अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
२० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
प्रतिसंख्यानिरोधो यो विसंयोगः
यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः। दुःखादीनामार्यसत्यानां प्रति¹
प्रतिसंख्यानं¹ प्रतिसंख्या = प्रज्ञाविशेषस्तेन प्राप्यो निरोधः प्रतिसंख्यानिरोधः,
यदि यन्नावृणोति नाव्रियते वा तदाकाशम्, अप्रतिघा अपि चित्तादयः
संस्कारास्तथैवेत्याकाशं प्राप्नुवन्ति ? न प्राप्नुवन्ति; परेषामावरणाभावात् ।
ऋद्धिमन्तो हि चित्तचैत्तबलेन परेषां गति चित्तादीन् वा विबध्नन्ति । प्रति-
संख्याऽप्रतिसंख्यानिरोधौ तर्ह्याविबन्धकत्वादाकाशं प्राप्नुतः ? न; तयोः संयोग-
द्रव्यानुत्पत्तिधर्माणां संयोगप्राप्तिनियतरोधभूतत्वेन, उत्पत्तिविघ्नरोधभूतत्वेन
चावरणभूतत्वात् ।
अथ वा—यस्यानावरणमेव लक्षणं नान्यल्लक्षणं तदाकाशम् । तयो-
श्चान्यल्लक्षणमस्तीति न तौ निरोधावाकाशं प्राप्नुतः । असर्वगतं तर्ह्या-
काशमनित्यं वा प्राप्नोति, आवरणाभावे भावात् तद्भावे चाभावात् ?
कुड्यादिषु ह्यन्यस्वरूपस्यावरणं भवतीति अत्राकाशलक्षणाभावप्रसङ्गः ।
कुड्याद्यपगमे च पुनस्तद्भवतीत्यनित्यं प्राप्नोति ? नानित्यं प्राप्नोति; तत्रापि
कुड्याद्यवकाशदानादाकाशमस्त्येव । यदि हि तत्राकाशं न स्यात्, तस्यैव
कुड्यादेरनवकाशत्वादवस्थानं न स्यात् । यत्तु तत्र रूपान्तरस्यानवस्थानम्,
तन् कुड्याद्यावरणात्, नाकाशाभावात् । उक्तं हि भगवता—"पृथिवी भो
गौतम, कुत्र प्रतिष्ठिता ? पृथिवी, ब्राह्मण, अब्मण्डले प्रतिष्ठिता । अब्मण्डलं
भो गौतम क्व प्रतिष्ठितम् ? वायौ प्रतिष्ठितम् । वायुर्भो गौतम, क्व
प्रतिष्ठितः ? आकाशे प्रतिष्ठितः । आकाशं भो गौतम कुत्र प्रतिष्ठितम् ?
अतिसरसि महाब्राह्मण, अतिसरसि महाब्राह्मण ! आकाशं ब्राह्मण अप्रतिष्ठि-
तमनालम्बनम्” ( ) इति विस्तरः । तस्मादस्त्याकाशमिति
वैभाषिकाः ॥ ५ ।
“यो विसंयोगः” इति । विशेषणेनानित्यता निरोधोऽप्रतिसंख्यानिरोधश्च
व्युदस्तौ भवतः । न हि विसंयोगलक्षणौ तौ निरोधौ । विसंयुक्तिः = विसंयोगः,.
क्लेशविसंयुक्तिलक्षणः, संयोगप्राप्तिनियतरोधभूतो वा यो धर्मः स प्रति-
संख्यानिरोधः । दुःखादीनामार्यसत्यानामिति विशेषणपरिग्रहात् प्रतिसंख्यानम्
अनास्रवैव प्रज्ञा गृह्यते । न हि लौकिकी प्रज्ञा दुःखसत्याद्याकारा, किं तर्हि ?
उत्तर्राधरभूमिशान्ताद्युदाराद्याकारा । प्रज्ञाविशेष इति विशेषग्रहणं क्लेश-
प्रहाणानन्तर्यमार्गप्रज्ञाग्रहणार्थम् । तेन प्रज्ञाविशेषेण प्राप्यो निरोध इति
१-१. प्रतिसंख्यानं—का० ।
निर्देशः ] प्रथमं कोशस्थानम् २१
मध्यपदलोपं कृत्वा¹ गोरथवत् ।
किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः ? नेत्याह ।
किं तर्हि ?
पृथक् पृथक् ।
यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि । अन्यथा हि
दुःखदर्शनहेयक्लेशनिरोधसाक्षात्करणात् सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत ।
सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् ।
यत्तह्युक्तम्—“असभागो निरोधः” इति, अस्य कोऽर्थः ?
प्रतिसंख्यानिरोधः । मध्यपदलोपं कृत्वा इति । “शाकपार्थिवादीनामुपसंख्यानम्,
शाकप्रियाः पार्थिवाः शाकपार्थिवाः” ( पा० सू० २. १. ६० ) इतीष्ट्या
मध्यपदलोपः । यदि · प्रतिसंख्यानास्रवैव प्रज्ञा गृह्येत, लौकिकमार्गप्राप्यो
निरोधो न गृहीत इत्यव्यापि लक्षणं प्राप्नोति ? नाव्यापि; सर्वो हि त्रैधातुक-
२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
‘नास्य कश्चित् सभागहेतुरस्ति नासौ कस्यचित्’ इत्ययमस्य वाक्यस्यार्थः,
न तु नास्य कश्चित् सभागोऽस्तीति ॥
उक्तः प्रतिसंख्यानिरोधः ॥
उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया ॥ ६ ॥
अनागतानां धर्माणा-मुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद् योऽन्यो निरोधः
सोऽप्रतिसंख्यानिरोधः । न ह्यसौ प्रतिसंख्यया लभ्यते, किं तर्हि ?
प्रत्ययवैकल्यात् ।
भवेदिति परस्याभिप्रायः । नास्य कश्चित् सभागहेतुरिति । सभागहेतुः सभाग
इत्येकोऽर्थः, हेतुशब्दलोपात् । दृश्यन्ते हि पदेषु पदैकदेशान् प्रयुञ्जानाः,
वाक्येषु च वाक्यैकदेशान् । तद्यथा—सत्यभामा, भामा; देवदत्तः, दत्तः;
प्रविश पिण्डीम्, प्रविश तर्पणमिति । नित्यः खलु प्रतिसंख्यानिरोधः, तस्य किं
सभागहेतुना प्रयोजनमित्यसभागहेतुः, असभागः । नास्ति सभागोऽस्येत्यसभागः,
बहुव्रीहिसमासः । नासौ कस्यचिदिति । नासौ प्रतिसंख्यानिरोधः कस्यचिद-
न्यस्य धर्मस्य सभागहेतुरित्यधिकृतम् । किं कारणम् ? संस्कृत एवेति सभाग-
हेतुरिष्यते । तत्र न सभागोऽसभाग इति तत्पुरुषः । न तु नास्य कश्चित्
सभागोऽस्तीति । न त्वस्य निरोधस्य कश्चिदन्यो निरोधः सदृशो न
भवतीत्यर्थः ॥
अनागतानां धर्माणा-मुत्पादस्यात्यन्तं विघ्नोऽत्यन्तविघ्नः=अत्यन्तनियतरोधः ।
अन्य इति । अप्रतिसंख्यानिरोधः । स हि प्रतिसंख्यानिरोधादनन्तरोक्तादन्यः ।
अप्रतिसंख्ययेति । प्रसज्यप्रतिषेधेऽयमकारः, न प्रतिसंख्यया प्राप्य इत्यर्थः ।
अथ वा पर्युदासे—प्रतिसंख्याया यदन्यत् प्रत्ययवैकल्यं सा प्रतिसंख्या, तया
प्राप्यो निरोधोऽप्रतिसंख्यानिरोधः, मध्यपदलोपात् । अयुक्तमेतत्; प्रत्ययवैकल्यं
ह्यभावः, कथमभावेन स निरोधः प्राप्यत इति ? औपचारिकत्वाददोषः ।
अथ वा—अप्रतिसंख्यानिरोध इति न प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधः ।
प्रतिसंख्यानिरोधादन्यत्वमात्रमेवोच्यते, न तु प्रत्ययवैकल्यस्य व्यापार इति ।
उत्पादग्रहणमनित्यता-निरोधव्युदासार्थम् । अनित्यता-निरोधो हि धर्मस्थितेर-
त्यन्तविघ्नः, न धर्मोत्पादस्य । अत्यन्तग्रहणमसंज्ञिनिरोधसमापत्त्यसंज्ञिकव्युदासा-
र्थम् । तानि ह्यनागतानां चित्तचैत्तानामुत्पादविघ्नः, न त्वत्यन्तम्; तावत्कालि-
कत्वात् तद्विघ्नभावस्य ।
निर्देशः ] प्रथमं कोशस्थानम् २३
यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपान्तराणि १ शब्दगन्धरसस्प्रष्टव्यानि
चात्यन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यमुत्पत्तुम् २, न हि ते
समर्था ३ अतीतं विषयमालम्बयितुमिति । अतः स तेषामप्रतिसंख्यानिरोधः
प्रत्ययवैकल्यात् प्राप्यते ।
यथैकरूपव्यासक्तचक्षुर्मनस इति । विस्तरः—यथेत्युदाहरणकथनम् । यथै-
कस्मिन्नीले रूपे व्यासक्तं चक्षुर्मनश्च यस्य स एकरूपव्यासक्तचक्षुर्मनाः, तस्य
यानि रूपान्तराणि गृह्यमाणान्नीलादन्यानि नीलान्तरपीतलोहितावदातादीनि
वर्णरूपाणि संस्थानरूपाणि च शब्दगन्धरसस्प्रष्टव्यानि च सर्वाणि अत्यन्ते प्रत्यु-
त्पन्नमध्वानमतिक्रामन्ति । अतीतमध्वानं प्रतिपद्यन्त इत्यर्थः । तदालम्बनैरिति ।
तानि नीलान्तरादीन्यनन्तरोक्तान्यालम्बनान्तराणि येषां ते तदालम्बनाः ।
के ? पञ्च विज्ञानकायाः, तैः न शक्यमुत्पत्तुमिति भावसाधनमेतत् । न हि ते
समर्था इति । विस्तरः—न हि ते पञ्च विज्ञानकाया अतीतं विषयं स्वालम्बन-
मपि शक्ता ग्रहीतुम्; वर्तमानालम्बनत्वात् पञ्चानां विज्ञानकायानाम् । अथान्यदि-
दानीं नीलान्तरादिकं वर्तमानमालम्ब्य कस्मान्नोत्पद्यन्ते ? न शक्यमेवं भवितुम्;
सर्वधर्माणां चतुष्के नियतत्वात्—हेतौ, फले, आश्रये, आलम्बने चेति । यस्य
विज्ञानस्य यदालम्बनं तदेव तस्यालम्बनं भवेत्, भवेन्नान्यदिति आलम्बन-
प्रत्ययवैकल्यात् ते पञ्च विज्ञानकाया न पुनरुत्पद्यन्ते । अत आह—स तेषाम-
प्रतिसंख्यानिरोध इति । विस्तरः—तेषां पञ्चानां विज्ञानकायानां प्रत्यय-
वैकल्यात् प्राप्यत आलम्बनप्रत्ययवैकल्यात् । चतुर्भिरेव हि प्रत्ययैर्हेतुसमनन्तरा-
लम्बनाधिपतिप्रत्ययैश्चित्तचैत्ता उत्पद्यमाना उत्पद्यन्ते । तेषामन्यतरवैकल्ये-
ऽप्यनुत्पत्तिः; समनन्तरप्रत्ययवैकल्यादित्यपरे । समनन्तरप्रत्ययो हि तदानीं
चित्तचैत्तलक्षण एकस्यैव तस्य नीलविज्ञ स्योत्पत्ताववकाशं ददाति, नेतरेषां
नीलान्तरादिविज्ञानानाम्; युगपद्विज्ञानोत्पत्त्यसम्भवात् । उदाहरणमात्रं चैतत् ।
एवं क्षान्तिलाभ्यादीनां पञ्चानामप्यापायिकानामनागतानां स्कन्धानां तदु-
त्पत्तिविरुद्धप्रत्ययसम्मुखीभावेन प्रत्ययवैकल्यादप्रतिसंख्यानिरोधः प्राप्यत इत्यु-
दाहार्यम् । अप्रतिसंख्यानिरोधमेव वाभिसन्धाय स्रोतआपन्नं पुद्गलमधिकृत्योक्तं
भगवता—“निरुद्धा अस्य नरकास्तिर्यञ्चः प्रेताः” ( ) इति ।
