सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

कॉपीराइट समस्या बताएँ

DevanagariSanskritpublished804 पृष्ठ

इस ग्रन्थ के बारे में

पूर्वमीमांसा दर्शन महर्षि जैमिनि के मीमांसासूत्रों पर आधारित है, जो वैदिक वाक्यों के अर्थ-निर्णय और यज्ञ-कर्म के नियमों की विवेचना करता है। लगभग बारह अध्यायों में फैले इन सूत्रों पर शबरस्वामी का शाबरभाष्य सबसे प्राचीन उपलब्ध भाष्य है, और उस पर कुमारिल भट्ट का तन्त्रवार्तिक मीमांसा की भाट्ट परम्परा का आधार बना।

यह प्राच्यभारती ग्रन्थमाला (16) का संस्करण है, जिसे तारा प्रिंटिंग वर्क्स, वाराणसी ने 1984 में प्रथम संस्करण के रूप में प्रकाशित किया। मुखपृष्ठ के अनुसार इसमें पाँच टीकाएँ एक साथ हैं: शाबरभाष्य, कुमारिल भट्ट का तन्त्रवार्तिक, उस पर सोमेश्वर भट्ट की न्यायसुधा, गोविन्दामृतमुनि का भाष्यविवरण, और सम्पादक डॉ. महाप्रभुलाल गोस्वामी की 'भावप्रकाशिका'। डॉ. गोस्वामी सम्पूर्णानन्द संस्कृत विश्वविद्यालय में दर्शन विभाग के अध्यक्ष थे; पुस्तक की प्रस्तावना पद्मभूषण पण्डितराज पट्टाभिराम शास्त्री ने लिखी है।

ग्रन्थ में प्रमाण, धर्म के लक्षण, विधि-अर्थवाद, प्रकरण और श्रुति-लिंग जैसे विषयों पर सूत्र-दर-सूत्र चर्चा है, और भूमिका में मीमांसा के भाष्यकारों की परम्परा का परिचय है। लगभग 804 पृष्ठों का यह खण्ड मीमांसा के गम्भीर अध्येताओं के लिए है।

सूत्रं व्याचष्टे—आग्नेय्येति, लिङ्गेनेति । अग्निना देवतया लिङ्गेनेत्यर्थः ।

पृष्ठ 290 स्कैन

२३८ मीमांसादर्शनम् [ सू०
मरणशील मनुष्य के साथ सम्बन्ध नहीं है । इसलिए मन्त्र के द्वारा जन्ममृत्युयुक्त मनुष्य
की चर्चा नहीं की गई है, अतः अप्रमाण नहीं है ॥ ४२ ॥
लिङ्गोपदेशश्च तदर्थवत् ॥ १.२.४३ ॥
शा० भा०—आग्नेय्याऽग्नीध्रमुपतिष्ठत इति विधानाद्विवक्षितार्थानामेव
मन्त्राणां भवति लिङ्गेनोपदेशः । यदि तेऽग्निप्रयोजनाः, ततस्त आग्नेय्या,
नाग्निशब्दसंनिधानात् ॥ ४३ ॥
भा० वि०—एवं तदर्थशास्त्रादीनि पूर्वपक्षलिङ्गानि परिहृत्य सिद्धान्ते लिङ्गत्रयं
दर्शयितुं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 291 स्कैन

४४ ] प्रथमाध्याये द्वितीयपादः २३९
आशय यह है कि पूर्वंकथित सूत्रों में यह आपत्ति दी गई है किन्तु प्रकृत में सिद्धान्त
के अनुकूल युक्तियों का प्रदर्शन किया जा रहा है—लिङ्गोपदेशः इत्यादि। मन्त्र विव-
क्षित अर्थ को कहने वाले हैं, क्योंकि, स्थल-स्थल में मन्त्र के अर्थ का उल्लेख कर कर्म
की विधि कही गई है। जैसे "आग्नेय्या आग्नीध्रमुपतिष्ठते", आग्नेयी ऋचा के द्वारा
आग्नीध्र अर्थात् आग्नीध्र का जो

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 292 स्कैन

२४० मीमांसादर्शनम् [ सू०
चार्थपरत्वे सर्वपशुविशेषणमात्राद्युपादित्सायां सत्यामवकल्पते । या चान्यपद-
वृद्धिसद्भावप्रतीतिरियं च अर्थपरत्वेऽवकल्पत इति । यद्यपि मातृप्रभृतीनां
पारार्थ्यात्संबन्धिभेदादेव च भेदसिद्धेरनूह्यत्वं सदेवानुवदति; तथाऽपि न्यायाव-
गतानूहसंकीर्तनानन्यायरहितेषूहसंप्रत्ययात्प्रकृतौ विवक्षितार्थता विज्ञायते ।
अन्यथा तु तददृष्टम् विकृतेरेव साध्येत । तथा यद्यप्यन्यदैवत्यः पशुराग्नेय्येवमनोता
कार्येत्यूहप्राप्तिदर्शनम्, एवमुक्ष्णां वपानामित्येवमादीनां यथार्थमूहितानामेवाऽऽ-
म्नानमपि विवक्षितार्थं भविष्यति ।

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 293 स्कैन

४५ ] प्रथमाध्याये द्वितीयपाद। १४१
आ० प्र०—ऊहः = पद का अध्याहार मन्त्र का अर्थ विवक्षित है—इसका
ज्ञापक है।
आशय यह है—मन्त्र का अर्थ विवक्षित है, इसका कारण 'ऊह' है। प्रकृतिभूत
कर्म में जो मन्त्र पढ़े गये हैं, विकृतिभूत कर्म में भी स्थल विशेष में उसी मन्त्र के पद
की विभक्ति, वचन आदि का परिवर्तन कर पाठ किया गया है। क्योंकि, प्रकृति के
अनुरूप पाठ करने पर वह मन्त्र विरुद्ध अर्थ का प्रतिपादन करेगा। जैसे प्रकृतिभूत
एक पशु

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 294 स्कैन

२४२ मीमांसादर्शनम् [ सू०
त० वा०—विधिरेव च ब्राह्मणाभिधः तत्र तत्र पर्यायैरवयवान्वाख्यान-
निर्वचनादिभिश्चार्थप्रकाशनपरत्वं दर्शयति । अर्थनाश्रयणे हि सर्वं तदनर्थकं
स्यात् । तस्माद्विवक्षितवचना मन्त्रा इति सिद्धम् ॥ ४५ ॥
इति मन्त्राधिकरणम् ॥ ४ ॥
इति श्रीमद्भट्टकुमारिलस्वामिविरचिते

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 295 स्कैन

॥ अथ प्रथमाध्यायस्य तृतीयः पादः ॥
प्रथमं स्मृत्यधिकरणम् ।
[ १] धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १.३.१ ॥ पू०
शाबरभाष्यम्
शा० भा०—एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम् । अथेदानीं यत्र न
वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्त्येवमयमर्थोऽनुष्ठातव्य एतस्मै च प्रयो-
जनायेति । किमसाौ तथैव स्यात्, न वेति । यथा अष्टकाः कर्तव्या;

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 296 स्कैन

१४४ मीमांसादर्शनम् [ सू०
विशेषो दर्शितः, नामधेयानां तु विध्यन्तर्गतत्वेन सिद्धप्रामाण्यानां नामधेयत्वमात्रं
प्रामाण्यप्रतिपादनाय नामधेयपादे प्रतिपादयिष्यत इति विवेकः ।
अथेदानोमिति । भवति विचारणेति सम्बन्धः विध्यर्थवादमन्त्रात्मिकानां
स्मृतीनामनिबद्धानां चाचाराणां प्रामाण्यस्य तथाविधवेदमूलकत्वेन वक्तव्यत्वात्
तत्प्रामाण्यप्रतिपादनानन्त्यं स्मृत्यादिप्रामाण्यप्रतिपादनस्य युक्तमिति वक्तु मथेत्यु
क्तम्, अष्टकादिनामधेयानां तु यागादिनामधेयादिवत् लोकसिद्धानां

