बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
गंधयुक्त्यध्यायः ३११
बारीक चूर्ण करने के पश्चात् उसको सिरके से खट्टे किये केशों में लेप करके हरे पत्ते से
ढक कर दो पहर तक बैठने के बाद उस लेप को धोकर आँवलों का लेप करके हरे
पत्तों से ढककर दो पहर तक बैठा रहे। तत्पश्चात् शिर को धो डाले; इससे केश काले
हो जाते हैं।।२-३।।
लौहे पात्र इति । कोद्रवाः प्रसिद्धाः। कोद्रवाणां तण्डुलान् लोहपात्रे आयसभाजने
शुक्लेऽम्ले काञ्जिकादौ पक्वान् स्विन्नान् ततो लोहचूर्णेनायसचूर्णेन साकं सह पिष्टान्
अतिसूक्ष्मचूर्णीकृतान् मूर्ध्नि शिरसि शुक्लामलकेशे शुक्लेनाम्लेन काञ्जिकादिनाम्लीकृताः
केशा यस्मिंस्तथाविधे मूर्धनि तैर्लेपं कृत्वा तत आर्द्रपत्रैः सरसैर्वेष्टयित्वाऽऽच्छाद्य तिष्ठेत्
प्रहरद्वयं यावत्।
याते द्वितीय इति । ततो द्वितीये प्रहरे यातेऽतिक्रान्ते तल्लेपं विहाय त्यक्त्वा ततः
शिरसि मूर्ध्नि आमलकैः प्रलेपं दद्यात्। पत्रैश्च सरसैः सञ्छाद्य तिष्ठेदन्येन प्रहरद्वयेन तल्लेपं
त्यक्त्वा शीर्षं प्रक्षालयेत्। प्रक्षालितं काष्ण्र्यं कृष्णत्वमुपैति गच्छति।।२-३।।
ततः किं कुर्यादित्याह—
पश्चाच्छिरःस्नानसुगन्धतैलैर्लोहाम्लगन्धं शिरसोऽपनीय।
हृद्यैश्च गन्धैर्विविधैश्च धूपैरन्तःपुरे राज्यसुखं निषेवेत् ॥४॥
केश काले हो जाने के बाद शिरःस्नान और सुगन्धित तेलों के द्वारा लोहे तथा
सिरके के गन्धों को दूर करके मनोहर सुगन्धित द्रव्य और धूपों को लगाते हुये राजा को
अन्तःपुर में राज्यसुख का सेवन करना चाहिये।।४।।
पश्चादनन्तरं शिरःस्नानैः सुगन्ध्यैश्च तैलैर्लोहगन्धमम्लगन्धं च शिरसो मूर्ध्नोऽपनीयापास्य
ततो हृद्यैश्च गन्धैर्हृदयस्य प्रियं हृद्यं चित्ताह्लादकम्। हृद्यैर्गन्धैः सुगन्धद्रव्यैस्तुष्टजननैर्विविधैश्च
धूपैः सहान्तःपुरे राज्यस्य सुखं निषेवेत् स्वमहिषीभिः क्रीडां कुर्यादित्यर्थः।
अत्र द्रव्याणां सर्वेषां प्रायः काञ्जिकेन क्षालनं निर्मलेन केषाञ्चिज्जलेन केषाञ्चिद्
गोमूत्रेण नखतिलतैलेनायसभाण्डे पचेत्। मृद्वग्निना पाकवेधगन्धधूपनानि लोकतो ज्ञेयानि।
आचार्येण नोक्तानि। अस्माभिर्ग्रन्थविस्तरभयान्न प्रदर्शितानि। यतः सकलसंहितास्माभिर्व्या-
ख्यातुमारब्धा केवलमत्राक्षराणां व्याख्या क्रियते, न चास्माकमत्र तथाविधं प्रावीण्यम्।
अतस्तज्ज्ञैर्लोकव्यवहारतः कार्यः प्रयोगनिचयः।।४।।
तत्रादावेव शिरःस्नानमाह—
त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः ।
केसरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् ॥५॥
दालचीनी, कूठ , रेणुका ( गगनधूरि ), नलिका, स्पृक्का, बोल, तगर, नेत्रबाला,
नागकेसर, पत्र ( गन्धपत्र )—इनको सम भाग लेकर पीसे और फिर शिर में लगाकर
स्नान करे तो यह राजा के योग्य शिरःस्नान होता है।।५।।
३१२ बृहत्संहिता
त्वक् प्रसिद्धा। कुष्ठः प्रसिद्ध एव। रेणुर्हरेणुका। नलिका प्रवालवल्ली। स्पृक्का
प्रसिद्धा लता। रसो बोलः। तगरः प्रसिद्धः। बालकं हीबेरम्। एतैस्तुल्यैः समभागैः। किं
भूतैः? केसरपत्रविमिश्रैः, केसरं नागकेसरम्। पत्रं गन्धपत्रं त्वगादिभिः केसरपत्रैर्विमिश्रितैः
शिरःस्नानं नरपतियोग्यं राजोपयोग्यं भवति।।५।।
अथ सुगन्धतैलमाह—
मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वचा सकुष्ठेन रसेन चूर्णः ।
तैलेन युक्तोऽर्क्रमयूखतप्तः करोति तच्चम्पकगन्धि तैलम् ॥६॥
मञ्जीठ, समुद्रफेन, शुक्ति, दालचीनी, कूट, बोल—इन सबको बराबर लेकर चूर्ण
करे। फिर उस चूर्ण को तिल के तेल में डालकर धूप में तपाये तो उस तेल में चम्पे के
फूलों के तेल की गन्ध आ जाती है।।६।।
मञ्जिष्ठा प्रसिद्धा। तथा व्याघ्रनखेन व्याघ्रनखः समुद्रफेनः, तेन। तथा शुक्त्या नखेन।
नखं शङ्खोद्भवं चर्म। त्वक् प्रसिद्धा। तया त्वचा। तथा सकुष्ठेन रसेन। कुष्ठं प्रसिद्धम्।
रसो बोलः। कुष्ठसहितेन रसेन बोलेन सह चूर्णः कार्यः। सर्वैरेतैर्यथोक्तैः समभागकैः स
चूर्णः कार्यः। तैलेन तिलतैलेन युक्तः। अर्कमयूखतप्तः, अर्कमयूखै रविकिरणैः सन्तप्तो-
ऽतीव तापितः। तत् तैलं चम्पकगन्धि चम्पकपुष्पसमसुरभिं सुगन्धिं करोति।।६।।
अथ गन्धचतुष्टयमाह—
तुल्यैः पत्रतुरुष्कबालतगरैर्गन्धः स्मरोद्दीपनः
सव्यामो बकुलोऽयमेव कटुकाहिङ्गुप्रधूपान्वितः ।
कुष्ठेनोत्पलगन्धिकः समलयः पूर्वो भवेच्चम्पको
जातीत्वक्सहितोऽतिमुक्तक इति ज्ञेयः सकुस्तुम्बुरुः ॥७॥
गन्धपत्र, सिह्लक, नेत्रबाला, तगर—इन सबको सम भाग लेकर मिलाने से कामो-
दीपन करने वाली गन्ध हो जाती है। इस गन्ध में व्यामक ( दवदग्धक ) मिला कर
कटुका ( गुगुल ) और हिङ्गु का धूप देने से मौलसरी पुष्प के समान सुगन्धित द्रव्य
बन जाता है। कूठ मिलाने से नील कमल की, सफेद चन्दन मिलाने से चम्पे के फूलों
की तथा जायफल, दालचीनी और धनियाँ मिलाने से अतिमुक्तक के पुष्प की गन्ध आ
जाती है।।७।।
पत्रं गन्धपत्रम्। तुरुष्कं सिह्लरसम्। बालं बालकम्। तगरः प्रसिद्धः। एतैस्तुल्यैः
समभागैः स्मरोद्दीपनः कामोद्दीपनो गन्धो भवति। सव्याम इति । अयमेव पूर्वोक्तो गन्धः।
सव्यामो व्यामकेन दवदग्धकेन सहितः, तथा कटुकाहिङ्गुप्रधूपान्वितः, कटुका प्रसिद्धा,
हिङ्गुर्हिङ्गुलुकः, गुग्गुलुक इति प्रसिद्धः। आभ्यां धूपान्वितो धूपितः। बकुलो बकुलपुष्पगन्धो
भवति। कुष्ठेनोत्पलगन्धिक इति। स एव पूर्वोक्तः कुष्ठेन सहित उत्पलगन्धिक उत्पल-
समगन्धो भवति। समलयः पूर्वो भवेच्चम्पक इति। स एव पूर्वोक्तः समलयो मलयेन
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गन्धयुक्त्यध्यायः ३१३
सहितश्चम्पकपुष्पाणां समगन्धिको भवति। जातीत्वक्सहित इति। स एव पूर्वोक्तो जाती-
त्वक्सहितो जातीशब्देन जातीफलमुच्यते। त्वक् प्रसिद्धा। आभ्यां सहितो युक्तः सकुस्तुम्बुरुः
कुस्तुम्बुरुसहितः। अतिमुक्तकोऽतिमुक्तकसदृशगन्धो भवेत्॥१७॥
अन्यदप्याह—
शतपुष्पाकुन्दुरुकौ पादेनार्धेन नखतुरुष्कौ च।
मलयप्रियङ्गुभागौ गन्धो धूप्यो गुडनखेन ॥१८॥
सौंफ और कुन्दरक (देवदारु वृक्ष का निर्यास) एक चतुर्थांश, नख (शंख से
उत्पन्न चमड़ा) और सिह्लक दो चतुर्थांश, श्वेत चन्दन और प्रियङ्गु एक चतुर्थांश—इन
सबको मिलाकर गन्धद्रव्य बनावे। फिर उसमें गुड और नख का धूप दे (पहले हरें का
धूप देकर बाद में उक्त द्रव्य का धूप देना—यह प्राचीनों का मत है)॥१८॥
शतपुष्पा प्रसिद्धा। कुन्दुरुकः प्रसिद्ध एव दारुनिर्यासः। एतौ द्वौ पादेन चतुर्थभागेन
