रामः—वत्स कैकेयीमातः ! आरुह्यतां ममाग्रतो रथः ।
भरतः—यदाज्ञापयत्यार्यः ।
(रथमारोहतः)
रामः—मैथिलि ! इतस्तावत् । वत्स लक्ष्मण ! इतस्तावत् । आश्रम-
पदद्वारमात्रमपि भरतस्यानुयात्रं भविष्यामः ।
(इति निष्क्रान्ताः सर्वे)
हिन्दी रूपान्तर—
सुमन्त्र—आयुष्मान् ! मुझे अब क्या करना है ।
राम—तात ! कुमार भरत का महाराज के समान ही पालन करें ।
सुमन्त्र—यदि जीवित रहूँगा, तो प्रयत्न करूँगा ।
राम—वत्स कैकेयीपुत्र ! मेरे सामने ही रथ पर चढ़ जाओ ।
भरत—आर्य जैसा आदेश देते हैं ।
(सुमन्त्र और भरत रथ पर चढ़ते हैं)
राम—सीते ! इधर आओ । वत्स लक्ष्मण ! इधर आओ । आश्रम के द्वार
तक भरत के पीछे चलते हैं ।
(सब बाहर निकल जाते हैं)
इति चतुर्थोऽङ्कः
चतुर्थ अङ्क पूरा हुआ
इति भासविरचितप्रतिमानातके डा० कृष्ण कुमारकृतव्याख्याः
चतुर्थोऽङ्कः समाप्तः