सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रम्—अन्याय्यश्चानेकशब्दत्वमिति । कथं पुनरिदमन्याय्यम् ?

२६ ] प्रथमाध्याये तृतीयपादः ५८१
मिदमन्याय्यमत आह—प्रत्ययमात्रेति । अभ्युपगम्येतेति । सर्वेऽविच्छिन्नपारम्पर्या
इति इत्यनुषङ्गः, ततः किमत आह-तत्सादृश्यादिति । यस्य गाव्यादेरविच्छिन्न-
पारम्पर्यताभ्युपगम्यते, तत्सादृश्यात् गवादिशब्दे स्मृतेऽपि तत एवार्थप्रत्ययो
घटते, तेन यतोऽर्थप्रत्ययस्यैको एवानादिरितरेऽपभ्रंशा इति न सर्वेऽविच्छिन्न-
पारम्पर्या इत्यर्थः ।
नन्वेवं सति हस्तः करः पाणिरित्यादीनामेकमर्थमभिनिविशमानानां सर्वेषा-
मनादिता कथमित्याशङ्क्य शिष्टप्रयोगादित्याह—हस्त इति । अभियुक्तोपदेशा-
दित्युपलक्षणम्, सादृश्याभावेन गत्यन्तराभावाच्चेति द्रष्टव्यम् ॥ २६ ॥
त० वा०—संशयापादनात्परपक्षे जितेऽपि स्वपक्षसिद्धिर्दुर्लभैवेत्येवमर्थमुत्तर-
सूत्रम्—अन्याय्यश्चानेकशब्दत्वमिति । कथं पुनरिदमन्याय्यम् ?
तदुच्यते—वाच्यवाचकसामर्थ्यनियमो योऽभिधागतः ।
सम्बन्धस्तदनेकत्वे स्वरूपात्सोऽपि हीयते ॥ ८५१
एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्याक्षेपात्परस्परनियमः संभवति
अन्यतरस्यापि त्वनेकत्वे सति व्यभिचारान्नियमहानिः ।
किं च—सामर्थ्यं सर्वभावानामर्थापत्त्याऽवगम्यते ।
एकसामर्थ्यसिद्धेऽर्थे नानेकं तच्च लभ्यते ॥ ८५२
अत्यन्तादृष्टा हि वाच्यप्रत्ययान्यथानुपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव
कल्पिता तदनुसार्यपभ्रंशेष्वपि चेदनुगम्यते, को नाम तन्निरपेक्षवाचकशक्त्यन्तर-
कल्पनां लभेत१।
नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते ।
तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥ ८५३
किं च—विकल्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् ।
स चेहानेकशब्दत्वे निश्चयेन प्रसज्यते ॥ ८५४
नामान्तरे श्रुते चार्थस्तद्भिन्नोऽन्यः प्रतीयते
संज्ञा चोत्पत्तिसंयोगात् २-२-८ इत्यत्रैतद्वदिष्यते ॥ ८५५
दृष्टान्तदार्ष्टान्तिकयोः वैषम्यप्रतिपादनम्
या तु हस्तः करः पाणिरित्यत्राऽनेकशब्दता ।
अनन्यगतिकत्वेन सा दृढस्मरणेन च ॥ ८५६
१ क. व कल्प्यते । २ क. (टिप्पण्यां) भजेतेति पा० ।

५८२ मीमांसादर्शनम् [ सू०
एकशक्त्यनुसारेण यावत्त्वस्ति गतिः क्वचित् ।
उपमानानुमानाभ्यां तावत्सैवानुगम्यते ॥ ८५७
तस्मात्स्वरूपसम्बन्धशब्दार्थत्वनिरूपणे ।
एकैकनियमादेव गतिः स्यान्नान्यगोचरा ॥ ८५८
यथा च प्रकृतिसारूप्यद्वारेणापभ्रंशाः प्राकृतीमेव शक्तिमाविर्भावयन्तोऽर्थ-
प्रतिपत्तावुपयोगं गच्छन्ति । तथा तदशक्तिश्चानुरूपत्वात्' इत्यत्र वर्णयिष्यते ।
तेनानेकप्रयोगेऽपि कश्चिदेवार्थसंगतः ।
तदुपस्थापनेनान्ये बोधकास्तदशक्तिजाः ॥ २६ ॥ ८५९
