सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

५६ मीमांसादर्शनम् [ सू०
गङ्गायां घोष इत्यादी दर्शनात्तेद्व्युदासार्थं बलादित्युक्तम् । स्वरसतो प्रतीयमानाप्येक-
वाक्यता पुरुषार्थानुबन्धित्वलाभाय स्तुत्यर्थत्वावधारणात्तद्वशेन कल्प्यमाना नेतरेतरा-
श्रयापादिकेत्याशङ्कां निराकर्त्तुं पुरुषार्थत्वं वेत्युक्तम् । पुरुषार्थानुबन्धित्वस्याप्यप्रमाण-
कत्वादिति भावः ।
बहुक्षीरादिवाक्येषु रूपभङ्गेनापि पुरुषार्थपर्य्यवसायित्वदर्शनाद्वेदेऽपि तथानुमानं १
स्यादित्याशङ्कते—लौकिकवाक्येष्विति । आक्षेप्ता पुरुषार्थपर्य्यवसायित्वे साध्ये वाक्यत्वस्य
हेतोरप्रयोजकत्वं दूषणमाह—तत्रेति । एतदेवोपपादयति—लोके ऽपीति । समाधानान्तर-
माशङ्कते—तत्रेति । कथं तेन सूत्रेण पुरुषार्थपर्य्यवसायित्वसिद्धिरत आह—न हीति ।
आदरण्यान्यथानुपपत्तिः पुरुषार्थपर्यवसायित्वे प्रमाणम्, तेन सूत्रेण वक्ष्यत इति भावः । न
च व्यामोहादादरोपपत्तिरित्याह—यद्यपीति एतदेवोपसंहरति-तस्मादिति । एतदप्याक्षेप्ता
दूषयति—न त्वेतदिति ।
नन्वाप्तवाक्यवत्पुरुषाधोनप्रामाण्याङ्गीकरणमपि न दोषाय स्यादत आह—यदि हीति ।
अयमाशयः—किमत्र स्वादरान्यथानुपपत्त्या प्रयोजनवत्त्वकल्पनं स्यात्, पुरुषान्तरादरान्यथा-
नुपपत्त्या वा । तत्राद्ये पक्षे स्वाद्रात्प्रयोजनवत्त्वावगमः प्रयोजनवत्त्वावगमाच्च स्वादर
इत्यन्योन्याश्रयः स्यादित्यनेनोक्तम् । द्वितीये तु मूलप्रमाणाभावेनान्धपरम्परेत्याह—
अथेति । तदेव दर्शयति—सर्वत्र हीति । नन्वादरान्यथानुपपत्त्याध्येतृषु प्रयोजनवत्त्वज्ञाने
कल्पिते तत्कारणीभूतं किं चिन्मूलप्रमाणं कल्पयिष्यामोऽत आह—तेनेति । कस्यचिन्मूल-
प्रमाणस्यासम्भवाद् भ्रान्तिमूलत्वं प्रसज्येतेति भावः ।
कथमसम्भवोऽत आह—अतो यावदिति । एवमाक्षिप्याध्ययनविधिरैव सर्वस्य पुरुषार्थ-
पर्यवसायित्वे प्रमाणमिति स्वमतेन समाधातुमुपक्रमते—तदुच्यत इति । विध्यादिसाधारण्य-
प्रदर्शनार्थं सकलग्रहणं । पूर्वं तावत्सर्वोपयोगः प्रतिपाद्यते । पश्चादर्थवादानां द्वारविशेष
इति तावच्छब्देनोक्तम् । निष्प्रयोजनाक्षरमात्राध्ययनेऽपि बुद्धिपूर्वकारिणां पुंसां प्रवर्त्त-
यितुमशक्यत्वान्नै कस्याप्यक्षरस्य निष्प्रयोजनत्वमध्ययनविधिरनुमन्यते । न चैकदेशे दृष्टार्थ-
स्याद्दृष्टार्थत्वमेकदेशान्तरे युक्तम् । एकत्र नियमविधिः, परत्राप्राप्तविधिरिति वैरूप्यस्या-
परिहार्थत्वात् तस्मात्सकलस्यैव वेदस्य प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिबलाद-
वसीयत इति भावः ।
ननु क्वचिदध्ययनविधेः पुरुषार्थपर्यवसायित्वे सिद्धे सत्यवैरूप्याय सर्वत्र तथाङ्गी-
करणं युक्तम्, तदेव तु निष्प्रमाणकं समानपदोपात्तस्याध्ययनस्यैवभव्यत्वोपपत्तेरित्याशङ्क्य
प्रथमसूत्रोक्तं दृष्टार्थत्वे दर्शयितुमाह—तत्रेति । कस्मिन्नंशे तर्हि तस्य निवेशः, अत आह—
ततश्चेति । साध्यांशानिवेशकारणस्य विधिविरोधस्यात्राभावमविरोधादित्यनेन दर्शयति ।
नामांथंस्य करणांशे निराकर्त्तुं सन्निधेरित्युक्तम् । तेनात्र भाव्याकाङ्क्षायां श्रुतभाव्या-
१. अर्थवादवाक्यं पुरुषार्थपर्यवासायि वाक्यत्वात् बहुक्षीरादिवाक्यवत् ।

७ ] प्रथमाध्याये द्वितीयपादः ५७
भावादश्रुतादृष्टकल्पने च तस्य स्वरूपम्, तज्जन्यत्वम्, तत्र चाध्ययनस्य शक्तिः कल्प्येतेत्य-
नन्तादृष्टकल्पनागौरवापत्तेः, दृष्टस्य जन्यत्वमात्रं कल्पनीयमित्याह—तेनेति । एवं तर्ह्य-
नन्तरदृष्टाक्षरग्रहणमात्रेण नैराकाङ्क्षयान्नाभिमतं वाक्यार्थज्ञानपर्यन्तत्वं सिद्ध्येदित्याशङ्क्य
प्राक् पुरुषार्थसिद्धैर्नेराकाङ्क्ष्याभावं दर्शयति—तस्यापीत्यादिना—निराकाङ्क्षी
भवतीत्यन्तेन ।
आधानादिविधीनामपुरुषार्थरूपााहवनीयादिमात्रे नैराकाङ्क्षयदर्शनादिहापि तथा
स्यादित्याशङ्क्याह—एवमिति । एवं तर्हि न साक्षात्पुरुषार्थपर्यवसाय्येव सर्वत्र फलमस्तु
अत आह—न चेति । पारम्पर्यपुरुषार्थफलत्वेनापि विध्युपपत्तेर्न नियोगतः साक्षात्पुरु-
षार्थफलत्वे किंचित्प्रमाणमस्तीति भावः । एवमपि कथमत्र दृष्टफलत्वनिश्चयः ? अत
आह—योग्यतया हीति । लाघवमनेन निश्चयकारणमुक्तम् । एवं तर्हि होमादावप्याहवनीय-
प्राप्यादिदृष्टकार्यसम्भवाददृष्टकल्पना न स्यात्, वक्तव्यो वा विशेषः, अत आह--तत्रेत्या-
दिना अदृष्टकल्पनेत्यन्तेन । पारम्पर्येणापि तस्य पुरुषार्थानुबन्धाभावात्फलत्वं न सम्भव-
तीति भावः ।
नन्वेवमपि पारम्पर्य्यपुरुषार्थानुबन्ध्र्यक्षरग्रहणमनन्तरदृष्टत्वात्फलं स्यात्, साक्षात्पुरुष-
र्थरूपं वा स्वर्गादि वाक्यार्थज्ञानस्य तूभयरूपरहितत्वात्फलत्वाङ्गीकरणमयुक्तमित्याशङ्क्य
तत्प्रतिपत्त्युपयोगितया सामान्यन्यायं तावद्वक्तुमारभते—सर्वत्र चेति । विहितेऽवघाता-
दावफलात्मकवैतुष्यादिदृष्टकार्यपरम्परायामान्तरालिकं यत्पुरोडाशादि क्रतवे, यागादि
वा पुरुषार्थाय चोद्यते । तदेव तस्य क्रतोः पुरुषार्थस्य वा साधनम् । पूर्वस्य१ त्ववघाता-
दिविधेः पुरोडाशादियागाद्युपकारार्थत्वमात्रम्, न पुरुषार्थपर्य्यन्ततेत्यर्थः । पेषणादीनां तर्हि
कथमन्वयः ? अत आह—यानि त्विति । पेषणादिविधेयानि कार्याण्यनुष्ठेयानि पेषणा-
दीनि, तानि पूर्वविहितस्यावघातादेः स्वव्यापारमात्रतया द्वारमात्रतयान्वीयन्ते, नान्तरी-
यकत्वात्, तैर्विनाऽवघातादिना पुरोडाशादेः कर्तुमशक्यत्वात् । किमिति पेषणादेरवघा-
तादिसाध्यत्वम्, पुरोडाशसाधनत्वं वा नेष्यत इत्याशङ्क्योक्तम्—प्राक् साध्यसाधनभावेना-
चोदितत्वादिति । यदि२ ह्यवघातविधेः प्राक् पेषणादेः पुरोडाशसाधनत्वमवगतं स्यात्,
तत्प्रयोजनवत्त्वेन योग्यत्वादवघातसाध्यत्वं युज्यते । पुरोडाशप्रकृतिभूतव्रीह्युद्देशेन विधा-
नाच्चावघातस्यैव पूर्वं पुरोडाशसाधनतां प्रतीमः । यदि च पेषणादिविधेः प्राक् पेषणा-
देरवघातसाध्यत्वावगमः स्यात् । ततो द्वारमात्रत्वं न युज्येत न त्वेतदस्ति । पुरोडाशस्यै-
वोक्तन्यायेनावघातसाध्यत्वावगमादित्यर्थः ।
३यद्दोत्तरविधिशब्देन पुरोडाशविधिमभिप्रेत्य तस्मात्प्राग्यानि कार्याणीति योज्यम् ।
नन्वेवं तर्ह्यादानानुमितविधिबलेन भस्मसाद्भावस्यापि फलसाधनत्वावगमादश्रुतफलस्य
१. अनुध्यानपेक्ष्येत्यर्थः । २. किमपेक्षया प्रागत आह ।
३. यदा तूतरविधेरिति पञ्चमी तदोत्तरविधिः पुरोडाशविधिः प्रागिति च कार्यपदेन
सम्बध्यत इत्याह—यद्वेति ।

