सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रक्रमेण भेदेन चेति विग्रहः । उदाहरणानेकत्वकारणत्वेन परिहारभेदोक्तिः ।

२४ मीमांसादर्शनम् [ सू०
न्द्विमिति । यद्वैतदेवधारणद्वयानुपपत्त्युपसंहारस्य तस्मात् दृष्टविरुद्धमित्यनेनैव सिद्धत्वात्त-
दुपपाद्यस्य यस्य दिवाग्निरादित्यं गतो रात्रावादित्यस्तमित्यवधारणद्वयस्यासिद्धिप्रतिपाद-
नार्थमेतद्भाष्यमित्याह—अथ वेति । स्वरूपपरत्वस्य वा सिद्धान्तिनोऽनिष्टत्वात्तत्रा-
सत्यत्वे ऽपि न कापि क्षतिरित्याशङ्क्य स्वार्थासत्यत्वे निरालम्बनस्तुत्यनुपपत्तिम्, तदनु-
पपत्त्या वा तत्कल्प्यमन्त्रविध्यनुपपत्तिमेकदेशाप्रामाण्ये वा समस्तवेदप्रामाण्यावधारणा-
नुपपत्तिं प्रतिपादयितुमेतदित्याह—तत्तत्रेति । एतच्च स्वार्थासत्यत्वप्रतिपादनस्य पूर्वं-
पक्ष्यभिप्रेतधर्मप्रामाण्योपयोगित्वप्रदर्शनार्थं व्याख्यानत्रयम् । न त्वनन्तरनिर्दिष्टस्य स्तुत्या-
दिरेवेति, सर्वनाम्ना निर्देशो युज्यते । एकैकोदाहर णे चोभयविरोधव्याख्यासिद्धेरूदाहरण-
द्वयमनर्थकम् । अथ परिहारवैलक्षण्यादुदाहरणद्वयम् । तथापि शास्त्रविरोधोदाहरण-
द्वयमुक्त्वा दृष्टविरोधोदाहरणं वाच्यम्, व्युत्क्रमे किं कारणमित्याशङ्कयाह—शास्त्रेति ।
प्रायादित्यनेनानृतवादिनीत्यालम्बने बाहुल्येऽभिहिते, धूम एवेत्यवधारणेऽपि भूयस्त्वा-
ख्यस्य बाहुल्यस्यालम्बनत्वेन बुद्धिस्थत्वादनृतवादिनीत्वोदाहरणपरिहारानन्तरं धूमो-
दाहरणपरिहारेऽपि भूयस्त्वशब्देनोक्तेनार्चिरित्यदर्शनोक्त्यालम्बनं च समीपगमनक्लेश-
निबन्धने दुर्ज्ञेयत्वे दूरशब्देनोक्ते, ब्राह्मण्यज्ञानोक्तावपि स्त्र्यपराधनिवन्धनस्य दुर्ज्ञेयत्व-
स्यालम्बनत्वेन बुद्धिस्थत्वात्तदनन्तर परिहार इति परिहारक्रमकारणम् । परिहाराणां
सूत्रक्रमेण भेदेन चेति विग्रहः । उदाहरणानेकत्वकारणत्वेन परिहारभेदोक्तिः ।
'न चैतद्विद्म' इत्यत्राक्रियार्थत्वादप्रमाणमिति भाष्यकारेणोक्तम् । तत्सिद्धान्त्यभिमत-
स्तुत्यर्थत्वनिराकरणपरतया व्याचष्टे—न चैतदिति । आर्षेयप्रवरणशब्देनात्र 'प्रवरे प्रक्रि-
यमाणे देवाः पितर' इति ब्रूयादित्यार्षेयवरणानुमन्त्रणविधिरभिप्रेतः । तेन चेहोदाहरणे-
ऽनुमन्त्रणक्रियास्तुत्यप्रतीतेरानर्थक्यमित्याद्यं सूत्रं योजितम् । तदेवोपपादयति—न हीति ।
केन चिदंशेनेति—विधेयस्तुत्यंशेनान्यनिन्दांशेन वेत्यर्थः । यद्वा दृष्टविरोधित्वेनैव क्रिया-
स्तुत्यर्थत्वासम्भवादानर्थक्यमनेनोक्तमित्येतदेव भाष्यमन्यथा व्याचष्टे—न चेति । अथाय-
मर्थ इत्यनेनानर्थक्य एव दृष्टविरोधो हेतुरुक्तः । तद्व्याचष्टे—न चेति । चोदयति—कथं
पुनरिति । शास्त्रेणेवेति । सवर्णायां स्वभार्यायामुत्पादितः सवर्ण एवासवर्णायां मूर्द्धा-
वसिक्तादिः । परभार्यायां जीवत्पतिकायां कुण्डः, विधवायां गोलकः । पुनश्चोत्कर्षापकर्षा-
भ्यामन्यतरवर्णापत्तिरित्यादिशास्त्रैकगोचरत्वान्न प्रत्यक्षगम्यमित्यर्थः । परिहरति—नाय-
मिति । एतदेवाशङ्कापूर्वकं विवृणोति—कथं पुनरिति । आशङ्किता स्वाभिप्रायमावि-
ष्करोति—कस्मात्पुनरिति । सत्यपीन्द्रियव्यापारे प्रतीत्यभावान्न ब्राह्मणत्वादेः प्रत्यक्षत्वं
युज्यते । न चोत्पादकजातिज्ञानस्य सहकारित्वं सम्भवति, आत्माश्रयदोषापत्तेः । प्रागु-
त्पादकजातिज्ञानादाप्तवाक्यजनितं ज्ञानं न प्रत्यक्षत्वेनाशङ्क्यमित्यनाख्यातग्रहणेनोक्तम् ।
यद्वानेन ग्रन्थेन ब्राह्मण्यादिजातिरपह्नूयते । सपिण्डानुवर्त्ती विजातीयेभ्यो व्यावृत्त
आकारो जातिर्न च क्षत्रियादिभ्यो व्यावृत्तो ब्राह्मणेष्वनुवृत्तः कश्चिदाकारविशेषो माता-
पितृसम्बन्धज्ञेनापि प्रतीयते । तस्माद् ब्राह्मणादिशब्दव्यपदेश्यमातापितृसन्तानजन्यत्वौ-

१ ] प्रथमाध्याये द्वितीय पादः २५
पाधिको ब्राह्मणादिशब्दः, न जातिवचनः । सन्तानस्य चानेकविप्रकृष्टकालपुरुषव्यासङ्गिनः
प्रत्यक्षेण ग्रहीतुमशक्यत्वान्न तदुपाधिकस्य ब्राह्मण्यादेः प्रत्यक्षत्वं सम्भवतीति ।
आशङ्काभिप्रायं परिहर्त्तुं दूषयति—शक्त्यभावादिति । अयमाशयः मातापितृ-
सम्बन्धज्ञस्यापत्ये ब्राह्मण्यादिप्रत्ययस्तावत्सन्देहबाधरहितः स्वसंवेद्यः । न च निर्विषयः
प्रत्ययो ऽस्तीत्युक्तम् । न चास्य सन्तानविशेषजन्यत्वं विषयः, निरालम्बनशब्दप्रयोगा-
योगेन जातिव्यतिरिक्तस्य सन्तानान्तरव्यावृत्तस्य विशेषस्यासम्भवात् न चास्मद्ग्राह्य-
द्वित्रिसन्तानमात्रे सन्तानः समाप्यते । येन सम्बन्धिविशेषेणैव सम्बन्धः सन्तानविशेषेण
सन्तानो विशेष्टुं शक्यते । यथा चैकदेशावस्थिता वृक्षा एव वनशब्देनोच्यन्ते । तथोत्पाद्यो-
त्पादकक्रमेणावस्थिताः पुरुषा एव सन्तानशब्दवाच्याः । न सन्तानाख्यं किं चिद्वस्त्वस्ति ।
तस्मात्सर्वेषु ब्राह्मणेष्वनुस्यूतं प्रत्येकसमवेतं ब्राह्मणप्रत्ययविषयभूतं किं चिदवश्यमेष्टव्यम् ।
यच्चाकारविशेषो न प्रतीयत इत्युक्तम् । तत्र यद्याकारशब्देन संस्थानं मुद्रापरनामधेयम-
भिप्रेतम्, ततस्तस्य जातित्वानङ्गीकाराददोषः । ब्राह्मणप्रत्ययवेद्यस्तु धर्मविशेषोऽनुभव-
सिद्धत्वान्नापह्नवमर्हति । वृक्षत्वाद्यप्यनुभवारूढरूपातिरेकेण निरूपयितुमशक्यम् । शाखा-
दिमद्रूपस्य संस्थानात्मकत्वेन जातित्वाभावात्संस्थानविशेषस्य हि प्रतिव्यक्तिविलक्षण-
त्वात्संस्थानमात्रस्य त्वन्यजातीयेष्वपि समानत्वादवान्तरविशेषस्य चानिरूपणादवयवि-
न्यासविशेषात्मकस्य संस्थानस्य निरवयवेष्वसम्भवाच्च संस्थानमाकारमुद्रापरनामधेयं
जातिरिष्यते । तस्मात्समानाकारेष्वपि पिण्डेषु विलक्षणब्राह्मणप्रत्ययवेद्यब्राह्मण्यादि-
जातिर्नापह्नोतुं शक्यते । न चासौ शास्त्रस्य विषयः । प्रमाणान्तरागृहीतायां जातौ
अगृहीतसम्बन्धत्वेन ब्राह्मण्यादिपदार्थाज्ञानात् । ब्राह्मणाद् ब्राह्मण्यां यो जायते, स ब्राह्मण
इति वाक्यार्थानवधारणात्सम्बन्धाग्रहणादेव नानुमेयत्वम्, सहस्रानुपपद्यमानार्थाभावादुप-
मानार्थापत्त्यसम्भवात्पारिशेष्यात्प्रत्यक्षत्वम् । उत्पादकजातिज्ञानात्तु प्रागप्रतीतेस्तस्य
सहकारित्वं कल्प्यते, जात्यभेदेऽपि व्यक्तिभेदेन जातिव्यक्तिसम्बन्धभेदादुत्पादकव्यक्ति-
सम्बन्धितया जातिज्ञानमुत्पाद्य व्यक्तिसम्बन्धितया जातिज्ञाने कारणमित्यात्माश्रय-
त्वाप्रसङ्गः ।
सहकार्यपेक्षत्वे ऽप्येन्द्रियकत्वाव्याघाते दृष्टान्तमाह—यथेति । शब्दोल्लेखप्रतीतौ१
चायं दृष्टान्तः । आशङ्किता तु वृक्षत्वस्य स्वरूपग्रहणे सहकार्यानपेक्षणाद्वैषम्यमाह—नैत-