तदेवञ्जातीयकानामनागतानां धर्माणां प्रत्ययवैकल्यात्प्रतिसंख्यामन्तरेणोत्पादस्य
नियतरोधभूतो यो धर्मः सोऽप्रतिसंख्यानिरोध इत्युच्यते । न हि प्रत्ययवैकल्य-
१. रूपाणि—का० । २. पुनरुत्पत्तुम्—का० ।
३. सस्या—का० ।
२४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
चतुष्कोटिकं चात्र भवति—१. सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव
लभ्यते, तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् । २. सन्ति येषाम्-
प्रतिसंख्यानिरोध एव, तद्यथा अनुत्पत्तिधर्माणा मनास्रवसंस्कृतानाम् । ३. सन्ति १
येषामुभयम्, तद्यथा सास्रवाणामनुत्पत्तिधर्माणाम् । ४. सन्ति येषां नोभयम्,
मात्रादत्यन्तं तदनुत्पत्तिरुपपद्यते; पुनस्तज्जातीयप्रत्ययसान्निध्ये तदुत्पत्ति-
प्रसङ्गात्, को हि तदा तदुत्पत्तौ विबन्धः स्यादिति वैभाषिकाः ।
चतुष्कोटिकं चात्रेति । विस्तरः—अत्र प्रतिसंख्याऽप्रतिसंख्यानिरोधलक्षणनिर्देशे
चतुष्कोटिकं चतुष्प्रकारं प्रभविसर्जनम् । किमर्थम् ? व्युत्पादनार्थम् । तद्यथातीत-
प्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणामिति सास्रवत्वात् प्रतिसंख्यानिरोध एव लभ्यते ।
अतीतप्रत्युत्पन्नानामुत्पादस्य कृतत्वादुत्पत्तिधर्माणां वावश्यम्भावान्नाप्रति-
संख्यानिरोधो लभ्यते । उत्पादात्यन्तविघ्नलक्षणो ह्यप्रतिसंख्यानिरोधः ।
तद्यथानुत्पत्तिधर्माणामानास्रवाणां संस्कृतानामिति । अत्यन्तविघ्नितोत्पादत्वादेषामनु-
त्पत्तिधर्मत्वम् । अतश्च तेषामप्रतिसंख्यानिरोधो लभ्यते । तद्यथा षड्भूमिका-
नामनागम्यध्यानान्तरध्यानभूमिकानां श्रद्धानुसारिमार्गाणामेकस्मिन् सम्मुखी-
भूते शेषाणां पञ्चानामप्रतिसंख्यानिरोधो लभ्यते, न तु प्रतिसंख्यानिरोधः;
अनास्रवत्वात् । न हि निर्दोषं प्रहाणार्हं भवति । अनुत्पत्तिधर्मग्रहणमतीत-
प्रत्युत्पन्नोत्पत्तिधर्मनिरासार्थम्, अनास्रवग्रहणं सास्रवनिरासार्थम् । संस्कृत-
ग्रहणमसंस्कृतनिरासार्थम् । असंस्कृतमपि हि स्वभावतोऽनुत्पत्तिधर्मकम् ।
अतस्तत्प्रसङ्गो मा भूदिति तद्विशेषणम् ।
केषाञ्चिदेवं पाठः—तद्यथानुत्पत्तिधर्माणा मनास्रवाणामिति । तेषां कथम-
संस्कृतानां ग्रहणाप्रसङ्गः ? न भवति । येषां धर्माणां प्रतिसंख्यानिरोधोऽप्रति-
संख्यानिरोधो वा सम्भवति तेषामधिकारः, न चासंस्कृतानां तौ निरोधौ
सम्भवतः । उत्पादात्यन्तविघ्नो ह्यप्रतिसंख्यानिरोधः, न चासंस्कृतानामुत्पा-
दोऽस्ति । किञ्च—अनुत्पत्तिधर्माणामिति पर्युदासेन नञ्समासः । उत्पत्तिधर्मेभ्यो
येऽन्ये तत्सदृशाश्च धर्मास्तेऽनुत्पत्तिधर्माणः । के च तादृशाः ? संस्कृता एव
नासंस्कृता इत्यप्रसङ्गोऽसंस्कृतानामिति ब्रुवते ।
सन्ति येषामुभयमिति प्रतिसंख्यानिरोधश्च, अप्रतिसंख्यानिरोधश्च । तद्यथा
सास्रवाणामिति । विस्तरः—सास्रवत्वात् तेषां प्रतिसंख्यानिरोधः प्राप्यते ।
अनुत्पत्तिधर्मत्वादप्रतिसंख्यानिरोधोऽपि प्राप्यते यदा, तदानयोः प्राप्तिर-
भिप्रयेते । नावश्यमनयोर्युगपत् प्राप्तिर्भवति । केषाञ्चिद्धि पूर्वं प्रतिसंख्यानिरोधः
१. सन्ति ते—का० ।
[निर्देशः ] प्रथमं कोशस्थानम् २५
तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामनास्रवाणामिति ॥ ६ ॥
उक्तं त्रिविधमसंस्कृतम् ॥
यदुक्तम्¹—“संस्कृता मार्गवर्जिताः सास्रवाः” इति (अभि० को० १. ४),
कतमे ते संस्कृताः ?
ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् ।
रूपस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, विज्ञानस्कन्धश्चेति,
प्राप्यते, पश्चादप्रतिसंख्यानिरोधः, तद्यथा-अर्हत् एकरूपव्यासक्तचक्षुर्मनसस्त-
दन्यरूपाद्यालम्बनानां पञ्चानां विज्ञानकायानाम् । केषाञ्चित् पूर्वमप्रतिसंख्या-
निरोधः प्राप्यते, पश्चात् प्रतिसंख्यानिरोधः, तद्यथा—क्षान्तिलाभिनोऽपायगती-
नाम् । केषाञ्चिद् युगपत्, तद्यथा—दृष्टिप्राप्तस्याधिमात्राधिमात्रक्लेशप्रतिपक्षो-
दये तेषामधिमात्राणामनागतानां क्लेशानां प्रतिसंख्यानिरोधश्चाप्रतिसंख्या-
निरोधश्च युगपत् प्राप्यते । एवमन्येषामपि संभवतो योज्यम् ।
तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्माणामनास्रवणामिति । अतीतादीनामेषामुत्पा-
दस्य विघ्नयितुमशक्यत्वादप्रतिसंख्यानिरोधो न लभ्यते । अनास्रवत्वाच्चैषां
