बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
स्त्रीप्रशंसाध्यायः २९१
प्रयत्न करते हुये, किये न किये सैकड़ों व्यापारों की शाखाओं से व्याकुल तन्त्रों को
विचार करते हुये, मन्त्रियों द्वारा कथित नीति का सेवन करते हुये, पुत्र आदि से भी
शङ्कित रहते हुये, दुःखार्णव में निमग्न राजाओं के लिये स्त्री का आलिङ्गन मात्र थोड़ा-
सा ही सुख होता है॥३॥
कान्तासमालिङ्गनं वल्लभापरिष्वजनं सुखलवः सुखलेशः। केषाम्? राज्ञाम्। कीदृशा-
नाम्? आकारं विनिगूहताम्, आकारोऽन्तश्चेतसि सुखभयहर्षादिरूपविकारः। तथाभूतमाकारं
विनिगूहतां प्रच्छादयताम्। तथा रिपुबलं शत्रुबलं जेतुमभिभवितुं समुत्तिष्ठतां प्रयत्नं कुर्वताम्।
तन्त्रं चिन्तयतां ध्यायताम्। कीदृशं तन्त्रम्? कृताकृतशतव्यापारशाखाकुलम्, व्यापाराणां
कर्मणां याः शाखाः विस्तारः, कृताश्च अकृताश्च कृताकृताः। कृताकृताश्च शतशो व्यापाराः
कर्माणि त एव शाखाः। ताभिराकुलं व्याप्तम्। किलानायकन्त्रं शतशाखाकुलं भवति।
मन्त्रिप्रोक्तनिषेविणाम्, मन्त्रिभिः सचिवैर्यत् प्रोक्तं कथितं नीतिशास्त्रविहितं नियमं तन्निषेविणां
तत् कुर्वतां मन्त्रिमतानुसारेण व्यवहरताम्। सर्वतः सर्वस्मात् पुत्रादप्याशङ्किनामाशाङ्कमानानां
दुःखाम्भोनिधिवर्तिनां कान्तासमालिङ्गनं सुखलव इति॥३॥
अन्यदप्याह—
श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं
न रत्नं स्त्रीभ्योऽन्यत् क्वचिदपि कृतं लोकपतिना।
तदर्थं धर्मार्थौ सुतविषयसौख्यानि च ततो
गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥४॥
संसार में कहीं पर भी ब्रह्मा ने स्त्रियों के अतिरिक्त ऐसा कोई रत्न नहीं बनाया,
जिसके सुनने, स्पर्श करने, देखने या स्मरण करने से ही आनन्द प्राप्त हो सके। लोग
स्त्री के लिये धर्म और अर्थ की सेवा करते हैं। स्त्री के द्वारा पुत्रसुख तथा विषयसुख
मिलता है तथा स्त्री ही गृह में लक्ष्मी होती है; अतः मान तथा विभवों के द्वारा स्त्री का
सदा आदर करना चाहिये॥४॥
लोकपतिना प्रजापतिना स्त्रीभ्यो योषिद्भ्योऽन्यत् परं द्वितीयं न क्वचिदपि रत्नं कृतम्।
केवलमेव स्त्रीरत्नमित्यर्थः। स्त्रीरत्नं कीदृशम्? श्रुतं नाममात्रेण श्रुतमप्याह्लादकरम्। दृष्टम-
वलोकितम्। स्पृष्टमवयवैकदेशेन। स्मृतं चिन्तितमपि नृणां पुंसामाह्लादजननं सुखकरम्।
आह्लादं करोतीत्यर्थः। तदर्थं धर्मार्थौ धर्मश्चार्थश्च तौ धर्मार्थौ तदर्थं क्रियेते। ततस्तस्मात्
सकाशात् सुतविषयसौख्यानि भवन्ति। सुताः पुत्राः। विषयसौख्यानि इन्द्रियसौख्यानि च
भवन्ति। अबलाः स्त्रियो गृहे वेश्मनि लक्ष्म्यः श्रियः। अतो मानविभवैः, मानेन पूजया,
विभवेनैश्वर्येण। एतैर्बहुविधैः सततं सर्वकालं मान्याः पूज्याः॥४॥
अन्यदप्याह—
येऽप्यङ्गनानां प्रवदन्ति दोषान् वैराग्यमार्गेण गुणान् विहाय।
ते दुर्जना मे मनसो वितर्कः सद्भाववाक्यानि न तानि तेषाम् ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२९२ बृहत्संहिता
जो कोई भी (व्यक्ति) वैराग्य मार्ग के द्वारा स्त्रियों में गुणों को छोड़कर दोषों का
वर्णन करते हैं, वे दुर्जन हैं, ऐसा मेरा अनुमान है। इसलिये उन दुर्जनों के वचन प्रामाणिक
नहीं हो सकते हैं॥५॥
ये नरा अङ्गनानां स्त्रीणां गुणान् विहाय गुणान् विद्यमानान् त्यक्त्वा वैराग्यमार्गेण
विरागद्वारेण दोषान् प्रवदन्ति कथयन्ति, ते दुर्जना इति मे मनसश्चित्तस्य वितर्को निश्चयः।
तेषां दुर्जनानां न तानि सद्भाववाक्यानि परमार्थवचांसि भवन्ति॥५॥
अन्यदपि प्रशंसार्थमाह—
प्रब्रूत सत्यं कतरोऽङ्गनानां दोषोऽस्ति यो नाचरितो मनुष्यैः।
धाष्ट्र्येन पुम्भिः प्रमदा निरस्ता गुणाधिकास्ता मनुनात्र चोक्तम् ॥६॥
स्त्रियों में ऐसा कौन दोष है, जिसको पुरुषों ने पहले नहीं किया अर्थात् पहले पुरुषों
ने सभी दोष किये, तत्पश्चात् उन्हीं से स्त्रियों ने सीखे। पुरुषों ने अपनी धृष्टता से स्त्रियों
को जीत लिया; क्योंकि पुरुषों से स्त्रियों में अधिक गुण होते हैं। ऐसा ही मनु द्वारा भी
कहा गया है॥६॥
अङ्गनानां स्त्रीणां कतरो दोषोऽस्ति? कः प्रधानो दोषो विद्यते? य आदावेव मनुष्यैः
पुरुषैर्नाचरितो नानुष्ठितः। एतत् सत्यं परमार्थं यूयं विरक्ता अपि प्रब्रूत कथयत। असौ
दोषः परदारागमनादिकः प्रथमं पुरुषैराचरितः पश्चात् तास्तेभ्यः सकाशाच्छिक्षिताः। पुम्भि-
र्मनुष्यैर्धाष्ट्र्येन धृष्टत्वेन निर्लज्जतया प्रमदाः स्त्रियो निरस्ता दोषमार्गेण क्षिप्ताः। यतस्ताश्च
स्त्रियः पुरुषाणां सकाशाद् गुणाधिकाः। अत्रास्मिन्नर्थे मनुना शास्त्रकर्त्रा तासामेव प्राधान्यं
चोक्तं कथितम्॥६॥
ततश्चाह—
सोमस्तासामदाच्छौचं गन्धर्वः शिक्षितां गिरम्।
अग्निश्च सर्वभक्षित्त्वं तस्मान्निष्कसमाः स्त्रियः ॥७॥
चन्द्रमा ने पवित्रता, गन्धर्वों ने शिक्षित वचन और अग्नि ने सर्वभक्षित्त्व स्त्रियों को
दिया है, इसलिये स्त्रियाँ सुवर्णतुल्य होती हैं॥७॥
तासां स्त्रीणां सोमश्चन्द्रमाः शौचं शुद्धिमदादयच्छत्। गन्धर्वो देवयोनिः, शिक्षितां
श्रेष्ठामाह्लादकरीं गिरं वाचमदात्। अग्निर्हुताशनः सर्वभक्षित्त्वं सर्वाशित्वमदात्। तस्माद्धेतोः
स्त्रियो निष्कसमाः सुवर्णतुल्याः। सर्ववर्णगामिन्योऽपि शुद्धा भवन्तीत्यर्थः॥७॥
अन्यत् प्राधान्यमाह—
ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः।
अजाश्वा मुखतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः ॥८॥
ब्राह्मण पाँव से, गौ पृष्ठ से और बकरा तथा घोड़ा मुख से पवित्र होता है, किन्तु
स्त्रियाँ अपने समस्त अंगों से पवित्र होती हैं॥८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
स्त्रीप्रशंसाध्यायः २९३
ब्राह्मणा द्विजाः पादतो मेध्याः पादाभ्यां शुद्धाः पवित्राः। गावः सुरभयः पृष्ठभागान्मेध्याः।
अजाश्छागाः। अश्वास्तुरगाः। एतेऽजाश्वा मुखतो मुखाद् वक्त्राद् मेध्याः। स्त्रियो योषितः
सर्वतः सर्वाङ्गेभ्यो मेध्याः पवित्राः॥८॥
अन्यदप्याह—
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित्।
मासि मासि रजो ह्यासाम दुष्कृतान्यपकर्षति ॥९॥
स्त्रियों के समान कोई अन्य वस्तु पवित्र नहीं है, कभी भी वे दोषयुक्त नहीं होती;
क्योंकि प्रत्येक मास में स्रवित होने वाला उनका रज उनके पापों का हरण कर लेता
है॥९॥
स्त्रियो योषितः। अतुलमसमं परं पवित्रं पावनम्। एताः स्त्रियो न कर्हिचिन्न कदाचिद्
दुष्यन्ति दुष्टतां यान्ति। स्त्रीणां मासि मासि प्रतिमासं रजो रक्तं समुद्भूतं दुष्कृतानि दुष्टक-
र्माणि। अपकर्षति विनाशयति॥९॥
अन्यदप्याह—
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ।
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥१०॥
असम्मानित कुलस्त्रियाँ जिन गृहों को शाप देती हैं, कृत्या से हत की तरह चारो
तरफ से वे गृह नष्ट हो जाते हैं॥१०॥
जामयो भर्तृभगिन्यः कुलस्त्रियश्च ताश्चाप्रतिपूजिता असम्मानिता यानि गेहानि वेश्मानि
शपन्ति। अतिशमं याताः क्रोशन्ते तानि च कृत्याहतानीव कृत्यया हतानि विनाशितानि
यथा तथा समन्ततः समन्ताद्विनश्यन्ति विनाशं यान्ति॥१०॥
अन्यदप्याह—
जाया वा स्याज्जनित्री वा सम्भवः स्त्रीकृतो नृणाम् ।
हे कृतघ्नास्तयोर्निन्दां कुर्वतां वः कुतः शुभम् ॥११॥
मनुष्यों की उत्पत्ति स्त्री से ही होती है अर्थात् माता से साक्षात् और भार्या से
पुत्ररूप धारण करके मनुष्य की उत्पत्ति होती है। इसलिये जाया हो या जनित्री (माता)
हो, हे कृतघ्न! उन दोनों (जाया और जनित्री) की निन्दा करने से तुम्हारा मंगल कहाँ
से हो सकता है?॥११॥
जाया भार्या। तज्जाया भवति यस्यां जायते पुनरिति श्रुतिः। जाया स्त्री माता। स्त्रीकृतः
सम्भवः। अङ्गात् सम्भवति हृदयादभिजायते। आत्मा वै पुत्रनामासि त्वं जीव शरदां
शतमिति श्रुतिः। पुत्ररूपेणात्मन एवोत्पत्तिः। जाया वा स्याद् भवेत्। जनित्री माता वा
भवेत्। नृणां सर्वथा स्त्रीकृतः सम्भव उत्पत्तिः। हे कृतघ्ना इति। हे दुर्जनानामामन्त्रणम्।
CC-0. JK Sanskrit Academy, Jammmụ. Digitized by S3 Foundation USA
२९४ बृहत्संहिता
तयोर्जायाजनित्र्योर्निन्दां कुर्वतां वो युष्माकं कुतः कस्माच्छुभं श्रेयो भवति।।११।।
अन्यदप्याह—
दम्पत्योर्व्युत्क्रमे दोषः समः शास्त्रे प्रतिष्ठितः।
नरा न तमवेक्षन्ते तेनात्र वरमङ्गनाः ॥१२॥
स्त्री-पुरुष दोनों को व्युत्क्रम में ( परस्त्री-गमन में पुरुष को तथा परपुरुष-गमन में
स्त्री को ) समान दोष धर्मशास्त्र में कहा गया है; परन्तु पुरुष उस दोष को नहीं देखते
तथा स्त्री देखती है। इसलिये पुरुषों से स्त्रियाँ श्रेष्ठ हैं।।१२।।
दम्पत्योर्जायापत्योर्व्युत्क्रमे सति। व्युत्क्रमोऽनियमः। नरस्य परस्त्रीगमनं स्त्रियाः पर-
पुरुषगमनं व्युत्क्रमः। तस्मिन् यो दोषो दुष्टता स शास्त्रे धर्मशास्त्रादौ समस्तुल्यः प्रतिष्ठित
उक्तः। यथा—न हीदृशमनायुष्यं यथा परस्त्रीनिषेवणमित्यादि। सामान्यमुभयोरपि। नराः
पुनः स्वतं दोषं परस्त्रीगमनादिकं न समवेक्षन्ते विचारयन्ति, स्त्रियः पुनरवेक्षन्ते। तेन
कारणेनात्रास्मिन् निर्धारणेऽङ्गनाः स्त्रियो वरं श्रेष्ठं प्रधानाङ्गमित्यर्थः।।१२।।
अथ दारातिक्रमणे प्रायश्चित्तमाह—
बहिलोंम्ना तु षण्मासान् वेष्टितः खरचर्मणा।
दारातिक्रमणे भिक्षां देहीत्युक्त्वा विशुध्यति ॥१३॥
जो पुरुष अपनी स्त्री को छोड़कर परस्त्री-गमन करता है, वह बाहर की तरफ किये
हुये रोम वाले गदहे के चमड़े से अपने शरीर को ढ़क कर छः मास तक 'भिक्षां देहि'
यह कहकर भीख माँगने से शुद्ध होता है।।१३।।
दाराणामतिक्रमणं दारातिक्रमणमन्यस्त्रीनिषेवणम्, तस्मिन् दारातिक्रमणे बहिलोंम्ना
खरचर्मणा गर्दभत्वचा बाह्ये लोमानि कृतानि यस्मिन् तेन षण्मासान् वेष्टितः प्रावृतशरीरः
प्रतिगृहं भिक्षां देहीति भिक्षां मे प्रयच्छेत्युक्त्वा सम्भाष्य ततो विशुध्यति शुद्धिमायाति।।१३।।
अन्यदपि स्त्रीप्रशंसार्थमाह—
न शतेनापि वर्षाणामपैति मदनाशयः।
तत्र शक्त्या निवर्तन्ते नरा धैर्येण योषितः ॥१४॥
सौ वर्ष व्यतीत होने पर भी मनुष्य की विषय-वासना नष्ट नहीं होती; किन्तु शारीरिक
शक्ति कम हो जाने पर ही पुरुष उससे निवृत्त होता है; लेकिन स्त्री धैर्य से निवृत्त होती
है।।१४।।
मदनः कामश्चेति। तस्मिन्निति। तत्र मदनाशयः कामवासनाभिः संस्कारोऽभिलाषः
पुरुषाणां शतेनापि वर्षाणामब्दानां नापैति हृदयान्नापसर्पति। यथा स्त्रिया सह संयोगः
पूर्वमासीत् तथा साम्प्रतं यदि न भवति, तदा पुरुषाणां वर्षशतेनापि मदनाशयो नापैति,
किन्तु तत्र तस्मिन् कामोपभोगविषये नराः पुरुषा अशक्त्या असामर्थ्येन निवर्तन्ते निवृत्तिं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
स्त्रीप्रशंसाध्यायः २९५
कुर्वन्ति। योषितः स्त्रियः पुनर्धैर्येण धृष्टत्वेनैनं निवर्तन्ते। अनेन स्त्रीणामभिलाषशीलताप्राधान्यं