दिति । शब्दोल्लेखप्रतीतावपि२ शब्दातिरिक्तसहकार्यानपेक्षणादपरं वैषम्यमाह—अपि
चेति । निमित्तान्तरग्रहणेनैतद्दर्शयति । प्रतीत्यन्यथानुपपत्त्या कल्प्यमानमपि शब्दाति-
रिक्तसहकारिग्राह्यात् ब्राह्मणत्वादन्यत्कल्प्यम् । न चोत्पादकगतं ब्राह्मणत्वमुत्पाद्यगतात्
ब्राह्मणत्वादन्यदित्येकस्य कर्मकरणत्वायोगाच्च तस्य सहकारित्वं युक्तमिति । उपवीतादीनां
१. नन्वगृहीतसङ्गतिनापि समनस्केन्द्रियसन्निकर्षे वृक्षत्वं गृह्यत एव तत्त्वेन परं न गृह्यत
इत्यत आह शब्दोल्लेखेति । वृक्षोऽयमिति शब्दोल्लेखप्रतीतिरित्यर्थः ।
२. वृक्षत्वज्ञाने शब्दातिरिक्तं सहकारि नापेक्ष्यते, ब्राह्मण्ये त्वपेक्षत इति वैषम्यमित्यर्थः ।

२६ मीमांसादर्शनम् [ सू०
तु व्यभिचारात्सहकारित्वमनाशङ्क्यमेवेत्याह-न चेति । अध्यापनादीनां ब्राह्मणस्यैव
विधानाद्व्यभिचारमाशङ्कयाह-अध्यापनाद्यपीति । क्षत्रियवैश्यौ प्रति युज्यत इति क्षत्रिय-
वैश्यप्रतियोगिक्षत्रियवैश्यौ वा प्रतियोगिनौ प्रतिसंबन्धिनौ यस्येत्यर्थः । नन्वध्यापनादि-
कारिणि लोके निर्विचिकित्सब्राह्मणप्रत्ययदर्शनात् न क्वचिद्व्यभिचारमात्रेणाप्रामाण्या-
शङ्का युक्तेत्याशङ्कयाह-यस्त्विति । अध्यापनादीनां व्यभिचारित्वेन निर्विचिकित्स-
प्रत्ययोत्पादकत्वं न युक्तमिति भावः । परिहर्त्ता तून्मीलितनेत्रस्य ब्राह्मणोऽयमित्यसन्दि-
ग्धाबाधितपरोक्षप्रत्ययोत्पत्तेर्ब्राह्मण्यप्रत्यक्षत्वापद्भावयोगान्वयव्यतिरेकबलेनोत्पादकजाति-
ज्ञानस्योक्तप्रकारेण परिहृतात्माश्रयदोषस्य सहकारित्वकल्पनैवोचितेत्यभिप्रायेणाह-
नैष दोष इति । वृक्षे त्ववैषम्यलक्षणोऽध्यापनादिनिमित्तत्वासंभवलक्षणो वा न दोष
इत्यर्थः । यदि चान्यजातिग्रहणे सर्वत्रैकरूपं सहकारि स्यात्, ततोऽत्र तद्वैषम्यस्य दोषत्वं
शङ्क्येतापि । न त्वेतदस्ति ।
आकृतिवादे [तस्योपलक्षणं वापि क्वचित् केनचिदिष्यते] इत्यादिना जातिविशेषेषु
यथादर्शनंविलक्षणसहकार्यभिधानादित्याह-क्वचिदिति । रूपादेर्गुणविशेषस्यैव सुवर्ण-
त्वादिजातिग्रहणे सहकारित्वदर्शनान्न जातेः सहकारित्वं कल्पयितुं युक्तमित्याशङ्क्यान्य-
त्राहृष्टमपीहैव प्रतीतिबलादवश्यं कल्पनीयमिति दर्शयन्नुपसंहरति-तेनेति । प्रतीति-
बलादेव यथासम्भवं प्रत्यक्षानुमानाद्यवगतायाः सहकारित्वकल्पनं नायुक्तमित्याह-
अयं चेति ।
न च प्रत्यक्षावगतमेव प्रत्यक्षज्ञाने कारणमिति नियमो युज्यते, चक्षुरादौ व्यभि-
चारादित्याह-न चेति । न च जातिस्मरणव्यवधानमात्रेण चक्षुषोऽकारणत्वं वाच्यं
प्रत्यक्षसूत्रे ।
तत्र शब्दार्थसंबन्धमित्यादिना १ स्मरणव्यवधानेऽप्यपरोक्षप्रतीतेः प्रत्यक्षत्वा-
भिधानादित्याह-आन्तरालिकेति । न च मातापितृसंबन्धानभिज्ञाप्रत्यक्षत्वमात्रेण
तदभिज्ञा प्रत्यक्षत्वम् ।
विमनस्का यदा केचिदित्यादिना २ निराकृतत्वादित्याह-न चेति । ननु स्त्रीव्यभि-
चारशङ्कया मातापितृसंबन्धानिश्चयान्नापत्ये ब्राह्मण्यनिश्चयः कस्यचिदपि सम्भवतीत्या-
शङ्कयाह-स्त्र्यपराधत्वादिति । स्त्रीणां स्वातन्त्र्यनिषेधाद्धूर्त्तादिभिः प्रयत्नेन रक्षणा-
द्योग्यानुपलब्ध्या व्यभिचारशङ्कायाः परिहत्तुं शक्यत्वाद्, दुर्ज्ञानत्वमात्रं मातापितृसंब-
न्धानभिज्ञस्य भवेन्न तु सर्वात्मना ज्ञानाभाव इत्यर्थः । एतच्च दुर्ज्ञानत्वादज्ञानवचनं
गौणमिति स्त्र्यपराधेनेत्यत्र भाष्यकारो वक्ष्यतीत्याह-इति स्वयमेवेति । न च दुर्ज्ञान-
त्वमात्रेणाप्रत्यक्षत्वं शङ्क्यम्, गिरिशृङ्गारोहणजन्यस्यापि दूरस्थपदार्थज्ञानस्य प्रत्यक्षत्व-
सिद्धेरित्याह-न चेति । ननु स्त्रीणां प्रायेण चञ्चलत्वदर्शनात् न वै स्त्रैणानि सख्यानि
१. स्मर्यते शब्दसम्बन्धो माभूत्प्रत्यक्षता तयोः । तदप्रत्यक्षभावेन न स्त्वर्थस्यापि वार्यते ॥
२. तत्र शब्दार्थसंबन्धप्रमातुः स्मरतोऽपि वा । बुद्धिः पूर्वे गृहीतार्थसन्धानादुपजायते ॥

२ ] प्रथमाध्याये द्वितीयपादः २७
सन्ति। शालावृकाणां हृदयान्येता स्त्रियः इति च वेदेऽनुवादात्सुरूपं वा कुरूपं वा
पुमानित्येव भुञ्जत अशास्यं मन इत्यादिस्मृतेश्च। व्यभिचारस्वभावत्वावधारणाददृष्ट-
व्यभिचारास्वपि स्त्रीत्वेन व्यभिचारोऽनुमास्यते पलाशत्वेनेव वृक्षत्वमित्याशङ्कयाह—
न चेति। स्त्रीत्वस्य व्यभिचाराप्रयोजकत्वसूचनाथंनुमाने कल्पनाशब्दः। न च
निर्मूलकत्वेन लोकस्याप्रामाण्यम्, प्रयत्नेन रक्षणे योग्यानुपलब्धेर्मूलत्वसम्भवादिति दर्श-
यितुमाह--विशिष्टेन हीति। महाकुलीनानां पुरुषाणां स्त्रीरक्षणमेवात्मरक्षणम्, जायायां
रक्ष्यमाणायामात्मा भवति रक्षित इति स्मरणात्।
यद्वा दुष्कुलप्रसूतत्वं व्यभिचारशीलत्वे प्रयोजकम्, न स्त्रीत्वमिति दर्शयितुं महा-
कुलीनत्वं स्त्रीणामुक्तम्। व्यभिचाराभावनिश्चयमेवाभियुक्तवृद्धव्यवहारेण द्रढयति--
अनेनैवेति। व्यभिचाराभावानिश्चये हि निर्मूलत्वात् पितृपितामहादिपरम्परालेखनात्मक-
समूहलेख्यं व्यर्थं स्यादिति भावः।
कुलपरीक्षापूर्वकेंदानींतनपुरुषगतविवाहादिव्यवहारेणापि तमेव द्रढयति--तथा चेति।
एतावत्प्रयत्नान्वेषणे योग्यानुपलब्धिपूर्वकिया लोकप्रसिद्ध्या व्यभिचाराभावनिश्चयान्न
स्त्रीत्वमात्रेणादृष्टव्यभिचारासु व्यभिचारानुमानं युक्तमित्युक्तम्। इदानीमनुमीयमानोऽपि
व्यभिचारोऽनेकान्ततो वर्णसङ्करमापादयतीत्याह--न चेति। न च व्यभिचारोत्पन्न-
त्वाभावेऽपि मातृव्यभिचारमात्रेणापत्ये वर्णसङ्करः शङ्क्यः। सावर्ण्योत्पत्तिकारणस्यो-
त्पादकसंवर्णत्वस्याविघातादित्याह--तदपराधनिमित्तस्त्विति । व्यभिचारोत्पन्नस्यापि
वर्णान्तरव्यभिचारानिश्चये वर्णसङ्करानिश्चय इत्याह--न चेति।
ननु विन्नास्वेव विधिः स्मृति इत्यादिवचनाद्भर्तृव्यतिरिक्तसवर्णोत्पन्नस्यापि वर्णा-
न्तरापत्तिः स्यादित्याशङ्कयाह--सवर्णेन चेति। गवाद्व्युत्पादकसजातीयापत्योत्पाद-
कत्वदर्शनेनेहापि तथानुमानान्न वर्णान्तरापत्तिः सम्भवतीति ब्राह्मणादिविहितकर्म्मा-
नधिकारप्रतिपादनपरं विन्नास्वितिवचनं व्याख्येयं कुण्डगोलकवचनमपि सत्येव ब्राह्मण्ये-
ऽवान्तरसंज्ञाविशेषप्रतिपादनपरमिति उत्पादकासावर्ण्येऽपि क्वचिदन्यतरसवर्णोत्पत्ति-
स्मरणान्नात्यन्तं तदुच्छेदः किमुत तत्सावर्ण्य इत्यतिशयार्थमाह--सङ्करजातानामपि चेति।
एवं हि स्मर्यते ।
जात्युत्कर्षो युगे ज्ञेयस्सप्तमे पञ्चमे ऽपि वा।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरमिति ॥ या० स्मृ०
अस्यार्थः--क्षत्रियायां ब्राह्मणादुत्पन्ना कन्या मूर्धावसिक्ता ब्राह्मणाय दीयमाना
मूर्द्धावसिक्तजातेरुत्कृष्टाम्१ कन्यां जनयति, सापि ब्राह्मणाय दीयमाना कन्यान्तरमेवेत्येवं
पञ्चमे युगे पुरुषान्तरे ब्राह्मण्योत्पत्त्या जात्युत्कर्षः। एवं वाशब्दात् षष्ठे वैश्यायां सप्तमे
शूद्रायामिति। मूर्द्धावसिक्तादिपुत्रपरम्परायास्तु क्षत्रियादिस्त्रीणां तथैव पञ्चमादिषु
क्षत्रियादिजातीयापत्योत्पत्तेरपकर्ष इति पूर्ववच्चाधरोत्तरमित्युत्तरत्रातिदेशात्सूचितम्,
१. ब्राह्मणजातितोरपकृष्टानित्यधिकम् २ पु०।

२८ मीमांसादर्शनम् [ सू०
नन्वस्यार्थस्य प्रत्यक्षेण विवेक्तुमशक्यत्वाद् ब्राह्मण्यादेश्च शास्त्रविषयत्वानङ्गीकारेण
निर्मूलमेतत्स्मरणं स्यादत आह—तत्र त्विति। क्वचित्प्रत्यक्षावगतायां जातौ सम्बन्ध-
ग्रहणसम्भवात् गृहीतपदार्थकेन शास्त्रेणान्यत्र तत्प्रतिपादनं युक्तमिति मात्रशब्देन सूचितम्।
प्रत्यक्षावगतिसम्भवादन्यत्र शास्त्रव्यापारो नाङ्गीकृतः, इह तु तदसम्भवाच्छास्त्रविषयत्वं
नायुक्तमित्याह—न हीति। नन्वाकारसाम्येन क्वचिदपि ब्राह्मण्यादिविवेकस्य प्रत्यक्षेणा-
वगत्यसम्भवात्सर्वत्रागमगम्यत्वमेवाङ्गीकार्यमित्याशङ्कां निराकुर्वन्नुपसंहरति-तस्मादिति।
केनचिन्निमित्तेनेति स्वरविशेषादिनेत्यर्थः। स्मरणस्य स्वातन्त्र्येण प्रामाण्यायोगात्तन्मूल-
प्रदर्शनार्थं दर्शनग्रहणम्, तस्याप्युत्पादकजातिस्मरणनिरपेक्षेन्द्रियजन्यत्वायोगात्पूर्वोत्पादक-
जातिस्मरणं तत्सहकारीति निदर्शयितुं पारम्पर्यग्रहणम्, प्रत्यक्षत्वोपपादनफलमुपसंहरति-
इति भवतीति ।
ननु—
शमो दमस्तपः शौचं सत्यमार्जवमेव च।
ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म प्रचक्षते ।।
इत्यादिस्मृतिपर्यालोचनया तपःप्रभृत्याचारयोगनिमित्तत्वेऽपि ब्राह्मणशब्दप्रवृत्तेस्तस्य
प्रत्यक्षत्वेन दृष्टविरोधसम्भवात्किमिति महता क्लेशेन जातिः साध्यते । अत आह—
येषामिति । प्रमाणाभावमुपपादयितुमाह—सिद्धानां हीति। अनवस्थितत्वापत्तेरप्याचार-
निमित्तत्वं न युक्तमित्याह—स एवेति । कारणान्तरमाह तथेति ।
ननु तपःप्रभृत्याचारयोगिनि लोके ब्राह्मणशब्दप्रयोगदर्शनात् कथं तन्निमित्तत्वनिरासः,
अत आह—एताभिरिति । ब्राह्मणत्वप्रतिपादने द्योतकत्वमात्रं तपःप्रभृतीनां न तु ब्राह्मण-
शब्दप्रवृत्तिनिमित्तत्वमित्यर्थः। यद्वा का तर्ह्यस्याः स्मृतेर्गतिरित्याशङ्क्यैतदुक्तम्। द्योतक-
त्वमात्रं स्मृत्या प्रतिपाद्यते, न तु तपआदीनां समुदायो ब्राह्मण्यं स्मृत्या प्रतिपाद्यत
इत्यर्थः ।
यदा तु पूर्वोक्तार्थोपसंहारपरत्वेनेयं फक्किका व्याख्यायते, तदा नैताभिस्तपःप्रभृति-
भिरुपपत्तिभिरयं ब्राह्मणः प्रतिपाद्यते द्योत्यत इति योज्यम्, किं त्वेताभिरितरेतराश्रय-
प्रसङ्गादिभिरुपपत्तिभिरयमर्थः प्रतिपाद्यते, तदुच्यते न तप आदीनां समुदायो
ब्राह्मण्यमिति ।
ननु तपःप्रभृतीनां आचाराणां व्यभिचारित्वेन प्रत्येकं ब्राह्मणशब्दप्रवृत्तिनिमित्तत्वा-
योगात् युगपदनुष्ठानाभावेन च समुदायाभावान्नाभून्निमित्तत्वं तज्जनितस्य तु संस्कारस्य
भविष्यति, अत आह—नेति । माभूच्छब्दप्रवृत्तिनिमित्तत्वम्, जात्यभिव्यञ्जकत्वं
भविष्यत्यत आह-नेति। उभयत्र पूर्वोक्तमेवोपपत्तित्रयमिति द्रष्टव्यम्। एवं तर्हि व्यञ्जका-
भावेनाप्रत्यक्षत्वं स्यादित्यशङ्कानिराकरणार्थं पूर्वोक्तमभिव्यञ्जकं स्मारयति—किं
तर्हीति । नन्वाचारनिमित्तत्वाभावे ।
मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयादिति ।

१ ] प्रथमाध्याये द्वितीयपादः २९
वचनमनर्थकं स्यादित्यत आह—तस्मादिति । न तु सत्यपि प्रत्यक्षविरोधे विकल्पेन
प्रामाण्योपपत्तेः प्रत्यक्षविरुद्धवचनमप्रमाणमिति भाष्यमयुक्तमित्याशङ्कयाह—पूर्ववच्चेति ।
विकल्पविषय एवायं न भवतीत्याह—अपि चेति ।
को हि तद्वेदेति शास्त्रदृष्टविरो धोदाहरणे भाष्यकारेण पूर्वं तावदाद्यं सूत्रं योजितम्
यदि प्रश्न इति । तद्व्याचष्टे—पूर्ववदेवेति । शास्त्रदृष्टविरोधप्रतिपादनार्थं यद्यनवक्लृप्ति-
रित्यादिभाष्यम्, तद्व्याचष्टे—निश्चितेति ॥ २ ॥
अर्थवाद वाक्यों के अप्रामाण्य में अन्य साधनों का प्रदर्शन करते हुए परमर्षि जैमिनि
ने कहा है—शास्त्र से अवगत अर्थों के साथ विरोध है । अतः अर्थवाद वाक्य अप्रमाण है,
कुछ अर्थवाद वाक्य प्रत्यक्ष विरुद्ध है और कतिपय अर्थवाद वाक्य शास्त्रदृष्ट विरुद्ध होते
हैं अर्थात् प्रत्यक्ष एवं शास्त्रवचनों के द्वारा अवगत विषयों के विरुद्ध हैं । फलतः, शास्त्र-
विरोध, दृष्ट-विरोध एवं शास्त्रदृष्टविरोध —इन तीन प्रकार के विरोधों के कारण
अर्थवाद वाक्य अप्रमाण हैं । "स्तेनं मनः" "अनृतवादिनी वाक्" इत्यादि अर्थवाद वाक्यों
में अध्याहार कर विधि की कल्पना की जाय तो यही अर्थ मानना होगा कि मन चोर है
अतः स्तेय अर्थात् चौर्य कर्म करना चाहिए, वाणी अनृतवादिनी है, अतः अनृतभाषण
कर्तव्य है—इसी रूप में "यतः स्तेयं मनः अतः स्तेनं कर्तव्यम्", "यतः अनृतवादिनी
वाक् अतः अनृतभाषणं कर्तव्यम्", किन्तु, चोरी करना एवं झूठ बोलना उचित नहीं है ।
इसी प्रकार "तस्माद् धूम एवाग्नेर्दिवा ददृशे नार्चिस्तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूमः",
(तै० ब्रा० २।९।२) क्योंकि दिन में अग्नि का धूम ही दिखाई देता है, किन्तु 'अर्चिचः'
अग्नि शिखा नहीं दिखाई देती है एवं रात्रि में अग्नि की शिखा ही दिखाई देती है,
किन्तु, धूम नहीं दिखाई देता है । "नचैतद् विद्मो वयं ब्राह्मणाः स्मोऽब्राह्मणा वा"
(मैत्रायणी संहिता १।४।११) हम लोग ब्राह्मण हैं या अब्राह्मण है; यह नहीं जानते है,
इत्यादि अर्थवाद प्रत्यक्ष विरुद्ध हैं । इसी प्रकार "को हि तद् वेद यद्यमुष्मिन् लोकेऽस्ति
वा न वा" (तै० सं० ६।२।२) परलोक में कुछ है या नहीं, इसको कौन जानता है,
यह शास्त्रदृष्ट विरुद्ध है, कारण, "स्वर्गकामो यजेत" इत्यादि शास्त्रों से पारलौकिक फल
का विषय अवगत होता है ॥ २ ॥
तथा फलाभावात् ॥ १.२.३ ॥
शा०—गर्गत्रिरात्रब्राह्मणं प्रकृत्योच्यते, शोभतेऽस्य मुखं य एवं वेद,
(ता० ब्रा० २०। १६।६ तै ब्रा० ३।८।१०) इति । यदि भूतानुवादः, अनर्थकः ।
अथाऽध्ययनफलानुवादः । ततोऽसदनुवादः कालान्तरे फलं भविष्यतीति
चेत् ? न ह्यत्र प्रमाणमस्ति । विधिः स्यादिति चेत् ? नैष विधिपरः
'द्रव्यसंस्कारकर्मसु' परार्थत्वात् फलश्रुतिरर्थवादः स्यात् (जै० सू० ४।३।१) इति
चिन्तयिष्यत्येतदुपरिष्टात् किं फलविधिः, उतार्थवाद इति । इह तु किं भूतानुवादः

३० मीमांसादर्शनम् [ सू०
क्रियार्थो वेति । तेन न फलविधित्वाभिराकूतस्येहानर्थकोऽर्थवादविचार इति ।
आऽस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम् ॥ ३ ॥
भा० वि०—अर्थवादानर्थक्ये हेत्वन्तरमाह-तथेति । यद्यपि "शोभतेऽस्य मुखं
य एवं वेद" इत्येतावदुदाहरणम्, तथाप्येवं शब्दार्थं दर्शयितुं गर्गत्रिरात्रब्राह्मणं
प्रकृत्येत्युक्तम्, अहीनविशेषविधायिब्राह्मणं प्रकृत्येत्यर्थः, अत्राप्याद्यसूत्रं योजयति-
यदीति । यदि नाम गर्गत्रिरात्रब्राह्मणज्ञानकाले विद्यमानाया एव मुखशोभायाः
सङ्कीर्त्तनम्, तथाप्यक्रियार्थत्त्वादानर्थक्यमित्यर्थः, इदानीं भूतानुवादत्वमेवात्र
नास्तीति दर्शयितुं परपक्षमनुवदति—अथेति । अध्ययनस्यार्थावबोधपर्यन्तस्य
फलं मुखशोभाजेनानूद्यते चेदित्यर्थः, तर्ह्यध्ययनानन्तरभाविन्या मुख्याया मुख-
शोभाया अनुपसम्भादसदनुवाद इति फलभावादिति सूत्रावयवयोजनया
दूषयति-तत इति। कालान्तरफलत्वेन योग्यानुपलब्धिविरोधपरिहारं शङ्कते—
कालान्तरेति । शोभतेऽस्य मुखमिति फलस्यानन्तर्यश्रवणात् मैवमिति तथेत्यवय-
वेन दूषयति—नहोति । तदनेन यथाभूतं मुखशोभादिफलत्वेन कोर्त्यते, तथा
भूतस्याभावादानर्थक्यमिति सूत्रं योजितम् ।
शोभतेऽस्येति फलविधिबलादेव फलस्य कालान्तरभावित्वावगमाद्वर्तमाना-
पदेश एवायं न भवतीति शङ्कते—विधिरस्यादिति । अधिकरणान्तरविरोधेन
दूषयति-नैषेति । तत्र हेतुर्द्रव्यसंस्कारेति । तत्र हि यस्य पर्णमयी जुहूर्भवति,
न स पापं श्लोकं शृणोति, तीर्थे स्नाति, तीर्थमेव हि स जातानां भवति, वर्म वा
एतद्यज्ञस्य क्रियते, यत्प्रयाजानूयाजाः इज्यन्ते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै
इत्यादीनि द्रव्यसंस्कारकर्मविषयाणि वावयान्युदाहृत्य किमेते फलविधयः,
उतार्थवादा इति संशय्य पर्णत्वादेरप्राप्तत्वेनावश्यविधेयस्य फलाकाङ्क्षायां
साक्षात्पुरुषार्थरूपश्रुतफलान्वयसंभवे पारम्पर्यपुरुषार्थरूपक्रतूपकाराख्यफल-
कल्पनायोगात् फलविधित्वमेवेति पूर्वपक्षयित्वा, यथाकथञ्चित् पुरुषार्थरूपफल-
वत्त्वेन विध्यनुपपत्तिशान्तेः विपरिणामकल्पनानुपपत्तेः यथाश्रुतवर्तमानफलत्व-
कीर्तनस्य चानुपलब्धिविरोधात्फलनिधित्वमिति सिद्धान्तयिष्यते, तथेहापि
विद्यायाः कर्मानुष्ठानयोग्यपुरुषकरणात् संस्कारत्वेन निराकांक्षत्वात् न शोभत
इत्यादेः फलविधित्वं फलार्थवादत्वमेवेति भावः । पौनरुक्त्यात्तर्हि अत्र न
विचारयितव्यमत आह—इह त्विति । इति चिन्त्यत इति विपरिणमय्यानुषङ्गः
भूतानुवादो विद्यमानसिद्धानुवादः, अर्थानुव्रतःदोऽसदनुवादः ।
उदाहरणान्तरमाह—आस्येति । वेदानुमन्त्रणज्ञानवहो••••••वा•••••'जवत् ·
पुत्रवत्त्वसङ्कीर्तनस्याक्रियार्थत्वेनासदर्धत्वेन चाप्रामाण्योपपत्तेरित्यर्थः ॥ ३ ॥
त० वा०–यदि तावद्गर्गत्रिरात्रब्राह्मणवेदानुमन्त्रणज्ञानकाले विद्यमानयोरेव
मुखशोभावाजिजन्मनोः संकोर्तनं न धर्मं प्रति प्रमाणम् । अथ त्वविद्यमानयोः

३ ] प्रथमाध्याये द्वितीयपादः ३१
ततः स्वार्थेऽपि। वर्त्तमानापदेशाच्च प्रत्यक्षानुपलब्धिविरोधः, कर्मानुष्ठानयोग्य-
पुरुषकरणाद्विद्यासंस्कारस्य दीक्षिततीर्थस्नानादिवन्निराकाङ्क्षत्वात्फलविधित्वं
निराकरिष्यते पौनरुक्त्यात् तर्हि अत्र न विचारयितव्यमत आह—तेन फल-
विधित्वान्निराकृतस्येहाऽऽनर्थक्यार्थवादत्वविचार इति। स्तुत्यर्थताऽपि चासत्यस्य
नास्तीति व्यवस्थितमेव ॥ ३ ॥
न्या० सु०-अत्र भाष्यकारेण 'शोभतेऽस्य मुखमि' त्याद्युदाहृत्य आद्यन्तावत्सूत्रं योजितम्,
यदि भूतानुवादोऽनर्थक इति तद्व्याचष्टे—यदि तावदिति। गर्गत्रिरात्रब्राह्मणोपक्रमोपन्या-
सस्य य एवं वेदेत्येवं शब्दव्याख्यानार्थत्वं गर्गत्रिरात्रब्राह्मणग्रहणेनोक्तम्। उदाहरणान्तर-
गतैवंशब्दस्य व्याख्यानार्थं वेदानुमन्त्रणग्रहणम्। विद्यमानयोरेवेत्यनेन यथादृष्टवचनत्वं
भूतशब्दस्य दर्शितम्। सम्भवति च गर्गत्रिरात्राहोनविशेषविधायित्राब्राह्मणज्ञस्य परिहार-
सूत्रवक्ष्यमाणप्रकारेण मुखशोभा, वेदानुमन्त्रणज्ञस्य तु वाजिनन्मेति मन्त्रलिङ्गादपि
गम्यते। प्रकृतसूत्रयोजनार्थम् अथाध्ययनफलानुवाद इति भाष्यं तद्व्याचष्टे—अथ त्विति।
मुख्यरूपयोर्मुखशोभावाजिनन्मनोर्योग्यानुपलब्धिबोधितत्वादिति भावः। कालान्तरफलत्वेन
योग्यानुपलब्धिविरोधपरिहारशङ्कानिराकरणार्थत्वेन सौत्रतथाशब्दव्याख्यानार्थं कालान्तर
इत्यादिभाष्यं तद्व्याचष्टे—वर्त्तमानापदेशाच्चेति। तदनेन यथाभूतं मुखशोभाद्यनन्तर-
फलत्वेन कीर्त्त्यते तथाभूतस्याभावादानर्थक्यमिति सूत्रं योजितम्। फलविधित्वेन कालान्तर-
भावित्वावगमात् वर्त्तमानापदेशो ऽयं न भवतीत्याशङ्क्य 'द्रव्य संस्कार कर्मस्वि' त्यत्र
निराकरिष्यमाणत्वान्नायं फलविधिरिति भाष्यकृतोक्तम्। तत्र विद्याया द्रव्यदि-
बाह्यत्वात्तदधिकरणविषयत्वमाशङ्क्य संस्कारान्तर्गतिं दर्शयितुमाह—कर्मानुष्ठानेति।
तत्र हि 'यस्य पर्णमयी जुहूर्भवति' न स पापं श्लोकं शृणोति। तीर्थे स्नाति,
तीर्थमेव समानानां भवति। वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजा, इज्यन्ते वर्मं
यजमानस्य भ्रातृव्याभिभूत्या, इत्यादीनि द्रव्यादिविषयाणि वाक्यान्युदाहृत्य किमेते फल-
विधयः फलार्थवादा वेति विचारयिष्यते। तत्र पर्णतादेरप्राप्तत्वेनावश्यविधेयस्य फला-
काङ्क्षायां साक्षात्पुरुषार्थरूपश्रुतफलसम्भवे पारम्पर्य्यपुरुषार्थरूपक्रतूपकाराख्यफलकल्पना-
योगात्फलविधित्वेन पूर्वपक्षयित्वा, यथाकथंचित्पुरुषार्थरूपफलत्वेन विध्यनुपपत्तिपरि-
हाराद्रात्रिसत्रादिवद्विपरिणामकल्पनानुपपत्तेर्यथाश्रुतवर्त्तमानफलत्वसङ्कीर्त्तनस्य चानुप-
लब्धिविरोधान्न फलविधित्वमिति सिद्धान्तयिष्यते। चिन्तयिष्यतेतदित्यादिभाष्यं पौन-
रुक्त्याशङ्कानिराकरणार्थत्वेन व्याचष्टे—न पौनरूक्त्यादिति। एवं तर्हि सिद्धान्त्यभिमतं
स्तुत्यर्थत्वमेव पूर्वपक्षिणा निराकार्यमित्याशङ्क्य तदर्थमेव स्वार्थसत्यत्वनिरूपणमित्याह—
स्तुत्यर्थतेति ॥ ३ ॥
अर्थवाद वाक्यों से अन्य प्रमाणों से सिद्ध विषयों से विरुद्ध विषयों का निर्देश किया
गया है, जिसका विश्लेषण पूर्व सूत्र के द्वारा उपलब्ध है। किन्तु, इतना ही नहीं, वरन्,
१. ब्र प्रक्रम्योच्यते।