सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 80, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 80

२८ मीमांसादर्शनम् [ सू०
नन्वस्यार्थस्य प्रत्यक्षेण विवेक्तुमशक्यत्वाद् ब्राह्मण्यादेश्च शास्त्रविषयत्वानङ्गीकारेण
निर्मूलमेतत्स्मरणं स्यादत आह—तत्र त्विति। क्वचित्प्रत्यक्षावगतायां जातौ सम्बन्ध-
ग्रहणसम्भवात् गृहीतपदार्थकेन शास्त्रेणान्यत्र तत्प्रतिपादनं युक्तमिति मात्रशब्देन सूचितम्।
प्रत्यक्षावगतिसम्भवादन्यत्र शास्त्रव्यापारो नाङ्गीकृतः, इह तु तदसम्भवाच्छास्त्रविषयत्वं
नायुक्तमित्याह—न हीति। नन्वाकारसाम्येन क्वचिदपि ब्राह्मण्यादिविवेकस्य प्रत्यक्षेणा-
वगत्यसम्भवात्सर्वत्रागमगम्यत्वमेवाङ्गीकार्यमित्याशङ्कां निराकुर्वन्नुपसंहरति-तस्मादिति।
केनचिन्निमित्तेनेति स्वरविशेषादिनेत्यर्थः। स्मरणस्य स्वातन्त्र्येण प्रामाण्यायोगात्तन्मूल-
प्रदर्शनार्थं दर्शनग्रहणम्, तस्याप्युत्पादकजातिस्मरणनिरपेक्षेन्द्रियजन्यत्वायोगात्पूर्वोत्पादक-
जातिस्मरणं तत्सहकारीति निदर्शयितुं पारम्पर्यग्रहणम्, प्रत्यक्षत्वोपपादनफलमुपसंहरति-
इति भवतीति ।
ननु—
शमो दमस्तपः शौचं सत्यमार्जवमेव च।
ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म प्रचक्षते ।।
इत्यादिस्मृतिपर्यालोचनया तपःप्रभृत्याचारयोगनिमित्तत्वेऽपि ब्राह्मणशब्दप्रवृत्तेस्तस्य
प्रत्यक्षत्वेन दृष्टविरोधसम्भवात्किमिति महता क्लेशेन जातिः साध्यते । अत आह—
येषामिति । प्रमाणाभावमुपपादयितुमाह—सिद्धानां हीति। अनवस्थितत्वापत्तेरप्याचार-
निमित्तत्वं न युक्तमित्याह—स एवेति । कारणान्तरमाह तथेति ।
ननु तपःप्रभृत्याचारयोगिनि लोके ब्राह्मणशब्दप्रयोगदर्शनात् कथं तन्निमित्तत्वनिरासः,
अत आह—एताभिरिति । ब्राह्मणत्वप्रतिपादने द्योतकत्वमात्रं तपःप्रभृतीनां न तु ब्राह्मण-
शब्दप्रवृत्तिनिमित्तत्वमित्यर्थः। यद्वा का तर्ह्यस्याः स्मृतेर्गतिरित्याशङ्क्यैतदुक्तम्। द्योतक-
त्वमात्रं स्मृत्या प्रतिपाद्यते, न तु तपआदीनां समुदायो ब्राह्मण्यं स्मृत्या प्रतिपाद्यत
इत्यर्थः ।
यदा तु पूर्वोक्तार्थोपसंहारपरत्वेनेयं फक्किका व्याख्यायते, तदा नैताभिस्तपःप्रभृति-
भिरुपपत्तिभिरयं ब्राह्मणः प्रतिपाद्यते द्योत्यत इति योज्यम्, किं त्वेताभिरितरेतराश्रय-
प्रसङ्गादिभिरुपपत्तिभिरयमर्थः प्रतिपाद्यते, तदुच्यते न तप आदीनां समुदायो
ब्राह्मण्यमिति ।
ननु तपःप्रभृतीनां आचाराणां व्यभिचारित्वेन प्रत्येकं ब्राह्मणशब्दप्रवृत्तिनिमित्तत्वा-
योगात् युगपदनुष्ठानाभावेन च समुदायाभावान्नाभून्निमित्तत्वं तज्जनितस्य तु संस्कारस्य
भविष्यति, अत आह—नेति । माभूच्छब्दप्रवृत्तिनिमित्तत्वम्, जात्यभिव्यञ्जकत्वं
भविष्यत्यत आह-नेति। उभयत्र पूर्वोक्तमेवोपपत्तित्रयमिति द्रष्टव्यम्। एवं तर्हि व्यञ्जका-
भावेनाप्रत्यक्षत्वं स्यादित्यशङ्कानिराकरणार्थं पूर्वोक्तमभिव्यञ्जकं स्मारयति—किं
तर्हीति । नन्वाचारनिमित्तत्वाभावे ।
मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयादिति ।