सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 114, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 114

६२ मीमांसादर्शनम् [ सू०
कार्यं लिङादिवाच्यं सत्स्वतन्त्रं स्यात्प्रवर्त्तकम् ।
तदप्ययुक्तमज्ञातसम्बन्धत्वालिङर्थता ॥ १८ ॥
मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् ।
अथ स्वस्यस्वतन्त्रस्य पुंसो लिङश्रवणे सति ॥ १९ ॥
प्रवृत्तेरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः ।
अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥ २० ॥
प्राभाकरसम्मतविध्यर्थनिरूपणम्
कार्यं च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् ।
नियोज्येनात्मनः कार्यं तया ज्ञातमिति स्थितम् ॥ २१ ॥
नियोज्यश्च स्वसम्बन्धिकार्यंबोद्धाऽभिधीयते ।
काम्यमानाम्युपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥
कामी न च क्रिया तत्र क्षणिकोपायतां व्रजेत् ।
क्रियातोऽन्यदतः कार्यं वेदे वाच्यमलौकिकम् ॥ २३ ॥
तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् ।
अयुक्तम्पुमर्थत्वादव्यापारतया न च ॥ २४ ॥
अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता ।
अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥ २५ ॥
तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ् मृषा ।
किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥
क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव ।
कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्त्तकम् ॥ २७ ॥
तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता ।
तच्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥ २८ ॥
लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्टं न सिध्यति ।
फलस्य प्रवर्त्तकत्वतिरासः
नन्विच्छाजननेनान्यत्सन्वैरिष्टं प्रवर्त्तकम् ॥ २९ ॥
साक्षात्प्रवृत्तिहेतुत्वादतः सैव लिङोच्यते ।
तद्द्वारेण लिङर्थत्वात्फलं तेन प्रवर्त्तकम् ॥ ३० ॥
नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमान् ।
अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्त्यंत्वात्स नेष्यते ॥ ३१ ॥
फलस्य प्रीतिरूपत्वं लिङुक्तं चेत्प्रवर्त्तना ।
फल एव प्रवर्त्तेत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