देयौ। अर्धेन नखतुरुष्कौ च, नखं शङ्खोद्भवं चर्म, तुरुष्कं सिह्लरसम्। एतौ द्वावर्धेन देयौ।
मलयप्रियङ्गुभागाविति। मलयं चन्दनम्, प्रियङ्गुर्गन्धप्रियङ्गुः। अनयोर्द्वौ भागौ। द्वयोरेव
चतुर्थभागो देयः। गन्धो धूप्यो गुडनखेन। एष गन्धो गुडेन नखेन च धूप्यो धूपयितव्यः।
यत्र यत्र गन्धो धूप्यते तत्र तत्रादावेव हरीतक्या धूप्यः पश्चादुक्तद्रव्येणेत्यागमविदः प्राहुः॥१८॥
अधुना धूपमाह—
गुग्गुलुबालकलाक्षामुस्तानखशर्कराः क्रमाद् धूपः।
अन्यो मांसीबालकतुरुष्कनखचन्दनैः पिण्डः ॥१९॥
गूगल, नेत्रबाला, लाख, मोथा, नख, खाँड—इन सबको बराबर लेकर धूप बनावे
तथा बालछड़, नेत्रबाला, सिह्लक, नख, चन्दन—इन सबको सम भाग लेकर पिण्ड
नामक दूसरा धूप बनावे॥१९॥
गुग्गुलुः प्रसिद्धः। बालकः प्रसिद्ध एव। लाक्षा प्रसिद्धा। मुस्ता प्रसिद्धैव। नखं
शङ्खोद्भवं चर्म प्रसिद्धमेव। शर्करा प्रसिद्धा। एते क्रमात् समभागयोजिता धूपो भवति।
अन्य इति। मांसी प्रसिद्धा। बालकं प्रसिद्धम्। तुरुष्कं सिह्लरसम्। नखचन्दनं च प्रसिद्धमेव।
एतैः समभागैरन्यो द्वितीयः पिण्डः पिण्डधूपो भवति॥१९॥
अन्यदप्याह—
हरीतकीशङ्खघनद्रवाम्बुभिर्गुडोत्पलैः शैलकमुस्तकान्वितैः।
नवान्तपादादिविवर्धितैः क्रमाद् भवन्ति धूपा बहवो मनोहराः ॥१९०॥
हर्रें, शंख, नख, बोल, नेत्रबाला, गुड, कूठ, शैलक, मोथा—इन नौ वस्तुओं को
क्रम से एक पाद से लेकर नौ पाद तक ले। जैसे हर्रे एक पाद, शंख दो पाद, नख तीन
पाद इत्यादि मोथा नौ पाद = एक धूप। गुड, कूठ, शैलक, मोथा—इन चार वस्तुओं
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
३१४ बृहत्संहिता
को क्रम से एक पाद से लेकर चार पाद तक ग्रहण करे तो दूसरा धूप। शैलक, मोथा—
इन दो वस्तुओं को क्रम से एक पाद से लेकर दो पाद तक ले तो तीसरा धूप। हर्दे एक
भाग में शंख दो भाग मिलाने से चौथा धूप। उसमें नख तीन भाग मिलाने से पाँचवाँ
धूप इत्यादि अनेक प्रकार के मनोहर धूप बनते हैं॥१०॥
हरीतकी पथ्या। शङ्खो नखम्। घनं प्रसिद्धम्। द्रवो रसो बोल इत्यर्थः। अम्बु
बालकम्, एतैः। तथा गुडोत्पलैः शैलकमुस्तकान्वितैः, गुडः प्रसिद्ध इक्षुविकारः, उत्पलं
कुष्ठम्, शैलकं शैलेयम्, मुस्तकं मुस्तः, एतैरन्वितैर्युक्तैर्नवान्तपादादिविवर्धितैः क्रमात्।
नवान्ताश्च ते पादादिविवर्धिताश्च पादाश्चादौ पादाश्चान्ते विवर्धिता येषाम्। तद्यथा—हरीतक्या
एको भागः। शङ्खस्य द्वौ। घनस्य तृतीयः। अनेन क्रमेण यावत्। मुस्तस्य नव भागाः।
एवं हरीतकीशङ्खघनद्रवाम्बुभिः पादविवर्धितैरेकः। गुडोत्पलैः सह द्वितीयः। एतैरेव शैलक-
मुस्तकान्वितैस्तृतीयः। अथवा हरीतक्या एको भागः। शङ्खस्य द्वावित्येको धूपः। तत्रैव
घनस्य भागत्रयं दीयते, तदा द्वितीयो धूपः। एवं प्रत्येकस्य द्रव्यस्य भागपरिवृद्ध्याऽष्टौ
धूपा मनोहरा भवन्ति॥१०॥
अन्यं धूपमाह—
भागैश्चतुर्भिः सितशैलमुस्ताः श्रीसर्जभागौ नखगुग्गुलू च।
कर्पूरबोधो मधुपिण्डितोऽयं कोपच्छदो नाम नरेन्द्रधूपः ॥११॥
खाँड़, शैलेय और मोथा चार भाग; श्रीवास, सर्ज, नख और गूगल दो भाग—इन
सबको पीस कर कर्पूर के चूर्ण से बोध (सुगन्धित) करे। बाद में उसमें शहद मिलाकर
पिण्ड बना ले। यह कोपच्छद नामक राजाओं के योग्य धूप होता है। आर्द्र वस्तु में आर्द्र
वस्तु को मिलाने का नाम बेध और चूर्ण में चूर्ण मिलाने का नाम बोध है॥११॥
सिता शर्करा। शैलेयं शैलेयकम्। मुस्तः प्रसिद्धः। एते चतुर्भिर्भागैर्दातव्याः। श्रीः
श्रीवासकः। सर्जः सर्जरसः। अनयोर्द्वौ भागौ देयौ। नखं प्रसिद्धम्। गुग्गुलुः प्रसिद्ध एव।
नखगुग्गुलू भागद्वयेनैव दातव्यौ। कर्पूरेण चास्य बोधः कार्यः। मधुपिण्डितो माक्षिकेण
पिण्डीकृतः। अयं नरेन्द्रधूपो राजधूपः। कोपच्छदो नाम कोपच्छद इत्यस्य संज्ञा।
आर्द्र आर्द्रो यो दीयते स वेधः। चूर्णिते चूर्णो दीयते स बोधः। उक्तमीश्वरेण स्वस्यां
गन्धयुक्तौ—
ओल्लंमि ओल्लओ जो दिज्जइ वेह इति सो भणिओ।
वोहो उण जो चुण्णो चुण्णविणि अच्छगन्धो सो।। इति।।११।।
अथ पुटवासमाह—
त्वगुशीरपत्रभागैः सूक्ष्मैलाध्रेन संयुतैश्चूर्णः।
पुटवासः प्रवरोऽयं मृगकर्पूरप्रबोधेन ॥१२॥
दालचीनी, खस, गन्धपत्र—इनके तीन भाग में सबका आधा (डेढ़) भाग छोटी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गन्धयुक्त्यध्यायः ३१५
इलायची मिलाकर चूर्ण बनावे। कस्तूरी या कर्पूर से बोध करे तो वस्त्र सुगन्धित करने
का उत्तम चूर्ण बनता है।।१२।।
त्वक् त्वचम्। उशीरं प्रसिद्धम्। पत्रं गन्धपत्रम्। एषां भागत्रयम्। एतैः सूक्ष्मैलाध्रेन
संयुक्तैः। सूक्ष्मैला प्रसिद्धैव। पूर्वोक्ताद्भागत्रयादर्धेन सूक्ष्मैला देयेत्यर्थः। अयं चूर्णो मृगकर्पूर-
प्रबोधेन। मृगः कस्तूरिका। कर्पूरं प्रसिद्धम्। अनयोः प्रबोधेन प्रवरः श्रेष्ठः पुटवासो-
ऽङ्गोद्धूलनं भवति। केचित् पटवास इति पठन्ति। पटवासः कर्पटानुवासनम्।।१२।।
अथ गन्धार्णवमाह—
घनबालकशैलेयककर्पूरोशीरनागपुष्पाणि ।
व्याघ्रनखस्पृक्कागुरुदमनकनखतगरधान्यानि ।।१३।।
कर्पूरचोलमलयैः स्वेच्छापरिवर्तितैश्चतुर्भिरतः।
एकद्वित्रिचतुर्भिर्भागैर्गन्धार्णवो भवति ।।१४।।
मोथा, नेत्रबाला, शैलेय, कचूर, खश, नागकेसर के फूल, व्याघ्रनख, स्पृक्का
(लता), अगुरु, दमनक, नख, तगर, धनियाँ, कर्पूर, चोरक, श्वेत चन्दन—इन सोलह
द्रव्यों में से किन्हीं चार के क्रम से एक भाग, दो भाग, तीन भाग और चार भाग अदल-
बदल कर लेकर चूर्ण बनाने से गन्धार्णव नामक छियानबे तरह के सुगन्धद्रव्य तैयार
होते हैं।।१३-१४।।
घनं प्रसिद्धम्। बालकं प्रसिद्धमेव। शैलेयककर्पूरोशीराणि एतानि सुप्रसिद्धानि।
नागपुष्पं नागकेसरम्। व्याघ्रनखः समुद्रफेनः। स्पृक्का लता। अगुरुः प्रसिद्धः। मदनकः
प्रसिद्धः। तगरं प्रसिद्धम्। धान्यं धान्यकाफलम्—एतानि। कर्पूरः प्रसिद्धः। चोलश्चोरकः
प्रसिद्धः। मलयं चन्दनम्। एवं षोडश सुगन्धद्रव्याणि। अतोऽस्माद् द्रव्यगणादेतैरेव
घनादिभिश्चतुर्भिः स्वेच्छापरिवर्तितैरात्मीयेच्छापरिभ्रामितैर्विपर्यस्तीकृतैः। कथम्? एकद्वित्रि-
चतुर्भागैः। गन्धार्णवो गन्धसमुद्रो भवति। अत्र षोडश कोष्ठकाः कार्याः, तिर्यक्चत्वारो-
ऽधोऽधश्चत्वारः। तत्राद्यकोष्ठकात् प्रभृति यथा पाठक्रमेण घनादीनि विन्यस्यानि। तद्यथा—
प्रथमपङ्क्तौ घनादीनि। द्वितीयायां च उशीरादीनि। तृतीयायामगुर्वादीनि। चतुर्थ्यां धान्यकादीनि।
यदुक्तम्—स्वेच्छापरिवर्तितैश्चतुर्भिरतः। एकद्वित्रिचतुर्भागैर्गन्धार्णवो भवति। तत्र भेदाः
प्रदर्श्यन्ते। यथा क्रमेण सर्वेषां प्रत्येकस्य षड्भेदाः सम्भवन्ति। चतुष्कस्य चतुर्विंशतिरिति।
तद्यथा—घनस्यैको भागः। बालकस्य द्वौ भागौ। शैलेयकस्य त्रयो भागाः। कर्पूरस्य चत्वारो
भागाः। एको गन्धो भवति। घनस्यैको भागः। बालकस्य द्वौ। शैलेयकस्य चत्वारः। कर्पूरस्य
त्रयः। द्वितीयो गन्धो भवति। घनस्यैको भागः। बालकस्य त्रयः। शैलेयस्य द्वौ। कर्पूरस्य
चत्वारः। तृतीयो गन्धो भवति। घनस्यैको भागः। बालकस्य त्रयः। शैलेयस्य चत्वारः।
कर्पूरस्य द्वौ। चतुर्थो गन्धः। घनस्यैको भागः। बालकस्य चत्वारः। शैलेयकस्य द्वौ। कर्पूर-
कस्य त्रयः। पञ्चमो गन्धो भवति। घनस्यैको भागः। बालकस्य चत्वारः। शैलेयकस्य त्रयः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१६ बृहत्संहिता
कर्पूरकस्य द्वौ। षष्ठो गन्धो भवति। एवमेकैकस्य द्रव्यस्य षड्गन्धा उत्पद्यन्ते। चतुष्कस्य
चतुर्विंशतिः। षोडशकस्य षण्णवतिः।।१३-१४।।
| घ | बा | शै | क |
| उ | ना | व्या | स्पृ |
| अ | द | न | त |
| धा | क | चो | म |
अत्रैव विशेषमाह—
अत्युल्बणगन्धत्वादेकांशो नित्यमेव धान्यानाम् ।
कर्पूरस्य तदूनो नैतौ द्वित्र्यादिभिर्देयौ ॥१५॥
धनियाँ और कर्पूर में अति उत्कट गन्ध होने के कारण सदा धनियाँ का एक भाग
और कर्पूर के एक भाग से भी कम भाग डालना चाहिये। इन दोनों के दो-तीन आदि
भाग कभी नहीं डालना चाहिये; क्योंकि इनमें अति उत्कट गन्ध होने के कारण ये अन्य
द्रव्यों के गन्धों का नाश कर देते हैं।।१५।।
अत्र धान्यानां धान्यकाफलानामत्युल्बणगन्धत्वादुत्कटत्वान्नित्यं सर्वकालमेकांश
एको भागो दातव्यः। कर्पूरस्योल्बणगन्धत्वात् तदूनः तस्माद् भागादप्यूनो दातव्यः। एतौ
द्वौ द्वित्र्यादिभिर्भागैः प्राप्तावपि न देयौ न दातव्यौ। यतस्तदुत्कटत्वादन्यद्रव्याणां गन्धहा-
निर्भवति।।१५।।
अथैतेषां धूपानां बोधनं चाह—
श्रीसर्जगुडनखैस्ते धूपयितव्याः क्रमान्न पिण्डस्थैः।
बोधः कस्तूरिकया देयः कर्पूरसंयुतया ॥१६॥
पूर्वोक्त समस्त गन्धित द्रव्यों को श्रीवास, राल, गुड़, नख-इन चारों का अलग-
अलग धूप दे, सबको मिलाकर नहीं; बाद में कर्पूर और कस्तूरी का बोध दे।।१६।।
श्रीः श्रीवासकः। सर्जः सर्जरसः। गुडनखे प्रसिद्धे। एतैः क्रमात्ते सर्व एव गन्धा
धूपयितव्याः। न पिण्डस्थैर्न मिश्रीकृतैः। एतदुक्तं भवति—प्रथमतः सर्व एव श्रीवासकेन
धूपयितव्याः। तथाभूताः। पुनः सर्जरसेन। ततः सर्वे पुनरपि गुडेन। ततः सर्वे नखेन
धूपयितव्याः। ततः सर्वेषां कस्तूरिकया कर्पूरसंयुतया बोधः कार्यः। एवं कृते शोभनास्ते
गन्धा भवन्ति।।१६।।
अथात्र सर्वगन्धानां व्यापकत्वेन प्रदर्शनार्थमाह—
अत्र सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि।
लक्षं शतानि सप्त विंशतियुक्तानि गन्धानाम् ॥१७॥
पूर्वोक्त सुगन्धित द्रव्यों के भेद से कुल मिलाकर १७४७२० प्रकार के सुगन्धित
द्रव्य बनते हैं।।१७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गन्धयुक्त्यध्यायः ३१७
अत्रास्मिन् द्रव्यगणे गन्धानां सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि लक्षमेकं सप्त-
शतानि विंशत्यधिकानि गन्धानामन्तर्भवन्तीत्यर्थः ।।१७।।
अत्रैकैकं षड्गन्धकरं भवतीत्याह-
एकैकमेकभागं द्वित्रिचतुर्भागिकैर्युतं द्रव्यैः ।
षड्गन्धकरं तद्वद्द्वित्रिचतुर्भागिकं कुरुते ।।१८।।
केवल दो वस्तुओं से छः गन्धद्रव्य तैयार होते हैं; जैसे-प्रथम के एक भाग में
द्वितीय के दो-तीन और चार भाग मिलाने से तीन प्रकार के तथा द्वितीय के एक भाग में
प्रथम के दो-तीन और चार भाग मिलाने से तीन प्रकार के; इस तरह छः प्रकार के
गन्धद्रव्य तैयार होते हैं। इसी तरह एक के दो भाग में अन्य के दो-तीन और चार भाग
मिलाने से छः प्रकार के गन्धद्रव्य तैयार होते हैं ।।१८।।
एकैकं द्रव्यं यच्च एकभागिकं तदपि द्वित्रिचतुर्भागिकैर्द्रव्यैर्युतं संयुक्तं षड्गन्धकरं
षड्गन्धान् करोति। तद्वत्तेनैव प्रकारेण द्वित्रिचतुर्भागिकं कुरुते। यानि द्रव्याण्यन्यान्येक-
भागिकेऽन्यस्मिन् द्वित्रिचतुर्भागिकानि दत्तानि तान्यपि तेन सह प्राग्वद् भागपरिकल्पनया
षड्गन्धकराणि भवन्ति। एवं प्रत्येकं द्रव्यमेकभागिकमन्यैर्द्वित्रिचतुर्भागिकैर्युक्तं षड्गन्धकरं
भवति ।।१८।।
अथ सर्वेषां सङ्ख्याज्ञानमाह-
द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्यथैकस्य ।
एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र ।।१९।।
इस तरह एक द्रव्य के योग से छः भेद, चार द्रव्यों के योग से चौबीस भेद एवं
शेष तीन स्थानों में स्थित चार-चार के बहत्तर भेद और सब मिलाकर छियानबे भेद
होते हैं ।।१९।।
यथा येन प्रकारेणैकैकस्य द्रव्यस्य द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्भवति। एकैकः
सन्नैकभागिके द्रव्ये द्वित्रिचतुर्भागिकानि द्रव्याणि त्रीण्यन्यानि जायन्ते। एवं चत्वारि विमिश्रि-
तानि च सम्पद्यन्ते। तानि षट् पतन्ति। अतः प्रत्येकं षड्गन्धकरम्। एवं षट्चतुष्का-
श्चतुर्विंशतिर्भवन्ति। तस्मादेकैकस्यैव गन्धः। चतुर्विंशतिर्यस्मात् स एव चतुर्विंशतिवारान्
पतति, प्रत्येकस्मिंश्चतुर्विंशतिर्गन्धा भवन्ति। अत उक्तम्-द्रव्यचतुष्टययोगाद् गन्ध-
चतुर्विंशतिर्यथैकस्येति। एवं शेषाणां त्रयाणामपि चतुष्काणां द्विसप्ततिर्गन्धा भवन्ति। सर्व-
पिण्डाः षण्णवतिरत्रास्मिन् गन्धप्रकरणे भवन्ति ।।१९।।
अधुना चतुर्विकल्पेन भिद्यमानानां सङ्ख्याज्ञानमाह-
षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् ।
अष्टादश जायन्ते शतानि सहितानि विंशत्या ।।२०।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
३१८ बृहत्संहिता
पूर्वोक्त सोलह द्रव्यों में चार-चार विकल्प से १८२० भेद होते हैं॥२०॥
अस्मिन् द्रव्यगणे षोडशके षोडशसङ्ख्ये चतुर्विकल्पेन चतुर्भिश्चतुर्भिर्द्रव्यैरैकैको गन्ध
इत्यनेन क्रमेण भिद्यमानानामष्टादश शतानि विंशत्यधिकानि गन्धानां जायन्ते उत्पद्यन्ते।
एतत्पुरस्तादाचार्य एव प्रदर्शयिष्यति॥२०॥
अथ सर्वगन्धानां संख्याप्रमाणज्ञानमाह—
षण्णवतिभेदभिन्नश्चतुर्विकल्पो गणो यतस्तस्मात्।
षण्णवतिगुणः कार्यः सा सङ्ख्या भवति गन्धानाम्॥२१॥
सोलह द्रव्यों में से चार-चार विकल्प करके लाये हुए भेद (१८२०) को
पूर्वकथित (९६) भेद से गुणा करने से १७४७२० भेद होते हैं; किन्तु ये भेद गौण
वृत्ति से आते हैं। मुख्य वृत्ति से तो १८२० को २४ से गुणा करने से ४३६८० भेद
होते हैं॥२१॥
अयमपि चतुर्विकल्पो यतो यस्मात् षण्णवतिभेदभिन्नो निरन्तरत्वेन तस्मादष्टादश
शतानि विंशत्यधिकानि १८२०। यो गणः समूहः षण्णवतिगुणः कार्यः सा संख्या सर्व-
गन्धानां भवति। लक्षमेकं चतुःसप्ततिसहस्राणि सप्तशतानि विंशत्यधिकानीत्यर्थः १७४७
२०। एतद्गौणवृत्त्या न मुख्यया। मुख्यवृत्त्या त्रिचत्वारिंशत्सहस्राणि षट्शतान्यशीत्यधिकानि
४३६८० भवन्ति। यतश्चतुर्विकल्पो गणश्चतुर्विंशतिभेदभिन्नः॥२१॥
अथैतेषां भेदप्रदर्शनार्थं सङ्ख्यानयनार्थं लोष्टकप्रस्तारमाह—
पूर्वेण पूर्वेण गतेन युक्तं स्थानं विनान्त्यं प्रवदन्ति सङ्ख्याम्।
इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः॥२२॥
एक से लेकर जितने द्रव्य हों, उतनी संख्या तक नीचे से लेकर ऊपर को गई हुई
पंक्ति में अंकों को लिखे और पूर्व-पूर्व गताङ्क में ऊपर के अङ्कों को जोड़ता जाय। यहाँ
अन्तिम स्थान को छोड़कर संख्या होती है।
अभीष्ट विकल्पों से चरलोष्टक को अन्यत्र ले जाकर उसको वहाँ छोड़कर फिर
अन्य चरलोष्टक को अन्यत्र ले जाय॥२२॥
एकाद्यानङ्कान् षोडशान्ताननुपर्य्युपरि संस्थाप्योपरितनमङ्कं प्रत्येकेन पूर्वेण पूर्वेणाङ्कगतेनाङ्केन
युक्तं कार्यम्। य एव पूर्वः स गतः। यथैकस्योपरि द्वौ स्थितौ तत्र द्वयोरपेक्षया एकः पूर्वो
गतश्च तेन पूर्वेण पूर्वेण गतेनोपरितनमङ्कं युक्तं कार्यं तेनापि तदुपरितनं यावत्पञ्चदशं
स्थानम्, यत उक्तम्—स्थानं विनान्त्यं प्रवदन्ति सङ्ख्यामिति। अन्त्यं स्थानं विनाऽन्त्यं
वर्जयित्वा सङ्ख्यां प्रवदन्ति कथयन्ति। ततो भूयोऽधःप्रभृति पुनः पूर्वेण गतेन युक्तं कार्यम्।
यावच्चतुर्दशं स्थानम्। ततोऽपि पुनरधःप्रभृति पूर्वेण गतेन युक्तं कार्यम्, यावत्त्रयोदशं
स्थानम्। एवं तत्राष्टादशशतानि विंशत्यधिकानि भवन्ति। उदाहरणार्थमेकादीनां न्यासः।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
गन्धयुक्त्यध्यायः ३१९
| १६ | | | | अत्र पूर्वेण पूर्वेण गतेनाङ्केनैकादिनोत्तरमङ्कं द्वितीया-
| १५ | १२० | | | दिकमुपरिस्थितं युक्तं कार्यम्। तेनानुप्रविष्टेनान्त्यं विनोपरि
| १४ | १०५ | ५६० | | प्रथमे स्थाने षोडश जाताः। द्वितीये विंशत्यधिकं शतम्।
| १३ | ९१ | ४५५ | १८२० | तृतीये स्थाने पञ्चशतानि षष्ट्यधिकानि। चतुर्थे चाष्टादश-
| १२ | ७८ | ३६४ | १३६५ | शतानि विंशत्यधिकानि जातानि। एवं चतुर्विकल्पानां सङ्ख्या
| ११ | ६६ | २८६ | १००१ | जाता।
| १० | ५५ | २२० | ७१५ | अथैतेषां लोष्टकप्रस्तारार्थमाह—
| ९ | ४५ | १६५ | ४९५ | इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः।
| ८ | ३६ | १२० | ३३० | तत्र तावद् घनादीनां द्रव्याणां षोडशानां नामाद्याक्षराणि
| ७ | २८ | ८४ | २१० | लिखेत्। तत्राद्यानि त्रीणि स्थिरलोष्टचिह्नितानि कृत्वा चतुर्थं
| ६ | २१ | ५६ | १२६ | चरलोष्टं चिह्नितं कृत्वा तदपि क्रमेणान्यस्मिन् द्रव्ये नीत्वा
| ५ | १५ | ३५ | ७० | तस्मिन्निवृत्तिः। पञ्चमे प्रत्यानयनम्। एवमनेन क्रमेण सर्वेषां
| ४ | १० | २० | ३५ | कार्यम्। यत उक्तम्—इच्छाविकल्पैरिति। अभीष्टैर्वि-
| ३ | ६ | १० | १५ | कल्पैश्चरलोष्ट्रं क्रमशः क्रमेणाभिनीय अन्यत्र सञ्चार्य नीते
| २ | ३ | ४ | ५ | निवृत्तिः कार्या। पुनरन्यनीतिः। अन्यस्मिन् स्थाने चरलो-
| १ | १ | १ | १ |
ष्टकेऽन्त्यवर्णे प्राप्तस्थिरलोष्टकमन्यस्थानान्तरं नयेत्। तत्र तं स्थिरं कृत्वा तदग्रतः स्थितेन
चरलोष्टकेन सह स्थानान्तरं नीयमानेन भेदाः प्रदर्श्याः। ततः पुनरपि स्थानान्तरस्थं चरलोष्टक-
मन्यस्थानान्तरं नीत्वा तत्र तं स्थिरं विनिधाय तदग्रतः स्थितेन चरलोष्टकेन स्थानान्तरनीयमानेन
भेदाः प्रदर्श्याः। एवमन्त्ये स्थिरलोष्टके उपान्तप्राप्तेऽन्यत् स्थिरलोष्टकं स्थानान्तरं नयेत्।
तत उपान्त्यान्त्यौ तदग्रस्थितौ कृत्वान्त्ये सञ्चार्यमाणे भेदाः प्राग्वत् प्रदर्श्याः। यावत्ते सर्व
एवोपान्त्यपूर्वं उपान्त्योऽन्यश्चान्त्यगताः स्युः। ततः पुनरन्यं स्थिरलोष्टकं स्थानान्तरं नयेत्,
तदग्रस्थितैरन्यैः प्राग्वद्भेदाः प्रदर्श्याः। एवं सर्वेषां क्रमेण कार्यम्। यावत् सर्व एवान्त्यस्था-
नमाश्रिता भवन्ति। तद्यथा—आद्यं त्रिकं स्थिरलोष्टचिह्नितं कृत्वा चतुर्थे सञ्चार्यमाणे त्रयोदश
उत्पद्यन्ते। ततस्तृतीयेन लोष्टकेन चतुर्थद्रव्यं नीते चतुर्थे लोष्टके सञ्चार्यमाणे द्वादश
उत्पद्यन्ते। ततस्तृतीये पञ्चमस्थानं नीते चतुर्थे लोष्टके सञ्चार्यमाणे एकादश उत्पद्यन्ते।
ततस्तृतीये षष्ठस्थाने नीते दश। एवं सप्तमे नव। अष्टमेऽष्टौ। एवं नवमे सप्त। दशमे
षट्। एकादशे पञ्च। द्वादशे चत्वारः। त्रयोदशे त्रयः। चतुर्दशे द्वौ। पञ्चदशे एकः। एवमेक-
नवतिः ९१। ततः प्रथमद्वितीयचतुर्थस्थानानि स्थिरलोष्टचिह्नितानि कृत्वा चतुर्थे सञ्चार्यमाणे
द्वादश। ततस्तृतीये प्राग्वत् स्थानान्तरेषु नीयमाने चतुर्थे सञ्चार्यमाणे एकादश दश नवाष्ट
सप्त षट् पञ्च चत्वारस्त्रयो द्वावेक इत्युत्पद्यन्ते। एवमष्टसप्ततिः ७८। पूर्वैः सहैकोन-
सप्तत्यधिकं शतम् १६९। ततः प्रथमद्वितीयपञ्चमेषु स्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे
सञ्चार्यमाणे एकादश दश नवाष्ट सप्त षट् पञ्च चत्वारस्त्रयो द्वावेक उत्पद्यन्ते। एवं षट्षष्टिः
६६। पूर्वैः सह शतद्वयं पञ्चत्रिंशदधिकम् २३५। ततः प्रथमद्वितीयषष्ठस्थानेषु स्थिरलोष्ट-
चिह्नितेषु चतुर्थे सञ्चार्यमाणे दश नवाष्ट सप्त षट् पञ्च चत्वारस्त्रयो द्वावेक उत्पद्यन्ते।
एवं पञ्चपञ्चाशत् ५५। पूर्वैः सह शतद्वयं नवत्यधिकम् २९०। ततः प्रथमद्वितीयसप्तमेषु
स्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे सञ्चार्यमाणे नवाष्ट सप्त षट् पञ्च चत्वारस्त्रयो द्वावेकश्च
भवन्ति। एवं पञ्चचत्वारिंशत् ४५। पूर्वैः सह शतत्रयं पञ्चत्रिंशदधिकम् ३३५। ततः
प्रथमद्वितीयाष्टमेषु स्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे सञ्चार्यमाणे अष्ट सप्त षट् पञ्च
चत्वारस्त्रयो द्वावेकश्च भवन्ति। एवं षट्त्रिंशत् ३६। पूर्वैः सह शतत्रयमेकसप्तत्यधिकम्
३७१। ततः प्रथमद्वितीयनवमस्थानेषु स्थिरलोष्टचिह्नितेषु चतुर्थे सञ्चार्यमाणे सप्त षट्
पञ्च चत्वारस्त्रयो द्वावेकश्च भवन्ति। एवमष्टाविंशतिः २८। एवमनेन क्रमेणान्त्ये स्थानान्तरं
नीयमाने चतुर्थे सञ्चार्यमाणे एकविंशतिः २१। पुनरपि पञ्चदश १५। पुनरपि दश १०। पुनः
षट् ६। पुनस्त्रयः ३। पुनरेकः १। एवं चतुरशीतिः ८४। पूर्वैः सह चत्वारि शतानि पञ्च-
पञ्चाशदधिकानि ४५५। एवमनेन प्रकारेण यथा यथा प्रथमाद्या लोष्टका द्वितीयादिषु सञ्च-
रन्ति, तथा तथान्यानि त्रयोदशशतानि पञ्चषष्ट्यधिकानि १३६५ उत्पद्यन्ते। एकीकृता-
न्यष्टादशशतानि विंशत्यधिकानि भवन्ति १८२०। अस्माभिर्ग्रन्थगौरवभयात् सुप्रसिद्ध-
त्वाच्चोद्देशमात्र एव प्रदर्शितः। द्रव्यसंस्कारपाकवेधबोधधूपनादिकं नोक्तम्। एतत्तज्ज्ञेभ्य
उपलभ्य कार्यमिति।।२२।।
अथान्यान् गन्धयोगानाह—
द्वित्रीन्द्रियाष्टभागैरगुरुः पत्रं तुरुष्कशैलेयौ।
विषयाष्टपक्षदहनाः प्रियङ्गुमुस्तारसाः केशः॥२३॥
स्पृक्कात्वक्तगराणां मांस्याश्च कृतैकसप्तषड्भागाः।
सप्तर्तुवेदचन्द्रैर्मलयनखश्रीककुन्दुरुकाः ॥२४॥
सोलह कोष्ठ का पूर्ववत् एक चक्र बनाकर उसकी प्रथम पंक्ति में अगर दो भाग,
गन्धपत्र तीन भाग, सिह्लक पाँच भाग और शैलेय आठ भाग रक्खे। द्वितीय पंक्ति में
प्रियङ्गु पाँच भाग, मुस्ता आठ भाग, बोल दो भाग और शालीजातक ( हीवेर ) तीन
भाग रक्खे। तृतीय पंक्ति में स्पृक्का चार भाग, त्वक् एक भाग, तगर सात भाग और
मांसी छः भाग रक्खे तथा चतुर्थ पंक्ति में चन्दन सात भाग, नख छः भाग, श्रीवास चार
भाग और कुन्दरु एक भाग रक्खे।।२३-२४।।
द्वित्रीन्द्रियाष्टभागैरिति। अस्मिन् कच्छपुटे। अगुरुर्भागद्वयेन परिकल्प्यः। पत्रं गन्धपत्रं
त्रिभिर्भागैः। तुरुष्कं सिह्लरसमिन्द्रियसङ्ख्यैः पञ्चभिर्भागैः। शैलयोऽष्टभिः। विषयाष्टपक्षदहना
इति। प्रियङ्गुर्गन्धप्रियङ्गुर्विषयसङ्ख्यैः पञ्चभिर्भागैः। मुस्ता अष्टभिः। रसो बोलः स पक्षसंख्याभ्यां
द्वाभ्याम्। केशः शालीजातकः। स दहनभागैस्त्रिभिः।
स्पृक्कात्वक्तगराणामिति। स्पृक्का लता कृतसंख्यैश्चतुर्भागैः। त्वगेकेन भागेन।
तगरं सप्तभिः। मांसी षड्भिः। सप्तर्तुवेदचन्द्रैरिति। मलयं चन्दनं सप्तभिः। नखमृतुसंख्यैः
गन्धयुक्त्यध्यायः ३२१
षड्भिर्भागैः । श्रीकः श्रीवासको वेदसंख्यैश्चतुर्भिर्भागैः । कुन्दुरुकश्चन्द्रसंख्यैरेकेन भागेन देयः ।
एतेषां प्राग्वद्यथाभागक्रमेण षोडशकोष्ठके न्यासः कार्यः ।। २३-२४ ।।
| अ २ | प ३ | तु ५ | शै ८ |
| प्रि ५ | मु ८ | र २ | के ३ |
| स्पृ ४ | त्व १ | त ७ | मां ६ |
| म ७ | न ६ | श्री ४ | कु १ |
एवं न्यासे प्रदर्शिते प्रयोजनमाह—
षोडशके कच्छपुटे यथा तथा मिश्रिते चतुर्द्रव्ये ।
येऽत्राष्टादश भागास्तेऽस्मिन् गन्धादयो योगाः ।। २५ ।।
नखतगरतुरुष्कयुता जातीकर्पूरमृगकृतोद्बोधाः ।
गुडनखधूप्या गन्धाः कर्तव्याः सर्वतोभद्राः ।। २६ ।।
इस सोलह कोष्ठ वाले कच्छपुट में जिन-जिन चार द्रव्यों के भागों का योग करने
से अट्ठारह हो जायें, उतने प्रकार के गन्धयोग बनते हैं। इस तरह मिश्रित अट्ठारह भागों
में नख, तगर और सिह्लक सम भाग लेकर मिलावे। जायफल, कर्पूर और कस्तूरी सम
भाग लेकर उद्बोधन करे तथा गुड़ और नख का धूप दे। इस तरह करने से सर्वतोभद्र
नाम के अनेक प्रकार के गन्ध बन जायेंगे। इस चक्र में ऊर्ध्वाध, तिर्यक् या कोणाकृति
क्रम से भागों को जोड़ने से सब जगह अट्ठारह भाग होते हैं। अतः इन गन्धद्रव्यों का
नाम सर्वतोभद्र है ।। २५-२६ ।।
षोडशक इति । अस्मिन् षोडशके षोडशकोष्ठके कच्छपुटे यथा तथा येन तेन
प्रकारेण चतुर्द्रव्ये मिश्रिते एकीकृते । चतुर्भिर्द्रव्यैर्यथाभागपरिकल्पितैर्मिश्रीकृतैरत्र येऽष्टादश
भागा भवन्ति तेऽस्मिन् कच्छपुटे गन्धादय ऊर्ध्वाधःक्रमेण तिर्यग्वा चतुर्षु कोणेषु वा
मध्यमचतुष्कोणे वा कोणकोष्ठचतुष्टये वा प्राक्पंक्तौ वा मध्यमकोष्ठद्वये वान्त्यपंक्तौ।
मध्यमकोष्ठद्वये वा द्वितीयतृतीयपंक्तौ वाद्यन्तकोष्ठके वा येन तेन प्रकारेण। चतुर्षु मिश्रितेषु
अष्टादश भागा भवन्ति। तस्मिन् कच्छपुटे गन्धादयो योगा ये तेऽष्टादशभागा मिश्रीकृतास्ते
नखतगरतुरुष्कयुताः कार्याः। नखं शङ्खोद्भवं चर्म। तगरं प्रसिद्धम्। तुरुष्कं सिह्लरसम्।
एतैस्त्रिभिः सममात्रैर्युक्ताः कार्याः । तथा जातीकर्पूरमृगकृतोद्बोधाः, जाती जातीफलम्, कर्पूरः
प्रसिद्धः, मृगः कस्तूरिका—एतैस्त्रिभिः सममात्रैः कृत उद्बोधो येषां ते तथाभूताः । गुडनख-
धूप्याः, गुडेन नखेन च सममात्रेण च धूप्या धूपनीयाः । एवं गन्धाः सर्वतोभद्राः कर्तव्याः ।
तस्माद्यतस्ततो गृह्यमाणा अष्टादशभागा भवन्ति, अतः सर्वतोभद्रसंज्ञाः ।। २५-२६ ।।
अथ तैरेव पारिजातानाह—
जातीफलमृगकर्पूरबोधितैः ससहकारमधुसिक्तैः ।
बहवोऽत्र पारिजाताश्चतुर्भिरिच्छापरिगृहीतैः ।। २७ ।।
बृ० भ० द्वि०-२१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२२ बृहत्संहिता
पूर्वोक्त द्रव्यों में से नियमानुसार अपनी इच्छा से किन्हीं चार द्रव्यों को लेकर
जायफल, कस्तूरी और कर्पूर से उद्बोधित करके आम के रस से युक्त शहद से सिक्त
करने पर पारिजातपुष्पसदृश गन्ध वाले बहुत तरह के मुखवास बनते हैं।।२७।।
चतुर्भिर्मध्यैरिच्छापरिगृहीतैः स्वेच्छया गन्धानि द्रव्याणि सङ्गृहीतैः। जातीफलमृग-
कर्पूरबोधितैः, जातीफलं प्रसिद्धम्। मृगः कस्तूरिका। कर्पूरः प्रसिद्धः। एतैर्बोधितैः। ससहकार-
मधुसिक्तैः सहकारेण चूतरससंयुक्तेन मधुना माक्षिकेण सिक्तैश्चैवास्मिन् कच्छपुटे बहवः
पारिजाताः पारिजातसदृशगन्धा मुखवासा भवन्ति।।२७।।
अथाधुना स्नानान्याह—
सर्जरसश्रीवासकसमन्विता येऽत्र सर्वधूपास्तैः ।
श्रीसर्जरसवियुक्तैः स्नानानि सबालकत्वग्भिः ॥२८॥
पूर्वकथित कच्छपुट में सर्जरस ( राल ) और श्रीवासक से युत जितने धूप कहे
गये हैं, उनमें श्रीवास और सर्जरस न मिलाकर नेत्रबाला और दालचीनी मिला देने से
अनेक प्रकार के स्नान करने के लिये चूर्ण बन जायेंगे।।२८।।
अत्रास्मिन् कच्छपुटे ये ये धूपाः सर्जरसश्रीवासकसमन्वितास्ते सर्व एव निःशेषाः।
तैरेव सर्वैः प्रागुक्तैः श्रीसर्जरसवियुक्तैः। श्रीवासकेन रहितैः सबालकत्वग्भिः, बालकं हीवेरम्।
त्वक् प्रसिद्धा। सबालकत्वग्भिर्बालकत्वक्सहितैः स्नानानि स्नानीयानि चूर्णानि भवन्ति।।२८।।
अधुना चतुरशीतिकेसरगन्धानाह—
रोध्रोशीरनतागुरुमुस्तापत्रप्रियङ्गुवनपथ्याः ।
नवकोष्ठात् कच्छपुटाद् द्रव्यत्रितयं समुद्धृत्य ॥२९॥
चन्दनतुरुष्कभागौ शुक्त्यर्धं पादिका तु शतपुष्पा ।
कटुगुग्गुलगुडधूप्याः केसरगन्धाश्चतुरशीतिः ॥३०॥
लोध्र, खस, तगर, अगुरु, मुस्ता, गन्धपत्र, प्रियङ्गु, वन ( परिपेलव ), हरीतकी—
इन नव द्रव्यों को लेकर पूर्वकथित रीति से बनाया हुआ नव कोष्ठ के कच्छपुट से क्रम
से तीन-तीन द्रव्य इकट्ठा करके चन्दन एक भाग, सिल्लक एक भाग, शुक्ति आधा भाग
और सौंफ एक भाग का चतुर्थांश मिलाकर कटुका, गुग्गुल और गुड का धूप देने पर
चौरासी प्रकार के बकुलपुष्प के समान गन्ध वाले गन्धद्रव्य बनते हैं।।२९-३०।।
रोध्रोशीरेति । रोध्रः प्रसिद्धः। उशीरं प्रसिद्धम्। नतं तगरम्। अगुरुः प्रसिद्धः। मुस्ता
प्रसिद्धा। पत्रं गन्धपत्रम्। प्रियङ्गुः प्रसिद्धा। वनं परिपेलवम्। पथ्या हरीतकी। एषां प्राग्व-
द्यथाक्रमेण नवकोष्ठके न्यासः। अस्मान्नवकोष्ठात् कच्छपुटाद्यथाक्रमेण द्रव्यत्रितयं त्रीणि
द्रव्याणि समुद्धृत्य सङ्गृह्य ततश्चन्दनतुरुष्कभागौ योज्यौ। चन्दनं मलयजम्, तुरुष्कं सिह्ल-
रसम्। चन्दनस्यैको भागः, तुरुष्कस्यैको भागः। शुक्तिर्नखस्तदर्धम्। शतपुष्पा पादिका
CC-0. JK Sanskrit Academy, Jammmu. Digit
गन्धयुक्त्यध्यायः ३२३
| रो | उ | न | चतुर्भागेन योज्या। कटुहिङ्गुलगुंडधूप्याः कटुका प्रसिद्धा, हिङ्गुलं कृष्णागुरुः,
| अ | मु | प | गुड इक्षुविकारः। एतैर्धूप्या धूपनीयः। केसरगन्धा वकुलगन्धाः चतुरशी-
| व | प्रि | प | तिर्भवन्ति। एतदुक्तं भवति—नव द्रव्याणि भेदभिन्नानि यावत् क्रियन्ते
तावच्चतुरशीतिर्भेदा भवन्ति। तद्यथैकादीनां न्यासः। तद्यथा पूर्वेण पूर्वेण
गतेन युक्तमित्यनेन प्रकारेण। प्रथमस्थाने नव ९, द्वितीये षट्त्रिंशत्, तृतीये चतुरशीतिः।
एषां प्रदर्शनाय लोष्टकप्रस्तारः कार्यः॥२९-३०॥
अधुना दन्तकाष्ठविधानमाह—
सप्ताहं गोमूत्रे हरीतकीचूर्णसंयुते क्षिप्त्वा।
गन्धोदके च भूयो विनिक्षिपेद् दन्तकाष्ठानि ॥३१॥
एलात्वक्पत्राञ्जनमधुमरिचैर्नागपुष्पकुष्ठैश्च ।
गन्धाम्भः कर्तव्यं कञ्चित् कालं स्थितान्यस्मिन् ॥३२॥
जातीफलपत्रैलाकर्पूरैः कृतयमैकशिखिभागैः।
अवचूर्णितानि भानोर्मरीचिभिः शोषणीयानि ॥३३॥
हरड के चूर्ण से युत गोमूत्र में सात दिन तक दन्तकाष्ठों को भींगो कर उनको उसमें
से निकाल कर आगे कथित गन्धोदक में डाल दे। इलायची, दालचीनी, गन्धपत्र, सौवीर,
शहद, काली मिर्च, नागकेसर, कूठ-इन सबको सम भाग लेकर गन्धजल बनाकर फिर
उस गन्धजल में कुछ समय के लिये उन दन्तकाष्ठों को भींगोये रक्खे। इसके बाद जाय-
फल चार भाग, गन्धपत्र दो भाग, इलायची एक भाग और कर्पूर तीन भाग लेकर एक
जगह करके बारीक चूर्ण बनाकर उस चूर्ण को इन दन्तकाष्ठों से मसल कर दन्तकाष्ठों
को धूप में सुखा कर रक्खे॥३१-३३॥
सप्ताहमिति। दन्तकाष्ठानि दन्तकाष्ठलक्षणाध्यायोक्तानीति। हरीतकीचूर्णसंयुते गोमूत्रे
सप्ताहं सप्तदिनानि क्षिप्त्वा संस्थाप्य ततस्तस्मान्निःसार्य भूयः पुनर्गन्धोदके च गन्धपानीयमध्ये
सप्ताहादूर्ध्वं विनिक्षिपेत् स्थापयेत्।
तत्र गन्धोदकलक्षणमाह—एलात्वगिति। एला सूक्ष्मैला। त्वक् त्वचम्। पत्रं गन्ध-
पत्रम्। अञ्जनं सौवीरकम्। मधु माक्षिकम्। मरिचं प्रसिद्धम्। एतैस्तथा नागपुष्पं नाग-
केसरम्। कुष्ठं प्रसिद्धम्। एतैरपि सर्वतः सममात्रैर्गन्धाम्भो गन्धोदकं कर्तव्यं विधेयम्।
अस्मिन् गन्धाम्भसि कञ्चित् कालं स्थितानि निशार्धं स्थापनीयानीत्यर्थः।
जातीफलेति। जातीफलानां कृतसंख्याश्चत्वारो भागाः। पत्रं तस्य यमसंख्यौ द्वौ भागौ।
एला सूक्ष्मैला, अस्या एको भागः। कर्पूरो घनसारस्तस्य शिखिसंख्यास्त्रयो भागाः। एतै-
र्यथोक्तैर्भागैरेकीकृतचूर्णितैः सुसूक्ष्मैः। तानि दन्तकाष्ठावचूर्णितानि भानोरादित्यस्य मरीचिभिः
किरणैः शोषणीयानि॥३१-३३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२४ बृहत्संहिता
अथ तानि दन्तकाष्ठानि संसेवितानि कान् गुणान् कुर्वन्तीत्याह—
वर्णप्रसादं वदनस्य कान्तिं वैशद्यमास्यस्य सुगन्धितां च।
संसेवितुः श्रोत्रसुखां च वाचं कुर्वन्ति काष्ठान्यसकृद्द्ववानाम्॥३४॥
पूर्वसिद्ध दन्तकाष्ठों को सेवन करने से पुरुषों के प्रसन्न वर्ण, उत्तम मुख की कान्ति,
मुख शुद्ध और सुगन्धियुत तथा कानों को सुख देने वाली वाणी होती है॥३४॥
असकृद्वारद्वयं भवतीत्यसकृद्द्रवा दन्तास्तेषां काष्ठानि दन्तकाष्ठानीत्यर्थः। संसेवितुर्वर्ण-
प्रसादं वर्णस्य प्रसन्नतां सुकान्तिमित्यर्थः। वदनस्य मुखस्य कान्तिं कमनीयताम्। आस्यस्य
मुखस्य वैशद्यं निर्मलत्वं शुद्धताम्। सुगन्धितां सौगन्ध्यम्। श्रोत्रसुखां कर्णसुखप्रदां वाचं
गिरं कुर्वन्ति॥३४॥
अथ ताम्बूलगुणानाह—
कामं प्रदीपयति रूपमभिव्यनक्ति
सौभाग्यमावहति वक्त्रसुगन्धितां च।
ऊर्जं करोति कफजांश्च निहन्ति रोगां-
स्ताम्बूलमेवमपरांश्च गुणान् करोति॥३५॥
पान काम को प्रदीप्त करता है, शरीर की शोभा को बढ़ाता है, सौभाग्य करता है,
मुख को सुगन्धियुत करता है, बल को बढ़ाता है, कफ से उत्पन्न रोगों का नाश करता
है और अन्य गुण (कण्ठशुद्धि आदि) भी करता है॥३५॥
वर्णप्रसादं वदनस्य कान्तिमित्येतान् गुणांस्ताम्बूलस्य स्थितानेव इमानपरानन्यान्।
तद्यथा—कामं मन्मथं प्रदीपयति उत्पादयति। रूपं शरीरशोभामभिव्यनक्ति उत्पादयति।
सौभाग्यं वल्लभत्वमावहति करोति। वक्त्रस्य मुखस्य सुगन्धितां सौगन्ध्यं करोति। ऊर्जं
बलं करोति। कफजान् कफोत्थान् रोगान् गदान् निहन्ति नाशयति। तथाऽपरान् कण्ठशुद्धि-
मात्रपरिणाममलक्ष्यांश्र्च करोति॥३५॥
अन्यानप्याह—
युक्तेन चूर्णेन करोति रागं रागक्षयं पूगफलातिरिक्तम्।
चूर्णाधिकं वक्त्रविगन्धकारि पत्राधिकं साधु करोति गन्धम्॥३६॥
ठीक-ठीक (न अधिक न कम) चूना से युक्त पान राग करता है, अधिक सुपारी-
युत पान राग का नाश करता है, अधिक चूना से युत पान मुख को दुष्ट गन्धयुत करता
है और पत्ते अधिक हों तो सुगन्धियुत करता है॥३६॥
ताम्बूलं चूर्णेन रङ्गेण युक्तेन न चातिबहुना नात्यल्पेन रागं करोति पूगफलातिरिक्तम्।
पूगफलाधिकं रागस्य क्षयं विनाशं करोति। चूर्णेनाधिकमतिरिक्तं वक्त्रस्य मुखस्य विगन्धकारि
दुष्टगन्धं करोति। पत्राधिकं ताम्बूलं साधु शोभनं गन्धं करोति॥३६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
गन्धयुक्त्यध्यायः ३२५
पुनरपि विशेषमाह—
पत्राधिकं निशि हितं सफलं दिवा च
प्रोक्तान्यथाकरणमस्य विडम्बनैव ।
कक्कोलपूगलवलीफलपारिजातै-
रामोदितं मदमुदा मुदितं करोति ॥३७॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गन्धयुक्ति-
र्नाम सप्तसप्ततितमोऽध्यायः ॥७७॥
रात में पान खाना हो तो पत्ता और दिन में खाना हो तो सुपारी अधिक डालकर
खाना अच्छा होता है, इससे उलटा ( रात में सुपारी और दिन में पत्ता अधिक डालकर )
खाने से केवल उपहास होता है। कक्कोल, सुपारी, लवलीफल ( लवङ्गपुष्प—लवङ्ग
में फूल नहीं होता; अतः फूल के स्थान पर फल का ग्रहण करना चाहिये ) और जाती-