न्या० सु०—अत्र भाष्यकृता न चैष इत्यादिनेकस्यार्थस्यानेकशब्दत्वमयुक्तमित्येवं
सूत्रं व्याख्याय, हेत्वपेक्षायां प्रत्ययमात्रेत्याद्युक्तं तदन्यथाप्युपपत्तिमात्रप्रतिपादकत्वेन,
पूर्ववत्सन्देहमात्रापादनादनिर्णायकं तत्प्रकारनिरूपणं च 'तदशक्तिश्चे' त्यत्र वक्ष्यमाणत्वात्
पुनरुक्तमित्युपेक्ष्य, स्वयं प्रश्नपूर्वं पक्षहेतूनाह—कथं पुनरिति । कारकयोः साक्षाद-
सम्बन्धात् क्रियासम्बन्धे सत्येकक्रियावशीकारात्परस्परनियमसम्बन्धोऽभिधीयते ।
यथोक्तम्—
'प्रतिपत्तावुपादानात्साहित्ये च विवक्षिते ।
नियम्येत यदेकस्यां सम्बन्धः सोऽर्थशब्दयोः ॥' इति ।
स च वाच्यवाचकानेकत्वे स्वरूपात्नियमलक्षणाद्धीयत इत्यर्थः । वाच्यवाच-
कत्वयोः कर्मकरणरूपकात्मकत्वाच्छक्तेरेव कारकत्वमभिप्रेत्य सामर्थ्यशब्दः । क्रिया-
व्यापृतत्वरूपस्य तु कारकत्वमभिप्रेत्य तद्व्यवस्थासिद्ध्यर्थादृष्टातिशयरूपशक्त्य-
भ्युपगमे वा वाच्यावच्छिन्नवाचकाश्रितैकशक्तिमात्रेणोभयव्यवस्थोपपत्तेरनवच्छिन्नत्वे वा
शक्तित्रयकल्पनेऽपि व्यवस्थानुपपत्तेर्वाच्यावच्छिन्नस्य वाचकाश्रितस्य सामर्थ्यस्याभिधायां
नियमो यः सम्बन्धशब्दाभिधेय इति योज्यम् । श्लोकं व्याचष्टे—एकेति । योग्यार्थापत्त्य-
नुदयादप्यनेकवाचकशक्तिकल्पनमन्याय्यमित्याह—किं चेति । श्लोकं व्याचष्टे—अत्यन्तेति ।
आनर्थक्यादप्यनेकशब्दत्वमन्याय्यमित्याह—नाम चेति । विकल्पापत्तेरप्यन्याय्यमित्याह—
किं चेति । अर्थभेदापत्तेरप्यन्याय्यमित्याह—नामान्तर इति ।
ननु हस्तकरादिष्वनेकशब्दत्वदर्शनात्कथमन्याय्यतेत्याशङ्क्य, हस्त इत्यादिभाष्येणाभि-
युक्तोपदेशाभावे सत्यन्याय्येतेति परिहृतम्, तद् गाव्यादिष्वपशब्देष्वप्यभियुक्तोपदेशस्य
पूर्वपक्षिणेष्टत्वादयुक्तमाशङ्क्य, गत्यन्तराभावसूचनाथंत्वेन व्याचष्टे—यत्त्विति । दृढस्मरणे-
नेत्यभियुक्तोपदेशोऽनन्यगतिकत्वोपपादनार्थत्वेन व्याख्यातः । तदुपलक्षितमसादृश्यं चकारेण
सूचितं सम्प्रत्युपेक्षितं भाष्यं गाव्यादिशब्देषु गत्यन्तरसम्भवसूचनाथंत्वेन व्याचष्टे—
१. जै० सू० (१-३-८) ।

२६ ] प्रथमाध्याये तृतीयपादः ५८३
एकेति । गोशब्दोच्चिचारयिषायामशक्त्या केनचिद्गावीत्युच्चारिते, श्रुतगावीशब्दसादृश्यं
गोशब्दस्योपमानेनावगम्य, गावीशब्दोच्चारणस्य गोशब्दोच्चिचारयिषामूलत्वानुमानाद्
गोशब्दशक्त्यनुसारेण गावीशब्दादप्यर्थप्रत्ययोपपत्तेर्न गावीशब्दस्य शक्त्यन्तरकल्पन-
मित्यर्थः । अनेकशब्दत्वस्यान्याय्यत्वं पञ्चधोपपादितमुपसंहरति - तस्मादिति ।
स्वरूपं नियमरूपतासम्बन्धः सामर्थ्यलक्षणः शब्दो नामार्थो नामान्तरेऽप्यभिन्न इत्येषां
चतुष्टयोपसंहारः । निरूपणशब्दव्यवस्थार्थत्वेनावश्यं विकल्पप्रसङ्गलक्षणोपपत्त्युपसंहारः ।
सर्वशब्दमध्ये एकैकस्यैव गवाश्वादिशब्दस्य वाचकत्वनियमादिति वीप्सार्थः । यद्वैकस्यैव
