मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 635, कुल 804 में से
संदर्भ में पढ़ें२६ ] प्रथमाध्याये तृतीयपादः ५८१
मिदमन्याय्यमत आह—प्रत्ययमात्रेति । अभ्युपगम्येतेति । सर्वेऽविच्छिन्नपारम्पर्या
इति इत्यनुषङ्गः, ततः किमत आह-तत्सादृश्यादिति । यस्य गाव्यादेरविच्छिन्न-
पारम्पर्यताभ्युपगम्यते, तत्सादृश्यात् गवादिशब्दे स्मृतेऽपि तत एवार्थप्रत्ययो
घटते, तेन यतोऽर्थप्रत्ययस्यैको एवानादिरितरेऽपभ्रंशा इति न सर्वेऽविच्छिन्न-
पारम्पर्या इत्यर्थः ।
नन्वेवं सति हस्तः करः पाणिरित्यादीनामेकमर्थमभिनिविशमानानां सर्वेषा-
मनादिता कथमित्याशङ्क्य शिष्टप्रयोगादित्याह—हस्त इति । अभियुक्तोपदेशा-
दित्युपलक्षणम्, सादृश्याभावेन गत्यन्तराभावाच्चेति द्रष्टव्यम् ॥ २६ ॥
त० वा०—संशयापादनात्परपक्षे जितेऽपि स्वपक्षसिद्धिर्दुर्लभैवेत्येवमर्थमुत्तर-
सूत्रम्—अन्याय्यश्चानेकशब्दत्वमिति । कथं पुनरिदमन्याय्यम् ?
तदुच्यते—वाच्यवाचकसामर्थ्यनियमो योऽभिधागतः ।
सम्बन्धस्तदनेकत्वे स्वरूपात्सोऽपि हीयते ॥ ८५१
एकात्मकयोरेव हि वाच्यवाचकयोरन्योन्याक्षेपात्परस्परनियमः संभवति
अन्यतरस्यापि त्वनेकत्वे सति व्यभिचारान्नियमहानिः ।
किं च—सामर्थ्यं सर्वभावानामर्थापत्त्याऽवगम्यते ।
एकसामर्थ्यसिद्धेऽर्थे नानेकं तच्च लभ्यते ॥ ८५२
अत्यन्तादृष्टा हि वाच्यप्रत्ययान्यथानुपपत्तिमात्रप्रमाणिका वाचकशक्तिरेकत्रैव
कल्पिता तदनुसार्यपभ्रंशेष्वपि चेदनुगम्यते, को नाम तन्निरपेक्षवाचकशक्त्यन्तर-
कल्पनां लभेत१।
नाम च व्यवहारार्थमर्थस्याभ्युपगम्यते ।
तेनैकेनैव सिद्धेऽर्थे द्वितीयादि च निष्फलम् ॥ ८५३
किं च—विकल्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् ।
स चेहानेकशब्दत्वे निश्चयेन प्रसज्यते ॥ ८५४
नामान्तरे श्रुते चार्थस्तद्भिन्नोऽन्यः प्रतीयते
संज्ञा चोत्पत्तिसंयोगात् २-२-८ इत्यत्रैतद्वदिष्यते ॥ ८५५
दृष्टान्तदार्ष्टान्तिकयोः वैषम्यप्रतिपादनम्
या तु हस्तः करः पाणिरित्यत्राऽनेकशब्दता ।
अनन्यगतिकत्वेन सा दृढस्मरणेन च ॥ ८५६
१ क. व कल्प्यते । २ क. (टिप्पण्यां) भजेतेति पा० ।