५८ मीमांसादर्शनम् [ सू०
होमस्य तत्साधनत्वापपत्तेर्न दृष्टफलकल्पना स्यादित्याशङ्कयाह—यत्र त्विति । अयमाशयः१
विध्यभावे ऽप्यदग्धस्य क्रत्वर्थस्य कदाचिदुपघाते सति क्रतुवैगुण्यापत्तेस्तत्परिहाराय
दाहादरोपपत्तेर्नैकान्ततो विध्यनुमानम्, विध्यनुमाने ऽपि द्वारमात्रतयापि विध्युपपत्तेर्न
फलसाधनत्वकल्पना युक्तेति ।
एवं सामान्यन्यायमुक्त्वा तदनुसारेण यथाध्ययनविधेर्वाक्यार्थज्ञानपर्यन्तत्वं भवति,
तथा प्रपञ्चयन्नाह—तत्रेति । श्रुतफलेषु क्लृप्तः पुरुषार्थो, अश्रुतफलेषु कल्पयिष्यमाण
इति सर्वाणि प्रधानवाक्यानि अनेन परामृष्टानि । तत्प्रतिपादनं यावदित्यनेनाक्षरग्रहणादीनां
पेषणादिन्यायेनावान्तरव्यापारमात्रत्वादध्ययनफलत्वं निराकृतम् ।
फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता ।
निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यते ॥
इत्यनेन न्यायेन वाक्यार्थज्ञानार्थं स्वाध्यायोद्देशेन विहितस्याध्ययनस्य पुरोडाशार्था-
वघातवद्वाक्यार्थज्ञानार्थत्वावधारणात्तदन्तरालवर्त्तिनामक्षरग्रहणादीनां पेषणादिन्यायेना-
वान्तरव्यापारत्वमात्रं युक्तमिति भावः ।
ननु पुरोडाशस्य विध्यन्तरेण क्रत्वर्थतया फलत्वज्ञानाद्युक्तमवघातसाध्यत्वम्, वाक्यार्थ-
ज्ञानस्य तु कथम् ? अत आह—परतस्त्विति । वाक्यार्थज्ञानस्य सामर्थ्येन, यदेव विद्यया
करोति श्रद्धयोपनिषदा, तदेव वीर्य्यवत्तरं भवतीति वाक्येन वा कर्म्मानुष्ठानार्थत्वाव-
धारणात्कर्मणां च विध्यन्तरैः पुरुषार्थफलत्वावधारणात् न तत्पर्य्यन्तमध्ययनविधिरा-
यास्यति इत्यर्थः ।
ननु च भवतु प्रधानवाक्यानां स्वार्थप्रतिपादनमात्रेण पर्य्यवसानमङ्गवाक्यानां त्वर्थ-
द्वारेण, स्वरूपस्यापि मन्त्रवत्प्रधानेऽग्रहणात्कर्मकालप्रयोज्यत्वावगतेनार्थप्रतिपादनमात्रेण
पर्य्यवसानमित्याशङ्कयाह—यानि त्विति । अयमाशयः—न मन्त्राणामङ्गभूतार्थप्रति-
पादनमात्रेण स्वरूपग्रहणं ज्ञातम्, किं तु विधिवशात् । न चाङ्गवाक्यानां विधिरस्ति,
प्रकरणपाठेन च क्रत्वङ्गत्वं शङ्क्यमानमनारभ्याधीतानां तावन्न शक्यते शङ्कितुम्, प्रकरणा-
धीतानामपि प्रयाजादिवाक्यानां प्रमाणाभावान्न सम्भवतीति । एतदेव प्रश्नपूर्वकमुपपाद-
यति—कुत इति । अदृष्टार्थत्वेन क्रतोरदृष्टोपकारापेक्षत्वान्न२ दृष्टार्थाङ्गवाक्यग्राहकत्व-
मित्यर्थः३ । प्रयोजनशब्देनोपकारमाह । न च साक्षात्क्रतुसम्बन्धायापि प्रयोज्यत्वकल्पनं४
१. नन्वादरानुमितविधिविहितत्वं भस्मसाद्भावस्य विद्यत एव कथमुच्यते न किंचिद्वि-
धीययत—इत्यत आह—अयमाशय इति ।
२. वाक्यार्थप्रतिपादनं दृष्टोऽर्थः ।
३. नन्वङ्गानामफलत्वात् कथं प्रयोजनद्वारेणेत्युक्तमत आह—प्रयोजनेति ।
४. प्रयोगकाले पाठकल्पनमित्यर्थः ।

७ ] प्रथमाध्याये द्वितीयपादः ५९
पारम्पर्येणापि पुरुषार्थानुबन्धलाभादित्यर्थान्तरन्यासेनाह—अत इति । अङ्गानां प्रधान-
वाक्यवदेकान्तरितपुरुषार्थान्वयित्वाद् बाह्यत्वम् । तद्वाक्यानां तु द्व्यन्तरितत्वात्प्रधानाद्
बाह्यतरत्वम् । एतच्च द्व्यन्तरितत्वं प्रकरणाधीतारादुपकारकाङ्गवाक्यविषयम्; सामवा-
यिकाङ्गवाक्यानां त्वादिशब्दोपात्तोपनयनादिवद् बहुव्यवधानमित्याह—एवमिति¹ । स्व-
मते पुरोडाशस्यैव साक्षात्प्रधानभूतयागसाधनत्वात्; भाष्यकाराभिप्रायेण द्व्यवदानग्रहणं
व्यवहिततरत्वप्रदर्शनार्थं कृतम् । आदिशब्दो व्रीह्यादित्यादिशब्दोपात्ताज्यादिविषयः चतु-
र्गृहीताचभिप्रायो द्रष्टव्यः ।
एतामेव सन्निधिव्यवधिव्यवस्थामनारभ्याधीताङ्गवाक्येष्वतिदिशति—एवमेवेति ।
कथं तर्ह्यनारभ्याधीतानां प्रकरणाधीतेभ्यो दौर्बल्यमत आह—तत्र त्विति । असम्बद्ध-
वाक्यान्तरव्यवायेन तेषां प्राकरणिकाङ्गवाक्यवत्प्रधानवाक्यैकवाक्यत्वायोगादिति भावः ।
अनङ्गवाक्यानां त्वतिदूरव्यवधानमित्याह—यानि त्विति ।
ननूक्तेन द्वारेण पुरुषार्थानुबन्धिकर्मानुष्ठानोपयोगिवाक्यार्थज्ञानं सर्वविधिवाक्येषु
सम्भवदपि सकलवेदाव्यापित्वान्नध्ययनविधिप्रयोजनं भवितुमर्हतीत्याशङ्क्य सूत्रभाष्य-
कारानुक्तत्वादुपनिषद्वाक्यानां तावदुपयोगमाह—एतेनेति । उपनिषदामपि² आधानादि-
वाक्यन्यायेन दूरस्थेनैव क्रतुफलेन नैराकाङ्क्ष्यमित्यर्थः । कथमित्यपेक्षिते क्रत्वर्थकर्तृप्रति-
पादनद्वारेणेत्युक्तम् । परलोकफलेषु कर्मसु विनाशिदेहादिव्यतिरिक्त नित्यकर्तृभोक्तृरूपा-
त्मज्ञानं विना प्रवृत्त्यनुपपत्तेरहंप्रत्ययेन च देहे ऽपि दृष्टेन स्फुटतया तद्व्यतिरेकस्य ज्ञातुम-
शक्यत्वात् शास्त्रीयमात्मज्ञानं क्रतुविधिभिरपेक्षितं क्रत्वर्थप्रतिपादनम् तस्य चानारभ्य-
विहितस्यापि सामर्थ्येन पूर्वोदाहृतेन वाक्येनोपनिषदाममन्त्रत्वेन स्वरूपप्रयोज्यत्वाभावा-
दुपनिषज्जनितस्यात्मज्ञानस्य फलातिशयलक्षणवीर्यवत्तरत्वहेतुत्वाभिधानपरेण क्रत्वङ्गत्वा-
वधारणात् तद्द्वारेण पुरुषार्थानुबन्धित्वम् । ज्ञानस्य चाव्यापाररूपकत्वेन स्वरूपेणाविधेय-
त्वे ऽप्युपासनापरनामधेयं ध्यानमेवात्मा ज्ञातव्य इत्यादिभिर्विधीयते । अप्रतिपन्नस्वरूपस्य च
ध्यातुमशक्तेरात्मस्वरूपप्रतिपादनमविनाशी वा अरेऽयमात्मेत्यादिभिः क्रियमाणं विध्यपेक्षित-
त्वानार्थवादेष्विवानादरमर्हतीति तद्द्वारेणोपनिषदां पुरुषार्थपर्यवसानमिति भावः ।
एतच्च संसारिरूपात्मप्रतिपादनाभिप्रायम् । असंसारिरूपसगुणनिर्गुणात्मज्ञानस्या-
भ्युदयनिःश्रेयसार्थतया साधुशब्दाधिकरणे वक्ष्यमाणत्वात्सिद्धार्थप्रतिपादनपराणामप्युप-
निषदामुपासनाविधिशेषतया ³चोदनाशब्देनोपादानसम्भवाच्चोदनासूत्रप्रतिज्ञातप्रामाण्य-
१. ननु द्व्यवदानस्याचार्यमते प्रतिपत्तित्वात् कथं यागसाधनत्वमुक्तमत आह—स्वमत इति ।
२. यथाधानादिवाक्यानां क्रत्वङ्गभूताग्निसंस्कारप्रतिपादनद्वारेण पुरुषार्थत्वं तथेत्यर्थः ।
३. चोदनेति ननु चोदनाशब्दस्य मन्त्रार्थवादनामधेयोपेतमहावाक्यत्वमुक्तम् । तत्र
चोपनिषदामनन्तर्भावात्पुरुषार्थौपयिकत्वेन चेत्यग्रिमभक्तिकयार्थवादेभ्यः पृथक्-
करणात् कथं चोदनाशब्देनोपादानम्; कथं वा तत्सूत्रप्रतिज्ञातप्रामाण्यसाधनमिति चेत्,
सत्यम् किं तु कर्तुरितिकर्तव्यतात्वेन सर्वत्र भावनान्तर्गतैरुक्तदोषाभावादित्यर्थः ।

६० : मीमांसादर्शनम् [ सू०
साधनं सङ्गतम् । पुरुषार्थापयिकत्वेन चात्मस्वरूपप्रतिपादने असंसार्यात्मज्ञाननैरा-
काङ्क्ष्यसम्भवात् पदकवाक्यत्वाभावेनार्थवादवैलक्षण्यमिति सर्वमनवद्यम् ।
मन्त्रनाम्नोः केन द्वारेण नैराकाङ्क्ष्यमत आह—मन्त्रेति । योज्यते सम्बध्यते भाव-
नया सहानेनेति व्युत्पत्त्या योजनाशब्देन द्वारमुक्तम् । ननु साध्यसाधनेतिकर्त्तव्यतानभि-
धायित्वेनाक्रियार्थत्वान्मन्त्रादीनामानर्थक्यमाशङ्कितम्, तत्कथं क्रियार्थत्वमव्युत्पाद्यैवार्थवत्त्वं
व्युत्पाद्यते, तत्राह—तेनेति । येन भावनासम्बन्ध्यर्थप्रतिपादनेनैवार्थवत्त्वं वक्ष्यते, तेन
भावनान्तर्गतिः सिद्धैवेत्यर्थः । अर्थवादोपयोगद्वारानभिधाने ऽप्यध्ययनविधिवलेन सामान्यतः
सर्वोपयोगस्य साधितत्वात्सर्वेषामित्युक्तम् । एतच्च सामान्यतः सर्वोपयोगस्यप्रतिपादनम्,
[सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके इति] न्यायाद्विधिना त्वेकवाक्त्वादिति
सूत्रावयवारूढं¹ द्रष्टव्यम्, तत्र तुशब्देनानर्थक्यनिराकरणार्थेनार्थवत्त्वं सामान्यतः सर्वेषां
प्रतिज्ञातम् । श्रुतिवृत्त्या क्रियार्थत्वानवगमे ऽपि क्रियाविध्येकवाक्यत्ववशेन लक्षणया तदपेक्षि-
तार्थप्रतिपादनाक्रियार्थत्वमुपपादयितुं विधिनैकवाक्यत्वादित्युक्तमिति योज्यम् । भाष्यमपि
यद्यपीत्यादिप्रमाणमित्यन्तमेतत्सूत्रावयवव्याख्यानपरमेव योज्यम् । यद्यप्यर्थवादादिभ्यः
श्रुत्या क्रिया, तत्सम्बद्धं वा नावगम्यते; तथापि तत्रैव प्रमाणं विध्युद्देशैकवाक्यत्ववशेन
लक्षणया वृत्त्या तत्परत्वसम्भवादिति ।
एवं सामान्यतः सर्वेषां क्रियार्थत्वमुपपाद्येदानीमर्थवादानां क्रियार्थत्वनिर्वाहाय द्वार-
विशेषं प्रतिपादयितुं यो ऽपि चेत्यादिनोक्तं पूर्वपक्षन्तावदनुभाषते—यत्त्विति । क्रियाप्रति-
पादकत्वं हि क्रियार्थत्वम्, न चार्थवादैराख्यातवत्स्वरूपेणासौ प्रतिपाद्यते, नापि फलादिपद-
वक्तृदंशः कश्चित्साध्यादिः तस्मात्तदर्थस्य भावनांशत्रयानन्तःपातान्न तत्प्रतिपादकत्वं
विनार्थवादानां भावनया ग्रहणमित्यर्थः । एवमनुभाष्य निराकर्तुमाह—तत्रेति । यद्यप्यर्थ-
वादानां विधिवदनुष्ठापकत्वेन न क्रियार्थत्वम्, क्रियाभिधायकत्वं वा, तथापि प्राशस्त्यज्ञा-
पनेनैवानुष्ठापकत्वात्स्वरसतश्च प्राशस्त्याज्ञानादध्ययनविधिवलाल्लक्षणया तादर्थ्यमङ्गी-
कार्यम् । न च प्राशस्त्यज्ञानस्य कर्त्तव्यत्वासिद्धावध्ययनफलत्वं युक्तं रागत्तो विधितो वा
कर्त्तव्यत्वेनानवगतस्य कस्यचित्फलत्वायोगात् । कर्त्तव्यत्वं च भावनान्तर्गत्या विना न
सिध्यतीत्यर्थवादाध्ययनफलत्वोपपत्तये प्राशस्त्यज्ञानस्य कर्तव्यत्वसिद्धयर्थं भावनान्तर्गति-
व्युत्पादयितुमारभते—सत्यमिति । ननु न तावदर्थभावनान्तर्गतिः शाब्दभावनाया पूर्वपक्षः
प्रागस्त्यज्ञानस्य कैश्चिदिष्यते । न च ततोऽन्या शब्दभावना नाम काचिदुपपत्तिं सहते,
शब्दश्रवणानन्तरभाविन्यां हि प्रवृत्तौ हेतुः प्रवृत्त्युत्पादकत्वात् शब्दभावना शब्देनाभिप्रेतः ।
न चासौ कश्चित्सम्भवति । तथा हि—
प्रवर्त्तको लिङादिर्वा तत्क्रिया वा विलक्षणा ।
अभिधा वाऽथवा ज्ञादिः कार्यं वाऽऽयेष्ठहेतुता ।। १ ।।
१. सूत्रेति तत्तच्छावृत्त्या सामान्यविशेषसमाधानपरतया सूत्रं योजनीयमिति ।