प्रतिसंख्यानिरोधोऽपि न लभ्यते । असंस्कृतानां तूत्पादाभावाच्चाप्रतिसंख्या-
निरोधोऽस्ति । 'उत्पादात्यन्तविघ्नो ह्यप्रतिसंख्यानिरोधः'—इत्युक्तं प्राक् ।
अनास्रवत्वाच्च प्रतिसंख्यानिरोधोऽपि नास्ति ॥ ६ ॥
एवमसंस्कृतस्याल्पवक्तव्यत्वात् पुरस्तात् तत्प्रभान् परिसमाप्य संस्कृता-
न्निर्देष्टुकाम उपोद्घातमुत्थापयति—यदुक्तम् “संस्कृता मार्गवर्जिताः सास्रवाः”
(अभि० १. ४) इति, कतमे ते संस्कृता इति ।
“ते पुनः संस्कृता धर्माः” इति । पुनःशब्दः प्रभेदान्तरप्रदर्शनार्थः । उक्तः पूर्व-
प्रभेदः—“सास्रवानास्रवाः” इति । अयं तु पुनःप्रभेद इति । असंस्कृतनिर्देशेन
व्यवहितत्वात् पुनः संस्कृतग्रहणमसंसकृतनिरासार्थम् । ‘ते’ इति तच्छब्दः पूर्व-
प्रकृतापेक्षः । के च पूर्वप्रकृताः ? अवर्जिताश्च ये सास्रवाः, वर्जिताश्च ये मार्गसत्य-
स्वभावाः, उभये ह्यपेक्षिताः । कथं गम्यते ? “ये सास्रवा उपादानस्कन्धास्ते”
(अभि० १. ८) इत्यनास्त्रवेभ्यः सास्रवनिष्कर्षवचनात् । यत् “रूपादिस्कन्ध-
पञ्चकम्” वक्ष्यमाणलक्षणम्, तेऽमी संस्कृता द्रष्टव्याः । अन्योन्यमेषां संग्रहः ।
रूपादिग्रहणं शीलादिस्कन्धनिरासार्थम् । अन्येऽपि हि पञ्च स्कन्धाः सन्ति—
शीलस्कन्धः, समाधिस्कन्धः, प्रज्ञास्कन्धः, विमुक्तिस्कन्धः, विमुक्तिज्ञानदर्शन-
१. यत्तूक्तं—का० ।
एते संस्कृता धर्माः। समेत्य = सम्भूय प्रत्ययैः कृता इति संस्कृताः। न ह्येक-
प्रत्ययजनितं किञ्चिदस्तीति तज्जातीयत्वादनागतेष्वविरोधः, दुग्धवत्¹।
त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः ॥ ७ ॥
त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः, अद्यन्तेऽनित्यतयेति वा।
कथा = वाक्यम्, तस्या वस्तु नाम। सार्थकवस्तुग्रहणात् तु संस्कृतं कथा-
वस्तुच्यते। अन्यथा हि प्रकरणग्रन्थो विरुध्येत—“कथावस्तून्यष्टादश-
स्कन्धश्चेति। स्कन्धग्रहणं रूपादिविषयनिरासार्थम्। समेत्य सम्भूयेति पर्याया-
वेतौ। अथवा—समेत्य = समागम्य, अन्योन्यमपेक्ष्येत्यर्थः। सम्भूय, सङ्गत्येत्येवं
संशब्दस्यार्थं दर्शयति। न ह्येकप्रत्ययजनितमिति सर्वाल्पप्रत्ययत्वेऽप्यवश्यं द्वौ
प्रत्ययौ स्तः।
“चतुर्भिश्चित्तचैत्ता हि समापत्तिद्वयं त्रिभिः।
द्वाभ्यामन्ये तु जायन्ते” (अभि० ४.६५)
इति वचनात्। दुग्धवदिति। संस्कृतशब्दस्य निष्ठान्तत्वान्निष्ठान्तशब्देनैव
दृष्टान्तं दर्शयति। दुग्धवदिति दुग्धं नाम क्षीरम्। यत् स्तनान्निष्कासितं तद्
दुग्धमिति न्याय्यम्, यत्तु निष्कासिष्यते यच्च नैव निष्कासिष्यते धेनुस्थमेव
वर्तते तद् दुग्धमिति न प्राप्तम्, उच्यते च लोके। एवमिहापि ये संस्करिष्यन्त
उत्पत्तिधर्माणोऽनागताः, येऽपि न संस्करिष्यन्तेऽनुत्पत्तिधर्माणस्तेऽपि संस्कृता
इत्युच्यन्ते; तज्जातीयत्वात् स्वलक्षणसादृश्यात्।
“त एवाध्वा” इति। विस्तरः—सर्वाभिधर्मः सूत्रार्थः=सूत्रनिकषः, सूत्रव्या-
ख्यानमिति। सूत्रोक्तानामप्यध्वादीनां स्कन्धपर्यायरूपाणामिह वचनम्।
गतगच्छद्गमिष्यद्भावादिति। लोके प्रसिद्धमध्वानमपेक्ष्यायमध्वा व्याख्यातः।
तथा हि लोके कथ्यते—अयमध्वा ग्रामं गतः, अयमध्वा गच्छति, अयमध्वा
गमिष्यतीति। एवमिहापि गतोऽध्वा योऽतीतः, गच्छति यो वर्तमानः, गमिष्यति
योऽनागत इति। अद्यन्तेऽनित्यतयेति वा वा। अध्वान इत्यधिकृतम्। नैरुक्तं
विधानमपेक्ष्यायमर्थो दर्शितः। अद्यन्ते=नित्यतया भक्ष्यन्त इत्यध्वान इति
संस्कृता एवाध्वशब्देन भगवता देशिताः।
“कथावस्तु”—शब्देनापि त एव संस्कृता भगवता देशिताः। “त्रीणीमानि
भिक्षवः कथावस्तून्यचतुर्थान्यपञ्चमानि, यान्याश्रित्यार्याः कथाः कथयन्तः
कथयन्ति। कतमानि त्रीणि? अतीतं कथावस्तु, अनागतं कथावस्तु, प्रत्युत्पन्नं
१. दुग्धेन्धनवत्—का०।
निर्देशः १ प्रथमं कोशस्थानम्
भिर्धातुभिः संगृहीतानि” ( ) । निःसरणं निःसारः = सर्वस्य संस्कृतस्य
निर्वाणम्, तदेषामस्तीति सनिःसाराः । सहेतुकत्वात् सवस्तुकाः । हेतुवचनः
किल वस्तुशब्द इति वैभाषिकाः । इत्येते संस्कृतधर्मपर्यायाः ।
त एव पुनः संस्कृता धर्माः—
कथावस्तु” (अं० नि० ३.७.७) इति । कथा वाक्यमिति । विस्तरः—कथा =
वाक्यम्, वर्णात्मकः शब्द इत्यर्थः । तस्या वस्तु नाम विषय इत्यर्थः । नाम्नः
पुनरर्थोऽभिधेयः । तथा हि वक्ष्यति—“वाङ् नाम्नि प्रवर्तते नामार्थं द्योतयति”
