मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 110, कुल 804 में से
संदर्भ में पढ़ें५८ मीमांसादर्शनम् [ सू०
होमस्य तत्साधनत्वापपत्तेर्न दृष्टफलकल्पना स्यादित्याशङ्कयाह—यत्र त्विति । अयमाशयः१
विध्यभावे ऽप्यदग्धस्य क्रत्वर्थस्य कदाचिदुपघाते सति क्रतुवैगुण्यापत्तेस्तत्परिहाराय
दाहादरोपपत्तेर्नैकान्ततो विध्यनुमानम्, विध्यनुमाने ऽपि द्वारमात्रतयापि विध्युपपत्तेर्न
फलसाधनत्वकल्पना युक्तेति ।
एवं सामान्यन्यायमुक्त्वा तदनुसारेण यथाध्ययनविधेर्वाक्यार्थज्ञानपर्यन्तत्वं भवति,
तथा प्रपञ्चयन्नाह—तत्रेति । श्रुतफलेषु क्लृप्तः पुरुषार्थो, अश्रुतफलेषु कल्पयिष्यमाण
इति सर्वाणि प्रधानवाक्यानि अनेन परामृष्टानि । तत्प्रतिपादनं यावदित्यनेनाक्षरग्रहणादीनां
पेषणादिन्यायेनावान्तरव्यापारमात्रत्वादध्ययनफलत्वं निराकृतम् ।
फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता ।
निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यते ॥
इत्यनेन न्यायेन वाक्यार्थज्ञानार्थं स्वाध्यायोद्देशेन विहितस्याध्ययनस्य पुरोडाशार्था-
वघातवद्वाक्यार्थज्ञानार्थत्वावधारणात्तदन्तरालवर्त्तिनामक्षरग्रहणादीनां पेषणादिन्यायेना-
वान्तरव्यापारत्वमात्रं युक्तमिति भावः ।
ननु पुरोडाशस्य विध्यन्तरेण क्रत्वर्थतया फलत्वज्ञानाद्युक्तमवघातसाध्यत्वम्, वाक्यार्थ-
ज्ञानस्य तु कथम् ? अत आह—परतस्त्विति । वाक्यार्थज्ञानस्य सामर्थ्येन, यदेव विद्यया
करोति श्रद्धयोपनिषदा, तदेव वीर्य्यवत्तरं भवतीति वाक्येन वा कर्म्मानुष्ठानार्थत्वाव-
धारणात्कर्मणां च विध्यन्तरैः पुरुषार्थफलत्वावधारणात् न तत्पर्य्यन्तमध्ययनविधिरा-
यास्यति इत्यर्थः ।
ननु च भवतु प्रधानवाक्यानां स्वार्थप्रतिपादनमात्रेण पर्य्यवसानमङ्गवाक्यानां त्वर्थ-
द्वारेण, स्वरूपस्यापि मन्त्रवत्प्रधानेऽग्रहणात्कर्मकालप्रयोज्यत्वावगतेनार्थप्रतिपादनमात्रेण
पर्य्यवसानमित्याशङ्कयाह—यानि त्विति । अयमाशयः—न मन्त्राणामङ्गभूतार्थप्रति-
पादनमात्रेण स्वरूपग्रहणं ज्ञातम्, किं तु विधिवशात् । न चाङ्गवाक्यानां विधिरस्ति,
प्रकरणपाठेन च क्रत्वङ्गत्वं शङ्क्यमानमनारभ्याधीतानां तावन्न शक्यते शङ्कितुम्, प्रकरणा-
धीतानामपि प्रयाजादिवाक्यानां प्रमाणाभावान्न सम्भवतीति । एतदेव प्रश्नपूर्वकमुपपाद-
यति—कुत इति । अदृष्टार्थत्वेन क्रतोरदृष्टोपकारापेक्षत्वान्न२ दृष्टार्थाङ्गवाक्यग्राहकत्व-
मित्यर्थः३ । प्रयोजनशब्देनोपकारमाह । न च साक्षात्क्रतुसम्बन्धायापि प्रयोज्यत्वकल्पनं४
१. नन्वादरानुमितविधिविहितत्वं भस्मसाद्भावस्य विद्यत एव कथमुच्यते न किंचिद्वि-
धीययत—इत्यत आह—अयमाशय इति ।
२. वाक्यार्थप्रतिपादनं दृष्टोऽर्थः ।
३. नन्वङ्गानामफलत्वात् कथं प्रयोजनद्वारेणेत्युक्तमत आह—प्रयोजनेति ।
४. प्रयोगकाले पाठकल्पनमित्यर्थः ।