प्रदर्शितं भवति।।१४।।
अन्यदप्याह—
अहो धाष्ट्र्यमसाधूनां निन्दतामनघाः स्त्रियः।
मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पताम् ।।१५।।
पवित्र स्त्रियों की निन्दा करते हुये दुर्जनों की धृष्टता, चोरी करते हुये चोर का 'चोर
ठहर' ऐसा कहने की तरह ही है।।१५।।
असाधूनां दुर्जनानामनघा अपापाः स्त्रियो योषितः। निन्दां कुत्सां कुर्वतामहो धाष्ट्र्यमहो
धीरता। अहो आश्चर्यम्। धाष्ट्र्यं निर्लज्जता इव सा दृश्यते। यथा चौराणां तस्कराणां
मुष्णतां दोषं कुर्वतां यस्यैव मुष्णन्ति तस्यैव पलायमानस्य तिष्ठ चौरेति जल्पतां भाष्यतां
धाष्ट्र्यं तद्वदिति।।१५।।
एवं धर्मशास्त्रोक्तां प्रशंस
२९६ बृहत्संहिता
यस्यास्ति विद्यते। पुरुषो निःस्वोऽपि निर्धनोऽपि साम्प्रत्यवनीश्वरोऽसौ, अहमेव मन्ये यथाऽसौ
राजा। केचित् सम्प्रत्यवनीश्वरोऽसाविति पठन्ति। यथा सम्प्रति तस्मिन्नेव काले स राजा।
अपिशब्दः सम्भावनायाम्। ईश्वरस्य का गणना। यस्माद्राज्यस्यैतावत् सारः श्रेष्ठम्। अशनं
भोजनमङ्गनाश्च स्त्रियः शेषमन्यद्वस्त्रादिकं तृष्णानलस्य तृष्णाग्नेरुद्दीपने ज्वलने दारु काष्ठ-
निचयः। यतस्तेनाग्निरधिकतरं प्रज्वलति।।१७।।
अन्यत् प्रशंसार्थमाह—
कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम्।
उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥१८॥
मन्द, सुन्दर, कोमल और पीड़ित शब्द करती हुई, ऊँचे स्तनों से युत नवयौवना
स्त्री को आलिङ्गन करने से जो सुख प्राप्त होता है, वह ब्रह्मलोक में भी प्राप्त नहीं
होता—ऐसा मेरा मत है।।१८।।
कामिनीं समुद्गतमन्मथां तां च प्रथमयौवनान्वितामभिनवयौवनोपेताम्। मन्दमल्पं
वल्गु रम्यं मृदु मधुरं पीडितं स्तब्धम्। शनैरालिङ्गिता सती मन्दवल्गुमृदुपीडितं स्वनं
शब्दं कुर्वतीम्। उत्स्तनीमुद्गतस्तनीमुद्भिद्यमानकुचाम्। एवंविधां स्त्रियं योषितं समवलम्ब्य
परिष्वज्य या रतिर्भवति सुखं यादृशं सञ्जायते सा धातृभवने प्रजापतिगृहे ब्रह्मलोके
नास्ति न विद्यत इति मम मतिर्बुद्धिः। एवमहं मन्ये इति। महता क्लेशेन तपसा ज्ञानेन
योगादिना वा ब्रह्मलोकमासाद्य तत्र किमनुभूयते।।१८।।
इत्येतदाह—
तत्र देवमुनिसिद्धचारणैर्मान्यमानपितृसेव्यसेवनात्।
ब्रूत धातृभवनेऽस्ति किं सुखं यद्रहः समवलम्ब्य न स्त्रियम् ॥१९॥
देवता, मुनि, सिद्ध और चारण (नट, नर्तक, गीतज्ञ और वाद्यज्ञ) के द्वारा पूजनीय,
पूजक और सेव्यों की उपासना के अतिरिक्त ब्रह्मलोक में और कौन-सा सुख है, जो
एकान्त में स्त्री को आलिङ्गन करने से नहीं प्राप्त होता है।।१९।।
तत्र तस्मिन् धातृभवने ब्रह्मलोके। देवैः सुरैः। मुनिभिः। सिद्धैर्विद्याराधनेन ये सिद्धदेव-
योनयः सम्पन्नास्तैः। तथा चारणैर्नटनर्तकगेयवाद्यज्ञैर्गन्धर्वाप्सरोभिर्मान्यानां पूजनीयानां मान-
पितॄणां पूजकानां सेव्यानां च सेवनादुपासनात् परतोऽन्यत् किं सुखमस्त्येतद् ब्रूत कथयत।
तत्र सेवकैः सेव्या आराध्यन्ते। मान्या मानपितृभिः पूज्यन्ते। एतावानेव। यद्रहो निर्जने
सुरतसमये स्त्रियं योषितमवलम्ब्य परिष्वज्य किं नास्ति किं न सुखं विद्यते, अपि तु सर्वं
ब्रह्मलोकादप्यधिकं तत्र विद्यत इत्यद्यतनैर्लोकैर्गणना कार्या।।१९।।
इत्येतदाह—
आब्रह्मकीटान्तमिदं निबद्धं
पुंस्त्रीप्रयोगेण जगत् समस्तम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
स्त्रीप्रशंसाध्यायः २९७
व्रीडाऽत्र का यत्र चतुर्मुखत्व-
मीशोऽपि लोभाद् गमितो युवत्याः ॥२०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्त्रीप्रशंसा
नाम चतुःसप्ततितमोऽध्यायः ॥७४॥
ब्रह्मा से लेकर कीट पर्य्यन्त सारा संसार स्त्री-पुरुष के सम्बन्ध से बँधा हुआ है।
अतः इसमें क्या लज्जा? जहाँ महादेव जी भी युवती ( तिलोत्तमा ) को देखने के लोभ
से चतुर्मुखता को प्राप्त हुये॥२०॥
इति 'विमला' हिन्दीटीकायां स्त्रीप्रशंसाध्यायश्चतुःसप्ततितमः ॥७४॥
इदं समस्तं निरवशेषं जगद्विश्माब्रह्मकीटान्तं ब्रह्मणः पितामहात् प्रभृति कीटान्तं
यावत् पुंस्त्रीप्रयोगेण स्त्रीपुरुषसम्प्रयोगेण निबद्धं ग्रथितम्। स्त्रीपुंयोगादृते नान्यत् किञ्चिद्
दृश्यते। अत्र जगति का व्रीडा का लज्जा पुरुषमात्रस्य यत्र नास्ति। ईशोऽपि महादेवोऽपि
युवत्याः स्त्रियाश्चतुर्मुखत्वं गमितः प्राप्तः। अत्र पौराणिकी श्रुतिः—
यथा तिलोत्तमायाः प्रदक्षिणं कुर्वणाया अतिलावण्योपेताया उमाया उत्सङ्गस्थितायाः
क्रोधभयाद्भगवता तद्रूपलाम्पट्येन तदवलोकनाय चतसृषु दिक्षु मुखचतुष्टयं सृष्टमिति॥२०॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
स्त्रीप्रशंसा नाम चतुःसप्ततितमोऽध्यायः ॥७४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ सौभाग्यकरणाध्यायः
अथ सौभाग्यकरणं व्याख्यायते। तत्रादावेव सुभगं पुरुषं प्रति विशेषमाह—
जात्यं मनोभवसुखं सुभगस्य सर्व-
माभासमात्रमितरस्य मनोवियोगात्।
चित्तेन भावयति दूरगताऽपि यं स्त्री
गर्भं बिभर्ति सदृशं पुरुषस्य तस्य ॥१॥
सुभग पुरुष के लिये कामदेवसम्बन्धी समस्त सुख श्रेष्ठ होते हैं। स्त्री के मनोवियोग
के कारण दुर्भग पुरुष को सुख का आभासमात्र होता है। दूर में रहती हुई स्त्री भी जिस
पुरुष का ध्यान करती है, उसके समान ही गर्भ धारण करती है।।१।।
सुभगस्य स्त्रीवल्लभस्य पुरुषस्य सर्वं मनोभवसुखं कामजं सुखं जात्यं श्रेष्ठम्।
जात्यमुचितं सर्वं सर्वस्यां नार्याम्। यतः सुभगं पुरुषं सम्भोगे स्त्री निजहृदये आशास्ते,
अन्यत्र मनो न नयति, ततः स्त्रीचित्तं तस्योपरि रज्यते। इतरस्य दुर्भगस्य मनोवियोगात्
चित्तस्यान्यत्र गमनादाभासमात्रम्। अन्तरमननुप्रविश्य यद्भुज्यते तदाभासमात्रम्, न जात्यम्,
स्त्रीमनोवियोगादन्यगतत्वान्मनसः। यतो वक्ष्यति—
मनो हि मूलं हरदग्धमूर्त्तेः।
स्त्री न सुभगं प्रति याति सा च स्त्री दूरगताऽप्यसमीपस्थाऽपि यं पुरुषं चित्तेन मनसा
भावयति चिन्तयति कामयते तस्य पुरुषस्य सदृशं तदाकृतिं गर्भं बिभर्ति धारयति।।१।।
पुरुषस्यात्मा एव स्त्रीषु पुनर्जायत इत्येतत्प्रतिपादयितुमाह—
भङ्क्त्वा काण्डं पादपस्योप्तमुर्व्यां
बीजं वास्यां नान्यतामेति यद्वत्।
एवं ह्यात्मा जायते स्त्रीषु भूयः
कश्चित्तस्मिन् क्षेत्रयोगाद्विशेषः ॥२॥
जिस वृक्ष का कलम या बीज भूमि में बोया जाता है, वही वृक्ष उत्पन्न होता है,
दूसरा नहीं। इसी तरह आधारभूत स्त्री में फिर पुत्ररूप से आत्मा की ही उत्पत्ति होती है।
केवल क्षेत्र के योग से कुछ विशेष होता है। जिस प्रकार क्षेत्र के भेद से वृक्षों में भी
साधारण भेद होता है, उसी तरह स्त्रियों में भी जानना चाहिये।।२।।
पादपस्य वृक्षस्य काण्डं शाखां भङ्क्त्वा उर्व्यां भूमावुप्तं रोपितं यद्वद्यथा नान्यतामेति
बीजं वा वर्षमस्यामुप्तं नान्यतामेति तदेव जायते, एवमनेन प्रकारेण स्त्रीष्वाधारभूतासु
भूयः पुनरेवात्मा जायते उत्पद्यते। तस्मादात्मनि क्षेत्रयोगाद्धेतोः कश्चित् तत्क्षेत्रे विचित्रभावो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सौभाग्यकरणाध्यायः २९९
भवति। यत्र क्षेत्रे बीजमुप्यते तद्द्शादस्यान्यत्वं वैसादृश्यं किञ्चिद्भवत्येव मातृवशात्
कश्चिद्विशेषो भवति।।२।।
दूरस्थस्य कथं कामं सम्भवतीत्येतदाह—
आत्मा सहैति मनसा मन इन्द्रियेण
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः ।
योगोऽयमेव मनसः किमगम्यमस्ति
यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ।।३।।
मन के साथ आत्मा, इन्द्रिय के साथ मन और अपने विषय के साथ इन्द्रिय गमन
करता है। यह आत्मा के जाने का शीघ्र क्रम और योग ( सम्बन्ध ) है। मन के लिये
कोई स्थान अगम्य नहीं है तथा जहाँ मन जाता है, वहाँ आत्मा भी जाती है।।३।।
आत्मा कर्मात्मा चिद्रूपो मनसा चित्तेनैति सहैव गच्छति। मनश्चेत इन्द्रियेण सहैति।
तत्रेन्द्रियाणि दश, पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि। श्रोत्रं त्वक् चक्षुर्जिह्वा नासिकेति
पञ्च बुद्धीन्द्रियाणि। उक्तं च—
पायूपस्थं हस्तपादं वाक् तथैवात्र पञ्चमी।
पञ्च कर्मेन्द्रियाण्याहुर्मनः षष्ठानि तानि तु।।
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी।
पञ्च बुद्धीन्द्रियाण्याहुर्मनः षष्ठानि तानि तु।।
एवं मन इन्द्रियेण सहैति। इन्द्रियं स्वार्थेनात्मीयार्थेन सहैति। यो यस्य इन्द्रियस्य
विषयस्तेन सहैति गच्छति। क्रम एष शीघ्रस्तात्पर्यक्रमः। अयमर्थः—आत्मा मनसा सह
संयुज्यते। मनश्चेन्द्रियेण। इन्द्रियमर्थेन। अर्थ्यत इत्यर्थः। श्रोत्रादीनि बुद्धीन्द्रियाणि वागादीनि
कर्मेन्द्रियाणि। अर्थाः शब्दादयः। शब्दस्पर्शरूपरसगन्धाः। अनन्तरमिन्द्रिया-स्वादितमर्थं
मन आत्मानं निवेदयति। आत्मार्थक्रियाकारितां तस्य स्मृत्वा मनस आज्ञां ददाति कर्मेन्द्रि-
याण्यादाने त्यागे वा विनियुंक्ष्व इति। अनेन प्रकारेण क्रम एष शीघ्रः। क्रमः प्रक्रियैषा
अवलम्बिता। योगः सम्बन्धोऽयमेव। मनसस्तस्य किमगम्यमस्ति, अपि तु सर्वत्रैव व्रजति।
यस्मिन् देशे मनो व्रजति तत्रायमात्मा गतः।।३।।
एतदेव विशेषयन्नाह—
आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो
ग्राह्योऽचलेन मनसा सतताभियोगात् ।
यो यं विचिन्तयति याति स तन्मयत्वं
यस्मादतः सुभगमेव गता युवत्यः ।।४।।
परमात्मा के हृदय में यह अतिसूक्ष्म जीवात्मा स्थित है। स्थिर चित्त से और
निरन्तर अभ्यास से उसका साक्षात्कार करना चाहिये; क्योंकि जो जिसका निरन्तर चिन्तन
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
करता है, वह तन्मय हो जाता है। इसलिये स्त्री भी निरन्तर स्मरण करने से सुभग पुरुष
को प्राप्त करती है॥४॥
अयमात्मा कर्मात्मा चिद्रूपो जीव आत्मनि परमात्मनि गतः स्वसत्तायां बोधरूपः
स्थितः कर्ता ज्ञाता च सम्पन्नः। क्व? हृदये हृत्स्थाने। तथा च—
नाभेरूर्ध्वं वितस्तिं च कण्ठाधस्तात् षडङ्गुलम्।
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्।। इति।
कीदृशः? अतिसूक्ष्मोऽत्यन्ताल्पप्रमाणः। स च ग्राह्यो विषयीकार्योऽचलेन स्थिरेण
मनसा चित्तेन सतताभियोगादविच्छेदाभ्यासात्। यः पुरुषो यं च वस्तुरूपं विचिन्तयति
चित्तेन भावयति स तन्मयत्वं याति। स एव प्राकृतो यस्य स तन्मयः। यस्मादेवमतो-
ऽस्माद्धेतोर्युवत्यः स्त्रियः सुभगं पुरुषं प्रति गताः प्राप्ताः सतताभ्यासादिति॥४॥
अथ सुभगदुर्भगत्वस्य लक्षणमाह—
दाक्षिण्यमेकं सुभगत्वहेतुर्विद्वेषणं तद्विपरीतचेष्टा।
मन्त्रौषधाद्यैः कुहकप्रयोगैर्भवन्ति दोषा बहवो न शर्म॥५॥
स्त्री के मनोऽनुकूल कार्य करना सुभगत्व का मुख्य कारण है तथा उसके प्रतिकूल
आचरण करने से विद्वेषण होता है। विस्मयोत्पादक मन्त्र-औषधि आदि से स्त्री को वश
में करने से अनेक दोष उत्पन्न होते हैं, अच्छा नहीं होता है॥५॥