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 297 स्कैन

१ ] प्रथमाध्याये तृतीयपादः २४५
न सिद्धविषयप्रत्यक्षादिगोचरत्वम्, अपि तर्हि वैदिकशब्दप्रमाणकत्वमेवेति गदितं
चोदनासूत्र इत्यर्थः । अस्तु तर्हि शब्दस्यैवाष्टकादिविषयस्य स्मृतिमूलत्वमित्या-
शङ्कयाशब्दमिति सौत्रं पदं तद् यत्र न वैदिकं शब्दमुपलभन्त इत्यनेन व्याख्यात-
मित्यपेक्षितम् ।
तदयमर्थः—न तावदग्निहोत्रादिवाक्यवत् प्रत्यक्षमेवाष्टकादिवाक्यमुपलभ्यते,
न च कल्पयितुं शक्यते अनुपलब्धिविरोधात् नाप्यनुमानादिना तदवगन्तुं शक्यं
व्याप्तिलिङ्गाद्यभावात् इति । अतः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 298 स्कैन

२४६ मीमांसादर्शनम् [ सू०
व्यपदेशे को दोषस्तत्राह—एवमिति । एवं नावधारयेयुरित्येतद्विवृणोति—
सम्यगिति । एतदिति रूपविशेषस्मरणं तादृशं चेदमष्टकादिस्मरणमूलापेक्षपूर्व-
पूर्वस्मरणमूलत्वस्य त्वयोक्तत्वादित्याशयः । तेन प्रमाणमूलासंभवेन निर्मूलतया
स्मृत्यप्रामाण्यात् तदर्थोऽष्टकादिरपि नादर्तव्यः । ततश्चाननुष्ठेय इत्युपसंहरति—
अत इति । पौरुषेयी हि वाक्यरचना यदर्थविषयोपलभ्यते, तदर्थविषयमेव
रचयितुर्ज्ञानं कल्पयति, नार्थं निश्चाययतीत्यष्टकादिवाक्यरचनाप्यष्टकादिकर्तव्यता-

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 299 स्कैन

१ ] प्रथमाध्याये तृतीयपादः २४७
मन्वादीनामपि अतीन्द्रियार्थदर्शित्वाभावस्य प्रथमपाद एव सिद्धत्वादित्यर्थः,
यदि चाष्टकाफलस्य विश्वजिन्यायावगतस्य निरतिशयसुखरूपस्य स्वर्गस्य
मर्दनादिफलवदानन्तर्यं स्यात् ततः प्रत्यक्षेणापि साध्यसाधनसंबन्धो गम्येत,
न त्वेतदस्ति तथाविधसुखस्य मनुष्यैरनुभवितुमयोग्यत्वादिति दर्शयितुं मनुष्या
इत्युक्तम् । न द्वितीयः इत्याह - जन्मान्तरेति । यदि साधनावस्थायामनुभूतं
फलावस्थायां स्मर्येत ततोऽस्येदं फलमिति साध्यसाधनसंबन्धः प्रतिसन्धीयेत ।
न चैतदस्ति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 300
स्थायी लिंक
पृष्ठ 300 स्कैन

२४८ मीमांसादर्शनम् [ सू०
न्यूनः पश्चात् पृष्ठतोऽन्वेति—गच्छतीत्यर्थः, प्रपादावपि दृष्टार्थत्वमाह—तथा
चेति । प्रपेति, न धर्मयेति केवलादृष्टार्थत्वनिषेधः प्रपातटाकयोः परोपकारत्वे
लिङ्गमाह—तथा चेति । यथा धन्वन्नि—निरुदके प्रदेशे कृता प्रपा परेषामुपकरोति,
तथा त्वमपीत्यग्निसुतिपरोऽयं मन्त्रः । स्थलया-कृत्रिमेण स्थलेन सेतुना
कृतेनेत्यर्थः । अकृत्रिमस्थले ङीष्प्रत्ययविधानेऽपि कृत्रिमे टाप्प्रत्ययानपवादस्मृतेः
स्थलाशब्दस्य कृत्रिमतीरवाचित्वात् तटाकलिङ्गत्वं व्यक्तमित्याशयः ।
शिखाकर्मणोऽपि दृष्टार्थत्वं प्रतिपादयति—तथागोत्रेति । गोत्रज्ञानं तावच्च-
तुरवत्तपञ्चावत्तविभागद्वारेण कर्माङ्गं गोत्रज्ञानस्य च त्रिशिखत्वपञ्चशिखत्वादिरूपं
शिखाकर्म चिह्नमिति शिखाकर्मणोऽपि दृष्टार्थत्वमित्यर्थः, तत्रापि लिङ्गदर्शन-
मित्याह—दर्शनं चेति । कुमारा विशिखा इवेति विविधशिखत्वप्रतिपादनात्
शिखाकर्मलिङ्गत्वमस्य, अधिकरणार्थमुपसंहरति—तेनेति । दृष्टार्थगुर्व्वनुगमनादि-
विषयाश्शब्दाः अदृष्टार्था अष्टका कर्तव्येत्येवमादयः, ततश्च दृष्टादृष्टार्थस्मृतीनां
कथंचिद्दृष्टार्थत्वाविशेषाच्चोदनामूलत्वेनैव प्रामाण्यमाश्रयणीयमिति भावः ।
अत्र यद्यप्याचरयितॄणामाचारमूलानन्तश्रुतिदर्शनासम्भवः तथापि स्मर्तुरेकस्य
शाखान्तरविप्रकीर्णानेकश्रुतिदर्शनसंभवात् स्मृतिदार्थ्येन च मूलान्तरकल्पना-
नुपपत्तेः आचाराणामपि धर्मबुद्ध्यानुष्ठीयमानानां स्मृतिव्यवधानेन श्रुत्यनुमा-
पकतया धर्मप्रामाण्यमित्यपि अदृष्टार्थेषु वैदिकशब्दानुमानमित्यनेन सूचितम् ॥१॥
तन्त्रवार्तिकम् ।
त० वा०—एवं तावद्विध्यर्थवादमन्त्रनामधेयात्मकस्य वेदस्य धर्मं प्रत्युपयोगः
साधितः इदानीं पौरुषेयीषु स्मर्यमाणार्थावधिषु मन्वादिप्रणीतनिबन्धनासु
स्मृतिषु अनिबद्धेषु चाऽऽचारेषु चिन्ता । तत्र किंचिदुदाहृत्य विचारः कर्तव्य
इत्यष्टकादिस्मरणानि मन्वादिस्थानि तद्ग्रन्थसमर्पितानि प्रमाणाप्रमाणविचार-
विषयत्वेनोदाह्रियन्ते । सन्देहहेतुश्चाभिधीयते ।
पारतन्त्र्यात्स्वतो नैषां प्रमाणत्वावधारणा ।
अप्रामाण्यविकल्पस्तु द्रढिम्नैव विहन्यते ॥
मन्वादिवचनं स्मृत्यपेक्षम्,१ स्मृतिश्च मूलप्रमाणापेक्षिणीति, नैकस्यापि वेदव-
न्निरपेक्षप्रामाण्यनिश्चयः । यतस्तु वेदवादिनामेवाविगानेनाविच्छिन्नपारम्पर्य-
परिग्रहदाढ्यंम्, अतो नाप्रामाण्याध्यवसानमिति, युक्तः संदेहः ।
१. अत्र वार्तिकेऽनपेक्षम्, अनपेक्ष्यमिति पाठद्वयमङ्गीकृत्य श्रौतस्मार्तविज्ञानविरोधे यदन-
पेक्षमपेक्षावर्जितं यस्य वापक्षणीयमन्यन्नास्ति, तत्, प्रमाणमिति व्याख्यातमिति
बोध्यम् ।