७ ] • प्रथमाध्याये द्वितीयपादः ६१
तत्र शब्दः स्वरूपेण वायुवच्चेत्प्रवर्त्तकः ।
प्रमाणत्वं विहन्येत नियमाच्च प्रवर्त्तयेत् ॥ २ ॥
न च स्वरूपसम्बन्धज्ञानापेक्षो भवेन्न च ।
प्रकृत्यान्वयमाकाङ्क्षेन्न च स्यात्फलकल्पकः ॥ ३ ॥
अथ प्रवृत्ति हेत्वर्थस्वव्यापाराभिधानतः ।
प्रवर्त्तकत्वाच्छब्दस्य सर्वदोषनिवारणम् ॥ ४ ॥
तन्न प्रवृत्तिसामर्थ्यात्पादनात्माऽस्य या क्रिया ।
कार्यार्थ्यादिषु दृष्टासावनुक्तैव प्रवर्त्तिका ॥ ५ ॥
तेनाभिधानवैयर्थ्यात्पूर्वदोषनिवारणम् ।
अलौकिकी प्रेरणा तु सम्बन्धानुमवाहते ॥ ६ ॥
अभिधातुमशक्यत्वान्न प्रवर्त्तयितुं क्षमा ।
राजादिवच्च शब्दस्य फलादातृत्वतः स्वतः ॥ ७ ॥
तद्व्यापाराभिधानेऽपि न प्रवर्त्तेत कश्चन ।
पुरुषार्थोपयोगित्वं न लिङादेश्च गम्यते ॥ ८ ॥
येनास्यानुविधेयत्वात्फलकल्पकता भवेत् ।
तस्याप्यानुविधेयत्वे शब्दस्य न तदीयताम् ॥ ९ ॥
अज्ञात्वा व्याप्तेः कश्चित्प्रवर्त्तेताभिधावपि ।
न च शब्दमनुक्त्वैतद्व्यापारत्वं निरूप्यते ॥ १० ॥
स्वरूपवाचितातोऽस्मिन्पक्षेऽनिष्टा लिङां भवेत् ।
अस्तु तर्ह्यभिधानाख्यो व्यापारोऽस्य प्रवर्त्तकः ॥ ११ ॥
तस्य ह्यर्थप्रतीत्याख्यकार्यकॢप्तस्य केवलम् ।
कल्प्यं प्रवृत्तिहेतुत्वं लिङ्वाच्यस्येति लाघवम् ॥ १२ ॥
शब्दान्तरगतार्थेऽस्मिन्नभिधा स्यात्प्रवर्त्तिका ।
पक्षेऽर्थतो विशेषश्चेत्स एव स्यात्प्रवर्त्तकः ॥ १३ ॥
न चास्या अभिधेयत्वाद्विशेषः कार्यतो गते ।
न युक्तं ह्यभिधेयत्वं सर्वासां हि प्रसज्यते ॥ १४ ॥
अथ प्रवर्त्तनात्वेन कार्यादनवबोधतः ।
तद्रूपेणाभिधेयत्वं तच्चान्यासु न विद्यते ॥ १५ ॥
तन्नास्या ह्यभिधानात्प्राक् चेत्प्रवर्त्तकरूपता ।
स्याद्व्यर्थमभिधेयत्वं नास्ति चेत्स्यादसत्यता ॥ १६ ॥
आज्ञादिस्तु न वेदार्थः पुंधर्म्मत्वेन युज्यते ।
अथ मानान्तरागम्यनियोगापरनामकम् ॥ १७ ॥

६२ मीमांसादर्शनम् [ सू०
कार्यं लिङादिवाच्यं सत्स्वतन्त्रं स्यात्प्रवर्त्तकम् ।
तदप्ययुक्तमज्ञातसम्बन्धत्वालिङर्थता ॥ १८ ॥
मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् ।
अथ स्वस्यस्वतन्त्रस्य पुंसो लिङश्रवणे सति ॥ १९ ॥
प्रवृत्तेरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः ।
अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥ २० ॥
प्राभाकरसम्मतविध्यर्थनिरूपणम्
कार्यं च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् ।
नियोज्येनात्मनः कार्यं तया ज्ञातमिति स्थितम् ॥ २१ ॥
नियोज्यश्च स्वसम्बन्धिकार्यंबोद्धाऽभिधीयते ।
काम्यमानाम्युपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥
कामी न च क्रिया तत्र क्षणिकोपायतां व्रजेत् ।
क्रियातोऽन्यदतः कार्यं वेदे वाच्यमलौकिकम् ॥ २३ ॥
तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् ।
अयुक्तम्पुमर्थत्वादव्यापारतया न च ॥ २४ ॥
अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता ।
अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥ २५ ॥
तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ् मृषा ।
किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥
क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव ।
कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्त्तकम् ॥ २७ ॥
तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता ।
तच्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥ २८ ॥
लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्टं न सिध्यति ।
फलस्य प्रवर्त्तकत्वतिरासः
नन्विच्छाजननेनान्यत्सन्वैरिष्टं प्रवर्त्तकम् ॥ २९ ॥
साक्षात्प्रवृत्तिहेतुत्वादतः सैव लिङोच्यते ।
तद्द्वारेण लिङर्थत्वात्फलं तेन प्रवर्त्तकम् ॥ ३० ॥
नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमान् ।
अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्त्यंत्वात्स नेष्यते ॥ ३१ ॥
फलस्य प्रीतिरूपत्वं लिङुक्तं चेत्प्रवर्त्तना ।
फल एव प्रवर्त्तेत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥

७ ] प्रथमाध्याये द्वितीयपादः ६३
अथाव्यापाररूपत्वात्प्रवृत्त्यविषयत्वतः ।
फलस्य साधनेऽङ्गावातारन्यायात्प्रवर्त्तते ॥ ३३ ॥
ततः साधनबोधात्प्रागप्रवृत्तेः प्रवर्त्तना ।
वरं साधनतैवास्तु न क्लेशात्प्राप्तिरूपता ॥ ३४ ॥
तस्याश्च कर्म्मधर्मत्वात्कर्म्मैव स्यात्प्रवर्त्तकम् ।
प्रवृत्तिविषयत्वाच्च न तद्युक्तं प्रवर्त्तकम् ॥ ३५ ॥
साध्यता फलधर्मोऽथ लिङुक्तः सन्प्रवर्त्तना ।
नासौ पूर्वमसिद्धत्वात्प्रवर्त्तयितुमर्हति ॥ ३६ ॥
अथानुष्ठेयरूपं कार्य्यत्वं स्यात्प्रवर्त्तकम् ।
ततोऽर्थभावनैव स्यात्तद्रूपत्वात्प्रवर्त्तिका ।
सा चाख्यातान्तरे भावात्प्रवृत्तिव्यभिचारिणी ॥ ३७ ॥
कालसंबन्धतोऽर्थानुष्ठेयत्वप्रतिबन्धनात् ।
तत्राप्रवृत्तिरित्येतत्किं स्यादिति निरूप्यताम् ॥ ३८ ॥
कृत्यात्मभावना या हि न कृतिव्याप्यतां विना ।
जन्यत्वं प्रागसिद्धत्वात्फलस्येवाप्रवर्त्तकम् ॥ ३९ ॥
अथानिष्पन्नरूपत्वं तदभावेऽपि विद्यते ।
तस्मात्क्रियात्मकं कार्य्यमथ वा तत्फलात्मकम् ॥ ४० ॥
न ताभ्यामतिरिक्तं वा पूर्वमस्ति प्रवर्त्तकम् ।
अत एवेष्टहेतुत्वं न तदेकार्थसङ्गतम् ॥ ४१ ॥
प्रवर्त्तकं नापि शुद्धं चन्द्रादौ व्यभिचारतः ।
शुद्धस्य च लिङर्थत्वे कर्त्तव्यत्वात् प्रतीतितः ॥ ४२ ॥
भवेन्नाकरणे दोषो निष्कामेष्वपि कर्म्मसु ।
न च द्रव्यगुणादीनां क्वचित्स्यादिष्टहेतुता ॥ ४३ ॥
प्रत्ययेन प्रकृत्यर्थान्वयिस्वार्थाभिधानतः ।
कर्त्तव्यत्वविशिष्टस्य वाच्यत्वं तु न युज्यते ॥ ४४ ॥
कर्त्तव्यत्वाविनाभावात्तत्प्रतीत्युपपत्तितः ।
नन्विष्टहेतुतामात्रं लिङा तावन्निरूप्यते ॥ ४५ ॥
कस्येष्टमित्यपेक्षायामेकप्रत्ययवाच्यया ।
कर्त्तृ भावनयाक्षिप्तस्येत्येवं गमयिष्यते ॥ ४६ ॥
क्रियायां चाप्रवृत्तस्य कर्त्तृ त्वानुपपत्तितः ।
प्रवृत्तिविषयत्वाख्यं कर्त्तव्यत्वं प्रतीयते ॥ ४७ ॥
एवं तु वर्त्तमानापदेशोऽप्येतत्प्रतीतितः ।
कर्त्तिष्टसाधनत्वस्य तद्बलेनैव कल्पनात् ॥ ४८ ॥