दाक्षिण्यमानुकूल्यं चित्ताराधनमेकमेव सुभगत्वहेतुर्वल्लभ्यकारणम्। स्त्रीणामानु-
कूल्याद्वल्लभः पुमान् भवति। तद्विपरीतचेष्टा विपर्ययानुचरणमाननुकूल्यं विद्वेषणं दौर्भाग्य-
कारणम्। मन्त्रौषधाद्यैः, मन्त्रैर्वशीकरणमन्त्रैः, ओषधैर्द्रव्यविशेषैः। आदिग्रहणाद्भोजनपान-
लिङ्गलेपानुलेपनैरन्यैश्चोपतापकरैः कुहकप्रयोगैर्विस्मयोत्पादकैर्बहवः प्रभूता दोषाः शरीरो-
पद्रवा भवन्ति। न शर्म श्रेयो न भवति। तस्मादानुकूल्यमेकमेव सौभाग्यकरणम्, नान्यत्
प्रयोगादिकमपि॥५॥
अन्यदपि सौभाग्यकरणे कार्यमाह—
वाल्लभ्यमायाति विहाय मानं दौर्भाग्यमापादयतेऽभिमानः।
कृच्छ्रेण संसाधयतेऽभिमानी कार्याण्ययत्नेन वदन् प्रियाणि॥६॥
गर्व को छोड़ देने से मनुष्य सबका प्रिय हो जाता है और गर्वी मनुष्य दुर्भगता को
प्राप्त होता है तथा अभिमानी मनुष्य बड़ी कठिनता से कार्य की सिद्धि करता है; लेकिन
मधुर वचन बोलते हुये बड़ी आसानी से अपना कार्य सिद्ध होता है॥६॥
मानं गर्वं विहाय त्यक्त्वा पुरुषो जनस्य वाल्लभ्यं वल्लभत्वमायाति गच्छति।
अभिमानोऽहङ्कारो गर्वः। दौर्भाग्यं दुर्भगत्वमापादयते प्रापयति। यश्चाभिमानी धृष्टः स कृच्छ्रेण
क्लेशेन कार्याणि संसाधयते निर्वर्तयति। प्रियाणि प्रीतिवचनानि वदन् भाषयन्नयत्नेनाक्लेशेन
कार्याणि साधयति॥६॥
सौभाग्यकरणाध्यायः ३०१
अन्यदप्याह—
तेजो न तद्यत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् ।
कार्यस्य गत्वान्तमनुद्धता ये तेजस्विनस्ते न विकत्थना ये ॥७॥
असमीक्षित कार्यों को करने में प्रीति करने से तेज नहीं होता है तथा दुर्जनों के द्वारा
प्रतिपादित प्रतिकूल वाक्य भी तेज नहीं है। जो मनुष्य कार्य को सम्पन्न करके भी अभिमान-
रहित रहता है, वही तेजस्वी होता है; आत्मश्लाघी मनुष्य नहीं॥७॥
असमीक्षितानां कार्याणां करणं साहसं तस्य भावः साहसत्वम्। प्रियं यत्र वस्तुनि
साहसत्वं न तत् तेजः शृङ्गारो भवति, कदाचित् प्राणविनाश उत्पद्यते। यच्च वाक्यं
वचनमनिष्टमननुकूलं मर्मस्पृक्। असत्प्रणीतमसद्भिर्धृष्टैः प्रणीतमुच्यते न तत् तेजः। ये
जनाः कार्यस्य करणीयस्य वस्तुनोऽन्तं परिसमाप्तिमपि गत्वा तन्निर्वर्त्यानुद्धता अनभिमानिनस्ते
तेजस्विनः। न विकत्थना वाचाला ये निरर्थकमसद्वाक्यं प्रलपन्ति ते न तेजस्विनः॥७॥
अन्यदप्याह—
यः सार्वजन्यं सुभगत्वमिच्छेद् गुणान् स सर्वस्य वदेत् परोक्षम् ।
प्राप्नोति दोषानसतोऽप्यनेकान् परस्य यो दोषकथां करोति ॥८॥
सर्वप्रिय होने की इच्छा करने वाले मनुष्य को परोक्ष में सबकी प्रशंसा करनी
चाहिये। जो मनुष्य दूसरे की निन्दा करता है, उसके ऊपर बहुत से निर्मूल दोष भी
लगाये जाते हैं॥८॥
यः पुरुषः सार्वजन्यं सर्वत्र जनानां सुभगत्वं वाल्लभ्यमिच्छेदभिलषेत् स सर्वस्य
निरवशेषस्य जनस्य परोक्षमप्रत्यक्षं गुणान् स्तुतिं वदेद् ब्रूयात्। यः पुनः परस्य सम्बन्धिनीं
दोषकथां करोति स पुरुषोऽसतो दुर्जनादनेकान् बहुप्रकारान् दोषान् प्राप्नोति लभते। किल
सज्जनो ज्ञानशीलो भवति। दुर्जनः परदोषैकपरायणो भवतीति॥८॥
अन्यदप्याह—
सर्वोपकारानुगतस्य लोकः सर्वोपकारानुगतो नरस्य।
कृत्वोपकारं द्विषतां विपत्सु या कीर्तिरल्पेन न सा शुभेन ॥९॥
जो मनुष्य सबका उपकार करने में उद्यत होता है, उसका उपकार सभी मनुष्य
करते हैं। विपत्ति में शत्रुओं का उपकार करने से जो कीर्ति मिलती है, वह अल्प पुण्य
का फल नहीं है॥९॥
सर्वेषामुपकारेऽनुगतो निरतः सर्वोपकारानुगतः। तस्य सर्वोपकारानुगतस्य पुरुषस्य
सर्वो निरवशेषो लोक उपकारानुगतो भवति प्रत्युपकारं करोति। द्विषतां शत्रूणां विपत्स्वापत्सूप-
कारमुपकृतिं कृत्वा या कीर्तिर्यशो भवति लोके साल्पेन शुभेन पुण्येन न भवति। बहुना
शुभेन भवतीत्यर्थः। एवं सति सर्वस्योपकारः कर्तव्य इति तात्पर्यार्थः॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३०२ बृहत्संहिता
अथ दुर्जनं प्राह—
तृणैरिवाग्निः सुतरां विवृद्धिमाच्छाद्यमानोऽपि गुणोऽभ्युपैति ।
स केवलं दुर्जनभावमेति हन्तुं गुणान् वाञ्छति यः परस्य ॥१०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सौभाग्यकरणं
नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥
तृणों से आच्छादित हुये अग्नि की तरह छिपाये हुये गुण वृद्धि को ही प्राप्त होते हैं।
जो मनुष्य दूसरे के गुणों का नाश करना चाहता है, वह केवल दुर्जनता को प्राप्त करता
है, गुण का नाश करने से भी कदापि उसका नाश नहीं होता है॥१०॥
इति 'विमला'हिन्दीटीकायां सौभाग्यकरणाध्यायः पञ्चसप्ततितमः ॥७५॥
दुर्जनैः सज्जनस्य गुण आच्छाद्यमानोऽपि सुतरामतिशयेन विवृद्धिमुपैति वृद्धिं प्राप्नोति।
यथा तृणेनाच्छाद्यमानोऽग्निर्विवृद्धिं याति। यः परस्य गुणान् हन्तुं विनाशयितुं वाञ्छति
स केवलं दुर्जनभावं दौर्जन्यमेति प्राप्नोति, न साधोर्गुणविनाशो भवति। तस्याधिकतरा
गुणाः प्रकाशमायान्ति। यथा तृणैरग्निश्च्छाद्यमानः केवलमेव तृणानि तत्र दह्यन्त इति॥१०॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
सौभाग्यकरणं नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ कान्दर्पिकाध्यायः
अथ कान्दर्पिकं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
रक्तेऽधिके स्त्री पुरुषस्तु शुक्रे नपुंसकं शोणितशुक्रसाम्ये ।
यस्मादतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि ॥१॥
