सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 640, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 640

५८६ मीमांसादर्शनम् [ सू०
नन्वेवमश्वमानयेत्युत्तमवृद्धप्रयुक्तादश्वशब्दादपि गोशब्दमवगम्य सास्नादिमति
प्रवृत्तावश्वशब्दस्यापि तत्र व्युत्पत्तिप्रसङ्ग इत्याशङ्क्यानुरूपत्वादिति सूत्रावयवं
व्याचष्टे—अनुरूपो हीति । न शब्दमात्राद् गोशब्दावगतिः किन्तु सदृशादेव
गाव्यादेरित्यर्थः इति भावः ॥ २८ ॥
एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् ॥ २९ ॥
शा० भा०—अत एव हि विभक्तिव्यत्ययेऽपि प्रत्ययो भवति । अश्मकैरा-
गच्छामीत्यश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्येष शब्दः स्मर्यते । ततोऽस्म-
केभ्य इत्येषोऽर्थ॑. उपलभ्यत इति । एवं गाव्यादिदर्शनाद् गोशब्दस्मरणम्²,
ततः सास्नादिमानवगम्यते ॥ २९ ॥ उत्तरे युक्तिः ।
॥ इत्यष्टमं व्याकरणाधिकरणम् ॥
भा० वि०—गाव्यादिशब्दस्य साधुशब्दस्मारेणनार्थप्रत्यायकत्वं दृष्टान्तेन
दर्शयितुं विभक्तिव्यत्यये प्रत्ययः स्यादिति सूत्रावयवं व्याचष्टे—अत एवेति ।
यतस्सदृशशब्ददर्शनात्सदृशान्तरे बुद्धिरुपपन्ना । अत एवेत्यर्थः, क्वैवं भवतीत्य-
त्राह—अश्मकैरिति । कथमश्मकैरित्यस्मादश्मकेभ्य इत्यस्य विरूपस्य स्मरण-
मित्याशङ्क्यैकदेशादिति सूत्रावयवो व्याख्यातः । अश्मकशब्दैकदेश उपलब्ध इति,
इदानीं स्मृताच्छब्दात् तदर्थावगतिमाह–तत इति । दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके
योजयति—एवमिति । तेन गाव्यादिशब्दस्मृतानां गवादिशब्दानामेव वाचकत्वा-
तेषामेव सास्नादिमति साधुत्वम्, न गाव्यादीनामिति युक्ता शब्देषु व्यवस्थे-
त्याशयः ॥ २९ ॥
त० वा०—तुल्यप्रयोगप्रतिपत्तीनामन्यतरावधारणमशक्यमिति चेत् ? अत
आह—तत्र तत्त्वमभियोगविशेषात्स्यादिति । कः पुनरभियोगः ? को वा
तद्विशेषः ? कथं वा तेन वाचकत्वनिरूपणमिति ?
तदुच्यते—लक्षणश्रवणाभ्यासादभियोगः प्रवर्तते ।
तेन लक्ष्यान्तरज्ञानं तद्विशेषोऽभिधीयते ॥ ८६०
प्रतिपदपाठो ह्यानन्त्यादत्यन्ताशक्यः तदभावे च लक्षणानुसरणमेवैकमशेष-
लक्ष्यनिरूपणक्षमत्वेनावधार्यते ।
तस्मान्न लोकवेदाभ्यां कश्चिद् व्याकरणादृते ।
वाचकाननपभ्रष्टान्न्यथावज्ज्ञातुमर्हति ॥ ८६१
१ ब. इत्यर्थोऽवम्यते । २ ब. गाव्यादि शब्ददर्शनाद्रो ।