६४ मीमांसादर्शनम् [ सू०
लिङाद्यवाच्यतापत्तेरप्रामाण्यं विधेर्भवेत् ।
प्रवृत्तिविषयत्वं च नेच्छा विषयतां विना ॥ ४९ ॥
युक्तमिच्छाप्रवृत्त्योर्हि परशुच्छिदयोरिव ।
भिन्नगोचरता न्याय्या न हेतुफलभावतः ॥ ५० ॥
अत एवेष्टहेतूनां स्वबुद्ध्या यो ऽयमिच्छति ।
प्रवर्त्तते स तत्रैव नानिष्टेऽपीष्टसाधने ॥ ५१ ॥
तेनेष्टसाधनत्वस्य सद्भावे ऽप्यप्रवृत्तिता ।
प्रवृत्तिव्यभिचारित्वान्न प्रवर्त्तकतोचिता ॥ ५२ ॥
इच्छात्वव्यभिचारित्वाद्भवोत्पुंसां प्रवर्त्तिका ।
स्वरूपसत्तामात्रेण न तु ज्ञानमपेक्षते ॥ ५३ ॥
अथापि ज्ञायमानाऽसौ कारणं स्यात्तथापि तु ।
स्वप्रत्यक्षैकगम्यत्वान्नाभिधानमपेक्षते ॥ ५४ ॥
एतत्सर्वं पूर्वपक्षी मनस्याधाय पृच्छति ॥ ५५ ॥
स्वमतेन विध्यर्थनिरूपणम्
कथमिति । उत्तरमाह—इह हीति । अयमाशयः स्वतन्त्रपुरुषप्रवृत्तिर्द्विधा लोके
दृश्यते । क्वचित्स्वेच्छयार्थेषु स्वार्थः प्रवर्त्तते, क्वचिदन्यप्रेरितः । आचार्यप्रेरितोऽहं
गामानयामि न स्वेच्छयेत्यादिव्यवहारदर्शनात् । यद्यप्याचार्यादिरप्यनिच्छन्तं न शक्नोति
प्रवर्त्तयितुम्, तथापि स्वारसिकेच्छाविरहितमपि शिष्यादिकं स्वप्रवर्त्तनाबलेनेच्छामुत्पाद्य
प्रवर्त्तयतीति सर्वसाक्षिकम् । तस्माच्छब्दश्रवणानन्तरभाविन्यां प्रवृत्तावाचार्यदेः प्रवर्त्तना-
ज्ञापनेन¹ प्रवर्त्तकत्वमवसोयते ।
का पुनः प्रवर्त्तना ? प्रवृत्तिहेतुभूतः प्रवर्त्तयितुर्धर्मः ²कश्चिदिति ब्रूमः । स्वातन्त्र्ये
देवदत्त एव मां प्रवर्त्तयति न यज्ञदत्त इति व्यवस्थानुपपत्तेः प्रवर्त्तनाज्ञापनमात्रेण प्रवर्त्त-
कत्वे देवदत्तस्त्वां प्रवर्त्तयतीति प्रवर्त्तनाद्यज्ञदत्तस्यापि प्रवर्त्तकत्वप्रसङ्गः । सर्वत्र लोके
पुरुषस्याचार्यदेः प्रवर्त्तयितुर्द्धर्मोऽहमेनं प्रवर्त्तयामीति प्रवर्त्तयितुर्मानसप्रत्यक्षवेद्यः
प्रैषादिरूपो नापह्नोतुं शक्यते । वेदे तु पुरुषाभावेन लिङादेरेव प्रवर्त्तकत्वात्तद्धर्मो भवि-
ष्याति । कथमज्ञातपूर्वेण प्रवर्त्तयितुर्द्धर्मेणाव्युत्पन्नो बालः प्रथमं लिङादेः संबन्धं गृह्णा-
तोति चेत् ? अलौकिकप्रवर्त्तनायां शक्तिग्रहोपायवर्णनां पश्य यदा बुभुक्षितस्य बालस्य
रोदनेन स्तन्यदानप्रवर्त्तनां ज्ञात्वा स्तन्यदाने माता प्रवर्त्तते, तदासौ तस्या मातुः प्रवृत्तेः
कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या स्वप्रवर्त्तनायां कारणत्वं प्रकल्प्य गामानये-
त्यादिवाक्यश्रवणानन्तरं प्रयोज्यवृद्धप्रवृत्तिं दृष्ट्वा मातृप्रवृत्तिदृष्टान्तेन तस्यामपि प्रवर्त्तना-
१. स्वप्रवर्त्तनाज्ञापनेनेत्यर्थः ।
२. प्रवर्त्तयितुर्धर्मं इति २ पु० पा० ।

७ ] प्रथमाध्याये द्वितीयपादः ६५
ज्ञानकारणत्वमनुमाय तत्कारणजिज्ञासायां लिङादिशब्दश्रवणानन्तर्यात्तस्यैवान्वयव्यति-
रेकाभ्यां प्रवर्त्तनाभिधानशक्तिं कल्पयद् केन वार्यते ।
तत्र च प्रैषादीनां विशेषाणां व्यभिचारित्वेनावाच्यत्वात्सर्वानुयायिनः प्रवर्त्तनासामा-
न्यस्य वाच्यत्वेऽवगते, तद्विशेषाकाङ्क्षायां प्रैषादीनां पुरुषधर्म्माणां वेदेऽनुपपत्तेस्तद्वि-
लक्षणं विशेषान्तरमभिधेयेन सामान्येन विधिप्रेरणानियोगाख्यं लक्ष्यते । अतो गृहीत-
संबन्धतया लिङादिवाच्येन प्रवर्त्तनासामान्ये तद्विशेषस्य प्रेरणाख्यस्य लक्षणयाऽवगति-
सम्भवात् संबन्धाग्रहणमदोषः । तस्य च प्रवर्त्तनासामान्यविशेषत्वेन हेतुना प्रैषादिदृष्टान्तेन
प्रवर्त्तयितृधर्म्मत्वानुमानाद्वेदे च पुरुषाभावात् भावनादेश्च प्रवृत्तिविषयत्वेन तदानीम-
सत्त्वात् प्रवर्त्तकत्वानुपपत्तेः । पारिशेष्याल्लिङादेरेव प्रवर्त्तकत्वावधारणात् दीयत्वसिद्धेनं
लिङादिशब्दस्वरूपाभिधानापत्तिः । प्रवृत्तिविषयत्वस्य च श्रेयःसाधनत्वाक्षेपकत्वेन लिङादेः
पुरुषार्थोपयिकत्वेनानुविधेयत्वात्प्रवर्त्तकत्वाव्याहतिः ।
तस्य श्रेयस्साधनत्वाक्षेपः
कथं श्रेयःसाधनत्वाक्षेपकत्वमिति चेत् ? पश्य, प्रवर्त्तना तावत् प्रयत्नरूपभावना-
विषया सर्वत्रावधार्यते । गामानयेत्युक्ते गवानयने प्रयतमानस्य कुतश्चित्कारणाद् गवानयना-
सिद्धावपि मदाज्ञामयं कृतवानित्याज्ञप्तुर्व्यवहारदर्शनात् इतो ऽपसरेत्योक्ते स्वयमप्रयत-
मानस्य बलात्केनचिदपसारितस्य जातेऽप्यपसरणे, नायं मदीयामाज्ञां कृतवानित्याज्ञप्तु-
र्व्यवहारदर्शनात् । चेतनप्रवर्त्तकत्वाच्च प्रवर्त्तनायास्तस्य च प्रयत्नमन्तरेणान्यत्राप्रवृत्तेः
प्रयत्नविषयत्वसिद्धिः प्रयत्नश्चेच्छाकारणकत्वात् तां विना नोपपद्यते । सा च स्वरसतः
पुरुषार्थ एव स्वर्गपुत्रपश्वादौ भवन्ती साधनमन्तरेण तदसिद्धेस्तत्सिद्धयर्थं तत्साधने २ संक्रा-
मेत् । तेन स्वयमपुरुषार्थस्य यागादेः पुरुषार्थसाधनत्वं विनेच्छाविषयत्वानुपपत्तेः प्रवृत्ति-
विषयत्वासम्भवेन तत्र लिङादेः प्रवर्त्तकत्वायोगात्तन्निर्वाहार्थं पुरुषार्थसाधनत्वाक्षेप-
कत्वसिद्धिः ।
न चैवं ३ पुरुषार्थसाधनत्वावगताविच्छात् एव प्रवृत्तिसिद्धेः कारणकारणत्वेनान्वय-
व्यतिरेकयोरन्यथासिद्धत्वाल्रिङादीनामप्रवर्त्तकत्वं प्रसज्येतेति शङ्कनीयम् । न हि यत्सि-
द्ध्यर्थं यत्कल्प्यते, तेनैव तद्बाधोचिता, कल्पकाभावेनात्मोपमर्द्दप्रसङ्गात् । यथैव च
श्रेयःसाधनत्वाकल्पने प्रवर्त्तकत्वानिर्वाहात् तन्निर्वाहाय श्रेयःसाधनत्वं कल्प्यते, तथैव ४
१. वृत्तेरप्यौपाधिकवृत्तिविषयत्वस्वीकारादित्यर्थः । २. तदिति २ पु० ना० ।
३. इष्टसाधनताज्ञानस्येच्छाजनकत्वात् तद्द्वाराैव वृत्तिरित्यर्थः ।
४. यथा श्रेयःसाधनव्यतिरेकेण विधिना पुरुषो यागे प्रवर्त्तयितुं न शक्यत इति प्रवर्त-
कतानिर्वाहाय तत्कल्प्यते तथा प्रवर्तकत्वनिर्वाहाय विहितरूपेण श्रेयःसाधनत्वं
कल्पयिष्यते अन्यथास्वरूपे सति श्रेयःसाधने इच्छयैव प्रवृत्तेः प्रवर्त्यस्य फलामावात्
विधेः प्रवर्तकत्वं न स्यादित्यर्थः ।
५

६६ मीमांसादर्शनम् [ सू०
स्वरूपेण यागादेः श्रेयःसाधनत्वे सति इच्छयैव प्रवृत्तिसिद्धेर्लिङादीनां प्रवर्त्तकत्वानिर्वाहा-
द्विहितस्वरूपेण श्रेयःसाधनत्वं कल्पयिष्यते । तथा च लोकेऽपि स्वाम्याज्ञामन्तरेण स्वे-
च्छया गवानयनादौ कृतेऽपि न तत्फलं वेतनं लभ्यते । तस्मात्प्रवर्त्तकान्तरासम्भवेऽपि
प्रेरणाज्ञापनेन लिङादेर्वेदे प्रवर्त्तकत्वं सिद्धम् । सा च प्रेरणा प्रवृत्त्युत्पादकव्यापारत्वाद्भाव-
नाशब्देन गीयते, भाव्योत्पादानुकूलस्य व्यापारस्य भावनात्वप्रसिद्धेः । व्यापारत्वं च
तस्याः सिद्धरूपत्वे निर्व्यापारायाः प्रवृत्त्युत्पादकत्वासम्भवेन ज्ञानस्य च ज्ञेयव्यापारत्वा-
योगाद्व्यापारान्तरकल्पनापत्तेर्गौरवपरिहारार्थं कल्प्यते । प्रेषणाध्येष्णादीनामपि पुरुषा-
शयविशेषाणामनेनैव न्यायेन व्यापारत्वाध्यवसानं द्रष्टव्यम् । व्यापारस्य च व्यापारवतो-
ऽत्यन्तभेदाभावाच्छब्दात्मिकेत्युक्तम् । एतामेव शब्दात्मिकां शब्दस्यात्मनो व्यापारं
भावार्थाधिकरणे तत्रार्थात्मिकायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः, सा
द्वितीया । शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते (भा० पृ० ३४४) इत्यनेन
स्वयमेव विवरिष्यति । लौकिकानां प्रवर्त्तनाविशेषाणां पुरुषधर्मत्वेन शब्दात्मकत्वायोगात्
वेदविषयत्वं शब्दभावनाया दर्शयितुमिहेत्युक्तम् । प्रवर्त्तनाविशेषशब्दभावनाविषयभूतायाः
प्रयत्नरूपभावनायास्तत्फलप्रवृत्तिविषयत्वसिद्धयर्थं श्रेयोहेतुत्वाक्षेपकत्वायाऽर्थशब्दाभिधेया-
र्थयितृचेतनधर्मार्थनापरम् पर्य्ययेच्छाद्योनित्वसूचनार्थमर्थात्मकत्वाभिधानमिति सर्वं
मनोहरम् ।
ननु सत्यपि भावनाद्वये कयाऽर्थवादानां ग्रहणम् अत आह—तत्रेति । अनेन च
ग्रन्थेनार्थवादानामर्थभावनांशाप्रतिपादकत्वेऽपि तदनुष्ठापकशब्दभावनाङ्गत्वेनार्थभावना-
ख्यक्रियार्थत्वं दर्शितम् । कथं तया ग्रहणमत आह—सा हीति । सा शब्दभावना यस्मादेवं
वक्ष्यमाणेन प्रकारेण प्रवर्त्तते अध्ययनविधिवशात्कार्य्यत्वेन प्रतीयते, तस्मात्तदङ्गभूतस्य
प्राशस्त्यज्ञानस्य तद्द्वारेण कार्य्यत्वावगमात् साधनापेक्षायामर्थवादानां तत्साधनतयाऽध्ययन-
विधिर्नैव विनियोगाद्दर्शपूर्णमासभावनयैव प्रयाजाद्यङ्गभूतद्रव्यदेवतादेः शब्दभावनया
ग्रहणं युक्तमित्यर्थः । शब्दभावनायास्तु कार्य्यत्वाप्रतीतौ तद्द्वारेण प्राशस्त्यज्ञानस्य कार्य्य-
त्वानवगमात्साधनानपेक्षत्वेन स्वरसतोऽसमर्थानामर्थवादानां लाक्षणिकप्राशस्त्यज्ञानार्थ-
त्वायोगात् तादर्थ्येन तया सहग्रहणं न स्यादिति, तमेव प्रकारं दर्शयति—स्वाध्याया-
ध्ययनविधिनेति । अध्ययनविधिना हि अधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्त्तव्यमिति
शक्त्यनुसारेणाक्षराणि विनियुञ्जानेन लिङादीनि सामर्थ्यात्प्रवर्त्तने विनियुज्यन्ते । तत्र
चैषां प्रवर्त्तयितृपुरुषाभावेन स्वातन्त्र्यात्कर्तृत्वमवसीयते । स्वतन्त्रकर्तृश्चानियुक्तस्य वैध-
विनियोगान्नियोज्यत्वं लिङादीनां कल्प्यते ।
नन्वस्तु नाम विधायकान्तराणामध्ययनविधिनियोज्यत्वम्, तस्य चात्मनि नियोगा-
योगेनात्मना नियोज्यत्वासम्भवात् तद्विषयविधायकान्तराभावाच्च तद्व्यापाररूपायाः
शब्दभावनायाः कार्य्यत्वाभावात्प्रेरणाज्ञानजननमात्रेण कृतार्थतया प्रवृत्त्या ग्राहकत्वाभावे

