मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 77, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये द्वितीय पादः २५
पाधिको ब्राह्मणादिशब्दः, न जातिवचनः । सन्तानस्य चानेकविप्रकृष्टकालपुरुषव्यासङ्गिनः
प्रत्यक्षेण ग्रहीतुमशक्यत्वान्न तदुपाधिकस्य ब्राह्मण्यादेः प्रत्यक्षत्वं सम्भवतीति ।
आशङ्काभिप्रायं परिहर्त्तुं दूषयति—शक्त्यभावादिति । अयमाशयः मातापितृ-
सम्बन्धज्ञस्यापत्ये ब्राह्मण्यादिप्रत्ययस्तावत्सन्देहबाधरहितः स्वसंवेद्यः । न च निर्विषयः
प्रत्ययो ऽस्तीत्युक्तम् । न चास्य सन्तानविशेषजन्यत्वं विषयः, निरालम्बनशब्दप्रयोगा-
योगेन जातिव्यतिरिक्तस्य सन्तानान्तरव्यावृत्तस्य विशेषस्यासम्भवात् न चास्मद्ग्राह्य-
द्वित्रिसन्तानमात्रे सन्तानः समाप्यते । येन सम्बन्धिविशेषेणैव सम्बन्धः सन्तानविशेषेण
सन्तानो विशेष्टुं शक्यते । यथा चैकदेशावस्थिता वृक्षा एव वनशब्देनोच्यन्ते । तथोत्पाद्यो-
त्पादकक्रमेणावस्थिताः पुरुषा एव सन्तानशब्दवाच्याः । न सन्तानाख्यं किं चिद्वस्त्वस्ति ।
तस्मात्सर्वेषु ब्राह्मणेष्वनुस्यूतं प्रत्येकसमवेतं ब्राह्मणप्रत्ययविषयभूतं किं चिदवश्यमेष्टव्यम् ।
यच्चाकारविशेषो न प्रतीयत इत्युक्तम् । तत्र यद्याकारशब्देन संस्थानं मुद्रापरनामधेयम-
भिप्रेतम्, ततस्तस्य जातित्वानङ्गीकाराददोषः । ब्राह्मणप्रत्ययवेद्यस्तु धर्मविशेषोऽनुभव-
सिद्धत्वान्नापह्नवमर्हति । वृक्षत्वाद्यप्यनुभवारूढरूपातिरेकेण निरूपयितुमशक्यम् । शाखा-
दिमद्रूपस्य संस्थानात्मकत्वेन जातित्वाभावात्संस्थानविशेषस्य हि प्रतिव्यक्तिविलक्षण-
त्वात्संस्थानमात्रस्य त्वन्यजातीयेष्वपि समानत्वादवान्तरविशेषस्य चानिरूपणादवयवि-
न्यासविशेषात्मकस्य संस्थानस्य निरवयवेष्वसम्भवाच्च संस्थानमाकारमुद्रापरनामधेयं
जातिरिष्यते । तस्मात्समानाकारेष्वपि पिण्डेषु विलक्षणब्राह्मणप्रत्ययवेद्यब्राह्मण्यादि-
जातिर्नापह्नोतुं शक्यते । न चासौ शास्त्रस्य विषयः । प्रमाणान्तरागृहीतायां जातौ
अगृहीतसम्बन्धत्वेन ब्राह्मण्यादिपदार्थाज्ञानात् । ब्राह्मणाद् ब्राह्मण्यां यो जायते, स ब्राह्मण
इति वाक्यार्थानवधारणात्सम्बन्धाग्रहणादेव नानुमेयत्वम्, सहस्रानुपपद्यमानार्थाभावादुप-
मानार्थापत्त्यसम्भवात्पारिशेष्यात्प्रत्यक्षत्वम् । उत्पादकजातिज्ञानात्तु प्रागप्रतीतेस्तस्य
सहकारित्वं कल्प्यते, जात्यभेदेऽपि व्यक्तिभेदेन जातिव्यक्तिसम्बन्धभेदादुत्पादकव्यक्ति-
सम्बन्धितया जातिज्ञानमुत्पाद्य व्यक्तिसम्बन्धितया जातिज्ञाने कारणमित्यात्माश्रय-
त्वाप्रसङ्गः ।
सहकार्यपेक्षत्वे ऽप्येन्द्रियकत्वाव्याघाते दृष्टान्तमाह—यथेति । शब्दोल्लेखप्रतीतौ१
चायं दृष्टान्तः । आशङ्किता तु वृक्षत्वस्य स्वरूपग्रहणे सहकार्यानपेक्षणाद्वैषम्यमाह—नैत-
दिति । शब्दोल्लेखप्रतीतावपि२ शब्दातिरिक्तसहकार्यानपेक्षणादपरं वैषम्यमाह—अपि
चेति । निमित्तान्तरग्रहणेनैतद्दर्शयति । प्रतीत्यन्यथानुपपत्त्या कल्प्यमानमपि शब्दाति-
रिक्तसहकारिग्राह्यात् ब्राह्मणत्वादन्यत्कल्प्यम् । न चोत्पादकगतं ब्राह्मणत्वमुत्पाद्यगतात्
ब्राह्मणत्वादन्यदित्येकस्य कर्मकरणत्वायोगाच्च तस्य सहकारित्वं युक्तमिति । उपवीतादीनां
१. नन्वगृहीतसङ्गतिनापि समनस्केन्द्रियसन्निकर्षे वृक्षत्वं गृह्यत एव तत्त्वेन परं न गृह्यत
इत्यत आह शब्दोल्लेखेति । वृक्षोऽयमिति शब्दोल्लेखप्रतीतिरित्यर्थः ।
२. वृक्षत्वज्ञाने शब्दातिरिक्तं सहकारि नापेक्ष्यते, ब्राह्मण्ये त्वपेक्षत इति वैषम्यमित्यर्थः ।