पृष्ठ 301
स्थायी लिंक
पृष्ठ 301 स्कैन

१ ] प्रथमाध्याये तृतीयपादः ३४९
तत्र पूर्वपक्षवादी वदति नैषां प्रामाण्यमेवापेक्षितमिति । कुतः ?
पूर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते ।
पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावधार्यते ॥
सर्वस्मरणानि हि प्रत्यक्षाद्यवगतेऽर्थे तदानुरूप्येणोपजायमानान्यर्थं समर्प-
यन्ति । तदिहाष्टकादीनां स्वर्गादिसाध्यसाधनभावं प्रत्यक्षादीनि तावन्न गृह्णन्तीति
साधितम् । शब्दोऽपि यथाऽग्निहोत्रादिषु प्रत्यक्षेणोपलभ्यते, नैवमनवस्थाः ।
प्रत्यक्षानुपलब्धे च शब्दे सद्भावकल्पना ।
धर्मास्तित्वप्रमाणाद्धि विप्रकृष्टतरा भवेत् ॥
शब्दस्य तावदेकमेव प्रत्यक्षं प्रमाणम् । स चेत्तेनानवगम्यमानोऽप्यस्ती-
त्युच्यते, ततो वरं धर्मास्तित्वमेव निष्प्रमाणकमभ्युपगतमिति ।
न वाऽऽनुमानमप्यस्मिन्नष्टकाश्रुतिकल्पने ।
न हि स्मृतिस्तया व्याप्ता दृष्टाऽन्यद्वाऽनुमापकम् ॥
यथैव धर्मे संबन्धादर्शनान्न किंचिल्लिङ्गं क्रमते, तथाऽष्टकादिश्रुतावपि ।
न चाऽऽगमेन तद्बोधो नित्येन कृतकेन वा ।
विस्रम्भः कृतके नास्ति नित्यो नैवोपपद्यते ॥
यद्यप्यैन्द्रियकत्वादष्टकादिस्मृतीनां पौरुषेयागमगम्यत्वं संभवति । तथाऽपि
विप्रलम्भभूयिष्ठत्वादश्रद्धेयवचनेषु पुरुषेष्वनध्यवसानम् । दृश्यन्ते ह्यनागमिकान-
प्यर्थानागमिकत्वाध्यारोपेण केचिदद्यत्वेऽप्यभिदधानाः । तेन मन्वादिभिरपि
किमष्टकाश्रुतीरुपलभ्य वेदमूलत्वं स्वनिबन्धनानां प्रतिज्ञातमुतानुपलभ्यैव श्रद्धेय-
वाक्यत्वार्थमिति दुष्टपुरुषाकुलितचेतसां भवति सन्देहः । तावता च प्रामाण्य-
विघातः । नित्यस्य वचनस्याऽऽदिमत्स्मरणमूलप्रतिपादने व्यापार एव नास्ति ।
न च मन्त्रलिङ्गानि स्वयं मूलत्वं प्रतिपद्यन्ते, विधिशून्यत्वात् । न च मूलान्तरं
न्यायागतं सूचयन्ति । अन्यपरत्वात् । न च सर्वेषां स्मृतिप्रणयिनामविगानम् ।
येन पौरुषेयागमबलादुपलब्धपूर्वश्रुतिमूलत्वं स्यात् ।
न च विज्ञायते वाक्यं कीदृशं तैर्निरूपितम् ।
अर्थवादादिरूपाद्धि पश्यामो भ्राम्यतो बहून् ॥
यदि ह्येतदेकान्तेन गम्येत, यथाविधि वाक्यान्येव मन्वादिभिरुपलब्धानीति ।
ततः काऽपि कल्पना स्यादद्यत्वेऽप्यन्यपरार्थवादादिवचनेभ्योऽपि भ्राम्यन्तः पुरुषा
दृश्यन्ते । तेन तेष्वप्याशङ्का भवति । मृतसाक्षिकव्यवहारवच्च प्रलीनशाखा-
मूलत्वकल्पनायां यस्मै यद्रोचते, स तत्प्रमाणीकुर्यात् । तस्मान्नाऽऽगमेनापि
मूलोपलब्धिः ॥

पृष्ठ 302
स्थायी लिंक
पृष्ठ 302 स्कैन

३५० मीमांसादर्शनम् [ सू०
उपमानं त्वदृष्टेऽर्थे सदृशे चानिरूपिते ।
नैवेष्टमिति तेनापि न मूलश्रुतिसाधनम् ॥
अर्थापत्त्याऽपि यत्किञ्चिन्मूलमित्यवगम्यते ।
तच्चाप्रमाणपक्षेऽपि भ्रान्त्यादि न विरुध्यते ॥
यदि हि श्रुतिकल्पनेन विना स्मृतिर्नोपपद्यते, ततः सम्यङ्मूला स्यात् ।
संभवति तु स्वप्नमूलत्वेन तेनानैकान्त्यादर्थापत्तेः, सामान्यतो दृष्टस्य वाऽनव-
काशः। तस्मादनुपलब्धिगोचरापन्नायां श्रुतौ सत्स्वपि मूलान्तरेष्वभिप्रेतमूला-
भावान्निर्मूलत्वाभिधानम् । ननु ये विदुरेवमितिकर्तव्यताक एवम्फलकश्चासौ
पदार्थः कर्तव्य इति । अथ वा ये कर्तव्योऽसावितीत्थं विदुस्ते तथा विजानन्त-
स्तादृशाः कथमिवास्मान्विप्रलब्धुं न कर्तव्योऽसाविति वदेयुः । नन्वन्य एवं
वदन्ति कर्तव्य इत्यन्ये न वा कर्तव्य इत्याहुः । कथमन्यत्वं यदा तेषामप्येवमयं
स्मर्यत इति कथिते भवत्येवं प्रतिपत्तिः ।
अथ वा ये मन्वादयो विदुरकर्तव्योऽयं पदार्थ इति, कथमिव ते विनाऽपराधेन
लोकं वञ्चयितुं वदिष्यन्ति कर्तव्य एवायमिति । स्मरणानुपपत्त्येति । ये ताव-
न्मन्वादिभ्योऽर्वाञ्चः पुरुषास्तेषां यज्ज्ञानं तत्तावदनवगतपूर्वार्थत्वान्न स्मृतिः ।
मन्वादीनामपि यदि प्रथमं किञ्चित्प्रमाणं संभाव्यते ततः स्मरणं भवेन्नान्यथा ।
कस्मात्पुनः पुत्रं दुहितरं वाऽतिक्रम्य बन्ध्यादौहित्रोदाहरणं कृतम् ?
स्थानतुल्यत्वात् । पुत्रादिस्थानीयं हि मन्वादेः पूर्वविज्ञानं दौहित्रस्थानीयं
स्मरणम्; अतश्च यथा दुहितुरभावं परामृश्य, दौहित्रस्मृतिं भ्रान्तिं मन्यते, तथा
मन्वादिभिः प्रत्यक्षाद्यसम्भवपरामर्शादष्टकादिस्मरणं मिथ्येति मन्तव्यम् । तथैव
पारम्पर्येणाविच्छेदादयं वेद इति-वाक्यानुमानाभिप्रायेणोक्तम् ।
इतरस्त्वर्थस्यैवाविच्छेदस्मरणमयमाहेति मत्वा, पुनन्निर्मूलत्वमाह । वेदः पुनः
सविशेषः प्रत्यक्षगम्यस्तत्र घटादिवदेव पुरुषान्तरस्थमुपलभ्य स्मरन्ति । तैरपि
स्मृतमुपलभ्याऽन्येऽपि स्मरन्तोऽन्येभ्यस्तथैव समर्पयन्तीत्यनादिता । सर्वस्य
चाऽऽत्मीयस्मरणात्पूर्वमुपलब्धिः संभवतीति, न निर्मूलता । शब्दसम्बन्धव्युत्पत्ति-
मात्रमेव चेह वृद्धव्यवहाराधीनम् । प्रागपि हि वेदशब्दादन्यवस्तु विलक्षणं
वेदान्तरविलक्षणं वाऽध्येतृस्थमृग्वेदादिरूपम्, मन्त्रब्राह्मणादिरूपाणि चान्यविल-
क्षणान्युपलभ्यन्तें । सर्वेषां चानादयः संज्ञा इति तद्द्वारेणोत्तरकालमपि गम्य-
मानानां प्रत्यक्षत्वं साधितम् ।
नन्वष्टकादिषु पुरुषान्तरस्थेष्वपि कुम्भकारक्रियास्विव किंचिद्विज्ञानमूल-
मस्ति । यदि हि कर्मस्वरूपमात्रं स्मर्येत, ततः पाकादि तदिन्द्रियैरन्याननुतिष्ठतो
दृष्ट्वा परे स्मरेयुः । यतस्त्विह स्वर्गादिसाध्यसाधनसम्बन्धःस्मर्यते नासौ पुरुषान्त-