७ ] प्रथमाध्याये द्वितीयपादः ६७
सति; तद्विषयभूतस्य वेदाध्ययनस्य पुरुषार्थानुबन्धित्वाक्षेपप्रमाणाभावाद्देवस्यानर्थक्यं
स्यादित्याशङ्कामपाकर्त्तुम्—स्वाध्यायपदोपात्तश्चात्मेत्युक्तम् । अयमभिप्रायः—न तावद-
चेतनानां लिङादीनां स्वसम्बन्धिप्रेरणाबोद्धृत्वलक्षणं नियोज्यत्वं मुख्यं युज्यते, प्रवृत्त्या
ग्राहकत्वं तु तेषां पुरुषार्थानुबन्धित्वाद्याध्ययनविधिना शक्त्यालोचनेन पुरुषो ज्ञाप्यते
स्वारसिकेच्छारहितस्य चादरापरपर्यायग्रहकारित्वं नियोज्यस्यैव दृष्टमित्यौपचारिकमिह
नियोज्यत्वम् । अर्थवादान्वयाय शब्दभावनाया विधेयत्वसिद्धयर्थं विवक्षितं तच्चाध्ययन-
विधावपि समानम् । तस्य च स्वरूपेण नियोक्तृत्वं स्वाध्यायपदोपात्तत्वरूपेण विधाय-
कान्तरसाधारण्येन नियोज्यत्वमित्यौपचारिकभेदाश्रयणात् न विरुद्धमिति । भावयेदिति
च विधिः प्रेर्यान्वयात् प्राग्विषयान्वयपक्षे लिङादिप्रेर्यान्वयवशेन व्यापारविशेषानवगमा-
त्सामान्यविवक्षयोक्तम् । अत्र भाव्याकाङ्क्षायां यच्छक्यते तदित्यवधारणात् शक्तिप्रदर्शन-
पूर्वकं पुरुषप्रवृत्तेर्भाव्यत्वं दर्शयति—तत्रेति । येन लिङादोनां प्रवर्त्तकत्वे शक्तिः, पुरुषस्य
च प्रवर्त्यत्वे, तेन कारणेन भावनाया भाव्याकाङ्क्षायां पुरुषप्रवर्त्तनं भाव्यत्वेन संबन्ध्यत
इत्यर्थः । प्रवृत्तेः प्रयोज्यव्यापाररूपत्वात्प्रयोज्यान्वयं विना भाव्यत्वासम्भवाच्चेतनं
प्रवर्त्तकत्वेन श्रेयस्साधनत्वाक्षेपपर्यन्तत्वसूचनार्थं पुरुषविशेषणम् । प्रेर्यान्वयपूर्वकविषया-
न्वयपक्षे तु प्रवर्त्तनाख्ये व्यापारविशेषे एव लिङादेः शक्त्यवधारणात्तत्रैव नियोगकल्प-
नायां किंशापेक्षां पुरुष एव पूरयिष्यतीत्याह—अथ त्विति । लिङादिविषया क्रिया प्रवर्त्त-
येदित्येवं विशेषरूपेणोच्यते—विधेयतया प्रतिपाद्यत इत्येव योज्यम् ।
नन्वचेतनत्वाल्लिङादीनां नियोज्यावगमपूर्वकप्रयोजककर्तृत्वानुपपत्तेः कथं तद्वशेन
पुरुषप्रवर्त्तनस्य भाव्यत्वाभिधानमित्याशङ्कयाह—यद्यपि चेति । अध्ययनविधिना
लिङाद्यध्ययने नियुज्यमानस्य पुरुषस्य कतमं ममोपकारं करिष्यन्तीत्यपेक्षायां प्रवर्त्तनाज्ञा-
पनद्वारेण पुरुषार्थसाधनबोधरूपमिति सामर्थ्यालोचनेनावगतौ सत्यां प्रवर्त्तनाज्ञापनमात्र-
पर्यवसाने पुरुषार्थसाधनत्वाक्षेपायोगादनुपकारकत्वोपपत्तेर्मातापित्रादिवदाग्रहेणेष्टसाधनेषु
कर्मसु प्रवर्त्तयिष्यन्तीति प्रवृत्त्या ग्राहकत्वावगतिमर्हति । तेन लिङादिभिरवश्यं प्रवर्त्तनीय
इति लिङादिविषयनियोगावगतिर्या पुरुषस्य भवति; तां लिङादिषु उपचर्य प्रयोजकत्व-
व्यवहारोऽयमित्यर्थः । न चैतत्स्वोत्प्रेक्षामात्रेणास्माभिर्लिङादीनां प्रयोजकत्वमुच्यते, किं
तु कर्तृवाचिण्वुलप्रयोगदान्यैरपि अभियुक्तैरङ्गीकृतमित्यवसीयत इत्याह—यदि चेति ।
करणाकाङ्क्षां शक्त्यालोचनेन प्रेरणाज्ञानस्यान्वयं दर्शयति—अथेति । विधेरलौकि-
कत्वेन लिङादिप्रतिपाद्यत्वासम्भवमाशङ्क्य प्रवर्त्तनासामान्येन पूर्वोक्तरीत्या सम्बन्धग्रहण-
सम्भवात् १ लिङाद्यभिहितेन लक्षणया तत्प्रतिपादनसम्भवप्रदर्शनार्थं पूर्वसम्बन्धानुभवा-
पेक्षेणेत्युक्तम् ।
१. विधिज्ञानं सम्बन्धज्ञानं तयोरित्यर्थः।

६८ मीमांसादर्शनम् [ सू०
इतिकर्त्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानस्यान्वयं दर्शयति—कथमिति । ननु विधिज्ञान-
मात्रेण प्रवृत्तिसिद्धेरन्यानपेक्षत्वात्कथमित्यपेक्षाप्रदर्शनमयुक्तम् । अथापि भावनान्तरदृष्टान्ते-
नात्रापि कथम्भावनाकाङ्क्षा स्यात् । तथापि विधिसम्बन्धज्ञानयोरेव कारणेतिकर्त्तव्य-
तात्वसम्भवात्प्राशस्त्यज्ञानस्याज्ञातशक्तिकस्येतिकर्त्तव्यतात्वाभिधानमयुक्तमित्यभिप्रायद्वयेन
पृच्छति—कुत एतदिति । एतत्कथमित्यपेक्षणं प्राशस्त्यज्ञानस्य चानुग्राहकत्वं कुत इत्यर्थः ।
उत्तरम्—बुद्धिपूर्वेति । विध्यन्यथानुपपत्त्ये१ष्टसाधनत्वावगमात् प्रवृत्तिहेत्विच्छोत्पत्तावपि
द्रव्यव्ययायासदर्शनेनापि अनिष्टसाधनत्वावगमात्प्रवृत्तिप्रतिबन्धकालस्यहेतुद्वेषसम्भवे प्रवृत्त्य-
भावप्रसङ्गात्तदपनायकापेक्षायां प्राशस्त्यज्ञानस्य लोके तदपनयशक्तत्वेन दर्शनाद्युज्यते-
ऽनुग्राहकत्वमित्यभिप्रायः । उत्तभ्नातीत्यनेन प्रतिबन्धकापनायकत्वं दर्शितम् ।
ननु प्रवृत्तिकारणेच्छाविरोधिद्वेषनाशाय प्राशस्त्यज्ञानापेक्षणे फलांशेऽपि तदपेक्षोप-
पत्तेः स्वर्गस्वरूपप्रतिपादकानामपि वाक्यशेषाणां प्राशस्त्यपरत्वेन स्वरूपपरत्वाभावसङ्गात्
न लौकिकसुखातिरिक्तस्वर्गसिद्धिः स्यादित्याशङ्कयाह—तच्चेति । अयमभिप्रायः—अङ्ग-
प्रधानयोरेव२ विषयत्वात्प्रेरणाविषय एव प्राशस्त्यज्ञानस्य कार्यत्वावगतेः फलांशे च
स्वारसिकेच्छात् एव प्रवृत्तिसिद्धेरानर्थक्यप्रसङ्गात्, प्रेरणानुपपत्तेः प्राशस्त्यज्ञानस्य
कार्यत्वाभावात्, साधनानपेक्षत्वेनार्थवादाग्रहणात्स्वर्गसाधनतो विध्यपेक्षितस्वर्गस्वरूप-
प्रतिपादनार्थानां वाक्यशेषाणां प्राशस्त्यपरत्वाभावात्स्वरूपे प्रामाण्यं न विरोत्स्यत इति ।
क्व तर्हि प्राशस्त्यज्ञानस्य साधनापेक्षेत्यत आह—साधनेति । साधनेतिकर्त्तव्यताविषये
प्राशस्त्यज्ञानस्य साधनभूतशास्त्राकाङ्क्षायामपि फलपदादिभिरेव३ तत्सिद्धिसम्भवात्कथ-
मर्थवादानां तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्क्य यथासम्भवं साधनान्तराणि
निराकर्त्तुमुपन्यस्यति—तत्पुनरिति । तत्प्राशस्त्यप्रतिपादनं केन शास्त्रेण क्रियेतेत्यर्थः ।
निराकरोति—तत्रेति । दूषणगणोपन्यासार्थस्तत्र शब्दः ।
ननु यद्यन्यार्थार्थत्वे प्राशस्त्यार्थत्वं न युज्यते, प्राशस्त्यार्थत्वमेव केवलमस्त्वत आह—
विध्युत्तरेति । पूर्वपेक्षितार्थत्यागो न युक्त इत्यभिप्रायः४ । कारणान्तरमाह—लक्षणया
चेति । फलाभावापत्तेरपि प्राशस्त्यार्थत्वं न युक्तमित्याह—युगपच्चेति । ननूभयपरत्वा-
योगात् फलादिषु तात्पर्याभावेऽपि प्रतीयमानत्वात्फलादीनां सिद्धिः स्यादत आह—न हीति ।
१. इच्छोत्पादनद्वारा प्रवर्त्तकत्वम्; इच्छा चेष्टसाधनत्वज्ञानं विना न संभवतीति अनु-
पपत्तिशब्दार्थः ।
२. अङ्गप्रधानयोरेव विधिविषयत्वान्न फलांशस्य विषयत्वमित्यर्थः ।
३. आदिग्रहणाद्देवतापरिग्रहः यस्मादेतत्फलकर्म तद्देवताकं तस्मात्प्रशस्तमित्यर्थः ।
४. साध्यसाधनेतिकर्तव्यताविशिष्टायां भावनायां सिद्धायामेवोद्देश्यत्वन्ततश्च पूर्वमेव
फलत्वेनान्वय इत्यर्थः ।

७ ] प्रथमाध्याये द्वितीयपादः ६९
वक्ष्यत इत्यपापश्लोकश्रवणादीनां प्रशंसाार्थत्वेनोपात्तानां फलत्वाभावः पर्णमय्यधिकरणे,
जर्तिलयवाग्वा वा जुहुयादित्यादौ लिङ्गे विधित्वाभावो जर्तिलयवाग्वादेश्चेतित्कर्त्तव्यत्वा-
भावो दशमे वक्ष्यमाणः परामृष्टः । यत एवोक्तप्रकारेण प्राशस्त्यपरत्वे फलाद्यभावः प्रसज्य-
ते, अत एवानन्यलभ्यफलादिपरत्वावधारणान्नार्थात्प्रतीयमानेऽपि प्राशस्त्ये फलपदादीनां
तात्पर्यमित्याह—अत एवेति । एतदेव दृष्टान्तद्वारेणोपपादयितुमाह—न हीति । धावन-
क्रियैवानिष्पन्नरूपत्वात्कार्यशब्देनोक्ता न तेनान्वीयन्त इत्यर्थः । दार्ष्टान्तिके योजयति—
तद्वदिति । इच्छाविरोधिद्वेषनाशवाचिना प्ररोचनाशब्देन तद्धेतुभूतगुणातिशयवत्त्वलक्षणं
प्राशस्त्यं लक्षणया व्युत्पत्त्या वोक्तम् ।
ननु यथा प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीत्यादीनां प्राशस्त्यपराणामप्या-
काङ्क्षितफलसमर्थकत्वमङ्गीकृतम्, तथा भूतिकामादिशब्दानां फलादिपराणामप्याकाङ्क्षित-
प्राशस्त्यसमर्थकत्वमपि कस्मान्न स्यादित्याशङ्कयाह—अन्यथानुपपत्त्या चेति । प्रकारान्त-
रेण फलप्रतीत्ययोगाद्गत्या तत्र तथाङ्गीकृतम्, न चेहागतिरस्तीत्यभिप्रायः । नन्वर्थ-
वादानां स्वरसतः प्राशस्त्यप्रतिपादनशक्त्यभावात् इहापि सर्वप्रमाणप्रत्यस्तमयाद्गतिः
समनेत्याशङ्कयाह—प्रमाणाभावश्चेति । स्वरसतोऽशक्तावपि लक्षणया तत्प्रतिपादनशक्ति-
सम्भवान्न प्रमाणाभावनिश्चय इति भावः ।
नन्वेवं तर्हि ‘वसन्ताय कपिञ्जलानालभते' इत्यादावपि अर्थवादाकाङ्क्षा प्रसज्ये-
तेत्याशङ्कयाह—तद्यदीति । अतिदेशग्रहणं तस्योक्तो बन्धुस्तस्योक्तं ब्राह्मणमित्यादि-
वाचनिकातिदेशविषयं द्रष्टव्यम् । श्रुतविध्यन्यथानुपपत्त्यैव प्राशस्त्यकल्पनोपपत्तावसन्निहि-
तार्थवादातिदेशकल्पने प्रमाणाभावात् १ कल्पने वा वसन्तादिवाक्येष्वपि अग्नीषोमीयप्रकृति-
त्वेन तदीयार्थवादातिदेशसम्भवाद्विध्युद्देशस्य शक्तिद्वयकल्पनं निरवकाशमेव स्यात्—
दर्विहोमन्यायेनेति । यथा दर्विहोमेषु भिन्ने जुहोतीत्यादिजुहोतिचोदनविहितेष्वविहितेति-
कर्त्तव्यताकेष्वपि प्रकृतिविशेषा निर्धारणा नियतविध्यन्तातिदेशानुपपत्ते रनियमसर्वातिदेशयो-
श्चाष्टमाद्ये निराकृतत्वात् अपूर्वत्वेनाष्टमान्ते वक्ष्यमाणेषु यावच्छ्रुतस्य द्रव्यदेवतादेरिति-
कर्तव्यताजातस्य सन्निपत्योपकारित्वेन नियमापूर्वद्वारा करणपूर्वोत्पत्तिमात्रे पर्यवसायितया
अन्यत्रावधारितस्याप्यगत्यारादुपकारकाङ्गसाध्यकरणानुग्रहसाधनत्वमपि कल्पितम् । तथा
वसन्तादिवाक्येष्वपि विधायकस्यैव करणभूतविधेयज्ञानोत्पत्तिमात्रपर्यवसायितयान्यत्रा-
वधारितस्याप्यगत्याऽङ्गभूतप्राशस्त्यज्ञानेऽपि व्यापारः कल्पयिष्यत इत्यर्थः । लक्षणया
प्रेरणापरनामधेयस्य विधेः प्रतिपादनात्प्राशस्त्यस्य चान्याथानुपपत्त्याक्षेपाच्छक्तिशब्दो
१. ननु कथंचिच्चोदनलिङ्गानुमितवचनादेवार्थवादातिदेशकल्पना भविष्यत्यत आह प्रमाणा-
भावादिति । अयं भाव काल्पनिकातिदेशस्यार्थभावनेतिकर्तव्यतानिदेशकल्पकत्वात्
अर्थवादानां च प्राशस्त्यप्रतिपादनेन शब्दभावनेतिकर्तव्यताङ्गत्वेन तदंशाप्रतिपादक-
त्वादिति प्रत्यक्षवचनस्य निर्विषयत्वं च स्यादित्यपि बोद्धव्यम् ।

७० मीमांसादर्शनम् [ सू०
व्यापारामिप्रायो व्याख्येयः । अर्थवादाभावेऽपि विधेरेव स्वानुग्राहकप्राशस्त्याक्षेपकत्वं युक्तं
न तु फलेतिकर्त्तव्यतापदानाम्, कथंचिदित्येवकारेण सूचितम् ।
योजना त्वेवं यस्मात्सर्वंप्रकारं प्रयतमानस्य यः प्रमाणाभावः, स प्रमाणं तस्माद्यदि
केनचिदन्येन परोचनां न लप्स्यामह इति ।
कथंचित्त्वन्यतः प्ररोचनालाभसम्भवेऽन्यत्रोपयुक्तस्य विधायकस्य तदाक्षेपकत्वायोगा-
द्धायव्यादिवाक्येषु प्राशस्त्यज्ञानस्य साधनापेक्षा युक्तेत्याह—अथ त्विति । केनचिल्लक्षण-
यापि प्रतिपादकेन दूरस्थेनातिदेशिकेनापि यदि प्ररोचना सेत्स्यतीत्यर्थः ।
नन्वेवं प्राशस्त्यप्रतिपादनस्य साधनभूतप्राशस्त्यशास्त्रापेक्षायामप्यर्थवादानां तत्र
शक्त्यनवधारणात्कथं तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्कयाध्ययनविध्यालोचनेनैवेषां
प्राशस्त्यपरत्वं दर्शयितुमाह—तयेति । यथा लभेतेतिविधिः स्वविषयप्राशस्त्यप्रतिपादकं
प्रति साकाङ्क्षः, तथा वायुर्वै क्षेपिष्ठा देवतेत्याद्यपि प्रतिपाद्यमर्थं प्रति साकाङ्क्षमेवेति
यस्तेन भूतान्वाख्यानरूपेण वाक्यार्थेन१ लक्ष्यमाणः प्राशस्त्यरूपोऽर्थः सोऽर्थवादप्रतिपाद्य-
त्वेन स्वाध्यायाध्ययनविधिना परिगृह्यत इत्यन्वयः । प्राशस्त्यार्थवाद प्रयोजनत्वे योग्यतां
दर्शयितुमनन्तरप्रवृत्तेत्याद्युक्तम् । विधिसम्बन्धद्वारा चेत्प्राशस्त्यस्य पुरुषार्थानुबन्धित्वं
तर्ह्यर्थवादानां विधिनैव साक्षात्प्रतिपादकलक्षणः संबन्धोऽस्तु किमन्तरा प्राशस्त्येनेत्या-
शङ्क्य यच्छक्यत इत्याद्युक्तम् ।
न तावल्लिङादिवत्तस्य विध्यभिधाने शक्तिरस्ति, न च प्राशस्त्यलक्षणा श्रुतिविध्यैक-
वाक्यत्वसंभवे वाक्यभेदापादकप्राशस्त्यं विना विध्यनिर्वाहात् प्राशस्त्यलक्षणावश्यकभावेन
गौरवापादकमश्रुतविध्यन्तरकल्पनं युक्तमित्याशयः । शक्त्यभावाच्चेन्न साक्षाद्विधिना
संबन्धः ततोऽक्षरग्रहण एव साक्षाच्छक्तेः पर्यवसानप्रसङ्गाद्वाक्यार्थपर्यन्तमगमनात् कथं
तेन प्राशस्त्यलक्षणा स्यादित्याशङ्क्य अपुरुषार्थत्वेन वेत्याद्युक्तम् । अक्षराणामादिरादानं
ग्रहणमक्षरादिशब्देनोक्तम् । तत्रैव तर्हि श्रौततात्पर्यावसानमस्त्वित्याशङ्क्योक्तम्—
तत्रापि त्विति । साधनानुरूपेत्यादिना लक्षणाप्रकारो दर्शितः । अयं चोभयाकाङ्क्षा-
लक्षणत्वात्प्राशस्त्यार्थवादयोः प्रतिपाद्यप्रतिपादकत्वसंबन्धः समञ्जस एवेत्याह—सोऽय-
मिति । एवं चास्मिन्सन्निकृष्टे संवन्धे संभवति विधायकार्थवादयोः प्राशस्त्यविध्या-
कांक्षित्वेऽपि प्राशस्त्यविध्योरर्थवादविधायकप्रतिपादितत्वेन प्रतिपादकानाकाङ्क्षत्वादन्य-
तराकाङ्क्षालक्षणत्वेन२ च विप्रकृष्टः प्राशस्त्यविधायकयोर्विध्यर्थवादयोर्वा प्रतिपाद्यप्रति-
१. ननु केवलार्थवादानां वाक्यत्वाभावाद्वाक्यार्थेनेत्ययुक्तम् । सत्यं वाक्यार्थेनेत्यस्यायमर्थः
अर्थवादस्थाने कैः पदार्थैर्लक्ष्यत इति ।
२. अन्यतरेति विधायकस्य प्राशस्त्याकाङ्क्षायामपि प्राशस्त्यस्य तदनाङ्क्षत्वात्तस्यार्थ-
वादैरेव प्रतिपादितत्वात् । एवमर्थवादानां विध्याकाङ्क्षासत्त्वेऽपि न विधेस्तदाकाङ्क्षा-
विधायकेनैव विधिप्रतिपादनादित्यर्थः ।

७ ] प्रथमांश्याये द्वितीयपादः ७१
पादकसंबन्धो न युक्त इत्याह—एवं चेति । विधायकोपयोगं प्रसङ्गाद्वक्तुं न चार्थवादै-
रित्याद्युक्तम् । दृष्टान्ततया वा ।
नन्वेवमप्यन्यतरेणोभयकार्यसिद्धेरुभयाम्नानानर्थक्यमत आह—आम्नानेति । उभयो-
रिति अर्थवादैरेव प्ररोचितं विधायकैरेव विहितं सदनुष्ठितं फलं साधयतीति अध्ययन-
विधिरेव कल्पयिष्यतीत्यभिप्रायः उभयोरिति अर्थवादप्ररोचनयोरित्यर्थः ।
एतमेव न्यायं निन्दार्थवादेष्वतिदिशति—एतेनेति । तत्रापि निषेधानन्यथानुपपत्त्याऽ-
निष्टसाधनत्वबोधान्निवृत्तिकारणाप्रीतिसम्भवेऽपि १तादात्विकेष्टसाधनत्वावगमान्निवृत्तिप्रति-
बन्धकोत्साहकारणेच्छाप्रसङ्गे निवृत्त्यभावापत्तेरप्रीतिविरुद्धेच्छानाशाख्यप्रद्वेषोत्पादनशक्त-
त्वेन दोषातिशयत्वलक्षणाप्राशस्त्यज्ञानस्य लोकेऽपि दर्शनान्निवृत्तिफलाया नञ्लिङादि-
युक्तशब्दभावनाया निवारणापरनामधेयनिषेधज्ञानात्मककरणानुग्राहकत्वं तावदवसीयते,
तत्र च साधनापेक्षायां पूर्वोक्तेनैव प्रकारेण सोऽरोदीदित्येवमादीनामध्ययनविधिबलात्सा-
धनत्वावगतेस्तदार्थ्येन शब्दभावनया ग्रहणमनुसन्धेयम् । अप्रशस्तप्रत्ययाधीनोत्पत्तिरस्येति
विग्रहः प्रशस्तग्रहणं दृष्टान्तार्थम् ।
तस्मादध्ययनविधिबलेनार्थवादानां पुरुषार्थानुबन्धित्वाय लाक्षणिकस्तुतिनिन्दापरत्वाव-
धारणरूपमङ्गेनेकवाक्यतासिद्धेति पूर्वाधिकरणैकवाक्यतासमर्थनोपयोगित्वम् ।
तदुच्यते इत्यारभ्याध्ययनविधिव्यापारचर्चात्मकस्य वार्त्तिकखण्डकस्य दर्शयति—
अतश्चेति । समभिव्याहारवशात्पूर्वमेवावगतस्यैकवाक्यत्वस्य परस्परनिरपेक्षत्वेनानुपपत्ति-
प्रतिभासे अध्ययनविधिसामर्थ्यावधारितस्तुतिनिन्दापरत्वेनार्थवादानां विधिनिषेधग्रहणा-
न्निर्वाहः कियत इति—सिद्धिग्रहणेनोक्तम् ।
नन्वध्ययनविध्यवधारितपुरुषार्थपर्यवसायित्वात्तेनेव स्तुतिनिन्दापरत्वावसायात्किमिति
महता प्रयासेनेकवाक्यत्वं साध्यतेऽत आह—नित्यं चेति । विधिनिषेधापेक्षावशा-
ल्लक्षणया स्तुतिनिन्दापरत्वं स्वरसतोऽप्रतीयमानमपि कल्प्यते, तदभावे तु प्राशस्त्याप्राश-
स्त्यलक्षणाकारणाभावात्सिद्धवत्कीर्त्तनान्यथानुपपत्त्या ताभ्यामेव तमग्नीषोमीयमेकादश-
कपालं पूर्णमासे प्रायच्छदित्यादिवेद्विधिकल्पनेनैव पुरुषार्थपर्यवसानसिद्धेरित्याशयः । वाक्य-
शेषग्रहणेन स्वातन्त्र्ये सति स्तुतिनिन्दानिर्णयहेतुत्वाभावं दर्शयति तत्र कारणमाह—
न हीति । अव्यवस्थामुपपादयति—निन्दारूपास्विति । अविधेयनिन्दात्वेनाभासमानासु
परमार्थता निन्दाविपर्ययविधेयस्तुतित्वदर्शनाद्विधेयनिन्दात्वेनाविधेयस्तुतित्वेन चाभासमा-
नानां परमार्थतस्तद्विपर्ययकेवलविधेयस्तुतित्वदर्शनादित्यर्थः ।
यथाक्रममुदाहरणद्वयमाह—यथेति । प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति ये
ऽग्निहोत्रमित्यनुदिते होमनिन्दात्वेनामासमानापि तस्मादुदिते होतव्यमिति विध्येकवाक्यत्वात्
स्तुतिरेवेति शाखान्तराधिकरणे भाष्यकारो वक्ष्यति दाशमिकाधिकरणार्थसंक्षेपः ।
१. तदात्वे भवं तादात्विकं तात्कालिकमित्यर्थः ।

७२ मीमांसादर्शनम् [ सू०
दशमे च त्रैयम्बकान्पुरोडाशान्प्रकृत्य पठितमभिधायैस्त्र्यम्बका नाभिघार्या इति
मीमांसते यदभिघारयेद्रुद्रायास्ये पशून्निदध्यान्नभिघारयेन्न रुद्रायास्ये पशून्निदध्यान्न
सूक्ष्ममभिघार्या एव न ह्यनभिघृतं हविरस्तीति वाक्यमुदाहृत्य चिन्तयिष्यते किमभिघार्या-
नभिघार्या इति विधिप्रतिषेधार्थता उत नेति । तत्र हिंस्ररुद्रास्ये पशुनिधानापादकत्वेनाभि-
घारणस्य निन्दितत्वादनभिघारणस्य च तदनापादकत्वेन स्तुतत्वान्निषेधावगतेर्न ह्यनभिघृतं
हविरस्तीति च हविःसम्पादककत्वेनाभिघारणस्य स्तुतत्वाद्द्विध्यवगतयोर्विकल्पे प्राप्तेऽऽभि-
धास्येते मीमांसासमभिव्याहारेण विधिनिषेधशक्तिप्रतिबन्धादभिधारणानभिघारणनिन्दास्तु-
त्योश्चाभिघार्या एवेति विध्येकवाक्यत्ववशेनाभिघारणस्तुतिपर्यवसायित्वावधारणाच्च वाक्य-
भेदापादकं विधिप्रतिषेधार्थत्वं युक्तमिति ।
तत्र कथमभिघारणस्तुतिरित्युपेक्षिते वक्ष्यते, इत्थमभिघारणं प्रशस्ततरं यत्त्रैयम्बकानां
दर्विहोमत्वेनापूर्व्वत्वादतिदेशतोऽप्राप्ते मीमांस्यमाने दोषोऽप्येवंविधोऽनभिघारणस्य च गुणो
न गण्यते हविःसम्पादकत्वेन गुणवत्तरत्वादिति ।
न केवलं स्वातन्त्र्येऽन्यथाप्रतिभानाद्व्यवस्था किं तु सन्देहादपीत्याह—सन्दिग्धेति ।
तत्राप्युदाहरणमाह—यथेति । नावमिकाधिकरणार्थसंग्रहः । यथोक्तं नवमे यदृचा स्तुवते
तदसुरा अन्ववायन्चेत्साम्ना स्तुवते तदसुरा नान्ववायन् एवं विद्वान्साम्ना स्तुवीतेत्यु-
दाहृत्य किमृचा स्तुवत इति च विधानार्थम्, उत साम्ना स्तुवीतेत्येतद्विहितसामस्तुत्यर्थ-
मिति चिन्तयिष्यते । तत्र य एवंविद्वान्साम्ना स्तुवीतेत्यस्य कर्तृप्रवृत्त्यनुवादियच्छब्दयोगेन
य एव विद्वान्पौर्णमासीं यजत इत्यादिवद्विधिशक्तिप्रतिबन्धादितर योस्तु क्रियास्वरूपमात्रानु-
वादियच्छब्दयोगेन यदाग्नयोऽष्टकपाल इत्यादिवद्विधिशक्तिप्रतिबन्धादुभयविधिवशाद्विकल्प
इति पूर्वपक्षिते, कथमसुरागमननिमित्तत्वेन निन्दिताया ऋचो विधिः इत्याशङ्क्य भाष्य-
कारो वक्ष्यति । न वयं निन्दितानानन्दितान् वासुरान्विद्म इति ।
भाष्यकारोक्तं सन्देहमुपपादयति—कदाचिदिति । सिद्धान्ते विध्येकवाक्यतावशेनैव
निर्णय इत्याह—तत्रेति । स्तुवीतेतिप्रत्यक्षस्य विधेर्यच्छब्दयोगेऽपि प्राप्यभावेन य एवं
विद्वान्सोमेन यजेतेतिवद्विधिशक्त्यप्रतिबन्धादितरयोस्तु वर्त्तमानापदेशत्वेन विध्यशक्तेरेक-
वाक्यत्वसम्भवे वानेकादृष्टानुबन्धिवाक्यभेदापादकविधिद्वयकल्पनायोगात्सामविध्येकवाक्य-
त्ववशेन सामस्तुत्यर्थमृचां निन्देति सिद्धान्ते निर्णय इत्यर्थः ।
ननु वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिङ्गमयतीत्यादीनाम्, यो बर्हिषि
रजतं दद्यात्पुरास्य संवत्सराद् गृहे रोदनं भवतीत्यादीनां च पदानां स्वरसतो भूतान्वाख्या-
नार्थमपि लाक्षणिकस्तुतिनिन्दार्थत्वसम्भवेन विधिनिषेधकवाक्यतावसायात्तात्पर्यनिर्णयो
भवतु परिशिष्टानां वायुर्वै क्षेपिष्ठा देवतेत्यादीनां सोऽरोदीत्येवमादीनां च लक्षणयापि स्तुति-
निन्दार्थत्वाऽप्रतीतेर्विधिनिषेधैकवाक्यत्वसम्भवात्कथं तद्वशेन स्तुतिनिन्दापरत्वनिर्णयः, अतः

७ ] प्रथमाध्याये द्वितीयपादः ७३
आह—सर्व्वत्र चेति । तेषामपि स्तावकनिन्दकपदेकवाक्यत्वेन स्तुतिनिन्दार्थत्वसम्भवात्तद्-
द्वारेण विधिनिषेधैकवाक्यत्वोपपत्तेः स्तुतिनिन्दापरत्वनिर्णय इत्यर्थः ।
यत्र तर्हि न किंचिदपि पदं स्तावकं निन्दकं वोपलभ्यते आपो वै शान्ता इत्यादिषु
तत्र पारम्पर्येणापि विधिनिषेधैकवाक्यत्वासम्भवात्कथं स्तुतिनिन्दापरत्वनिर्णयः, अत
आह—यत्रापीति । तत्रापि वेतसशाखयाऽवकाभिश्चाग्निं विकर्षतीत्यादिविधिसन्निधिवशेन
लक्षणया तद्विधेयवेतसावकास्तुतिप्रतीतेर्लक्षितलक्षणया वा विकर्षणस्तुतिप्रतीतेर्विध्येक-
वाक्यत्वात्तात्पर्यनिर्णय इत्यर्थः ।
यद्वैतदधिककाद्वयमेकवाक्यत्वाभिधानोपयोगप्रतिपादनपरतयैव व्याख्येयं विधिनिषे-
धैकवाक्यत्वाभावे केषुचित्पदेषु कथंचित्स्तुतिनिन्दाप्रतीतावस्यानर्थक्येनोपपादानपेक्ष-
त्वात्परिशिष्टानां पृथग्वाक्यत्वेन स्वरूपमात्रेण पर्यवसानं स्यात् तादृक्पदाभावे च स्तुतिर्वा
निन्दा वाशङ्क्यैव न केवलेनैव स्यादिति ।
ननु विधिनिषेधयोः स्तुतिनिन्दापेक्षायां तदभावे वसन्तादिवाक्येषु साकाङ्क्षत्वाद-
प्रामाण्यं स्यादत आह—विधीति । विधिप्रतिषेधयोर्मध्येऽन्यतरदर्शनेन स्तुतिनिन्दयोर्मध्ये
ऽन्यतरदनुमायेत्यर्थः ।
एवं वैदिकार्थवादोपयोगं व्युत्पाद्य स्मृत्यधिकरणवक्ष्यमाणप्रामाण्यविद्यास्थानान्तरगते-
ष्थर्थवादेषु तमेव न्यायमतिदिशति—एवं चेति । इतिहासपुराणयोरर्थवादबहुलत्वाद्भारता-
दीत्युक्तम्, नन्वध्ययनविधिबोधितपुरुषार्थानुबन्धित्वबलेन वैदिकार्थवादानां श्रौतार्थातिक्रमेण
लाक्षणिकस्तुतिनिन्दापरत्वमवधारितम् अत्र तु कथमित्यशङ्क्यात्राऽप्यध्ययनविधिस्थानीयं
विधिं दर्शयति—तेषामपि हीति । एतया निषादस्थपतिं याजयेदित्यादिवत् प्रयोज्यव्या-
पारत्वमभिप्रेत्य श्रावणविध्युपन्यासः, धर्म्मादीनां साध्यानां साधनप्रतिपत्तिरिति विग्रहः,
धर्मादिचतुष्टयसाधनप्रतिपत्तिरुपादानाङ्गभूता, अधर्मादिचतुष्टयसाधनप्रतिपत्तिः परित्या-
गाङ्गभूतेति योज्यम् ।
भारतोपक्रमे ॥
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् । इति
जनमेजयस्य भारतश्रवणप्रवृत्तिसिद्ध्यर्थं धर्म्मादिचतुर्विधपुरुषार्थंतत्प्रतियोगि च शब्द-
सूचिताधर्मादिसाध्यसाधनप्रतिपादनपरत्वाभिधानात्सर्वत्र यथासम्भत्रं तत्परत्वमुन्नेयमिति
भावः ।
ननु विधिनिषेधशून्यानां बहुशो भारतादिषु दर्शनात्कथं पुरुषार्थपर्यवसानकल्पन-
मित्वाशङ्क्य यथासम्भवं विभज्योपयोगं दर्शयितुमाह—तत्रापि त्विति । शङ्कानिरा-
सार्थस्तुशब्दः । दानराजमोक्षाणां धर्मा इति द्वन्द्वगर्भः षष्ठीसमासः । दानस्येतिकर्त्तव्यता-
भूतो धर्मो राज्ञोऽनुष्ठेयः, मोक्षस्य साधनमादिशब्देन तपो ब्राह्मण्यायुदयादिसंबन्धि-