गर्भधारण-काल में रक्त अधिक हो तो कन्या, शुक्र अधिक हो तो पुत्र और दोनों
समान हों तो नपुंसक सन्तान की उत्पत्ति होती है; अतः वीर्य बढ़ाने वाले रसायन का
सेवन कराना चाहिये॥१॥
गर्भाधानकाले स्त्रीपुरुषयो रक्ते शोणितेऽधिके सति गर्भे स्त्री भवति। शुक्रे रेतस्यधिके
पुरुषो नरो भवति। शोणितस्य रक्तस्य शुक्रस्य रेतसश्च साम्ये तुल्यत्वे नपुंसकं भवति।
यस्मादेवमतोऽस्माद्धेतोः शुक्रविवृद्धिदानि रेतसः संवर्धनानि रसायनानि नियोगात्रिषेवि-
तव्यान्यभ्यवहार्याणीति॥१॥
अथ कामस्य बन्धनरज्जुमाह—
हर्म्यपृष्ठमुडुनाथरश्मयः सोत्पलं मधु मदालसा प्रिया ।
वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा ॥२॥
प्रासाद के पृष्ठ, चन्द्रमा के किरण, नीलोत्पल, मद्य, मदालसा-प्रिया, वीणा, कामदेव
की कथा, एकान्त, माला—ये सब कामदेव को बाँधने की रस्सियाँ हैं॥२॥
हर्म्यपृष्ठं गृहपृष्ठम्। उडुनाथरश्मयश्चन्द्रकिरणाः। सोत्पलं नीलोत्पलसहितम्। मधु
मद्यम्। मद्यग्रहणमुपलक्षणार्थं शूद्रमधिकृत्यैतदुक्तम्। ब्राह्मणादेरन्यदभिमतं पानम्। प्रिया
वल्लभा। मदालसा मद्यपानेनालसा क्षीबा। वल्लकी वीणा। स्मरकथा कामकथा। रह
एकान्तो निर्जनस्थानम्। सुरताभिनिवेशश्च। स्रजो मालाः। एष वर्गः समूहो मदनस्य कामस्य
वागुरा बन्धनरज्जुः। अनया रज्ज्वा बध्यत इति॥२॥
अथ शुक्रवृद्धियोगमाह—
माक्षीकधातुमधुपारदलोहचूर्ण-
पथ्याशिलाजतुघृतानि समानि योऽद्यात्।
सैकानि विंशतिरहानि जरान्वितोऽपि
सोऽशीतिकोऽपि रमयत्यबलां युवेव ॥३॥
सोना, मक्खी, शहद, पारा, लौहचूर्ण, हर्रे, शिलाजीत, घृत—इन सबको सम भाग
लेकर चूर्ण करके शहद या घृत के साथ इक्कीस दिन तक खाने से अस्सी वर्ष का वृद्ध
भी युवा की तरह स्त्री में रमण करता है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३०४ बृहत्संहिता
माक्षीकधातुः पाषाणमाक्षीकम्। मधु माक्षिकं क्षौद्रम्। पारदं प्रसिद्धम्। लोहचूर्णं
शस्त्रचूर्णम्। पथ्या हरीतकी। शिलाजतुः प्रसिद्धः। घृतमाज्यम्। एतानि माक्षीकवर्जं सर्वाणि
सममात्राणि। घृतमाक्षीकाभ्यां सममात्राभ्यां भावयित्वा गुलिका कार्या। तानि योऽद्याद् भक्षयेत्।
सैकानि विंशतिरहानि सहैकेन वर्तते विंशतिः सैकविंशतिरहानि दिनानि। एकविंशति-
दिनानीत्यर्थः। योऽद्यात् स जरान्वितोऽपि जरायुक्तोऽपि। अशीतिकोऽपि अशीतिवर्षोऽपि
अतिवृद्धोऽपि तथाभूतोऽप्यबलां स्त्रियं युवेव तरुण इव रमयति क्रीडयति॥३॥
अन्यदप्याह—
क्षीरं शृतं यः कपिकच्छूमूलैः पिबेत् क्षयं स्त्रीषु न सोऽभ्युपैति ।
माषान् पयःसर्पिषि वा विपक्वान् षड्ग्रासमात्रांश्च पयोऽनुपानम् ॥४॥
कपिकच्छु (केवाँच = कबाछु) के जड़ को दूध में मिलाकर काढा बना कर जो
पान करता है, वह मनुष्य स्त्री-प्रसंग करने में क्षीण नहीं होता तथा दूध से निकाले हुये
घृत में उड़द को पकाकर उसको छः ग्राम खाकर ऊपर से दूध पीने से भी स्त्री-प्रसंग
करने में पुरुष क्षीण नहीं होता है॥४॥
यः कामी कपिकच्छूमूलैरात्मगुप्तामूलैः सह क्षीरं दुग्धं शृतं क्वथितं पिबेत्, स
स्त्रीषु विषये क्षयमशक्ततां नाभ्युपैति नायाति। क्षीरमेव निर्मथ्य यद्घृतमुत्पाद्यते तत्
पयोघृतम्। पयःसर्पिषी पयोघृते। माषान् विपक्वान् कृत्वा षड्ग्रासमात्रान् भुक्त्वा षडेव
ग्रासान् प्राश्यानु पश्चात् पयसः क्षीरस्य पानं कार्यम्। तस्मात् पयोऽनुपानात् स स्त्रीषु क्षयं
नाभ्युपैति॥४॥
अन्यदप्याह—
विदारिकायाः स्वरसेन चूर्णं मुहुर्मुहुर्भावितशोषितं च ।
शृतेन दुग्धेन सशर्करेण पिबेत् स यस्य प्रमदाः प्रभूताः ॥५॥
जिस पुरुष की बहुत स्त्रियाँ हों, वह बिदारीकन्द के चूर्ण में बिदारीकन्द के रस की
बार-बार भावना देकर सुखावे और उस चूर्ण को खाकर औटाया हुआ दूध में मिश्री
मिलाकर पान करे॥५॥
विदारिका प्रसिद्धा तस्याश्चूर्णं स्वरसेनैव विदारिकारसेनैव मुहुर्मुहुः प्रतिक्षणं भावितं
सेवितं मुहुर्मुहुः शोषितं च। एतदुक्तं भवति—स्वरसेन यावत् प्रतिपालनं भावयितुमायाति
तेन भावयित्वा तापे शोषयेत्। पुनः शुष्कं भावयित्वा शोषयेत्। एवं भूयो भूयः सप्त
वारानित्यर्थः। तस्याश्चूर्णं यस्य प्रमदाः प्रभूताः स्त्रियो बह्व्यो भवन्ति। स दुग्धेन क्षीरेण
शृतेन क्वथितेन सशर्करेण शर्करासहितेन पिबेत्॥५॥
अन्यदाह—
धात्रीफलानां स्वरसेन चूर्णं
सुभावितं क्षौद्रसिताज्ययुक्तम् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
कान्दर्पिकाध्यायः ३०५
लीढ्वानु पीत्वा च पयोऽग्निशक्त्या
कामं निकामं पुरुषो निषेवेत् ॥६॥
आँवले के चूर्ण में आँवले के रस की बार-बार भावना देकर सुखाने के पश्चात्
उसमें शहद या मिश्री मिलाकर चाटे और ऊपर से अपनी शक्ति के अनुसार दूध पीकर
पुरुष पर्याप्त स्त्री-प्रसंग कर सकता है॥६॥
धात्रीफलानामामलकानां चूर्ण स्वरसेनामलकरसेनैव सुभावितमतिशयेन भावितम्।
ततः क्षौद्रसिताज्ययुक्तम्। क्षौद्रं माक्षिकम्। सिता शर्करा। आज्यं घृतम्। एतैः सममात्रैः
संयुक्तं कृत्वा द्रवरूपं कृत्वा तल्लीढ्वाऽऽस्वाद्य अनु पश्चादग्निशक्त्या जठराग्निसामर्थ्येन
पयः क्षीरं पीत्वा पुरुषो नरः कामं मैथुनं निकामं पर्याप्तं निषेवेदनुभवेत्॥६॥
अन्यदप्याह—
क्षीरेण बस्ताण्डयुजा शृतेन
सम्प्लाव्य कामी बहुशस्तिलान् यः ।
सुशोषितानत्ति पयः पिबेच्च
तस्याग्रतः किं चटकः करोति ॥७॥
बकरे के अण्ड को दूध में डाल कर काढ़ा बनाने के बाद तिलों में उस दूध की
भावना देकर उसे सुखाकर उन तिलों को खाकर ऊपर से दूध का पान करे तो उसके