पृष्ठ 303
स्थायी लिंक
पृष्ठ 303 स्कैन

१ ] प्रथमाध्याये तृतीयपादः २५१
रेत्पद्यमानः कैश्चिद् दृश्यत इत्यन्धपरम्परान्यायेनाप्रमाणता । सर्वस्यानादि-
व्यवहारोपन्यासेन वेदवत्प्रसिद्धयभिमानो भवति, अतोऽन्धपरम्परानिदर्शनम् । वेदे
हि प्रामाण्यस्यानादित्वमिहाप्रामाण्यस्य कथम् ?
यो यो ग्रहीता जात्यन्धः स स्वयं नोपलब्धवान् ।
स्वातन्त्र्येणागृहीते च प्रामाण्यं नावतिष्ठते ॥
तादृशं वाऽष्टकादिस्मरणम् । न च चोदना मूलभूतोपलभ्यते । न चाननु-
भूतसम्बन्धाऽनुमातुं शक्यते । यदि च वेदादुपलभ्य स्मृतयः प्रवर्तिताः स्युः,
ततोऽर्थस्मरणवदित उपलभ्यायं मन्वादिभिः प्रणीत इत्यपि पारम्पर्येण स्मर्येत ।
स्यादेतद् । अर्थस्मरणेन कृतार्थानां निष्प्रयोजनं मूलस्मरणमनादराद् भ्रष्टमिति ।
तदयुक्तम् । न हि यत्कृतं प्रामाण्यं तदेव विस्मर्तुं युज्यते । अर्थस्मृतेः स्वतः
प्रामाण्याभावात् । सर्वे पुरुषास्तावदेतज्जानन्ति यथा वेदमूलज्ञानादिना प्रामाण्यं
न निश्चीयत इति, ते कथमिव तत्रानादरं कुर्युः ।
अपि च—येन यत्नेन मन्वाद्यैरात्मवाक्यं प्रपाठितम् ।
कस्मात्तेनैव तन्मूलं चोदना न समर्पिता ॥
यदि हि तैरप्यर्थमात्रमेवान्येभ्योऽधिगतम्, न वेदो दृष्ट इति, ततस्तत्पूर्वकै-
ष्वप्ययमेव पर्यनुयोग इति, निर्मूलसम्प्रदायत्वप्रसङ्गान्निर्मूलत्वान्न मुच्यसे यदि
तु प्रलीनशाखामूलता कल्प्येत, ततः सर्वासां बुद्धादिस्मृतीनामपि तद्द्वारं प्रामाण्यं
प्रसज्येत । यस्यैव च यदभिप्रेतम्, स एव तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणी-
कुर्यात् । अथ विद्यमानशाखागता एवेतेऽर्थास्तथाऽपि मन्वादय एव सर्वे पुरुषास्तत
एवोपलप्स्यन्ते । युक्ततरा च स्वाध्यायाध्ययनविधेः साक्षाद्वेदादेव प्रतीतिरिति,
स्मृतिप्रणयनवैयर्थ्यं स्यात् । न च तद्विज्ञायते । कीदृशाद्वाक्यादिदं मन्वादिभिः
प्रतिपन्नम्, किं विधिपरात्, उतार्थवादरूपादिति ।
पश्य—महताऽपि प्रयत्नेन तमिस्रायां परामृशम् ।
कृष्णशुक्लविवेकं हि न कश्चिदधिगच्छति ॥
न च मन्वादिवचनाद्वेदमूलत्वं निश्चितुमः । ते हि निर्मूलमपि विप्रलम्भादि-
हेतोरुक्त्या लोकं वञ्चयितुमेवं वदेयुः । तस्मादप्रमाणम् ॥ १ ॥
न्यायसुधायाम्
सर्वानवधकारिण्यां प्रथमं स्मृत्यधिकरणम् ।
न्या० सु०—अत्र भाष्यकारेण सङ्गतिप्रदर्शनाथमेवं तावदिति वृत्तमनुकीर्तितम् । तच्च
नामधेयप्रामाण्यस्यानुक्तत्वादयुक्तमाशङ्कय व्याचष्टे—एवं तावदिति । अयमाशयः—
नामधेयानां विध्युद्देशान्तर्भावात् त्र्यंश एव वेदः । कृत्स्नश्चासावर्थवादाद्यनुपयोगनिराकरणेन
प्रमाणतया साधितः । नामधेयाधिकरणे तु विधिस्तुतिस्मृतिवन्नामधेयत्वमपि प्रामाण्यद्वारं
भवति वा, न वेति चिन्तयिष्यते ।

