सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 345, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 345

गन्धयुक्त्यध्यायः ३१७
अत्रास्मिन् द्रव्यगणे गन्धानां सहस्रचतुष्टयमन्यानि च सप्ततिसहस्राणि लक्षमेकं सप्त-
शतानि विंशत्यधिकानि गन्धानामन्तर्भवन्तीत्यर्थः ।।१७।।
अत्रैकैकं षड्गन्धकरं भवतीत्याह-
एकैकमेकभागं द्वित्रिचतुर्भागिकैर्युतं द्रव्यैः ।
षड्गन्धकरं तद्वद्द्वित्रिचतुर्भागिकं कुरुते ।।१८।।
केवल दो वस्तुओं से छः गन्धद्रव्य तैयार होते हैं; जैसे-प्रथम के एक भाग में
द्वितीय के दो-तीन और चार भाग मिलाने से तीन प्रकार के तथा द्वितीय के एक भाग में
प्रथम के दो-तीन और चार भाग मिलाने से तीन प्रकार के; इस तरह छः प्रकार के
गन्धद्रव्य तैयार होते हैं। इसी तरह एक के दो भाग में अन्य के दो-तीन और चार भाग
मिलाने से छः प्रकार के गन्धद्रव्य तैयार होते हैं ।।१८।।
एकैकं द्रव्यं यच्च एकभागिकं तदपि द्वित्रिचतुर्भागिकैर्द्रव्यैर्युतं संयुक्तं षड्गन्धकरं
षड्गन्धान् करोति। तद्वत्तेनैव प्रकारेण द्वित्रिचतुर्भागिकं कुरुते। यानि द्रव्याण्यन्यान्येक-
भागिकेऽन्यस्मिन् द्वित्रिचतुर्भागिकानि दत्तानि तान्यपि तेन सह प्राग्वद् भागपरिकल्पनया
षड्गन्धकराणि भवन्ति। एवं प्रत्येकं द्रव्यमेकभागिकमन्यैर्द्वित्रिचतुर्भागिकैर्युक्तं षड्गन्धकरं
भवति ।।१८।।
अथ सर्वेषां सङ्ख्याज्ञानमाह-
द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्यथैकस्य ।
एवं शेषाणामपि षण्णवतिः सर्वपिण्डोऽत्र ।।१९।।
इस तरह एक द्रव्य के योग से छः भेद, चार द्रव्यों के योग से चौबीस भेद एवं
शेष तीन स्थानों में स्थित चार-चार के बहत्तर भेद और सब मिलाकर छियानबे भेद
होते हैं ।।१९।।
यथा येन प्रकारेणैकैकस्य द्रव्यस्य द्रव्यचतुष्टययोगाद् गन्धचतुर्विंशतिर्भवति। एकैकः
सन्नैकभागिके द्रव्ये द्वित्रिचतुर्भागिकानि द्रव्याणि त्रीण्यन्यानि जायन्ते। एवं चत्वारि विमिश्रि-
तानि च सम्पद्यन्ते। तानि षट् पतन्ति। अतः प्रत्येकं षड्गन्धकरम्। एवं षट्चतुष्का-
श्चतुर्विंशतिर्भवन्ति। तस्मादेकैकस्यैव गन्धः। चतुर्विंशतिर्यस्मात् स एव चतुर्विंशतिवारान्
पतति, प्रत्येकस्मिंश्चतुर्विंशतिर्गन्धा भवन्ति। अत उक्तम्-द्रव्यचतुष्टययोगाद् गन्ध-
चतुर्विंशतिर्यथैकस्येति। एवं शेषाणां त्रयाणामपि चतुष्काणां द्विसप्ततिर्गन्धा भवन्ति। सर्व-
पिण्डाः षण्णवतिरत्रास्मिन् गन्धप्रकरणे भवन्ति ।।१९।।
अधुना चतुर्विकल्पेन भिद्यमानानां सङ्ख्याज्ञानमाह-
षोडशके द्रव्यगणे चतुर्विकल्पेन भिद्यमानानाम् ।
अष्टादश जायन्ते शतानि सहितानि विंशत्या ।।२०।।

CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA