सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 78, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 78

२६ मीमांसादर्शनम् [ सू०
तु व्यभिचारात्सहकारित्वमनाशङ्क्यमेवेत्याह-न चेति । अध्यापनादीनां ब्राह्मणस्यैव
विधानाद्व्यभिचारमाशङ्कयाह-अध्यापनाद्यपीति । क्षत्रियवैश्यौ प्रति युज्यत इति क्षत्रिय-
वैश्यप्रतियोगिक्षत्रियवैश्यौ वा प्रतियोगिनौ प्रतिसंबन्धिनौ यस्येत्यर्थः । नन्वध्यापनादि-
कारिणि लोके निर्विचिकित्सब्राह्मणप्रत्ययदर्शनात् न क्वचिद्व्यभिचारमात्रेणाप्रामाण्या-
शङ्का युक्तेत्याशङ्कयाह-यस्त्विति । अध्यापनादीनां व्यभिचारित्वेन निर्विचिकित्स-
प्रत्ययोत्पादकत्वं न युक्तमिति भावः । परिहर्त्ता तून्मीलितनेत्रस्य ब्राह्मणोऽयमित्यसन्दि-
ग्धाबाधितपरोक्षप्रत्ययोत्पत्तेर्ब्राह्मण्यप्रत्यक्षत्वापद्भावयोगान्वयव्यतिरेकबलेनोत्पादकजाति-
ज्ञानस्योक्तप्रकारेण परिहृतात्माश्रयदोषस्य सहकारित्वकल्पनैवोचितेत्यभिप्रायेणाह-
नैष दोष इति । वृक्षे त्ववैषम्यलक्षणोऽध्यापनादिनिमित्तत्वासंभवलक्षणो वा न दोष
इत्यर्थः । यदि चान्यजातिग्रहणे सर्वत्रैकरूपं सहकारि स्यात्, ततोऽत्र तद्वैषम्यस्य दोषत्वं
शङ्क्येतापि । न त्वेतदस्ति ।
आकृतिवादे [तस्योपलक्षणं वापि क्वचित् केनचिदिष्यते] इत्यादिना जातिविशेषेषु
यथादर्शनंविलक्षणसहकार्यभिधानादित्याह-क्वचिदिति । रूपादेर्गुणविशेषस्यैव सुवर्ण-
त्वादिजातिग्रहणे सहकारित्वदर्शनान्न जातेः सहकारित्वं कल्पयितुं युक्तमित्याशङ्क्यान्य-
त्राहृष्टमपीहैव प्रतीतिबलादवश्यं कल्पनीयमिति दर्शयन्नुपसंहरति-तेनेति । प्रतीति-
बलादेव यथासम्भवं प्रत्यक्षानुमानाद्यवगतायाः सहकारित्वकल्पनं नायुक्तमित्याह-
अयं चेति ।
न च प्रत्यक्षावगतमेव प्रत्यक्षज्ञाने कारणमिति नियमो युज्यते, चक्षुरादौ व्यभि-
चारादित्याह-न चेति । न च जातिस्मरणव्यवधानमात्रेण चक्षुषोऽकारणत्वं वाच्यं
प्रत्यक्षसूत्रे ।
तत्र शब्दार्थसंबन्धमित्यादिना १ स्मरणव्यवधानेऽप्यपरोक्षप्रतीतेः प्रत्यक्षत्वा-
भिधानादित्याह-आन्तरालिकेति । न च मातापितृसंबन्धानभिज्ञाप्रत्यक्षत्वमात्रेण
तदभिज्ञा प्रत्यक्षत्वम् ।
विमनस्का यदा केचिदित्यादिना २ निराकृतत्वादित्याह-न चेति । ननु स्त्रीव्यभि-
चारशङ्कया मातापितृसंबन्धानिश्चयान्नापत्ये ब्राह्मण्यनिश्चयः कस्यचिदपि सम्भवतीत्या-
शङ्कयाह-स्त्र्यपराधत्वादिति । स्त्रीणां स्वातन्त्र्यनिषेधाद्धूर्त्तादिभिः प्रयत्नेन रक्षणा-
द्योग्यानुपलब्ध्या व्यभिचारशङ्कायाः परिहत्तुं शक्यत्वाद्, दुर्ज्ञानत्वमात्रं मातापितृसंब-
न्धानभिज्ञस्य भवेन्न तु सर्वात्मना ज्ञानाभाव इत्यर्थः । एतच्च दुर्ज्ञानत्वादज्ञानवचनं
गौणमिति स्त्र्यपराधेनेत्यत्र भाष्यकारो वक्ष्यतीत्याह-इति स्वयमेवेति । न च दुर्ज्ञान-
त्वमात्रेणाप्रत्यक्षत्वं शङ्क्यम्, गिरिशृङ्गारोहणजन्यस्यापि दूरस्थपदार्थज्ञानस्य प्रत्यक्षत्व-
सिद्धेरित्याह-न चेति । ननु स्त्रीणां प्रायेण चञ्चलत्वदर्शनात् न वै स्त्रैणानि सख्यानि
१. स्मर्यते शब्दसम्बन्धो माभूत्प्रत्यक्षता तयोः । तदप्रत्यक्षभावेन न स्त्वर्थस्यापि वार्यते ॥
२. तत्र शब्दार्थसंबन्धप्रमातुः स्मरतोऽपि वा । बुद्धिः पूर्वे गृहीतार्थसन्धानादुपजायते ॥