पृष्ठ 304
स्थायी लिंक
पृष्ठ 304 स्कैन

२५२ मीमांसादर्शनम् [ सू०
नामधेयस्य धर्मंप्रयोगाभावात्वानर्थक्येन पूर्वपक्षकरणं नामधेयं रूपाभिप्रायम् । गुण-
विधित्वेनापि उद्भिदादिपदानां दध्यादिपदवत्प्रामाण्योपपत्तेर्न स्वरूपेण।प्रामाण्यं शङ्कितुं
युक्तम् । न चैवमुभयथापि प्रामाण्यसिद्धेः प्रमाणलक्षणासङ्गतिः शङ्कनीया । को धर्मः कथं
लक्षणश्चेत्येकेनैव सूत्रेण व्याख्यातं चोदनालक्षणोऽर्थो धर्म इति, अत्र कथमिति प्रकारवचने
थाल्प्रत्ययप्रयोगेण प्रामाण्यप्रकारविशेषनिरूपणस्यापि प्रतिज्ञासूत्रार्थत्वेनोक्तत्वात् । अन्यथा
हि किँलक्षण एवावक्ष्यत् । अत एव स्मृतिविचारस्यापि सङ्गतिः । अनवगतस्वरूपस्य हि
वेदस्य प्रामाण्यायोगात्स्वरूपावगतिः प्रामाण्यप्रकारः । तत्र किं प्रत्यक्षावगतिरेव प्रकारः,
अथ वा स्मृत्याचारद्वारेणाप्यवगतिरिति प्रामाण्यप्रकारविशेषनिरूपणरूपत्वात्स्मृतिविचार-
स्यापि सङ्गतिः सिद्धा । अतः स्मृत्याचारद्वाराया अपि चावगतेः सत्याः प्रामाण्यप्रकारत्वस्य
निराकर्त्तुमशक्यत्वात्सैव सम्भवति, न वेति इह चिन्त्यते ।
यद्वा स्मृत्याचारावगतानामपि कर्मणां परिग्रहदाढर्यात् धर्मंत्वावगतेश्चोदनैवेत्यवधारणा-
क्षेपेण सङ्गतिः । तत्समाधानार्थमेव चेह चोदनामूलत्वमस्ति, न वेति चिन्त्यते । चोदना-
शब्दस्य वा प्रत्यक्षाप्रत्यक्षचोदनासाधारण्यादप्रत्यक्षचोदनानां च स्मृत्याचारोपस्थापनं विना
प्रामाण्यायोगात् स्मृत्याचारप्रामाण्यमपि प्रतिज्ञातं भवतीति नासङ्गतिः ।
जिज्ञासासूत्रेण वा सकलधर्मप्रमाणजिज्ञासाकर्त्तव्यत्वाभिधानाच्चोदनासूत्रप्रतिज्ञातवेद-
प्रामाण्यप्रतिपादने पर्यंवसिते, प्रसङ्गादार्थप्रसिद्धादीनामपि प्रसिद्धं (प्रामाण्यं ययोः
स्मृत्याचारयोः प्रसिद्धप्रामाण्ययोः स्मृत्याचारयोरपि ।) प्रामाण्यमिह चिन्त्यते । सर्वं
चैतत्तावच्छब्देन सूचितम् । वेदस्य तावदुपयोगः साधित इत्युक्ते, अन्यस्यापि साधयितव्य
इति प्रतीतेः परतः प्रामाण्यादिद्वाराऽप्रामाण्यस्य प्रथमपाद एव निराकृतत्वेऽपि प्रामाण्य-
प्रकारासम्भवेनाप्रामाण्यमाशङ्क्य प्रकारविशेषनिरूपणं द्वितीयपादेन कृतमित्युपयोगशब्दे-
नोक्तम् । अथेदानिमिति भाष्येण वर्त्तिष्यमाणसङ्कीर्त्तनं कृतम् ।
तत्र वेदमूलकत्वनिबन्धनत्वात्स्मृतिप्रामाण्यस्य वेदप्रामाण्यविचारानन्तरं स्मृतिप्रामाण्य-
विचारसङ्गतिरथशब्देनोक्ता । प्रत्यक्षवेदगामिनामधेयविचारात्पूर्वं स्मृतिविचारानौचित्य-
माशङ्क्य, कस्याश्चित्स्मृतेर्नामधेयमूलत्वाभावेन तदनपेक्षत्वात् महोक्षं वा महाजं वा श्रोत्रिया-
योपकल्पयेदित्यादिस्मृतेस्तु तद्यथैवादौ मनुष्यराज आगतेऽन्यस्मिन्वाऽर्हत्युक्षाणं वा वेहतं
वा छदन्ते इत्याद्यर्थवादमूलत्वात्, न पचेदन्नमात्मन इत्यादिस्मृतेश्च केवलाघो भवति
केवलादीत्यादिमन्त्रमूलत्वात्, तत्प्रामाण्ये प्रतिपादिते नामधेयविचारात्पूर्वं स्मृतिप्रामाण्यं
वक्तुमुचितमिति सूचयितुमिदानीमित्युक्तम् ।
तद्विषयप्रदर्शनपरतया तावद्व्याचष्टे—इदानीमिति । पौरुषेयीष्विति वेदप्रामाण्य-
हेतुमभावो दर्शितः । स्मर्यमाणोऽर्थोऽवधिर्मर्यादा यासां नार्थमतिक्रम्य तस्य प्रमाणमपि
विषयीकुर्वन्तीत्यस्मर्यमाणमूलत्वं स्मर्यमाणार्थविधिष्वित्यनेनोक्तम् । एतच्चाप्रामाण्योप-
योगिविशेषणद्वयम् । अस्मर्यमाणार्थविधिष्वितिपाठे त्वितः प्रभृतीयं स्मृतिः प्रवृत्तेत्यस्मर्य-

पृष्ठ 305
स्थायी लिंक
पृष्ठ 305 स्कैन

१ ] प्रथमाध्याये तृतीयपादः २५३
माणोऽर्थस्यावधिर्यासामिति षष्ठीतत्पुरुषगर्भबहुव्रीहिः । सिद्धान्तोपयोगिविशेषणं मन्वादि-
प्रणीतो ग्रन्थो निबन्धनं यासामिति शिष्टप्रणीतत्वं मन्वादिप्रणीतनिबन्धनास्वित्यनेन
प्रामाण्योपयोगिविशेषणमुक्तम् । आचारग्रहणेनाशब्दत्वपूर्वपक्षहेतुकतृ'सामान्यसिद्धान्तहेतु-
साम्यादाचाराणामप्यधिकरणविषयत्वमुक्तम् ।
ननु यत्रेत्यादिभाष्येणैव विषयावगतिसिद्धेः, तत्स्वरूप तस्य च विशेषस्यात्राविचार्य-
त्वादष्टकादिस्वरूपोदाहरणं व्यर्थमित्याशङ्कयाह—तत्रेति । स्वरूपगतविशेषाविचारेऽप्युदा-
हरणविशेषं विना नैराकाङ्क्षयमावादष्टकाद्युदाहरणमिति भावः ।
मन्वादिस्थानां स्मरणानामन्येन ज्ञातुमशक्यत्वात्कथं विचारविषयत्वमित्याशङ्क्य
तद्ग्रन्थसमर्पितानीत्युक्तम् । विषयप्रदर्शनार्थतया भाष्यं व्याख्याय सन्देहहेतुश्नानेन भाष्येणा-
भिधीयत इत्याह—सन्देहेति । कथमित्यपेक्षिते पूर्वपक्षप्रतिमानार्थत्वेन यत्रेति भाष्यं
व्याचष्टे—पारतन्त्र्यादिति । सिद्धान्तप्रतिमानार्थत्वेनाऽद्य वेति भाष्यं व्याचष्टे-अप्रामाण्येति ।
श्लोकं विवृणोति—मन्वादीति । (शब्दानामर्थपरत्वे स्वतः प्रामाण्ये च सत्यपि वक्तृ-
ज्ञानानुमानं विनार्थामावव्युदासरूपपरिच्छेदाख्यविज्ञानानुत्पादकत्वाद्, ज्ञानमात्रस्य च
प्रामाण्याभावाद्वक्तृज्ञानानुमानद्वारा विज्ञानोत्पादकत्वावगतेर्मन्वादिवचनस्य स्मृत्यपेक्षतोक्ता
भाष्यकृता । आचाराणामप्युदाहरणत्वसिद्धयै वाक्यात्युदाहरणेऽपि पूर्वोत्तरपक्षहेतुसाम्या-
तेषामप्युदाहरणत्वोपपत्तिसूचनार्थं वचनोक्तिः ।) तदुच्यत इति पूर्वपक्षभाष्यं व्याचष्टे—
तत्रेति । पूर्वविज्ञानमूलप्रमाणम्, तस्य यो विषयः, स एवास्येति पूर्वविज्ञानविषयविषय-
मित्येकोऽत्र विषयशब्दो लुप्तो द्रष्टव्यः । श्लोकं विवृणोति—सर्वेति ।
ननु शब्द एवात्र मूलप्रमाणं भविष्यत्यत आह—शब्दोऽपीति । ननु प्रत्यक्षानुप-
लब्धोऽपि कल्पयिष्यत्यत आह—प्रत्यक्षेति । प्रमाणशब्देन भावव्युत्पत्त्या कल्पनमभिप्रेतम् ।
तदेव तावन्निष्प्रमाणकत्वात्कल्पाद्धर्मास्तित्वाद्विप्रकृष्टं दूरे न तत्स्पृशतीत्यर्थः, योग्या-
नुपलब्ध्यभावाद्धर्मास्तित्वकल्पनापेक्षयाऽसन्कृष्टं धर्मास्तित्वं शब्दास्तित्वस्य
योग्यप्रत्यक्षानुदयेनामावनिश्चयात्तत्कल्पना विप्रकृष्टतरा । श्लोकं व्याचष्टे - शब्दस्य
तावदिति । अभ्युपगतमित्यनेन कल्पनार्थत्वेन प्रमाणशब्दो व्याख्यातः । नन्वतु-
मानादिनापि शब्दावगतिसम्भवात्प्रत्यक्षमेव प्रमाणमित्ययुक्तमुक्तमत आह—न चेति ।
श्लोकं व्याचष्टे—यथैवेति । आगमं निराकरोति—न चेति । कृतके नास्ति विश्रम्भ
इत्येतद्व्याचष्टे—यद्यपीति । दुष्टैः प्रतारकैः पुरुषैराकुलितं भ्रमितं चेतो येषाम् =
अस्मादीनामित्यर्थः । 'नित्यो नैवोपपद्यते' इत्येतद्व्याचष्टे-नित्यस्य त्विति ।
नन्वन्विव प्रपेत्यादिमन्त्रलिङ्गानां प्रपादिसमृतिमूलत्वदर्शनाद्वेदमूलत्वाभिधायिनां
मन्वादीनां तद्दृष्टान्तेन सत्यवादित्वावगतेः कृतके नास्ति विश्रम्भ इत्ययुक्तमत आह—
न चेति । एवं र्तार्ह मूलान्तरसूचकत्वान्नित्यो नैवोपपद्यत इत्युक्तमत आह—न चेति ।
कर्त्तव्यतानुवादे विधिसूचनं स्यात् स्वरूपमात्रानुवादस्तु यहच्छासिद्धप्रपादिविषयत्वेनोपपन्नो
य विध्याक्षेपकमित्याशयः ।

पृष्ठ 306
स्थायी लिंक
पृष्ठ 306 स्कैन

१५४ मीमांसादर्शनम् [ सू०
मन्त्रलिङ्गानां च स्मृतिमूलसूचकत्वनिराकरणेन नित्यानुमेयश्रुतिमूलत्वमपि निराकृतं
भवति । अन्धपरम्परान्यायापत्त्या स्मरणेन नित्यानुमेयश्रुतिकल्पनस्य निराकरिष्यमाणत्वात्,
प्रत्यक्षश्रुतिमूलत्वे त्वैकरूप्यात्तस्यास्तन्मूलानां स्मृतीनामप्यैकरूप्यं स्यात् न त्वेतदस्ति ।
'यदुच्यते द्विजातीनां शूद्राहारोपसंग्रहः ।
न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥' या० स्मृ० आ० श्लो०
इत्यादिविगानदर्शनादित्याह — न चेति । ननूपलब्धश्रुतिमूलत्वेऽपि विगीतानेकश्रुति-
मूलत्वात् स्मृतिविगानमविरुद्धमत आह — न चेति । श्लोकं व्याचष्टे—यदि हीति ।
विधिरूपं वाक्यं मन्वादिभिर्निरूपितमुपलब्धमिति यदि विज्ञायेत, ततः कापि विगीतानेक-
श्रुतिमूलत्वाद्वादिकल्पना स्यात् । अर्थवादपरेष्वपि त्वद्यत्वेऽपि 'स यदि ह वा अपि मृषा वदति
सत्यं हैवास्योदितं भवति, य एवमेतत्सत्यस्य सत्यत्वं वेदेत्यादिषु मृषोद्याभ्यनुज्ञाभ्रान्ति-
दर्शनेन मन्वादिष्वपि भ्रान्तिशङ्काया निराकर्तुमशक्यत्वात् एकश्रुतिमूलत्वेऽपि भ्रान्त्य-
वसितानेकतात्पर्यविगाननिमित्तस्मृतिविगानोपपत्तेरनेकश्रुतिमूलत्वकल्पनोचितेति भावः ।
प्रलीनशाखामूलत्वं तर्ह्यस्त्वत आह — मृतेति । प्रासङ्गिकं परिसमाप्य प्रकृतमुपसंहरति—
तस्मादिति ।
उपमानं निराकरोति—उपमानं त्विति । अर्थापत्तिं निराकरोति—अर्थापत्त्यापीति ।
श्लोकं व्याचष्टे—यदि हीति । सामान्यतो दृष्टग्रहणं दृष्टान्तार्थमतो निर्मूलत्वादित्युपसंहार-
भाष्यं निर्मूलस्मृत्यसम्भवेन, कस्यचिद् भ्रान्त्यादेरवश्यकल्प्यत्वादयुक्तमाशङ्क्य व्याचष्टे—
तस्मादिति ।
नन्विति भाष्यमर्वाचीनाभिप्रायेण तावद् द्वेधा योजयति—नन्विति । अर्वाचीनानां
कर्त्तव्यत्वाज्ञानाद्ये विदुरित्ययुक्तमित्याशङ्कते—नन्विति । वदनानुमेयत्वात्परिज्ञानस्य
वदन्तीत्युक्तम् । तेषामपि मन्वादिवाक्यश्रवणाद्भवति कर्त्तव्यत्वज्ञानमिति परिहरति—
कथमिति । एवं कर्त्तव्यज्ञानात्कर्त्तव्याभिधानयोर्विप्रतिषेधप्रतिपादनपरत्वेन व्याख्याय नन्व-
विदुषामुपदेशो नावकल्पत इत्यनेन न्यायेनोपदेशान्यथानुपपत्त्या मन्वादेः पूर्वज्ञानकल्पनाशङ्का-
र्थमेतद्भाष्यमित्यन्यथाचष्टे—अथ वेति । ये कर्त्तव्य इति न विदुः, कथमिव ते वदिष्यन्ती-
त्यममी पदार्थाः कर्त्तव्य इति व्यत्ययेनास्मिन् व्याख्याने भाष्यं योज्यम् । निषेधाभावेन
त्वकर्त्तव्यत्वस्यानाशङ्क्यत्वात्कर्त्तव्यत्वज्ञानमेवाकर्त्तव्यत्वज्ञानमुखेनाकर्त्तव्यो यस्मिन्नि-
त्यनेनोक्तम् । विवक्षितार्थलाभाय च व्यत्ययाङ्गीकरणमदोषः । 'स्मरणानुपपत्तेरिति भाष्य-
मर्वाचीनानां स्मरणानुपपत्तेत्येव कैश्चिद्व्याख्यातम् । तत् मन्वादिवाक्यश्रवणजनितस्यार्वा-
चीनानामष्टकादिकर्त्तव्यताज्ञानस्याकर्त्तव्यत्वाभिधानविरोधित्वेनोपन्यस्तस्य स्मृतित्वेनाशङ्कि-
तत्वादयुक्तमित्यभिप्रायेण दूषयति—स्मरणेति । तदर्वाचीनानामष्टकादिकर्त्तव्यत्वज्ञानमा-
शङ्कावादि नैव तावन्न स्मृतित्वेनेष्टम्, अतस्तस्य स्मृतित्वनिराकरणमयुक्तमिति
तावच्छब्दस्यार्थः ।

पृष्ठ 307
स्थायी लिंक
पृष्ठ 307 स्कैन

१ ] प्रथमाध्याये तृतीयपादः २५५
ननु मन्वादीनामपि स्मरणं निराकर्त्तुमशक्यम्, तदभावे ग्रन्थरचनानुपपत्तेरित्या-
शङ्क्याह - मन्वादीनामपीति । तस्माद्व्याख्यानद्वयेऽपि मन्वाद्यभिप्रायेणैवैतत्परिहारभाष्यं
योज्यमिति भावः । तत्रावाचीनाभिप्रायशङ्काव्याख्याने मन्वादिवाक्योत्पन्नकर्त्तव्यत्वज्ञानां
अप्यर्वाञ्चो मन्वादीनां स्मरणानुपपत्तिमलोच्याकर्त्तव्यत्वं वदन्तीति योज्यम् । द्वितीय-
व्याख्याने तूपदेशकल्प्यस्मरणस्य पूर्वविज्ञानकारणाभावेनानुपपत्त्या नोपदेशस्य तत्कल्पकत्वं
सम्भवतीत्यसम्भवेतोऽर्थापत्त्या कल्पयितुमशक्यत्वादिति भावः । विदितपूर्वस्याप्यस्मृतस्यो-
पदेष्टुमशक्तेः, स्मरणद्वारेणोपदेशस्य ज्ञानकल्पकत्वात्स्मरणनिराकरणेन ज्ञानमेव निराकृतम् ।
बन्ध्यादौहित्रोदाहरणस्य प्रश्नपूर्वमभिप्रायमाह-कस्मात्पुनरिति । कारणाभावेन
कार्याभावोऽत्र दृष्टान्तो वाच्य इति, दौहित्रस्य कारणभूतदुहितुरभावेनाभावो निदर्शनीयः ।
दुहितुस्तु बन्ध्याकारणमस्तीति न कारणाभाव इत्याशयः । उपदेशान्यथानुपपत्त्या मन्वादि-
स्मरणेऽवश्यकल्पे सम्यक्त्वमात्रमिह निषेध्यमिति सूचयितुं दृष्टान्तभाष्ये सम्यग्ग्रहणम् ।
एवमपीत्याशङ्काभाष्यं पूर्वं विज्ञानकारणाभावे स्मृतिप्रामाण्यानुपपत्तेर्युक्तमाशङ्कय
पूर्वविज्ञानकारणभूतवेदवाक्यानुमानाभिप्रायत्वेन व्याचष्टे - यथैवेति ।
एवं तर्हि नैतदेवमिति परिहारभाष्यं पूर्वविज्ञानकारणाभावे हेत्वप्रदर्शनादयुक्तं
स्यादित्याशङ्क्यऽगृहीताभिप्रायत्वेन व्याचष्टे इतरस्त्विति । एतदेव भाष्यमवयवशो
व्याचिख्यासुर्वेदत्वस्मृतिप्रामाण्योपपत्तिप्रतिपादकं तावत् प्रत्यक्षेणेतिभाष्यावयवं व्याचष्टे -
वेदः पुनरिति । ननु वर्णस्वरूपस्य प्रत्यक्षत्वेऽपि तस्य वेदावेदसाधारण्याद्वेदत्वस्मृति-
र्निर्मूलैव स्यादत आह-शब्देति । वेदशब्दवाच्यत्वमात्रमेव तत्राप्रत्यक्षं तदपि तु वृद्धव्यव-
हारावगम्यत्वान्न निष्प्रमाणकम्, ग्रन्थान्तरविलक्षणमेतत्स्वरूपं प्रत्यक्षमेवेति भावः । एतदेवोप-
पादयति-प्रागपि हीति । वेदशब्दस्योपलक्षणत्वाद्वेदादिविशेषमन्त्रब्राह्मणोपन्यासः ।
ननु वेदशब्दात्प्रागपि वेदादिस्वरूपप्रतीतौ वेदादिसंज्ञानां डित्थादिवत्पौरुषेयत्वान्निष्प्रमाण-
कत्वं स्यादित्याशङ्कयाह - सर्वेषां चेति । नन्वेवमपि वेदादिशब्दोल्लेखाबगतेर्वृद्धव्यवहारा-
धीनशब्दार्थसम्बन्धप्रतीत्युत्तरकालीनत्वात् प्रत्यक्षत्वं न स्यात् अत आह-इतीति ।
शब्दोल्लेखप्रतीतिनिर्देशार्थं इतिकरणः । संज्ञाद्वारेण तदुल्लेखेनोत्तरकालमपि गम्यमानानां
प्रत्यक्षसूत्रे तत्र शब्दार्थसम्बन्धप्रमातुरित्यत्र प्रत्यक्षत्वं साधितमित्यर्थः ।
दार्ष्टान्तिके वैषम्यप्रतिपादनार्थमष्टकादिषु त्विति भाष्यावयवं व्याचष्टे-नन्विति ।
कुम्भकारक्रियास्त्रिवेति वैधर्म्यदृष्टान्तः एतदेवोपपादयति - यदो ते । अन्धपरम्परान्यायेनेति
व्याख्येयतयोपक्षिप्तस्यान्धपरम्परानिदर्शनस्य प्रयोजनं तावदाह-सर्वस्येति । वेदत्वस्मृति-
वदष्टकादिस्मृतावप्यनादित्वात्प्रामाण्यप्रसिद्धयभिमानं निवर्त्तयितुमन्धपरम्परानिदर्शनमित्यर्थः ।
कथमनेन निदर्शनेन प्रामाण्यप्रसिद्धयभिमाननिवृत्तिरित्यपेक्षितेऽस्मिन्निदर्शनेऽनादित्वस्या-
प्रामाण्यापादकत्वदर्शनादित्याह-वेदे हीति । एतदेव प्रश्नपूर्वमुपपादयन्निदर्शनभाष्यं व्याचष्टे-
कथमिति । दार्ष्टान्तिके योजयति-तादृशं चेति ।

पृष्ठ 308
स्थायी लिंक
पृष्ठ 308 स्कैन

१५४ मीमांसादर्शनम् [ सू०
नन्वयमविधदृष्टान्तोपलब्धो कथमष्टकादिस्मरणस्यान्धपरम्परितुल्यत्वम्, न तु वेदत्व-
स्मृतितुल्यतेति निर्णय इति आशङ्क्य पूर्वविज्ञानकारणाभावादिति भाष्योक्तहेतुव्याख्या-
नार्थं पूर्वोक्तमेव चोदनामूलत्वनिराकरणं स्मारयति- न चेति । मूलसद्भावे प्रमाणं
नास्तीत्युक्त्वा तदभाव एव तु स्मर्त्तव्यास्मरणं प्रमाणमस्तीत्याह-यदि चे.ति । अनेन
चाप्तोक्तिनिबन्धनेषु व्यवहारेषु प्रामाण्यहेतुभूतस्य मूलस्य स्मरणेन व्याप्तत्वाद्द्यापकस्मरणा-
भावेन व्याप्यमूलाभावानुमानमुपन्यस्तम् अर्थापत्तिर्वा व्यवहारार्थिनां व्यवहारहेतुमूलविस्म-
रणानुपपत्तेर्दृश्यादर्शनवद्वा स्मर्त्तव्यास्मरणस्याप्यनवगतपूर्वातीताभावज्ञानकरणतायाः ।
स्वरूपमात्रं दृष्ट्वा च पश्चात्किञ्चित्स्मरन्नपि ।
तत्रान्येनास्तितां पृष्टस्तदेव प्रतिपद्यते ॥ [अ. प्र. श्लो. २८]
इति वदद्भिराचार्यैरिष्टत्वाद्भावाख्यमेव प्रमाणमनेनोपन्यस्तम् ।
नन्वविच्छन्नपारम्पर्यदृढस्मरणमात्रेण व्यवहारसिद्धिरवश्यस्मर्त्तव्यत्वविशेषणाभावात्,
अस्मरणमात्रस्य च चिरवृत्तेषु सत्स्वपि पदार्थेषूपलब्धेरभावात् असाधकत्वान्नास्मरणेन
मूलाभावसिद्धिरित्याशङ्कते-स्यादेतदिति । निर्मूलस्य स्मरणस्याप्रामाण्येन व्यवहारासाध-
कत्वान्मूलस्यावश्यस्मर्त्तव्यत्वं साधयति - तदयुक्तमिति । अवश्यसमर्पणीयासमर्पणादपि
स्मृतिमूलभूतानां चोदनानामभावोऽवसीयेत इत्याह-अपि चेति । ननु स्वयंदृष्टस्य मूलस्या-
वश्यसमर्पणीयत्वं भवेत् मन्वादिभिस्तु स्मृतिमूलभूतानां चोदनानां स्वयमदृष्टत्वादशक्यं
समर्पणमित्याशङ्क्याह-यदि हीति । एवमपि मन्वादिभ्यः पूर्वैराचार्यैः स्वयंदृष्टत्वे
समर्पणीयत्वापत्तेः, अदृष्टत्वे वा नित्यानुमेयत्वापत्तेस्तस्य च निराकरिष्यमाणत्वान्निर्मूल-
त्वमेव वलादापद्यतेति भावः
ननु पूर्वाचार्यैः समर्पितमपि स्मृतेर्मूलं प्रलीनत्वेन मन्वादिभिः स्वयमदृष्टत्वान्न
समर्प्यतेऽत्र आह--यदि त्विति । ननु मन्वादिभिः स्वयं दृष्टानामपि मूलानामन्यैरपि
स्वयं दृष्टत्वादसमर्पणमित्याशङ्क्यास्मिन्पक्षे स्मृतिप्रणयनवैयर्थ्यमाह-अथेति । इतश्च
वैयर्थ्यमित्याह-युक्ततरा चेति । किं चान्यैः स्वयंदृष्टानामुपि वेदवाक्यानां तात्पर्याज्ञानेनेद-
मस्याः स्मृतेर्मूलमिति निर्णतुमशक्यत्वात्तात्पर्यज्ञापनार्थं मन्वादिभिरवश्यं समर्पणं
कर्त्तव्यमित्याह-न चेति । प्रमाणशून्यो मूलविशेषनिर्णयोऽशक्य इति, अन्यथैव
दृष्टान्तमाह-पश्येति ।
ननु-
'यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्त्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥'
इति मन्वादिभिः सामान्येन स्वस्मृतीनां वेदमूलत्वाभिधानाद्विशेषामर्पणोऽपि
स्मृत्यनुरूपमूलविशेषनिर्णयो भविष्यत्यत आह-न चेति । अतोऽनादर्त्तव्यमित्युपसंहार-
भाष्यं व्याचष्टे -तस्मादिति ॥ १ ॥

पृष्ठ 309
स्थायी लिंक
पृष्ठ 309 स्कैन

१ . ] प्रथमाध्याये तृतीयपादः १५७
भावप्रकाश
भा० प्र०—प्रथम पाद में वेदविधि का प्रामाण्य निरूपित किया गया है और
द्वितीय पाद में अर्थवाद और मन्त्र का प्रामाण्य सिद्ध किया गया है । तृतीय पाद में
अन्य शाखाओं में स्थित वेदविधि, मन्त्र या अर्थवादमूलक स्मृति के प्रामाण्य का विचार
किया जा रहा है ।
स्मृति प्रमाण है या अप्रमाण इस प्रकार का संशय होने पर 'धर्मस्य शब्दमूलत्वाद-
शब्दमनपेक्षं स्यात्' १।३।१ इस सूत्र की पूर्वपक्ष के रूप में अवतारणा की गई है । पूर्वपक्ष
के समर्थन में यहाँ कहा गया है कि 'अष्टकाः कर्तव्याः' अर्थात् अष्टका श्राद्ध करना चाहिये,
'तडागं खनितव्यम्' तालाब खन कर प्रतिष्ठा करनी चाहिये, 'प्रपा प्रवर्त्तयितव्या' जल
सत्र को प्रवर्तित करना कर्तव्य है, 'शिखाकर्म कर्तव्यम्' शिखा धारण करना चाहिये
इत्यादि शिष्टजनों से परिगृहीत स्मृति वचन हैं, किन्तु वे धर्म में प्रमाण नहीं हैं, अर्थात्
ये कर्म धर्म नहीं हैं। क्योंकि धर्म का लक्षण निरूपण करते हुए कहा गया है कि धर्म
चोदनालक्षण अर्थात् वेदविधि से बोध्य ही है, किन्तु इन स्मृति वचनों के मूल में कोई
वैदिक वचन नहीं है ।
यदि यह कहा जाय स्मरण अर्थ वेद के अर्थ का स्मरण मात्र है और स्मरण की
उत्पत्ति अनुभव के बिना नहीं हो सकती है, अतः, अर्थापत्ति के आधार पर उसका पूर्व में
अनुभव अवश्य ही मानना होगा; धर्म यह अलौकिक अदृष्ट तत्त्व है, अतः, इसमें प्रत्यक्ष
एवं प्रत्यक्ष को उपजीवक मान कर स्थिर अनुमान एवं उपमान प्रमाण का प्रामाण्य नहीं
हो सकता है। अपितु शाब्द ज्ञान रूप अनुभव के फलस्वरूप ही धर्म का स्मरण किया
जा सकता है । किन्तु इस प्रसङ्ग में यह कहना है कि वन्ध्या नारी यह कहे कि 'यह
मेरे दौहित्र का मकान है, तो यह वचन बाधित मानना पड़ेगा, क्योंकि कन्या की उत्पत्ति
के बाद उस कन्या का पुत्र दौहित्र होगा, और दौहित्र होने पर उसके भवन का ज्ञान
होगा, कन्या के स्मरण के बिना दौहित्र का स्मरण नहीं हो सकता है। प्रकृत में भी
श्रुति के वचनों के अनुभव के बाद ही उसके अर्थ का स्मरण होगा, अर्थात् स्मृति का
मूलीभूत शाब्दज्ञान, इस शाब्दज्ञान का कारण स्वरूप शब्द . अर्थात् श्रुतिवचन है,
श्रुति वचन के स्मरण के बिना श्रुति वचन सहित अर्थ का स्मरण नहीं हो सकता है।
वेद अविच्छिन्न परम्परा के क्रम में आ रहा है, अर्थात् अपौरुषेय रूप में परम्परा से
प्राप्त है, अतः, प्रमाण है, इसी तरह स्मृति भी परम्परा क्रम में आ रही है, अतः प्रमाण
है। किन्तु, इस प्रसङ्ग में यह कहना है कि वेद मात्र परम्परा क्रम में प्राप्त होने से
प्रमाण नहीं है, अपितु, किसी पुरुष विशेष से रचित न होने के कारण ही—यह प्रमाण
है, किन्तु स्मृतियाँ तो मनु आदि मनुष्यों के द्वारा रचित हैं, अतः, भ्रम प्रमाद आदि
दोष से युक्त मानव की रचना स्वतः प्रमाण नहीं है, धर्म अलौकिक है, अदृष्ट है, उसका
साक्षात्कार मनुष्य नहीं कर सकता है, इसलिए साक्षात्कारपूर्वक उस विषय का प्रतिपादन
१७