७४ मीमांसादर्शनम् [ सू०
धर्मोपादानम् १। अनेन च ग्रन्थेन तत्सन्निधिपठितानामुपाख्यानानां तत्तद्विधिशेषत्वेनोपयोगो
दर्शितः। विध्यश्रवणेऽप्येकानेककर्त्तृकवचरित्रकथनात्मकपरकृतिपुराकल्परूपेण यस्मात्पूर्वै-
र्महात्मभिरेवं कृतं तस्मादन्यैरपि कर्त्तव्यमिति विध्यनुमानातच्छेषत्वेनार्थवादतयोपयोगो
भविष्यतीत्याह—केचित्पुनरिति। किमित्येवं क्लेशाङ्गीकरणमत आह—सर्वोपाख्यानेषु
चेति। अन्यपरत्वादेव स्वार्थसत्यत्वमनाशङ्क्यमित्याह—तत्परत्वाच्चेति। ननु वेदस्यापौ-
रुषेयत्वेनापर्य्यनुयोज्यत्वाद्यथाम्नातस्य न्यायवलेन तात्पर्य्यकल्पनं युक्तम्, भारतादौ त्वसत्यो-
पाख्यानप्रणेतॄणां मूढत्वं विप्रलम्भकत्वं वा प्रसज्येतेत्याशङ्क्याविवक्षितोपाख्यानविस्तर-
प्रणयने कारणमाह—वेदप्रस्थानेति। एवमपि प्रक्रियामात्रत्वादबुद्धिपूर्वककारिता स्यादत
आह—प्रतिपाद्यानां चेति। विचित्रबुद्धित्वमेव दर्शयति—इहेति। नन्वेवमपि केषा-
ञ्चित्प्रतिपत्तिसिद्धौ शास्त्रप्रणयनार्थवत्त्वोपपत्तेरलं महता प्रबन्धेन अत आह—सर्वेषां
चेति। न चासत्योपाख्याप्रणेतृत्वेन व्यासादीनामप्रत्ययितत्वाशङ्का, धर्मादिविषयाणां
विधिप्रतिषेधानां केषांचिच्छ्रुतिमूलत्वदर्शनेनाऽर्थादिविषयाणां च प्रमाणान्तरमूलत्वेना-
सत्त्वावधारणादित्याह—तत्रेति। आदिशब्देनानर्थदुःखोपादानं न चोपाख्यानेष्वपि तेषाम-
सत्यवादित्वं बहूनां वेदलोकमूलत्वात्स्वोत्प्रेक्षितानामपि काव्यवत् लोकरञ्जनार्थत्वेन
विप्रलिप्साभावादित्याह—तथेति।
ननु धर्मादिविषयाणां स्मृतीनां वैदिकशरणत्वात् प्रामाण्यं स्यात्, तद्गतानामवेद-
मूलानासर्थवादानां विध्येकवाक्यत्वाभावेन स्तुत्यर्थत्वायोगादप्रामाण्यं स्यादित्याशङ्कयाह—
सर्वे चेति। अर्थवादशून्ययोविधिप्रतिषेधयोः श्रुतार्थापत्त्यार्थवादकल्पकत्वस्य विधिप्रतिषेध-
योश्च स्तुतिनिन्दाभ्यामविनाभावादन्यतरदर्शनेनान्यतरदनुमाय वाक्यं पूरयितव्यमिति,
अत्रोक्तत्वाद्देदकल्पतार्थवादानां २ व्यासादिभिर्लोकानुसारेण स्वोत्प्रेक्षया, वा प्रणीतत्वा-
त्सम्भवत्येवैकवाक्यत्वमिति भावः।
ननु भवतु विधिप्रतिषेधसन्निधिपठितानां प्रत्यक्षमूलभूतवैदिकार्थवादाभावे ३ ऽप्युक्तेन
न्यायेन काल्पनिकविधिप्रतिषेधैकवाक्यभूतार्थवादमूलत्वेन तदेकवाक्यत्वात्स्तुतिनिन्दार्थ-
त्वम्। तत्सन्निधिरहितानां तु स्तुतिनिन्दार्थत्वायोगादानर्थक्यं स्यादत आह—ये त्विति।
स्वयंशब्देन स्वातन्त्र्यमुक्तम्। प्रीति जनयन्तीति कामोपयोगितोक्ता। पार्थिवानामुप-
युज्यन्त इत्यर्थोपयोगिताम्, अदृष्टशब्देन धर्मोपयोगिता; देवतादीत्यादिशब्देनार्षादिग्रहणम्।
यत्र तर्हि न कि चिदपि श्रूयते किं तु स्वरूपमात्रं कीर्त्यते। यथा सृष्टिप्रलयादिवाक्येषु,
१. आनर्थक्यनेति विध्येकवाक्यत्वाभावेन स्तुतेन स्वीपपादकार्थवादपदान्तरानपेक्षत्वात्
तद्व्यतिरिक्तानां पदानां पृथग्वाक्यत्वम्।
२. वेदे यत्रार्थवादो न श्रूयते तत्र कल्पिता ये ऽर्थवादास्तएव लोकानुसारेण स्वोत्प्रेक्षया
वा तत्र प्रणीता इति भवत्येवैकवाक्यत्वमिति भावः।
३. प्रत्यक्षश्चासौ मूलभूतश्चासौ वैदिकार्थवादश्चेति विग्रहः।

७ ] प्रथमाध्याये द्वितीयपादः ७५
कथं तेषामुपयोगोऽत आह—इत्येषा दिगिति । युक्तोपयोगोपाख्यानमार्गेण सृष्टिप्रलयादि-
वाक्यानामपि यथासम्भवं धर्माद्युपयोगितोन्नेया । सा च स्मृत्यधिकरणे वक्ष्यते । अर्थवादो-
पयोगमात्रस्यैवात्र विवक्षितत्वादिति भावः ।
एवं सिद्धान्तस्वरूपं व्युत्पाद्य भाष्यमिदानीं व्याख्यातुमुपन्यस्यति—विध्युद्देशेनेति ।
कैश्चिदेतत्सकलं भाष्यं सार्थवादवाक्येष्वर्थवादादेव प्रवृत्तिसिद्धेर्विधिप्रत्ययपरित्यागपरत्वेन
व्याख्यातं तेषां व्याख्यानं दूषयितुमुपन्यस्यति—केचिदाहुरिति । अयमर्थः । अर्थवादाना-
मप्यध्ययनविधिबलेनैव पुरुषार्थपर्यवसायित्वाद्यथासम्भवं स्तुतिनिन्दार्थत्वावसायात्तद्वारा
कथं रोचतेति भाष्योक्तरीत्या प्रवर्त्तितव्यं निवर्त्तितव्यमित्येवंरूपप्रवृत्तिनिवृत्तिहेतुभूतार्थ-
प्रतिपादकत्वाल्लिङादीनामपि तदभिधायकत्वात्तुल्यार्थतया समुच्चयायोगे केवलानां
व्यवस्थयाऽर्थवत्त्वेऽप्युभयसम्भवेऽन्यतरेण सिद्धेरवश्यं त्याज्येऽन्यतरस्मिन्भूयोऽर्थवाद-
पदानुसारेणैकस्य लिङादेस्त्यागो युक्तः । प्रकृत्यनुग्रहार्थं च कस्मिंश्चित्प्रत्यये प्रयोज्ये
स्तुत्योत्पादितेच्छाल्लब्धकर्त्तव्यानुवादिनी लिङ् प्रयुज्यते, इति दृष्टं लिङोऽन्यतः सिद्ध-
कर्त्तव्यतानुवादिनीत्वमिति परमतेन दृष्टान्तितम्—यथेति । प्रत्ययश्चेत् त्यज्यते किं तर्हि
विवक्षितमित्यपेक्षिते—तस्मादित्युक्तम् । एवं सोपपत्तिकं भाष्याभिप्रायमुक्त्वा, अक्षर-
योजनमाह—स एव चेति । वायव्यश्वेतालम्भ एव भाष्ये विध्युद्देशशब्देनोक्त इत्यर्थः ।
ननु भूतिकामान्तस्य विध्युद्देशत्वं वदता विधिप्रत्ययोऽपि गृहीतो लक्ष्यते । अन्यथा
स्तुत्यन्वयात्प्राक् कर्त्तव्यत्वाप्रतीतेः फलानापेक्षत्वाद् भूतिकामान्तवचनानर्थक्यं स्यादत
आह—फलादीति । अनुष्ठानयोग्यस्यानुष्ठानसिद्धयर्थं स्तुत्यपेक्षणात्फलाद्यन्वयं च विना-
नुष्ठानायोग्यत्वाद्विध्यविवक्षायामर्थवद्भूतिकामान्तवचनमिति भावः । कस्मादेवं व्याख्यायते
अत आह—अन्यथेति । ननूद्देशग्रहणेऽप्यनुवाद्येन विधिनेवैकवाक्यत्वप्रतीतेः कथमालम्भो-
पादानमत आह—सूत्रोक्तेन त्विति । उद्देशग्रहणस्योक्तेन न्यायेन विवक्षितार्थत्वादविवक्षि-
तस्य च पदान्तरान्वयायोगात्षष्ठीसमासस्य कर्मधारयस्य चानुपपत्तेर्विधेरुद्देशोऽविवक्षा-
स्मिन्निति कण्ठेकालादिवद्व्यधिकरणबहुव्रीह्याश्रयणात्कर्मणि वोद्देशशब्दं व्युत्पाद्य
सामानाधिकरण्योपपत्तेस्तद्विषयालम्भोपादानमित्यर्थः । स्फुटीकृतं चैतद्भाष्यकृतेत्याह—
तथा चाहेति । कथमनेनैतद्व्याख्यानं स्फुटीकृतमत आह—विधीति । स्तुतिस्तुत्यसम्बन्ध-
विवक्षा केनोक्तेत्यपेक्षिते पठति—यत इति । ये अनेन भाष्यावयवेन स एवैनं भूतिं गमय-
तीत्यादिस्तुत्यन्वयं दर्शयता स्तुतिस्तुत्यसम्बन्धं विवक्षितं वदन्तीति पूर्वेणान्वयः । प्रत्यया-
सहिष्णुत्यालभेतत्याद्यपदत्यागेन भाष्ये शेषपाठः कृतः । ननु विधित्यागे शब्दभावनायाः
कथम्भावाभावेन स्तुत्यनाकाङ्क्षणात्कथं स्तुतिस्तुत्यसम्बन्धविवक्षा अत आह—सैव चेति ।
वायव्यश्वेतालम्भस्य भूतिसाधनत्वेऽभिहिते कस्माद्धेतोस्तस्य भूतिसाधनत्वमित्यपेक्षायां
हेतुत्वन्निगदार्थवादवदन्वयो भविष्यतीति तेषामाशय इत्यर्थः ।
अस्मिन्नर्थे फक्किकैवं योज्या । विधेयस्यालम्भस्य विधिसम्बन्धे सति याऽर्थवाद-
योजना पूर्वमुक्ता, योज्यते सम्बध्यतेऽनेनेत्युभयाकाङ्क्षालक्षणोऽन्वयप्रकारो योजना-