सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 642, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 642

५८८ मीमांसादर्शनम् [ सू०
॰प्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति, सर्वेषां वेदवेदि १यूपा हवनीयाध्वर्युगो-
दोहनादिस्वरूप-तत्कार्य-तत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसम्बन्धेऽ-
त्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनम्, तदा सर्वकालव्याक्रियमाणविद्यमान-
शब्दनियमविधेर्न किंचिदनुपपन्नम् ।
यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च
लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद् गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने
लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यति-
रिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति ।
तत्राभिधीयते—
संमुग्धवाचके लोके लक्षणाद्वाचकः स्फुटः ।
गम्यते स्मरणं चोक्तमाचाराद्बलवत्तरम् ॥ ८६८
लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति, तावदेव लोक-
व्यवहाराद्वाचकत्वज्ञानं जायते, यावद्व्याकरणानुगतत्वं नाभ्युपगम्यते ।
यदा तु तयोर्मार्गभेदेन प्रतिपत्तिः तदा 'तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः
स्यात् १-३-८' इत्युपन्यस्य 'शास्त्रस्था वा तन्निमित्तत्वात् १-३-९' इत्यने-
नैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वम्, तदभियुक्तपुरुषबलीयस्त्वं
वापूर्वमेव स्थापितम् ।
तर्केणावाचकत्वं च वदल्लोकेन बाध्यते ।
स्मर्यमाणविरोधस्तु ब्राह्मणाब्राह्मणादिवत् ॥ ८६९
यथैव तुल्यशिरः पाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु
मातापितृसम्बन्धस्मरणादेव वर्णविवेकावधारणं भवति, तथा साधुशब्दावधारण-
मपीतिलोकविरोधाभावः ।
यथा च तुल्यपाण्यादिरूपत्वाद्वर्णसंकरम् ।
वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् ॥ ८७०
आदितश्च स्मृतेः सिद्धः प्रत्यक्षेणापि गम्यते ।
साध्वसाधुविभागोऽयं कुशलैर्वर्णभेदवत् ॥ ८७१
यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसम्बन्धवदनियतकालत्वान्न ज्ञायते,
कदा भविष्यतीति, सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते।
यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यास-
१ क. वेदी ।