सामने चटक ( गंवरा = गंवरैया ) भी क्या कर सकता है?॥७॥
बस्तश्छागः तस्याण्डौ वृषणौ क्षीरेण दुग्धेन बस्ताण्डयुजा बस्ताण्डयुतेन शृतेन
क्वथितेन यः कामी कामुकः बहुशो बहून् वारान् सप्त वारान् यावदित्यर्थः। तिलान्
सम्प्लाव्य प्लावयित्वा ततस्तानेव तिलान् सुशोषितानतिशुष्कान्। अत्ति भक्षयति। पयः
क्षीरं पश्चात् पिबेत् तस्य नरस्याग्रतः पुरतश्चटकः कलविङ्कः किं करोति। बहुस्त्रीगमनम्,
अतीव स्त्रीषु बहुवारं शीघ्रगामी भवतीत्यर्थः॥७॥
अन्यदप्याह—
माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः ।
क्षीरमप्यनु पिबन्ति तासु ते शर्वरीषु मदनेन शेरते ॥८॥
जिन रातों में घृत के साथ उड़द की दाल के साथ सट्ठी के चावलों का भात खाकर
जो ऊपर से दूध पीता है, वह उन रातों में कामदेव के साथ सोता है॥८॥
ये नरा मनुष्या माषसूपसहितेन सर्पिषा घृतेन षष्टिकौदनं षष्टिशालिभक्तमदन्ति भक्षयन्ति।
क्षीरं दुग्धमनु पश्चात् पिबन्ति यासु शर्वरीषु रात्रिषु तासु नरा मदनेन कामेन सह शेरते
स्वपन्ति। असकृत् स्त्रीगमनादिति॥८॥
बृ० भ० द्वि०-२०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३०६ बृहत्संहिता
अन्यदप्याह—
तिलाश्वगन्धाकपिकच्छूमूलैर्विदारिकाषष्टिकपिष्टयोगः ।
आजेन पिष्टः पयसा घृतेन पक्वं भवेच्छष्कुलिकातिवृष्या ॥९॥
तिल, असगन्ध, क्यवांच ( कवाछु ) का जड़, विदारीकन्द—इन सबों को बराबर
लेकर चूर्ण बनाकर सबके तुल्य साठी के चावलों का आटा उसमें मिलाने के पश्चात्
उसको बकरी के दूध में मथकर बकरी के घृत में ही बनाई गई उसकी पूरी प्रचुर शुक्र
उत्पन्न करने वाली होती है॥९॥
तिलाः प्रसिद्धाः । अश्वगन्धा प्रसिद्धैव। कपिकच्छूमूलमात्मगुप्तामूलम्। विदारिका
प्रसिद्धा। षष्टिकः शालिविशेषस्ततः पिष्टः। औषधानामर्धं षष्टिकपिष्टस्य पिष्टेन सहैतेषां
योगः कार्यः। तत आजेन छागेन पयसा क्षीरेण पिष्टः श्लक्ष्णीकृतः। ततो घृतेनाज्येन
शष्कुलिका भक्ष्यप्रकारं पक्वं साधिताऽतिवृष्या बहुशुक्रकरी भवेत् सा।।९।।
अन्यदप्याह—
क्षीरेण वा गोक्षुरकोपयोगं विदारिकाकन्दकभक्षणं वा।
कुर्वन्न सीदेद् यदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम् ॥१०॥
गोक्षुरक ( गोखरू ) का चूर्ण या विदारीकन्द का चूर्ण खाकर ऊपर से दूध पान
करने पर यदि यह चूर्ण पच जाय तो पुरुष स्त्री-प्रसङ्ग से क्षीण नहीं होता है। यदि
मन्दाग्नि के कारण नहीं पच सके तो पहले अग्निसन्दीपन के लिये वक्ष्यमाण चूर्ण का
सेवन करना चाहिये।।१०।।
क्षीरेण वा गोक्षुरकोपयोगं कुर्यात्। गोक्षुरकैः सह क्षीरं क्वाथयित्वा पिबेत्। अथवा
विदारिकायाः कन्दस्य मूलस्य क्षीरेण क्वथितस्य भक्षणं कुर्यात्। एवं कुर्वन्न सीदेत्
स्त्रीषु नावसादं याति। यद्यस्य कामुकस्य जीर्यते कामुकत्वं गच्छति तदैवम्। चेच्छब्दो
यद्यर्थे। यदि मन्दाग्निताऽल्पाग्निताऽल्पाग्नित्वं भवति, तदा तस्मिन्निदं वक्ष्यमाणं चूर्णमग्नि-
सन्दीपनम्।।१०।।
तदाह—
साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली ।
मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम् ॥११॥
अजवायन, नमक, हरें, सोंठ, पीपल—इन सबको सम भाग लेकर चूर्ण बनाने के
पश्चात् उस चूर्ण को मद्य, तक्र, काञ्जी या उष्ण जल के साथ सेवन करने से जठराग्नि
दीपित होती है।।११।।
अजमोदं दीप्यकम्। लवणं सैन्धवम्। हरीतकी पथ्या। हरीतकी अजमोदलवणाभ्यां
सहिता। शृङ्गवेरं शुण्ठी। शृङ्गवेरेण सहिता संयुता पिप्पली। सर्वाण्येतानि सममात्राणि
कान्दर्पिकाध्यायः ३०७
कृत्वा चूर्णयेत्। अस्य चूर्णपानं मद्यतक्रतरलोष्णवारिभिः कुर्यात्, मद्यं शीध्वासवम्, तक्र-
मुदश्वित्, तरलं काञ्जिकम्, पय इति केचित्, उष्णवार्युष्णपानीयम्। एतेषामन्यतमेनैव
पिबेत्। तदग्निदीपनं जठराग्निविवर्धनमिति॥११॥
अथात्र विरुद्धान्याह—
अत्यम्लतिक्तलवणानि कटूनि वाऽत्ति
यः क्षारशाकबहुलानि च भोजनानि।
दृक्शुक्रवीर्यरहितः स करोत्यनेकान्
व्याजान् जरन्निव युवाऽप्यबलामवाप्य॥१२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां कान्दर्पिकं
नाम षट्सप्ततितमोऽध्यायः॥७६॥
अधिक खट्टा, अधिक तीता, अधिक नमकीन, अधिक कडुआ (लाल मिर्च आदि),
अधिक खारा या अधिक शाक भोजन करने वाला युवा पुरुष भी दृष्टि, वीर्य और बल
से रहित होकर वृद्ध की तरह स्त्री-प्रसंग के समय अनेक व्याज करता है॥१२॥
इति 'विमला'हिन्दीटीकायां कान्दर्पिकाध्यायः षट्सप्ततितमः॥७६॥
यः पुरुषो भोजनान्याहारानत्यम्लान्यतितिक्तानि, अतिलवणानि, अतिकटूनि वा अत्ति
भक्षयति। तथा क्षारबहुलानि भोजनानि च अत्ति। द्रव्याणां संयोगं कृत्वा दग्ध्वा च क्षारं
कारयेत्। तद्यथा—
क्षारो विषैडगजचिर्भिटचव्यवाह्निव्योषं च संस्तरचितं लवणोपधानम्।
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगदोद्भवेषु।। इति।
एवमादिक्षारप्रयोगाः।
एवं क्षारबहुलानि भोजनानि। तथा शाकबहूनि च योऽत्ति। अथवा क्षारशाकाः सुप्रसिद्धाः।
स दृक्शुक्रवीर्यरहितः, दृग् दृष्टिः, शुक्रं रेतः, वीर्यं च बलम्। एतै रहितो वर्जितो भवति।
अबलां स्त्रियमवाप्य प्राप्य युवाऽपि तरुणोऽपि अनेकान् व्याजान् जरन्निव वृद्धो यथा
करोत्यशक्तत्वादित्यर्थः ॥१२॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावन्तःपुरचिन्तायां
कान्दर्पिकं नाम षट्सप्ततितमोऽध्यायः॥७६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ गन्धयुक्त्यध्यायः
अथ गन्धयुक्तिर्व्याख्यायते। तत्रादावेव च द्रव्याणां नामपरिज्ञानायास्माभिर्निघण्टुर्लिख्यते।
तद्यथा--
अथात्र व्यवहारार्थं निघण्टुरभिलिख्यते।
कस्तूरी मदनी नाभिर्मदो दर्पो मृगोद्भवा।।
मृगदर्पो मृगमदो गन्धचेत्येकवाचकाः।
स्फटिकेन्दुतुषाराख्यं कर्पूरं घनसारकम्।।
काश्मीरं घुसुणं रक्तसंज्ञकं कुङ्कुमं विदुः।
वानराख्यं चलाख्यं च तैलं सिंह्लं तुरुष्ककम्।।
कालीयं जोङ्गकं लोहं खलः कार्पासिकोऽगुरुः।
हिमं शीताख्यमाहेयं मलयाख्यं च चन्दनम्।।
सूक्ष्मैला बहुलाख्या च चन्द्रैला द्राविडी त्रुटिः।
श्रीपुष्पं देवपुष्पं च लघुपुष्पं लवङ्गकम्।।
कोलं कोलककक्कोले फलं जातीफलं विदुः।
उष्णं कटुफलं जातिं मालतीं जातिपत्रिकाम्।।
फलं पत्रं तमालं च गन्धपत्रं च नेत्रकम्।
भृङ्गाख्यं नेत्रराजं च वराङ्गं त्वक् तनुत्वचम्।।
गणकाख्यं काञ्चनाख्यं केसरं नागकेसरम्।
रसं गन्धरसं पिण्डरसं बोलं चलं विदुः।।
पूतिकोशो विडालाख्यश्चेलिस्तज्जातकाभिधः।
लता लतानाभिनाम्नी रेणुः कुन्ती हरेणुका।।
मेघाख्यं मुस्तमिच्छन्ति वक्राख्यं तगरं नतम्।
करजाख्यं नखं शङ्खं तथा नखपदं स्मृतम्।।
ज्वरक्षयोत्पलाख्यं च वाप्यं कुष्ठं गदोऽथ रुक्।
मांसीं केशीं पिशाचीं च नलदं कमलं जटाम्।।
श्यामा प्रियाख्या श्रीसंज्ञा प्रियङ्गुः फलिनी स्मृता।
ग्रन्थिपर्णी ग्रन्थिपर्णं शुकं स्थौणेयकं विदुः।।
ह्रीबेरं वारिसंज्ञं च ह्रीबारं बालकं स्मृतम्।।
रणं सेव्यं मृणालाख्यमुशीरमिह कथ्यते।
रोमो मृणालो रामज्ञो व्यामकं दवदग्धकम्।।
गन्धयुक्त्यध्यायः ३०९
प्रवालं विद्रुमाख्यं च वल्ली स्यान्नलिका नली।
स्पृक्काऽसृग्ब्राह्मणी माला देवी च परिभाष्यते।।
चक्राङ्गी कटुकी गन्धा जटिलोग्रा जया वचा।
कर्चुं कर्पूरमुग्रं च गन्धमूलं च कीर्त्यते।।
पुष्पा समन्तपुष्पा च शतपुष्पा शता मसिः।
कुसुमालो भवेच्चण्डः स्तेनश्चौरोऽथ तस्करः।।
आकृष्टं केशपलितं जरा स्थविरसंज्ञितम्।
गिर्याख्यं गिरिजाख्यं च शैलेयं समुदाहृतम्।।
दार्वा दारु निशाख्या च कालेयं पीतचन्दनम्।
पीता हरिद्रा नक्ताख्या दारु तद्देवदारु यत्।।
रक्ता समङ्गा मञ्जिष्ठा मधुकं मधुयष्टिका।
धान्याकं धान्यकं धानीयकं कुस्तुम्बुरु स्मृतम्।।
मरुं मरुबकं मूर्वी फणिज्जं सानवं तथा।
सर्जा सर्जरसासंज्ञा राला चेह निगद्यते।।
पुरं गुग्गुलु भद्रं च भद्राख्यं महिषाक्षकम्।
रोहिषं पेशलं प्राहुः पर्यासं च कुठेरकम्।।
क्षीरदध्याज्यसंज्ञश्च श्रीवासः श्रीश्च वासकः।
जतु लाक्षा कृमिस्तज्जा धात्रीमामलकं विदुः।।
हरीतक्यभया पथ्या विजया प्राणदाऽपि च।
कलिर्विभीतकं चाक्षं त्रिफलं स्यादिदं त्रिकम्।।
शुण्ठीमरीचपिप्पल्यर्यूषणं सर्वसंयुता।
त्रिफला सत्रिजाता च त्रिवर्गं त्रितयं स्मृतम्।।
त्वक् पत्रैला त्रिजातं स्याच्चतुर्जातं सकेसरम्।
त्रिफला स्यात्तु कक्कोलकटुजातिफलैस्त्रिभिः।।
घृतेन्दुकुङ्कुमैः पञ्चसुगन्धिः कोलपुष्पवृत्।
कोलोञ्झितः सदपँश्च देवराजः सदैव हि।।
कर्पूरं कुङ्कुमं दर्प त्रितयं स्यात् त्रिगन्धिकम्।
लवङ्गफलकक्कोलकटुकर्पूरकुङ्कुमैः ।।
त्वग्लताजातिचूतोत्थरसैर्दशसुगन्धिकः ।
तीक्ष्णं मरीचमिच्छन्ति चित्रकं वह्निसंज्ञकम्।।
रोचना रुचिरा ज्ञेया शर्करा सिकता सिता।
पुष्पासवः पुष्परसः सारघं मधु माक्षिकम्।।
क्षौद्रं भ्रामरमित्याहुस्तन्मलं सिक्थकं विदुः।
मदनं च मधूच्छिष्टं मधुसारं च पण्डिताः।।
३१० बृहत्संहिता
द्राक्षा फलोत्तमा विल्वः श्रीफलः श्रीतरुस्तथा।
लुङ्गं च मातुलुङ्गं च केशरी बीजपूरकम्।।
सौभाञ्जनं सुभाञ्जं च शिग्रुवत्फलपल्लवाः।
अजो बस्तो जरश्छागो मूत्रं स्रावस्तदम्बु वा।।
त्वक्सहा सुरभिर्वज्री सुरभिश्च महातरुः।
स्वर्णक्षीरी स्वर्णलता ज्योतिषमत्यभिधीयते।।
सुवीरं काचिकं वीरं तालुमालं च तालुकम्।
सौभाग्यं टङ्कणं टङ्कं बाकुची मालतीभवम्।।
निःसारं राक्षसं पद्मं कच्छं कतकजं फलम्।
आम्रश्चूतश्च कामाङ्गः सहकारः स्मरप्रियः।।
अक्षरं कोकिलाक्षश्च निघण्टुज्ञैरुदाहृतः।
तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
स्रग्गन्धधूपाम्बरभूषणाद्यं न शोभते शुक्लशिरोरुहस्य।
यस्मादतो मूर्धजरागसेवां कुर्याद् यथैवाञ्जनभूषणानाम् ॥१॥
सफेद केश वाले पुरुष को माला, सुगन्ध द्रव्य, धूप, वस्त्र, भूषण आदि शोभा
नहीं देते; इसलिये अञ्जन और भूषण के सेवन की तरह केश काले करने का भी प्रयत्न
करना चाहिये।।१।।
शुक्लशिरोरुहस्य श्वेतकचस्य स्रग् माला। गन्धाः सुगन्धद्रव्याणि। धूपः सुगन्धधूपः।
अम्बरं वस्त्रम्। भूषणमलङ्करणम्। आदिग्रहणादनुधूपनमिति। एवमादिकं सर्वं न शोभते,
यस्मादतोऽस्माद्धेतोर्मूर्धजानां केशानां रागे रञ्जने सेवां यत्नं कुर्यात्। यथेव येन प्रकारेणाञ्जने
नेत्रयोर्भूषणानामलङ्करणादीनां सेवा क्रियते प्रत्यहं प्रयत्नतः संस्क्रियते तथैव मूर्धजरागसेवां
कुर्यादिति।।१।।
अथ केशरञ्जनप्रयोगमाह—
लौहे पात्रे तण्डुलान् कोद्रवाणां
शुक्ले पक्वांल्लोहचूर्णेन साकम्।
पिष्टान् सूक्ष्मं मूर्ध्नि शुक्लाम्लकेशे
दत्वा तिष्ठेद् वेष्टयित्वार्द्रपत्रैः ॥२॥
याते द्वितीये प्रहरे विहाय
दद्याच्छिरस्यामलकप्रलेपम् ।
सञ्छाद्य पत्रैः प्रहरद्वयेन
प्रक्षालितं कार्ष्ण्यमुपैति शीर्षम् ॥३॥
सिरके में कोदो के चावल को लोहे के पात्र में पकांकर उसमें चूर्ण मिला कर खूब
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA