बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 339, कुल 760 में से
संदर्भ में पढ़ेंगंधयुक्त्यध्यायः ३११
बारीक चूर्ण करने के पश्चात् उसको सिरके से खट्टे किये केशों में लेप करके हरे पत्ते से
ढक कर दो पहर तक बैठने के बाद उस लेप को धोकर आँवलों का लेप करके हरे
पत्तों से ढककर दो पहर तक बैठा रहे। तत्पश्चात् शिर को धो डाले; इससे केश काले
हो जाते हैं।।२-३।।
लौहे पात्र इति । कोद्रवाः प्रसिद्धाः। कोद्रवाणां तण्डुलान् लोहपात्रे आयसभाजने
शुक्लेऽम्ले काञ्जिकादौ पक्वान् स्विन्नान् ततो लोहचूर्णेनायसचूर्णेन साकं सह पिष्टान्
अतिसूक्ष्मचूर्णीकृतान् मूर्ध्नि शिरसि शुक्लामलकेशे शुक्लेनाम्लेन काञ्जिकादिनाम्लीकृताः
केशा यस्मिंस्तथाविधे मूर्धनि तैर्लेपं कृत्वा तत आर्द्रपत्रैः सरसैर्वेष्टयित्वाऽऽच्छाद्य तिष्ठेत्
प्रहरद्वयं यावत्।
याते द्वितीय इति । ततो द्वितीये प्रहरे यातेऽतिक्रान्ते तल्लेपं विहाय त्यक्त्वा ततः
शिरसि मूर्ध्नि आमलकैः प्रलेपं दद्यात्। पत्रैश्च सरसैः सञ्छाद्य तिष्ठेदन्येन प्रहरद्वयेन तल्लेपं
त्यक्त्वा शीर्षं प्रक्षालयेत्। प्रक्षालितं काष्ण्र्यं कृष्णत्वमुपैति गच्छति।।२-३।।
ततः किं कुर्यादित्याह—
पश्चाच्छिरःस्नानसुगन्धतैलैर्लोहाम्लगन्धं शिरसोऽपनीय।
हृद्यैश्च गन्धैर्विविधैश्च धूपैरन्तःपुरे राज्यसुखं निषेवेत् ॥४॥
केश काले हो जाने के बाद शिरःस्नान और सुगन्धित तेलों के द्वारा लोहे तथा
सिरके के गन्धों को दूर करके मनोहर सुगन्धित द्रव्य और धूपों को लगाते हुये राजा को
अन्तःपुर में राज्यसुख का सेवन करना चाहिये।।४।।
पश्चादनन्तरं शिरःस्नानैः सुगन्ध्यैश्च तैलैर्लोहगन्धमम्लगन्धं च शिरसो मूर्ध्नोऽपनीयापास्य
ततो हृद्यैश्च गन्धैर्हृदयस्य प्रियं हृद्यं चित्ताह्लादकम्। हृद्यैर्गन्धैः सुगन्धद्रव्यैस्तुष्टजननैर्विविधैश्च
धूपैः सहान्तःपुरे राज्यस्य सुखं निषेवेत् स्वमहिषीभिः क्रीडां कुर्यादित्यर्थः।
अत्र द्रव्याणां सर्वेषां प्रायः काञ्जिकेन क्षालनं निर्मलेन केषाञ्चिज्जलेन केषाञ्चिद्
गोमूत्रेण नखतिलतैलेनायसभाण्डे पचेत्। मृद्वग्निना पाकवेधगन्धधूपनानि लोकतो ज्ञेयानि।
आचार्येण नोक्तानि। अस्माभिर्ग्रन्थविस्तरभयान्न प्रदर्शितानि। यतः सकलसंहितास्माभिर्व्या-
ख्यातुमारब्धा केवलमत्राक्षराणां व्याख्या क्रियते, न चास्माकमत्र तथाविधं प्रावीण्यम्।
अतस्तज्ज्ञैर्लोकव्यवहारतः कार्यः प्रयोगनिचयः।।४।।
तत्रादावेव शिरःस्नानमाह—
त्वक्कुष्ठरेणुनलिकास्पृक्कारसतगरबालकैस्तुल्यैः ।
केसरपत्रविमिश्रैर्नरपतियोग्यं शिरःस्नानम् ॥५॥
दालचीनी, कूठ , रेणुका ( गगनधूरि ), नलिका, स्पृक्का, बोल, तगर, नेत्रबाला,
नागकेसर, पत्र ( गन्धपत्र )—इनको सम भाग लेकर पीसे और फिर शिर में लगाकर
स्नान करे तो यह राजा के योग्य शिरःस्नान होता है।।५।।