फल से युत पान खाने से मनुष्य को मद के हर्ष से प्रसन्नता की प्राप्ति होती है॥३७॥
इति 'विमला'हिन्दीटीकायां गन्धयुक्त्यध्यायः सप्तसप्ततितमः ॥७७॥
निशि रात्रौ ताम्बूलं पत्राधिकं हितम्। दिवा च दिवसे सफलं पूगफलाधिकम्। अस्य
ताम्बूलस्य प्रोक्तान्यथाकरणमुक्ताद्विपरीतकरणम्। यथा निशि फलाधिकं दिवसे पत्राधिकं
विडम्बनैषोपहासः। कक्कोलं प्रसिद्धम्। पूगफलानि प्रसिद्धानि। लवलीफलं लवङ्गपुष्पम्,
तस्य फलासम्भवात्। पारिजातं जातीफलम्। एतैरामोदितं युक्तं ताम्बूलं मदमुदा मदहर्षेण
मुदितं हृष्टं नरं करोति॥३७॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
गन्धयुक्तिर्नाम सप्तसप्ततितमोऽध्यायः ॥७७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ स्त्रीपुंससमायोगाध्यायः
अथ स्त्रीपुंससमायोगो व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
शस्त्रेण वेणीविनिगूहितेन विदूरथं स्वा महिषी जघान।
विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशिराजम् ॥१॥
एवं विरक्ता जनयन्ति दोषान् प्राणच्छिदोऽन्यैरनुकीर्तितैः किम्।
रक्ताविरक्ताः पुरुषैरतोऽर्थात् परीक्षतव्याः प्रमदाः प्रयत्नात् ॥२॥
विदूरथ राजा की अपनी स्त्री ने वेणी में छिपाये हुये शस्त्र से अपने पति ( विदूरथ )
को और काशिराज की विरक्त अपनी स्त्री ने विष मिले हुये नूपुर से अपने स्वामी ( काशिराज )
को मारा। इस तरह विरक्त स्त्रियाँ प्राणनाश करने वाले अनेक दोष उत्पन्न करती हैं, फिर
अन्य दोष कहने की तो बात ही क्या है? इसलिये पुरुषों को प्रयत्नपूर्वक स्त्रियों की
विरक्तता और अनुरक्तता की परीक्षा करनी चाहिये।।१-२।।
शस्त्रेणेति । विदूरथं राजानं स्वा महिषी आत्मीया भार्या विरक्ता वेणीविनिगूहितेन
केशकलापप्रच्छादितेन शस्त्रेणायुधेन विनिगूढेन जघान हतवती। किलेत्यागमसूचने।
काशिराजं देवी स्वभार्या विरक्ता विषप्रदिग्धेन विषलिप्तेन नूपुरेण मञ्जीरेण जघान। तद्विषं
पानादिषु क्षिप्तेत्यर्थः।
एवमिति । एवमनेन प्रकारेण विरक्ताः स्त्रियः प्राणच्छिदः प्राणान्तिकान् दोषान् जनयन्ति
उत्पादयन्ति। किमन्यैरपरैर्दोषैरनुकीर्तितैः कथितैः प्रयोजनम्। अतोऽस्मादेतस्मात् कारणात्
पुरुषैनरिन्द्रैः प्रमदाः स्त्रियः प्रयत्नात् सर्वथा रक्ता विरक्ताः परीक्षतव्या विचार्याः। तथा च
कामन्दकिः—
स्नातानुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः।
स्नातां स्वदत्तवसनां पश्येद् देवीं सभूषूणाम्।।
नहि देवीगृहं गच्छेदामीयात् सन्निवेशनात्।
अत्यन्तवल्लभोऽपीह विस्रब्धस्त्रीषु न व्रजेत्।।
देवी गृहगतोद्भ्रान्ता भद्रसेनं ममार यत्।
मातुः शय्यान्तरासीनं कारूपं चौरसं सुतम्।।
लाजान् विषेण संयोज्य मधुनेति विलोभितम्।
देवी तु काशिराजेन्द्रं निजघान रहोगतम्।।
विषाक्तेन च सौवीरं मेखलामणिना नृपम्।
नूपुरेण च वैवत्र्यं तद्रूपं दर्पणेन च।।
वेण्यां शस्त्रं समादाय तथैव च विदूरथम्।। इति।।१-२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
स्त्रीपुंससमायोगाध्यायः ३२७
अथानुरक्ताया लक्षणमाह—
स्नेहं मनोभवकृतं कथयन्ति भावा
नाभीभुजस्तनविभूषणदर्शनानि ।
वस्त्राभिसंयमनकेशविमोक्षणानि
भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि ॥३॥
अनुरक्त स्त्रियों के समस्त भाव ( शरीर कांपना, मुख सूखना, मुख पीला पड़ जाना
आदि ) कामजनित स्नेह को कहते हैं। वह अपनी नाभि, भुज, छाती और भूषण दिखाती
है तथा वस्त्र पहनना, केश बाँधना, बालों का खोलना, भौंहें चढ़ाकर कम्पित कटाक्ष से
देखना—ये सब चिह्न प्रकाशित करती हैं॥३॥
अन्तरावस्थासूचकाश्चेष्टाविशेषा भावाः। शरीरकम्पो मुखशोषः पाण्डुवक्त्रता चेत्यादिकाः।
मनोभवकृतं कामजनितं स्नेहं प्रीतिं कथयन्ति व्यञ्जयन्ति। तथा नाभीभुजस्तनविभूषणदर्शनानि
मनोभवकृतं स्नेहं कथयन्ति। नाभी उदरमध्यम्। भुजौ बाहू। स्तनौ कुचौ। भूषणान्यलङ्क-
रणानि। एतेषां दर्शनानि। वल्लभं दृष्ट्वा अनुरक्ता स्त्री एतानि प्रकटीकरोति। तथा वस्त्राणा-
मम्बराणामभिसंयमनं नियमनम्। केशानां केशवेण्या विमोक्षणं मुञ्चनम्। एतान्यपि मनोभवकृतं
स्नेहं कथयन्ति। तथा भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि मनोभवकृतं स्नेहं कथयन्ति। कटाक्षो
नयनविभ्रमः। भ्रूविक्षेपेण भ्रूचालनेन यः कम्पश्चालनं तेन यत्कटाक्षनिरीक्षणम्, तानि भ्रूक्षेप-
कम्पितकटाक्षनिरीक्षणान्यपि। तथा च कश्यपः—
अनुरागस्थिता रक्ता विरक्ता वेशमानिनी।
मनोदृष्टिनिबन्धेन हृदयेनाकुलीकृता।।
आकारलिङ्गभेदैश्च ज्ञायते याऽनुरागिणी।
विक्षिप्तमन्यचित्तत्वं गुरुगेहेऽप्यगोपनम्।।
आह्लादनं च शब्देन यस्याः सा रागरञ्जिता।
अतोऽपरा तु या नारी सा विरक्तेति कीर्तिता।। इति।।३।।
अथान्यदपि रक्तालक्षणमाह—
उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं
गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्पसम्प्राथर्ना ।
बालालिङ्गनचुम्बनान्यभिमुखे सख्याः समालोकनं
दृक्पातश्च पराङ्मुखे गुणकथा कर्णस्य कण्डूयनम् ॥४॥
इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति ।
विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन ॥५॥
तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम् ।
स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथ चुम्बाप्रथमाभियोगः ॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३२८ बृहत्संहिता
बहुत जोर से खखारना, शब्द के साथ हंसना, प्रिय के शय्या और आसन के
समीप जाना, अपने अंगों का शब्द करना, जम्भाई लेना, छोटी-सी वस्तु को प्रिय से
माँगना, प्रिय के सम्मुख में बालकों का आलिङ्गन करके चूमना, प्रिय के सामने सखी
को देखना, दूसरी तरफ देखते हुये प्रिय को देखना, प्रिय के गुणों का बखान करना,
कान खुजाना—ये सब अनुरक्त स्त्री की चेष्टायें हैं। वह अनुरक्त स्त्री प्रिय वचन बोलती
है, प्रिय को अपना धन देती है, देखकर प्रसन्न होती है और क्रोधरहित होकर गुणों को
कहकर प्रिय के दोषों को छिपाती है। प्रिय के मित्रों की पूजा, शत्रुओं से द्वेष और प्रिय
से किये हुये कार्यों का स्मरण करती है। प्रिय के परदेश जाने से दुःखी होती है। स्तन-
स्पर्श, अधरपान, आलिङ्गन और चुम्बन करने देती है। ये सब अनुरक्त स्त्रियों की चेष्टायें ,
हैं॥४-६॥
उच्चैः ष्ठीवनमिति। एवंविधां स्त्रियमनुरक्तचेष्टां विन्द्याद् जानीयात्। कीदृशीम्?
पुरुषं दृष्ट्वा उच्चैः कृत्वा ष्ठीवनमास्यशब्दं करोति। उत्कटं सशब्दं प्रहसितम्। शय्याया-
मास्तरणे आसने योत्सर्पणं श्लिष्टत्वं समीपागमनं करोति। गात्राणां शरीरावयवानामास्फोटनं
शब्दकरणं जृम्भणमास्यविहरणं चैतानि करोति। तथा सुलभस्य अल्पस्य च स्तोकमात्रस्य
द्रव्यस्य सम्प्रार्थनां याञ्ज्ञां करोति। अभिमुखे वल्लभसम्मुखे बालालिङ्गनं चुम्बनानि करोति।
बालस्य शिशोरालिङ्गनं परिष्वज्य चुम्बनं वक्त्रसंयोगं च करोति। सख्या आल्याः सङ्केतज्ञायाः
समालोकनं मुखप्रेक्षणं च करोति। दृक्पातश्च पराङ्मुखे तस्मिन् वल्लभे पराङ्मुखेऽन्यत्र
प्रेक्षमाणे दृक्पातस्तदवलोकनं तदीयानां गुणकथानां गुणान्वितानां कथनानामनुकीर्तनं
कथनम्, कर्णस्य श्रोत्रस्य च कण्डूयनं करोति।
इमां चेति। इमामेवंविधामुक्तलक्षणामनुरक्तचेष्टां विन्द्याद् जानीयात्। अनुरक्ता चेष्टा
कायपरिस्पन्दो यस्यास्ताम्। सा च प्रियाणि प्रियवचनानि वक्ति सम्भाषते। स्वधनमात्मीयवित्तं
च ददाति प्रयच्छति। तं पतिं विलोक्य दृष्ट्वा संहृष्यति हर्षयति। वीतरोषा विगतक्रोधा
च भवति। तदीयगुणकीर्तनेन तच्चरितकथनेन दोषांश्च तत्कृते अपराधांश्च प्रमाष्टि विनाशयति।
तन्मित्रपूजेति। तदीयस्य मित्रस्य सुहृदः पूजामर्चां करोति। तदरेः शत्रोर्द्विष्टत्वं द्विष्टतां
करोति। कृतस्मृतिस्तेन यत्कृतं कर्म तत् स्मरति। उपकृतं कीर्तयति। प्रोषिते तस्मिन्
परदेशिनि दौर्मनस्यं दुःखितचित्तता। स्तनौष्ठदानानि स्तनदानं स्तनस्पर्शः ओष्ठदानमधर-
पानदानम्। उपगूहनमालिङ्गनम्। चुम्बनं वक्त्रसंयोगः। एवंविधः प्रथममादौ अभिसंयोगे आक्षेपे
रक्ताया रतेर्भवति। तथा च काश्यपः—
दृष्टिर्निक्षिपते तत्र मनसाऽपि विचिन्तयेत्।
मूलैर्न रक्षते सा तु चित्रं चित्रपटे यथा।।
अकस्मात् पुरतो भूत्वा कञ्चिदाश्लिषति भृशम्।
ऊरू नितम्बे नाभी च भूषणानि पयोधरौ।।
करजैरूत्किरेन्नाभिमनुरागेण रञ्जिताम्।
जृम्भते ष्ठीवतेऽत्यर्थं वाग्दुष्टानि ददाति सा।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
कुमारालिङ्गनं चैव दशनैरधरं दशेत्।
एभिर्विकारैर्विज्ञेया मदनार्ता तु कन्यका।।
दर्शनाद्धृष्यते या तु मित्रपक्षं च पूजयेत्।
स्मितं पराङ्मुखं पश्येद् गुणांश्चैवानुकीर्तयेत्।। इति।।४-६।।
अथ विरक्ताया लक्षणमाह—
विरक्तचेष्टा भ्रुकुटीमुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च।
असम्भ्रमो दुष्परितोषता च तद्विष्टमैत्री परुषं च वाक्यम् ॥७॥
स्पृष्ट्वाऽथवालोक्य धुनोति गात्रं करोति गर्वं न रुणद्धि यान्तम्।
चुम्बाविरामे वदनं प्रमार्ष्टि पश्चात्समुत्तिष्ठति पूर्वसुप्ता ॥८॥
भ्रुकुटी चढ़ाना, पति की तरफ से मुँह फेर लेना, पति के किये हुये कार्यों को भूल
जाना, पति का अनादर करना, बड़ी कठिनता से सन्तुष्ट होना, पति के शत्रु से मैत्री करना,
कठोर वचन कहना, पति को छूकर या देखकर शरीर को कंपाना, अभिमान करना, जाने
के लिये तैयार पति को नहीं रोकना, पति को चूमने पर मुख पोंछ लेना, पति के सोने से
पहले सोना और बाद में जागना—ये सब विरक्त स्त्री की चेष्टायें हैं।।७-८।।
विरक्तचेष्टा विरागचेष्टा यस्यास्तस्या इदं लक्षणम्। भ्रुकुटीमुखत्वं दूरस्थं पतिं दृष्ट्वा
मुखे भ्रुकुटिविकृतिं करोति। पराङ्मुखत्वं तदवलोकनादन्यप्रेक्षणम्। कृतविस्मृतिः, तेन
यत्कृतमुपकारादिकं तस्य विस्मृतिर्विस्मरणम्। दर्शनासम्भ्रमोऽनादरः। दुष्परितोषता दुःखेन
परितोषः। प्रभूतार्थदानेनापि परितुष्टा न भवति। तद्द्विष्टेन तच्छत्रुणा सह मैत्री प्रीतिः सुहृद्भावः।
वाक्यं वचनं परुषमनभिमतं ब्रवीति जल्पति।
स्पृष्ट्वाऽथवेति । अथवा तत्पुरुषं स्पृष्ट्वा विलोक्य संवीक्ष्य गात्रं शरीरं धुनोति चालयति।
गर्वं माहात्म्यं च करोति। तं प्रतिकुपितां यान्तं गच्छन्तं न रुणद्धि न रोधयति। चुम्बा-
विरामे वक्त्रसंयोगान्ते वदनमास्यं प्रमार्ष्टि प्रमार्जयति। पूर्वसुप्ता प्रथममेव शयने सुप्ता
पश्चादनन्तरं पुरुषे समुत्थिते समुत्तिष्ठति। तथा च कश्यपः—
दृष्ट्वा न दृश्यते मूढा स्पृष्ट्वा दुर्वचनं वदेत्।
रतिकालावगूढा तु चुम्बिनी मार्जयेन्मुखम्।।
सुप्ता विबुध्यते पश्चाच्छयने तु पराङ्मुखी।
विरक्ता सा स्मृता नारी वर्जनीया प्रयत्नतः।। इति।।७-८।।
अथैतासां कुलजनविनाशायैता दूत्यो भवन्ति ताभ्यः संरक्षणीया इत्याह—
भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका रजिका।
मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः ॥९॥
कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन।
ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्ध्यर्थम् ॥१०॥
३३० बृहत्संहिता
स्त्रियों के परपुरुष से सम्बन्ध कराने में भिखारिन, संन्यासिन, दासी, धाई, धोबिन,
मालिन, दुष्ट स्वभाव वाली स्त्री, सखी, नायन—ये दूती होती हैं। ये दूतियाँ कुल के
मनुष्यों का नाश करने के कारण हैं। इसलिये प्रयत्नपूर्वक वंश, यश और मान बढ़ाने के
लिये उन दूतियों से स्त्रियों को बचाना चाहिये॥९-१०॥
भिक्षुणिकेति । भिक्षुणिका प्रसिद्धा व्रतस्था रक्तपटा स्त्री। प्रव्रजिता तपस्विनी स्त्री।
दासी कर्मकरी। धात्री स्तनदायिनी। कुमारिका कुमारी। रजिका वस्त्ररजकी। मालाकारी
पुष्पप्रदायिका। दुष्टाङ्गना सदोषा स्वगृहस्थिता दुःशीला स्त्री। सखी आली। नापिती नापितस्त्री।
एताः स्त्रीणां परपुरुषसम्बन्धे दूत्यो भवन्ति।
कुलजनविनाशहेतुरिति । यस्मादेता दूतयः कुलजनस्य निरवद्यवंशसम्भूतस्य
विनाशने शीलविध्वंसने हेतुः कारणं भवन्ति, अतोऽस्माद्धेतोस्ताभ्यो वंशस्य कुलस्य
यशसः कीर्तेर्मान