शब्दस्य वाचकत्वनियमादेकस्यैव चार्थस्य वाच्यत्वनियमादिति यववराहाधिकरणोक्तो
वाच्यैकत्वनियमो दृष्टान्तत्वेन वीप्सयोक्तः । कथं पुनरुपमानानुमानाभ्यामेकशक्त्यनुसारेण
गतिसम्भव इत्याशङ्क्याह - यथा चेति । सिद्धान्तमुपसंहरति - तेनेति ॥ २६ ॥
भा० प्र०—इस प्रसङ्ग में यह शङ्का हो सकती है कि एक शब्द को साधु और अन्य
शब्द को असाधु मानने का क्या कारण है ? सभी अपरपर्याय शब्दों में एक ही अर्थ के
सभी शब्द वाचक होते हैं । अनेक शब्द को एक अर्थ का वाचक मानना उचित नहीं है ।
एक ही अर्थ की अनेक शब्दों से प्रतीति माननी होगी, किन्तु ऐसा मानने पर शब्द का
अप्रामाण्य मानना होगा । अव्युत्पन्न व्यक्ति जब शब्द और अर्थ के सम्बन्ध का ज्ञान
करता है, तब यह निर्णय करता है कि यह गो शब्द का वाच्य है; यह अश्व शब्द का वाच्य
नहीं है इत्यादि नियम पूर्वक ही व्युत्पत्ति होती है । किन्तु इसके बाद जो यह समझता
है कि गोणी गोता आदि सभी शब्दों का वाच्य गौ ही है । तब पूर्व नियम का वाध
होता है । पूर्वोक्त नियम का बाध होने पर अव्युत्पन्न व्यक्ति को शब्द से अर्थ का बोध
नहीं होगा । 'गामानय' गौ को लाओ इस प्रकार गो शब्द के सुनने के बाद कोई व्यक्ति
जब गलकम्बल आदि से विशिष्ट प्राणिविशेष विशेषरूप को लेकर व्यवहार करता है ।
ऐसी स्थिति में अन्य अव्युत्पन्न व्यक्ति अर्थापत्ति प्रमाण के द्वारा यह अवगत करता है
कि गो शब्द में गलकम्बलादि विशिष्ट प्राणिविशेषरूप अर्थ को बोध कराने की शक्ति है ।
इस प्रकार एक शब्द के सामर्थ्य से एक अर्थ सिद्ध होता है, उसी प्रकार अनेक शक्ति की
कल्पना नहीं की जाती है, क्योंकि इसमें अर्थापत्ति बाधित होता है । अनेक शब्दों को
एक अर्थ का वाचक मानने पर विकल्प की प्रसक्ति होगी । विकल्प मानने पर सभी
के प्रामाण्य को पक्ष में बाधित मानना होगा । अतः सम्भव पक्ष में अन्यथा उपपत्ति
होने पर विकल्प मानना उचित नहीं है । कर, हस्त आदि प्रयोगों में एक अर्थ में
अनेक शब्द की वाच्यता माननी ही होगी ; क्योंकि दूसरा उपाय नहीं है । इसलिए
गो, गावी आदि शब्दों में एक शब्द साधु है और अन्य शब्द असाधु हैं, अपभ्रंश है,
वक्ता के उच्चारण के असामर्थ्य के कारण ही ये शब्द प्रयुक्त हुए हैं ।
हस्त, कर, पाणि आदि शब्दों का एक अर्थ में प्रयोग शिष्टाचार के कारण अनादि
सम्बन्ध है । वस्तुतः एकार्थक मानने पर भी व्युत्पत्ति के आधार पर इन शब्दों के द्वारा

५८४ मीमांसादर्शनम् [ सू०
प्रतीत अर्थ में भेद ही दृष्टिगोचर होता है। क्योंकि हस्त शब्द का अनेक उपयोग होता
है। निरुक्त के अनुसार 'हस्तो हन्तेः' (नि० १।६) इस व्युत्पत्ति से प्राप्ति या हिंसा के
उपयोग में ही हस्त शब्द का प्रयोग साधु है, कर शब्द कृधातु से करोति इति कर व्युत्पत्ति
के अनुसार सामान्य क्रिया अर्थ में साधु है । इसी प्रकार पूजा आदि शुभ कर्म सम्पादन
में ही पाणि शब्द का प्रयोग साधु है, क्योंकि पूजार्थक पण् धातु से यह प्रयोग निष्पन्न
होता है । 'पाणिः पणायतेः पूजा कर्मणः, प्रगृह्य पाणी देवान् पूजयन्ति' (नि० २।२६)
के अनुसार इसी अर्थ की प्रतीति इस शब्द से होती है। अतः कोई भी शब्द अपर
पर्याय नहीं है। क्रिया भेद से भिन्न-भिन्न अर्थ के अनुसार शब्द का प्रयोग होता है।
'अन्यायः' = अन्याय या अनुचित है। 'च' = क्योंकि, 'अनेक शब्दत्वम्' = अनेक
शब्द वाच्यता । एक ही अर्थ की अनेक शब्द वाच्यता अनुचित अर्थात् एक अर्थ का अनेक
शब्द को वाचक मानना उचित नहीं है ॥ २६ ॥
तत्र तत्त्वमभियोगविशेषात्स्यात् ॥ २७ ॥
शा० भा०-कथं पुनस्तत्र१ तत्त्वं शक्यं विज्ञातुम् ? शक्यमित्याह२ । अर्थिनो
ह्यभियुक्ता भवन्ति । दृश्यते चाभियुक्तानां गुण्यतामविस्मरणमुपपन्नम् । प्रत्यक्षं
चैतद् गुण्यमानं न भ्रश्यत इति । तस्माद् यमभियुक्ता उपदिशन्त्येष एव
साधुरिति, साधुरित्यवगन्तव्यः३ ॥२७॥ आशङ्कानिरासः ॥
भा० वि०-सूत्रव्यावर्त्यां शङ्कामाह-किं पुनरिति । माभूवन् सर्वेऽनादयः
तथाप्ययमेवैकस्साधुरितरेऽसाधव इति, तेषु तत्त्वं न शक्यते ज्ञातुम्, नियामका-
भावादित्यर्थः, उत्तरत्वेन सूत्रमवतारयति-शक्यमित्याहेति । तद्व्याचष्टे-
अर्थिन इति । अर्थिनो=दृष्टार्थिनः । तदनेनादृष्टार्थसाधुप्रयोगनियमप्रतिपादकवेद-
दर्शित्वमुक्तम्, अभियोगो=लक्षणात्मकव्याकरणशास्त्राभ्यासः, तद्वन्तोऽभियुक्ताः,
तेन च व्याकरणाभ्यासानुगृहीतमयमेव साधुरितरेऽपभ्रंशा इति यत् प्रत्यक्षं
तद्वत्त्वमुक्तम् ।
ननु यद्यर्थिनोऽभियुक्ता भवन्ति, तथाप्यभियोगस्य प्रमुषितत्वसंभवात् न
तत्सहकृतं प्रत्यक्षं साधुत्त्वादिग्रहणाय पर्याप्तम् । अत्राह-दृश्यते चेति । गुणो
गुणनमावर्तनं तद्वतामविच्छिन्नाभ्यासानामियुक्तं भवति, अनेन सौत्रं विशेषपदं
व्याख्यातम्, अविच्छिन्नाभ्यासप्रमोषाभावरूपं अविस्मरणमेवोपपन्नं पश्याम
इत्यर्थः, प्रत्यक्षं चातिशयेनावर्त्यमानस्य स्वाध्यायादेरविस्मरणमित्याह-प्रत्यक्षं
१ ब. पुनरत्र । २ ब. इतःपरं 'तस्माद् य' इत्यन्तं नास्ति ।
३ ब. साधुरवगन्तव्यः ।

२८ ] प्रथमाध्याये तृतीयपादः। ५८५
चेति । तेन पूर्वपूर्वस्मृत्यनुगृहीतप्रत्यक्षमूलत्वाद्वेद मूलत्वाच्चोत्तरोत्तराभियुक्तस्मृतेः
प्रामाण्यात् तद्बलादेव नियमद्वयसिद्धिरित्याशयः । भवतु प्रयोगनियमविषयायाः
श्रुतेः श्रुतिमूलत्वेन प्रामाण्यम्, साधुस्वरूपनियमविषयायास्त्वसन्मूलाया विप्र-
लम्भादिमूलत्वसंभवात् कथं प्रामाण्यमत आह—दृश्यते चेति । अभियुक्तत्वम्,
यथार्थदर्शित्वम्, गुणवत्त्वं यथादृष्टार्थवादित्वमुपपन्नं प्रमाणमिति यावत् ।
ननु प्रमुषितव्याकरणस्य स्मरणमप्रमाणमपि भविष्यति तत्राह—प्रत्यक्षं
चैतदिति । गुण्यमानमावर्तमानमित्यर्थः, समूलत्वेनोपसंहरति-तस्मादिति ॥२७॥
तदशक्तिश्चानुरूपत्वात् ॥ २८ ॥
शा० भा०—अथ यदुक्तम्-अर्थोऽवगम्यते गाव्यादिभ्यः, अत एषामप्यनादि-
रर्थेन सम्बन्ध इति । तदशक्तिरेषां गम्यते । गोशब्दमुच्चारयितुकामेन केनचिद-
शक्त्या गावीत्युच्चारितम् । अपरेण ज्ञातं सास्नादिमानस्य विवक्षितः तदर्थं
गौरित्युच्चारयितुकामो गावीत्युच्चारयति । ततः शिक्षित्वाऽपरेऽपि सास्नादि-
मति विवक्षिते गावीत्युच्चारयन्ति । तेन गावादिभ्यः सास्नादिमानवगम्यते ।
अनुरूपो हि गाव्यादिर्गोशब्दस्य ॥ २८ ॥ उत्तरम् ।
भा० वि०—शङ्कोत्तरत्वेन सूत्रं व्याख्यातुं शङ्कामनुवदति—अथेति । गाव्या-
दिभ्य एवेत्यर्थः । भवतु गृहीतगोशब्दवाचकत्वस्य श्रुतगावीशब्दसादृश्यावगत-
गोशब्दादेवार्थप्रत्ययः, यस्तु गाव्यादिभ्य एवार्थं प्रत्येति, तं प्रति तेषामेव
वाचकत्वमाश्रयणीयमिति भावः । तत्प्रतिपत्तिप्रकारं दर्शयितुं सूत्रावयवं व्याचष्टे-
तदशक्तिरिति । प्रयोज्यवृद्धस्तावत् उत्तमवृद्धप्रयुक्तगावीशब्दसादृश्यात् गोशब्द-
मवगम्य तद्विवक्षां चास्यानुमाय देवदत्तपदविवक्षायां तत्तत्पदप्रयोगाद् देवदत्तपद-
प्रयोगशक्तित्वात् गावीपदप्रयोगात् गोपदप्रयोगशक्तिमुत्तमवृद्धस्यावगच्छतीत्यर्थः ।
एतद्विवृणोति—गोशब्दमिति । केनचिदुत्तमवृद्धेनोच्चारयतीत्यस्यानन्तरमितिशब्द-
मध्याहृत्यापरेण मध्यमवृद्धेन ज्ञातमिति सम्बन्धनीयम् । तेन तस्य तावद्विवक्षा-
विषयत्वेनानुमितात् गोशब्दादेवार्थप्रत्ययः, इति पूर्वोक्तानुवादः, अस्तु गृहीत-
गोशब्दवाचकत्वस्य मध्यमवृद्धस्यैवम्, इतरेषां तु कथम् ? अत आह—तत इति ।
मध्यमवृद्धाच्छिक्षित्वा व्युत्पद्यते अपरोऽपि बालोऽपीत्यर्थः, यद्यपि मूलशब्दानु-
सारेणैव सास्नादिमति प्रयोज्यवृद्धप्रत्ययः, तथापि तत्प्रत्ययस्य व्यवहारानुमितस्य
गाव्यादिविकारशब्दान्वयव्यतिरेकित्वाद्विकारशब्दाशकिजत्वाज्ञानाच्च, तज्जन्य-
त्वमाकलयन्तो बालास्तत्रैव गाव्यादिशब्दसामर्थ्यं कल्पयन्ति, तत॒ स्वयमपि
प्रयोगसमये सास्नादिमति विवक्षिते गावीत्येवोच्चारयन्ति, एवमन्येऽपी-
त्यपभ्रष्टैरेव गाव्यादिभिस्सास्नादिमानर्थोऽवगम्यते, न तु वाचकैरेवेत्यर्थः ।

५८६ मीमांसादर्शनम् [ सू०
नन्वेवमश्वमानयेत्युत्तमवृद्धप्रयुक्तादश्वशब्दादपि गोशब्दमवगम्य सास्नादिमति
प्रवृत्तावश्वशब्दस्यापि तत्र व्युत्पत्तिप्रसङ्ग इत्याशङ्क्यानुरूपत्वादिति सूत्रावयवं
व्याचष्टे—अनुरूपो हीति । न शब्दमात्राद् गोशब्दावगतिः किन्तु सदृशादेव
गाव्यादेरित्यर्थः इति भावः ॥ २८ ॥
एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् ॥ २९ ॥
शा० भा०—अत एव हि विभक्तिव्यत्ययेऽपि प्रत्ययो भवति । अश्मकैरा-
गच्छामीत्यश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्येष शब्दः स्मर्यते । ततोऽस्म-
केभ्य इत्येषोऽर्थ॑. उपलभ्यत इति । एवं गाव्यादिदर्शनाद् गोशब्दस्मरणम्²,
ततः सास्नादिमानवगम्यते ॥ २९ ॥ उत्तरे युक्तिः ।
॥ इत्यष्टमं व्याकरणाधिकरणम् ॥
भा० वि०—गाव्यादिशब्दस्य साधुशब्दस्मारेणनार्थप्रत्यायकत्वं दृष्टान्तेन
दर्शयितुं विभक्तिव्यत्यये प्रत्ययः स्यादिति सूत्रावयवं व्याचष्टे—अत एवेति ।
यतस्सदृशशब्ददर्शनात्सदृशान्तरे बुद्धिरुपपन्ना । अत एवेत्यर्थः, क्वैवं भवतीत्य-
त्राह—अश्मकैरिति । कथमश्मकैरित्यस्मादश्मकेभ्य इत्यस्य विरूपस्य स्मरण-
मित्याशङ्क्यैकदेशादिति सूत्रावयवो व्याख्यातः । अश्मकशब्दैकदेश उपलब्ध इति,
इदानीं स्मृताच्छब्दात् तदर्थावगतिमाह–तत इति । दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके
योजयति—एवमिति । तेन गाव्यादिशब्दस्मृतानां गवादिशब्दानामेव वाचकत्वा-
तेषामेव सास्नादिमति साधुत्वम्, न गाव्यादीनामिति युक्ता शब्देषु व्यवस्थे-
त्याशयः ॥ २९ ॥
त० वा०—तुल्यप्रयोगप्रतिपत्तीनामन्यतरावधारणमशक्यमिति चेत् ? अत
आह—तत्र तत्त्वमभियोगविशेषात्स्यादिति । कः पुनरभियोगः ? को वा
तद्विशेषः ? कथं वा तेन वाचकत्वनिरूपणमिति ?
तदुच्यते—लक्षणश्रवणाभ्यासादभियोगः प्रवर्तते ।
तेन लक्ष्यान्तरज्ञानं तद्विशेषोऽभिधीयते ॥ ८६०
प्रतिपदपाठो ह्यानन्त्यादत्यन्ताशक्यः तदभावे च लक्षणानुसरणमेवैकमशेष-
लक्ष्यनिरूपणक्षमत्वेनावधार्यते ।
तस्मान्न लोकवेदाभ्यां कश्चिद् व्याकरणादृते ।
वाचकाननपभ्रष्टान्न्यथावज्ज्ञातुमर्हति ॥ ८६१
१ ब. इत्यर्थोऽवम्यते । २ ब. गाव्यादि शब्ददर्शनाद्रो ।

२९ ] प्रथमाध्याये तृतीयपादः ५८७
तत्सामस्त्यापरिज्ञाने पारिशेष्यानिरूपणात् ।
अर्थापत्त्याऽपशब्दानां निश्चयो नोपपद्यते ॥ ८६२
लक्षणानुगमाद्यांस्तु बहिरेव प्रयुञ्जते ।
नियतप्रतिपक्षत्वात्तेष्वर्थापत्तिसंभवः ॥ ८६३
तेनोभयज्ञानस्यापि व्याकरणमेवोपाय इति, तद्गताभियोगविशेषाश्रयणम् ।
यत्तु प्रयोगोत्पत्तिशास्त्रत्वादिति लक्षणे तन्मूलासंभवादितरेतराश्रयत्वमुक्तम्,
तत् लोकव्यवहारप्रसिद्धप्रतिपादकत्वमात्रेणाऽनिर्णीतपारमार्थिकवाचकत्वैरपि
व्याकरणावयवभूतैः पदैः केषांचित्साधुत्वमन्वाख्याय, पुनस्तैरप्यन्वाख्यापकशब्द-
साधुत्वनिर्णयात्परिहरिष्यते ।
यदि वाचकतेवाऽऽदौ न स्याद्व्याकरणादृते ।
न विज्ञायेत वा तत्र भवेदन्योन्यसंश्रयम् ॥ ८६४
विज्ञाते वाचकत्वेऽपि तदपभ्रंशसंकरात् ।
विवेकप्रतिपत्त्यर्थमिष्टा च व्याक्रिया स्मृतिः ॥ ८६५
तेन संकीर्णासंकीर्णवाचकज्ञानोपायत्वाल्लोकव्याकरणयोर्भिन्नविषयत्वेनाऽ-
पुनरुक्तता, वेदे साधुशब्दमात्रदर्शनादनर्थकं व्याकरणमित चेत् ? न । अकृत्स्न-
विषयत्वात् ।
केचिद्व्यवस्थिता एव साधवो लोकवेदयोः ।
सर्वशाखागतान्विद्यात्को वा साधारणानपि ॥ ८६६
यथैव लौकिकप्रतिपदपाठस्याशक्यत्वम् एवं वेदेऽपि सर्वशाखागतानसकृदपि
श्रोतुमशक्तिः, किमुताध्येतुम् ।
प्रकृतिप्रत्ययानन्त्याद्यावन्तः पदराशयः ।
लक्षणेनानुगम्यन्ते कस्तानध्येतुमर्हति ॥ ८६७
एतेन पुरुषार्थक्रत्वर्थादृष्टसाधुशब्दप्रयोगज्ञानसाध्यसाधनभावविधिवाक्यगत-
पदव्याक्रिया, तस्याश्च पूर्वप्रसिद्धतन्मूलत्वकल्पनागतेतरेतराश्रयत्वप्रसङ्ग प्रत्युक्तः ।
यदि ह्येकान्तेन 'तस्मान्न ब्राह्मणेन म्लेच्छितवै' 'एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः
शास्त्रान्वितः स्वर्गे लोके कामधुग्भवति' 'तस्मादेषा व्याकृता वागुद्यते' इति
चैवमादिक्रतुपुरुषगतनियमविधिदर्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति
पौर्वापर्यव्यवस्था भवेत्, तत एवं पर्यनुयोगः प्रसज्येतापि व्याकृतत्वाश्रयो
वेदविधिः, वेदविध्याश्रयं च व्याकरणं कथमवकल्पिष्यत इति ? यदा तु किंचिद-
ग्रन्थोपनिबद्धप्रकृतिप्रत्ययादिविभागद्वारप्रक्रियात्मकव्याकरणस्मृतिवर्जितकाला -
भावादन्वाख्यानानन्वाख्येयान्वाख्यातविधिप्रयोगानन्वाख्यातप्रतिषेधवर्जनषट्कस्या-

५८८ मीमांसादर्शनम् [ सू०
॰प्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति, सर्वेषां वेदवेदि १यूपा हवनीयाध्वर्युगो-
दोहनादिस्वरूप-तत्कार्य-तत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसम्बन्धेऽ-
त्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनम्, तदा सर्वकालव्याक्रियमाणविद्यमान-
शब्दनियमविधेर्न किंचिदनुपपन्नम् ।
यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च
लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद् गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने
लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यति-
रिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति ।
तत्राभिधीयते—
संमुग्धवाचके लोके लक्षणाद्वाचकः स्फुटः ।
गम्यते स्मरणं चोक्तमाचाराद्बलवत्तरम् ॥ ८६८
लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति, तावदेव लोक-
व्यवहाराद्वाचकत्वज्ञानं जायते, यावद्व्याकरणानुगतत्वं नाभ्युपगम्यते ।
यदा तु तयोर्मार्गभेदेन प्रतिपत्तिः तदा 'तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः
स्यात् १-३-८' इत्युपन्यस्य 'शास्त्रस्था वा तन्निमित्तत्वात् १-३-९' इत्यने-
नैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वम्, तदभियुक्तपुरुषबलीयस्त्वं
वापूर्वमेव स्थापितम् ।
तर्केणावाचकत्वं च वदल्लोकेन बाध्यते ।
स्मर्यमाणविरोधस्तु ब्राह्मणाब्राह्मणादिवत् ॥ ८६९
यथैव तुल्यशिरः पाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु
मातापितृसम्बन्धस्मरणादेव वर्णविवेकावधारणं भवति, तथा साधुशब्दावधारण-
मपीतिलोकविरोधाभावः ।
यथा च तुल्यपाण्यादिरूपत्वाद्वर्णसंकरम् ।
वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् ॥ ८७०
आदितश्च स्मृतेः सिद्धः प्रत्यक्षेणापि गम्यते ।
साध्वसाधुविभागोऽयं कुशलैर्वर्णभेदवत् ॥ ८७१
यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसम्बन्धवदनियतकालत्वान्न ज्ञायते,
कदा भविष्यतीति, सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते।
यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यास-
१ क. वेदी ।

२९ ] प्रथमाध्याये तृतीयपादः ५८९
जनितसंस्कारस्य रागा१भ्यासजनितषड्जादिविभागविषयमिव साध्वसाधुशब्द-
रूपगोचरमुपजायते ।
तस्मै तर्केण यो नाम साधयेच्छब्दसंकरम् ।
तस्य प्रत्यक्षबाधोऽपि वर्णसंकरबाधवत् ॥ ८७२
तेनापशब्दगतवाचकत्वापादनस्यैव समस्तप्रमाणविरोधः शक्यो वक्तुम्, न
स्मर्यमाणशब्दसाधुत्वपक्षस्येति निरवद्यता । तेनादृष्टार्थप्रत्यायननियमप्रतिषेधद्वारं
धर्माधर्मसाधनत्वकृतमपि साध्वसाधुत्वज्ञानमुपपत्स्यते ।
यस्त्वाह साधुत्वं नेन्द्रियग्राह्यमित्यादिश्लोकम् ।
भर्तृहरिणा वाक्यपदीयेऽभिहितस्य अर्थस्योपन्यासनिरसौ
तं प्रत्येवं वक्तव्यम् ।
साधुत्वमिन्द्रियग्राह्यं लिङ्गमस्य च विद्यते ।
शास्त्रस्य विषयोऽप्येष प्रयोगोऽप्यस्त्यसंकरः ॥ इति । ८७३
ग्रस्तनिरस्ताम्बूकतादिदोषवर्जितनियमह्रस्वादिकालाभिव्यङ्ग्ययथालक्षित-
क्रमग्राह्यवर्णानां स्मर्यमाण।विनष्टावाचकरूपविषयश्रोत्रज्ञानेनोदात्तादिवदिन्द्रिय-
ग्राह्यत्वम् । तदुत्तरकालप्रवृत्तव्यवहारगतार्थप्रतिपत्तिसहितलक्षणगतप्रकृतिप्रत्यय-
लोपागमविकारादेशादिलिङ्गमप्यव्यभिचारि विद्यते ।
साधुनियमप्रयोगनियमयोरभ्युपगमे पूर्वोक्तदोषपरिहारः
शास्त्रस्य च द्विविधस्यापि श्रुतिस्मृतिरूपस्य स्वर्गलोकयज्ञोपकारसिद्धिसाधन-
भावप्रतिपादनाथं स्यार्थानर्थकार्यस्वरूपज्ञानार्थस्य चायमेवंविविध एवान्योऽपि
विषयः । अविनष्टैः शब्दैर्भाषमाणस्य स्वर्गयज्ञोपकारौ भवतः । यज्ञे च कर्मण्यप-
शब्दैर्भाषमाणस्यानृतमिव वदतः प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यप्रसङ्गः । यथोक्तं
“वाग्योगविद् दुष्यति चापशब्दैः” इति । एतौ द्वावप्यर्थौ न शास्त्रादृतेऽन्येन
प्रतिपादयितुं शक्येते इति अतीवशास्त्रविषयः । द्वाभ्यामेव च विधिप्रतिषेधाभ्या-
मविनष्टैः शब्दैः स्वर्गयज्ञोपकारकामो भाषेत न विनष्टैरिति, न प्रतिशब्दाप-
शब्दमनन्तविधिप्रतिषेधकल्पनप्रसङ्गः ।
विधि-निषेधशेषतया स्वरूपप्रतिपादनपरस्यादिशास्त्रत्वम्
न च विधिप्रतिषेधविषयेणैव शास्त्रेण भवितव्यम्, न प्रमेयस्वरूपज्ञानापनार्थें-
नेत्येतदीश्वराज्ञासिद्धम् । न हि 'अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा'
इत्यादि 'चतुस्त्रिंशदाश्वीनानि, सरस्वत्या विनशनप्लाक्षप्रस्रवणे' इत्येवमादि-
१. रागाभ्याय ।