सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 303, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 303

१ ] प्रथमाध्याये तृतीयपादः २५१
रेत्पद्यमानः कैश्चिद् दृश्यत इत्यन्धपरम्परान्यायेनाप्रमाणता । सर्वस्यानादि-
व्यवहारोपन्यासेन वेदवत्प्रसिद्धयभिमानो भवति, अतोऽन्धपरम्परानिदर्शनम् । वेदे
हि प्रामाण्यस्यानादित्वमिहाप्रामाण्यस्य कथम् ?
यो यो ग्रहीता जात्यन्धः स स्वयं नोपलब्धवान् ।
स्वातन्त्र्येणागृहीते च प्रामाण्यं नावतिष्ठते ॥
तादृशं वाऽष्टकादिस्मरणम् । न च चोदना मूलभूतोपलभ्यते । न चाननु-
भूतसम्बन्धाऽनुमातुं शक्यते । यदि च वेदादुपलभ्य स्मृतयः प्रवर्तिताः स्युः,
ततोऽर्थस्मरणवदित उपलभ्यायं मन्वादिभिः प्रणीत इत्यपि पारम्पर्येण स्मर्येत ।
स्यादेतद् । अर्थस्मरणेन कृतार्थानां निष्प्रयोजनं मूलस्मरणमनादराद् भ्रष्टमिति ।
तदयुक्तम् । न हि यत्कृतं प्रामाण्यं तदेव विस्मर्तुं युज्यते । अर्थस्मृतेः स्वतः
प्रामाण्याभावात् । सर्वे पुरुषास्तावदेतज्जानन्ति यथा वेदमूलज्ञानादिना प्रामाण्यं
न निश्चीयत इति, ते कथमिव तत्रानादरं कुर्युः ।
अपि च—येन यत्नेन मन्वाद्यैरात्मवाक्यं प्रपाठितम् ।
कस्मात्तेनैव तन्मूलं चोदना न समर्पिता ॥
यदि हि तैरप्यर्थमात्रमेवान्येभ्योऽधिगतम्, न वेदो दृष्ट इति, ततस्तत्पूर्वकै-
ष्वप्ययमेव पर्यनुयोग इति, निर्मूलसम्प्रदायत्वप्रसङ्गान्निर्मूलत्वान्न मुच्यसे यदि
तु प्रलीनशाखामूलता कल्प्येत, ततः सर्वासां बुद्धादिस्मृतीनामपि तद्द्वारं प्रामाण्यं
प्रसज्येत । यस्यैव च यदभिप्रेतम्, स एव तत्प्रलीनशाखामस्तके निक्षिप्य प्रमाणी-
कुर्यात् । अथ विद्यमानशाखागता एवेतेऽर्थास्तथाऽपि मन्वादय एव सर्वे पुरुषास्तत
एवोपलप्स्यन्ते । युक्ततरा च स्वाध्यायाध्ययनविधेः साक्षाद्वेदादेव प्रतीतिरिति,
स्मृतिप्रणयनवैयर्थ्यं स्यात् । न च तद्विज्ञायते । कीदृशाद्वाक्यादिदं मन्वादिभिः
प्रतिपन्नम्, किं विधिपरात्, उतार्थवादरूपादिति ।
पश्य—महताऽपि प्रयत्नेन तमिस्रायां परामृशम् ।
कृष्णशुक्लविवेकं हि न कश्चिदधिगच्छति ॥
न च मन्वादिवचनाद्वेदमूलत्वं निश्चितुमः । ते हि निर्मूलमपि विप्रलम्भादि-
हेतोरुक्त्या लोकं वञ्चयितुमेवं वदेयुः । तस्मादप्रमाणम् ॥ १ ॥
न्यायसुधायाम्
सर्वानवधकारिण्यां प्रथमं स्मृत्यधिकरणम् ।
न्या० सु०—अत्र भाष्यकारेण सङ्गतिप्रदर्शनाथमेवं तावदिति वृत्तमनुकीर्तितम् । तच्च
नामधेयप्रामाण्यस्यानुक्तत्वादयुक्तमाशङ्कय व्याचष्टे—एवं तावदिति । अयमाशयः—
नामधेयानां विध्युद्देशान्तर्भावात् त्र्यंश एव वेदः । कृत्स्नश्चासावर्थवादाद्यनुपयोगनिराकरणेन
प्रमाणतया साधितः । नामधेयाधिकरणे तु विधिस्तुतिस्मृतिवन्नामधेयत्वमपि प्रामाण्यद्वारं
भवति वा, न वेति चिन्तयिष्यते ।