इति । यदि नामैव कथावस्तु, नामैव संस्कारस्कन्धैकदेश एवेति, कथं कृत्वा
कथावस्तुशब्देन संस्कृता एवोक्ताः ? इत्यत आह—सार्थकवस्तुग्रहणात् तु
संस्कृतं कथावस्तूच्यत इति । अन्यथा हीति । विस्तरः—यदि सार्थकं
वस्तु न गृह्येत, प्रकरणग्रन्थो विरुध्यंत—कथावस्तून्यष्टादशभिर्धातुभिः
संगृहीतानीति । कया पुनरुक्त्या सार्थकं वस्तु गृह्यते ? द्विविधः कथाया
विषयः—साक्षात्, पारम्पर्येण च । साक्षाद्विषयो नाम, पारम्पर्येणार्थः । स हि
स्वविषयभूतस्य नाम्नो विषय इति । अतस्तस्यापि विषयो व्यवस्थाप्यते ।
असंस्कृतं कस्मान्न कथावस्तुत्वेनोक्तम् ? अध्वपतितस्य नाम्नोऽनध्वपतितेन
सहार्थायोगात् । विषयो हेतुरिति वा । अर्थद्वयवाचकवस्तुशब्दपरिग्रहाद् वा ।
यदि कथाया विषयो हेतुः प्रत्ययश्च भवति, तत् कथावस्तु । असंस्कृतं तु न
हेतुप्रत्ययः कथाया इति न कथावस्तु । अथवा—अतीतादीनां संस्कृतानामति-
बहुरूपत्वेनाख्यातकरणयोग्यत्वात्—‘एवं चैवं च दीपंकरस्तथागतोऽभूत्’, ‘एवं
चैवं च मैत्रेयस्तथागतो भविष्यति’, ‘एवं चैवं च राजा कप्पिणो भवति’ इति ।
अतः संस्कृता एव कथावस्तुत्वेनोक्ताः, नासंस्कृताः ।
सर्वस्य संस्कृतस्य निर्वाणमिति निरुपधिशेषनिर्वाणम् । यद्येवम्, सास्त्रवस्य
तदस्तीति भवति सास्त्रवस्य सनिःसारत्वयोगः, मार्गसत्यस्य तु कथम् ? “कोलो-
पमं धर्मपर्यायमाजानद्भिर्धर्मा अपि प्रहातव्याः प्रागेवाधर्माः” (वज्र० प्र०) इति
मार्गसत्यस्यापि निःसरणं कल्पत एवेति सर्व एव संस्कृता सनिःसारा भवन्ति ।
“सवस्तुकाः” इति । वसन्त्यस्मिन् प्राक् कार्याणि पश्चात्तत उत्पत्तिरिति
वस्तुहेतुरित्यर्थः, स एषामस्तीति सवस्तुकाः । प्रवचने हि वस्तुशब्दः पञ्चस्वर्थेषु
दृश्यते—स्वभावे, आलम्बने, संयोजनीये, हेतौ, परिग्रहे च । स्वभावे तावत्—
यद् वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुनेति तेन स्वभावेनेति गम्यते ।
। आलम्बने—ज्ञेया धर्माः । कतमे ? आह—सर्वे धर्मा ज्ञानेन ज्ञेया यथावस्तु,
यथालम्बनमित्यर्थः । संयोजनीये-यस्मिन् वस्तुन्यनुशयसंयोजनेन संयुक्ताः प्रतिघ-
२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
ये सास्रवा उपादानस्कन्धास्ते,
अतः किं सिद्धम् ? 'ये उपादानस्कन्धाः स्कन्धा अपि ते स्युः स्कन्धा एव,
नोपादानस्कन्धाः, अनास्रवाः संस्काराः' इति। तत्र उपादानानि = क्लेशाः,
तत्सम्भूतत्वादुपादानस्कन्धाः, तृणतुषाग्निवत्। तद्विधेयत्वाद्वा, राजपुरुषवत्।
उपादानानि वा तेभ्यः सम्भवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत्।
त एव सास्रवा धर्मा उच्यन्ते—
संयोजनेनापि तस्मिन्निति। हेतौ—सवस्तुका धर्माः। कतमे ? सर्वे संस्कृता
धर्मा इति। परिग्रहे—क्षेत्रवस्तु, गृहवस्तु, आपणवस्तु, धनवस्तु। परिग्रहं प्रहाय
ततः प्रतिविरतो भवतीति। इह हेतौ वस्तुशब्दो वेदितव्यो हेतुवचनः। किलेति
किलशब्दः परमतं¹ दर्शयति। स्वमतं त्वस्य लक्ष्यते। सवस्तुकाः सस्वभावाः
संस्कृताः। असंस्कृतास्त्ववस्तुकाः, प्रज्ञप्तिसत्त्वादिति॥ ७॥
त एव पुनः संस्कृता इति ये सास्रवा अनास्रवाः पूर्वमुक्ता इति दर्शयति—
“ये सास्रवा उपादानस्कन्धास्ते” इति। 'तेषाम्' इत्यत्राध्याहार्यम्। किं सिद्धमिति।
यदर्थापन्नं तद्विचारयति। उपादानस्कन्धादयः सूत्रेषूक्ताः, तेनेह ते न व्याख्या-
यन्ते। सर्वोऽभिधर्मः सूत्रार्थ इति विस्तरेणोक्तमेतत्। तत्सम्भूतत्वादुपादान-
स्कन्धा इति। उपादानसम्भूताः स्कन्धा उपादानस्कन्धाः, मध्यमपदलोपात्।
यथा तृणसम्भूतोऽग्निस्तृणाग्निः,। उपादानानां
स्कन्धा उपादानस्कन्धा इति षष्ठीसमासेनेव मध्यमपदलोपमकृत्वाऽन्ये साधयन्ति,
एवं च निदर्शयन्ति—यथा तृणानामग्निस्तृणाग्निरिति। युक्तम् ये सत्त्व-
संख्यातास्त उपादानस्कन्धाः, क्लेशाभिस्यन्दितकर्महेतुकत्वात्; बाह्यास्तु
भावाः कथमुपादानस्कन्धाः ? तेऽप्युपादाननिर्वृत्ताः, “कर्मजं लोकवैचित्र्यम्”
(अभि० को० ४. १) इति सिद्धान्तात्।
तद्विधेयत्वाद्वा राजपुरुषवदिति। यथा राज्ञो विधेयः पुरुषः, एवमुपादानानां
विधेयाः स्कन्धाः, तद्वशेनालम्बनगत्यन्तरप्रवृत्तेः। उपादानानि वा तेभ्यः सम्भ-
वन्तीति। अर्थकथनमात्रमेतत्। पदानि त्वेवं वक्तव्यानि—उपादानानां सम्भवा
हेतवो वा स्कन्धा उपादानस्कन्धाः। पुष्पफलवृक्षवत्। यथा पुष्पाणां फलानां
वा सम्भवो हेतुर्वृक्षः, पुष्पवृक्ष इति वा, तद्वत्। अर्हत्स्कन्धा अपि पारसान्ता-
निकोपादानविधेयाः, विक्रियापादनात्। तेभ्योऽपि पारसान्तानिकान्युपादानानि
सम्भवन्तीत्यविरुद्धमेषामुपादानस्कन्धत्वम्।
१. वैभाषिकमतमित्यर्थः।
― निर्देशः ] प्रथमं कोशस्थानम् २९
सरणा अपि ।
रणा हि क्लेशाः; आत्मपरव्याबाधनात् । तदनुशयितत्वात् सरणाः,
सास्रववत् । पुनः—
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते ॥ ८ ॥
आर्याणां प्रतिकूलत्वाद् दुःखम् समुदेत्यस्माद् दुःखमिति समुदयः ।
लुज्यत¹ इति लोकः । दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् । भवतीति
भवः । इत्येते सास्रवाणां धर्मांणामन्वर्थपर्यायाः ॥ ८ ॥
रणा हि क्लेशा आत्मपरव्याबाधनादिति । ये ह्यात्मानं परांश्च व्याबाधन्ते
ते रणाः, युद्धानीत्यर्थः । तथैव च क्लेशा रणा उच्यन्ते । तदनुशयितत्वा-
दिति । तैरनुशयिता उपसेविता इत्यर्थः । अथ वा—अनुशयिनः कृतास्तैरनु-
शयिनः, तद्भावस्तदनुशयितत्वम्, तस्मात् = तदनुशयितत्वात् । अथ वा—
तेषामनुशयितत्वम्, तस्मात् । सरणाः सास्रववत् । सास्रवत्वे यद्व्याख्यानं
तदेवास्य वक्तव्यम् । आर्याणां प्रतिकूलत्वाद् दुःखम् इति । संस्कारदुःखतयार्याणां
तन् प्रतिकूलम् । समुदेत्यस्मात् दुःखमिति समुदय इति । हेतुभूताः स्कन्धाः
समुदयः, फलभूताः स्कन्धा दुःखमिति वर्णयन्ति । लुज्यत इति लोकः इति ।
“अस्मिन्नेव रोहिताश्व व्याममात्रे कलेवरे लोकं प्रज्ञापयामि लोकसमुदयं च”
( अं० नि० २. ४८ ) इति सूत्रम्, “लुज्यते प्रलुज्यते तस्माल्लोकः” ( सं०
नि० ४. ५२ ) इति च भगवतैवोक्तम् । लुज्यते विनश्यतीत्यर्थः । लुजिरिह
गृहीतः, न लोकिः । नैरुक्तेन तु विधानेन गकारस्य स्थाने ककारः कृतः,
तस्माल्लोक इति भवति । दृष्टिरस्मिंस्तिष्ठतीति । “ये केचिद् भिक्षव आत्मत
आत्मीयतश्च समनुपश्यन्ति न इमानेव पञ्चोपादानस्कन्धानात्मत आत्मीय-
तश्च समनुपश्यन्ति” ( ) इति वचनादुपादानस्कन्धाः दृष्टिस्थानम् ।
भवतीति भवः इति । सास्रवा एव धर्मा भवशब्देनोक्ताः; “भवः कतमः ?
पञ्चोपादानस्कन्धाः” ( ) इति वचनात् । एते च दुःखादयः शब्दा
मार्गसत्येऽपि प्रसज्यन्ते, मार्गसत्यमपि हि संस्कारदुःखतया दुःखम्, समनन्तर-
प्रत्ययादिभावेन चास्मात् सास्रवं वस्तु समुदेति, लुज्यते च, दृष्टिश्च तदालम्बते,
भवति च तदुत्पद्यत इत्यर्थः ? नैष दोषः; रूढिं ह्यपेक्षते शब्दप्रवृत्तिः । ये धर्माः
१. लक्ष्यत—का० ।
“पञ्च रूपादयः स्कन्धाः” ( अभि० को० १.७ ) इत्युक्तम्, तत्र—
रूपं पञ्चेन्द्रियाण्यथाः पञ्चाविज्ञप्तिरेव च ।
पञ्चेन्द्रियाणि चक्षुः-श्रोत्र-घ्राण-जिह्वा-कायेन्द्रियाणि, पञ्चार्थास्तेषामेव
चक्षुरादीन्निन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः,
अविज्ञप्तिश्च—इति एतावान् रूपस्कन्धः ।
तत्र य एते पञ्च रूपादयोऽर्था उक्ताः,
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ॥ ९ ॥
संस्कारदुःखतया आर्याणां प्रतिकूला दुःखानिरोधिनः तदुत्पादकाः प्रसिद्धा दृष्टि-
पुष्टिजनका अनादिमति च संसारे विनश्यन्ति, भवन्ति तेष्वेवामी दुःखादय
आर्यैः सङ्केतिताः, न मार्गसत्ये । तस्मात् सास्रवा एव धर्मा दुःखशब्दाद्य-
भिधेया भवन्ति, नानास्रवाः । न हि ‘गच्छतीति गौः’ इत्य
य...). Wait, look at the ligature: Could it be हेतुर्हि? No, not ह. Could it be हेतुर्...? Actually, let's look at र्ति: It is र्तिfollowed byत्य. That is र्तित्य! Wait, could it be हेतुर्हित्त्यमर्थ? No. Let's transcribe it as it appears: हेतुर्तिव्यमर्थ/हेतुर्ति त्यमर्थ/हेतुस्त्वित्यमर्थ? Wait, if Sphutartha has हेतुरित्ययमर्थ, why would it be हेतुर्ति...? A typo in Shastri's edition: Shastri's typesetters frequently had typos like this (e.g. नामाश्नयभूताforनामाश्रयभूताin line 1). Wait, look at line 1 again: is line 1नामाश्नयभूता? Let's zoom in on नामाश्नयभूता: Look at श्न: Wait, is that श्नorश्र? In श्र, there is a loop at top left. In श्न, there is a loop at top left, then it goes down and connects to न. Look at श्नin line 1: It has the loop ofश`, then a line down, then a horizontal connector, then a vertical stem!
३२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
रूपं द्विधा,
वर्णः, संस्थानं च। तत्र वर्णश्चतुर्विधो नीलादिः। तद्भेदा अन्ये।
संस्थानमष्टविधं दीर्घादि विसातान्तम्।
तदेव रूपायतनं पुनरुच्यते—
विंशतिधा,
तद्यथा—नीलम्, पीतम्, लोहितम्, अवदातम्, दीर्घम्, ह्रस्वम्,
वृत्तम्, परिमण्डलम्, उन्नतम्, अवनतम्, सातम्, विसातम्, अभ्रम्,
धूमः, रजः, महिका, च्छाया, आतपः, आलोकः, अन्धकारमिति। केचित् नभ-
श्चैकवर्णमिति एकविंशतिं सम्पठन्ति। तत्र सातम् = समसंस्थानम्। विसातम् =
विषमस्थानम्। महिका = नीहारः। आतपः = सूर्यप्रभा। आलोकः = चन्द्रतार-
काग्न्योषधिमणीनां प्रभा। छाया = यत्र रूपाणां दर्शनम्। विपर्ययादन्धकारम्।
शेषं सुगमत्वान्न विपञ्चितम्। अस्ति रूपायतनम् —वर्णतो विद्यते न संस्थानतः,
नीलपीतलोहितावदातच्छायातपालोकान्धकाराख्यम्; अस्ति संस्थानतो न वर्णतः,
“रूपं द्विधा” इति। चक्षुर्बोध्यो वर्णसंस्थानभेदाद् द्विप्रकारः। लोकप्रतीत-
त्वात् तस्य स्वलक्षणमनुक्त्वा प्रभेद एव कथ्यते। वर्णश्चतुर्विधो नीलादिरिति।
नीललोहितपीतावदाता वर्णाः। तद्भेदा नान्य इत्यभ्रादयः।
अपरे व्याचक्षते—तद्भेदा अन्य इति नीलादिवर्णचतुष्टयसम्पर्कविशेषात्
काकाण्डवर्णादयोऽपि जायन्ते, न केवलमभ्रादय इति। संस्थानमाकृतिविशेषः।
पुनस्तदेवान्तर्गणिकेन भेदेन भिद्यते—“विंशतिधा” इति। तद्यथा¹—
संस्थानमष्टविधं दीर्घादिविसातान्तम्, शेषो द्वादशविधो वर्ण इति विंशतिधा।
नभश्चैकवर्णमिति। यद् दूरतो वैदूर्यमित्याकारं दृश्यते। वृत्तं वर्तुलम्। परिमण्डलं
चक्रलम्। उन्नतं स्थूलादिरूपम्। अवनतं निम्नरूपम्। यत्र रूपाणां दर्शनमिति
वचनं छायान्धकारयोर्नानाकरणप्रदर्शनार्थम्। न विपञ्चितं न विभक्तमित्यर्थः।
इदमिह विचार्यते—यदि नीलादिवर्णचतुष्टयभेदा एवाभ्रादयो न तद्व्यति-
रिक्ता भवन्ति, यथेह काकाण्डादिवर्णा नोक्तास्तथाभ्रादयोऽपि न वक्तव्या
इति? नैतद् व्याख्यानकारैर्विचारितम्। शक्यं त्वेवं भणितुम्—मायारूपसदृश-
त्वात्रीलादिभेदभूता अपि तेऽभ्रादयः पृथगुक्ताः। तथा हि ते दूरतो भित्तय
इव लक्ष्यन्ते, अभ्याशगमने तु न दृश्यन्ते। मा कस्यचिदेवं भूत्—नैतत्
१. नीलपीतादि—इत्यधिकः पाठो मुद्रितपुस्तके।
निर्देशः ] प्रथमं कोशस्थानम् ३३
दीर्घादीनां प्रदेशः कायविज्ञप्तिस्वभावः, अस्त्युभयथा, परिशिष्टं रूपायतनम् ।
आतपालोकावेव वर्णतो विद्येते इत्यपरे; दृश्यते हि नीलादीनां दीर्घादि-
परिच्छेद इति ।
कथं पुनरेकं द्रव्यमुभयथा विद्यते ? अस्त्युभयस्य तत्र प्रज्ञानात् । ज्ञानार्थो
ह्येष विदिः, न सत्ताथः । कायविज्ञप्तावपि तर्हि प्रसङ्गः ।
उक्तं रूपायतनम् ॥
किञ्चिदस्ति, विमतिर्वा—किमस्त्येतत्, उत भ्रान्तिमात्रमिति । तद्विपर्यास-
संशयनिवृत्त्यर्थमिमेऽष्टादय उक्ताः । सन्त्येवामी रूपायतनस्वभावा इति ।
दीर्घादीनां प्रदेश इति । दीर्घादिविसातान्तप्रदेश इत्यर्थः । कतरोऽसौ प्रदेशः ?
इत्याह—कायविज्ञप्तिस्वभाव इति । कायविज्ञप्तिर्हि कदाचिद्दीर्घा, कदाचिद्ध्रस्वा,
कदाचिद् यावद्विसातेति कीदृशी पुनः सावगन्तव्या ? तदालम्बनचित्तसमुत्था-
पितं यत् कायकर्म । अकायकर्मस्वभावं तु दोर्घादिविसातान्तं निरस्तं बोद्धव्यम् ।
अस्त्युभयथा, परिशिष्टमिति । यन्निरस्तं दीर्घादि, अभ्रधूमरजोमहिकाश्च ।
दृश्यते हि नीलादीनां दीर्घादिपरिच्छेद इति । नीलपीतलोहितावदातच्छाया-
न्धकाराणां दीर्घादिसंस्थानग्रहणम् । तस्मादेषामपि तृतीयायां कोट्यामन्त-
र्भाव इत्यभिप्रायः ।
कथं पुनरेकं द्रव्यमुभयथा विद्यत इति । कथमेकं द्रव्यं वर्णसंस्थानात्मकं
भवति, वर्णरूपाद्धि संस्थानरूपं द्रव्यान्तरमिति वः सिद्धान्तः । उभयस्य तत्र
प्रज्ञानात् । वर्णसंस्थानस्य तत्र ग्रहणात् । ज्ञानार्थो ह्येष विदिर्न सत्ताथं इति ।
“विद ज्ञाने” (मा० धा० २.५५) इत्येतस्य धातोर्लुग्विकरणस्यैतद्रूपं विद्यत इति,
न तु “विद सत्तायाम्” ( मा० धा० ४.६२) इत्येतस्य धातोः श्यन्विकरणस्यै-
तद्रूपमित्यर्थः । ज्ञानं तत्रोभयाकारं प्रवर्तते, न तु द्रव्यमेकमुभयलक्षणमिति
वैभाषिकपरिहारः । कायविज्ञप्तावपि तर्हि प्रसङ्ग इत्याचार्यः । न हि कायविज्ञप्तौ
गृह्यमाणायां वर्णग्रहणं न प्रवर्तते ।
वैभाषिकाणामयमभिप्रायः—नीलादिग्रहणमातपालोकग्रहणं वा संस्थान-
निरपेक्षं प्रवर्तते, कायविज्ञप्तिग्रहणं तु वर्णनिरपेक्षम्; परिशिष्टरूपायतनग्रहणं
तु वर्णसंस्थानापेक्षं प्रवर्तत इति । सौत्रान्तिकपाक्षिकस्त्वयमाचार्यों नैनमर्थं
प्रयच्छतीति । न हि चाक्षुषमेतत् संस्थानग्रहणम्, मानसं त्वेतत् परिकल्पितम् ।
वर्णसंनिवेशविशेष एव हि संस्थानम् । न संस्थानं नाम द्रव्यं किञ्चिदस्ति;
वर्णग्रहणे संस्थानग्रहणाभावात् । एतच्च कर्मकोशस्थाने परीक्ष्यते ।
अभि० को० ३
३४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे
शब्दस्त्वष्टविधः,
उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति¹ चतुर्विधः । स पुन-
र्मनोज्ञामनोज्ञभेदादष्टविधो भवति । तत्रोपात्तमहाभूतहेतुको यथा—हस्तवाक्छब्दः,
अनुपात्तमहाभूतहेतुको यथा—वायुवनस्पतिनदीशब्दः, सत्त्वाख्यो वाग्विज्ञप्ति-
शब्दः, असत्त्वाख्योऽन्यः । उपात्तानुपात्तमहाभूतहेतुकोऽप्यस्ति शब्द इत्यपरे,
तद्यथा—हस्तमृदङ्गसंयोगज इति । स तु यथैको वर्णपरमाणुर्न भूतचतुष्कद्वय-
मुपादाय² वर्तते², तथा नैवैष्टव्य इति ।
उक्तः शब्दः ॥
सत्त्वासत्त्वाख्यश्चेति वाग्विज्ञप्तिशब्दः, तद्व्यतिरिक्तश्चेत्यर्थः । सत्त्वासत्त्व-
संख्यातश्चेति केचित् पठन्ति । अयमेव चेहार्थोऽभिप्रेतः । यदि हि 'सत्त्वासत्त्व-
सन्तानजः' इत्ययमर्थोऽभिप्रेतो भवेत्, सत्त्वाख्यो वाग्विज्ञप्तिशब्दोऽसत्त्वाख्योऽन्य
इत्येवं वक्ष्यमाणकं विवरणं निःप्रयोजनमेव । तस्मात् 'सत्त्वासत्त्वाख्यश्च' इति पाठः
स्फुटः पठितव्यः । उपात्तमहाभूतहेतुक इति । प्रत्युत्पन्नानीन्द्रियाविनिर्भागानि
भूतान्युपात्तानि, अन्यान्यनुपात्तानि । उपात्तानि महाभूतानि हेतुरस्येत्युपात्त-
महाभूतहेतुकः । यथा हस्तवाक्छब्द इति । यदि सत्त्वसन्तानज इत्यभिप्रेतः,
बाह्योऽपि हि निर्मितो मानुषाकारो हस्तवाक्छब्दं कुर्यात् । स चानुपात्तमहा-
भूतहेतुकस्वभावोऽवगन्तव्यः; इन्द्रियविनिर्भागवर्तित्वात् । स च मानुषीमपि
वाचं निर्मातृवशाद् भाषेत । वक्ष्यति हि—
“एकस्य भाषमाणस्य भाषन्ते सर्वनिर्मिताः ।
एकस्य तूष्णीम्भूतस्य सर्वे तूष्णीम्भवन्ति ते ॥”
तस्य च बाह्यनिर्मितशब्दस्यानुपात्तमहाभूतहेतुक इत्यत्र ग्रहणम् । यथा
वायुवनस्पतिनदीशब्द इति । यथाशब्दस्योदाहरणार्थत्वात् । सत्त्वाख्यो वाग्विज्ञप्ति-
शब्दोऽसत्त्वाख्योऽन्य इति । सत्त्वमाचष्टे सत्त्वाख्यः । वाग्विज्ञप्तिशब्देन हि
'सत्त्वोऽयम्' इति विज्ञायते, तं वाग्विज्ञप्तिशब्दं वर्जयित्वान्यः शब्दो हस्त-
शब्दोऽपि यावदसत्त्वाख्य एव, किमङ्ग असत्त्वसन्तानज इति व्याख्यातं भवति ।
तदेवमुपात्तमहाभूतहेतुकः सत्त्वाख्यश्चासत्त्वाख्यश्च भवति; अनुपात्तमहाभूत-
हेतुकोऽपि निर्मितशब्दो वाग्विज्ञप्तिस्वभावः सत्त्वाख्यः, तन्मेव हस्तशब्दो वायु-
वनस्पत्यादिशब्दश्चासत्त्वाख्य इति चतुर्विधः शब्दो मनोज्ञामनोज्ञभेदात् पुनरष्ट-
विधो भवति । यथैको वर्णपरमाणुरिति न भूतचतुष्कद्वयमुपादाय वर्तते शब्दः;
१. सत्त्वासत्त्वसंख्यातश्चेति—का० । २-२. •मुपादायेष्यते—का० ।
निर्देशः ] · प्रथमं कोशस्थानम् ३५
रसः ।
षोढा,
मधुराम्ललवणकटुतिक्तकषायभेदात् ॥
चतुर्विधो गन्धः,
सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् । त्रिविधस्तु शास्त्रे— सुगन्धः,
दुर्गन्धः, समगन्ध इति ·
स्प्रष्टव्यमेकादशात्मकम् । १० ॥
स्प्रष्टव्यमेकादशद्रव्यस्वभावम्—'चत्वारि महाभूतानि, श्लक्ष्णत्वम्,' कर्क-
शत्वम्, गुरुत्वम्, लघुत्वम्, शीतम्, जिघत्सा, पिपासा चेति । तत्र भूतानि
पश्चाद् ( १. १२ ) वक्ष्यामः । श्लक्ष्णत्वम् = मृदुता । कर्कशत्वम् = परुषता ।
गुरुत्वम् = येन भावास्तुल्यन्ते । लघुत्वं विपर्ययात् । शीतम् = उष्णाभिलाषकृत् ।
जिघत्सा = भोजनाभिलाषकृत् । कारणे कार्योपचारात् । यथा—
“बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना ।
सुखा सङ्घस्य सामग्री समग्राणां तपः सुखम्” ॥ ( ध० प० १९४ ) इति ।
उपादायरूपत्वाद्, वर्णपरमाणुवदिति भावः ।
“रसः षोढा” इति । षण्मूलजातिमधिकृत्यैवमुक्तम् । रसषट्कस्यान्योन्य-
सम्पर्कविशेषात् त्वतिबहुप्रकारा रसाः सम्भवन्ति । एककद्विकत्रिकचतुष्कपञ्चक-
षट्सम्पर्कयोगाद्धि चरके त्रिषष्टी रसा उपदिष्टाः ।
सुगन्धदुर्गन्धयोः समविषमगन्धत्वादिति । अनुत्कटोत्कटगन्धत्वादित्यर्थः ।
अस्मिन् पक्षे द्विविधो गन्ध इष्टः । त्रिविधस्तु शास्त्र इति । समगन्धोऽन्यस्तृतीय
इत्यर्थः ।
अपरे पुनर्व्याचक्षते—'समगन्ध इति तयोरेवैकदेशः' इति । स एवार्थो
भवति, शब्दमात्रं तु भिद्यते ।
शीतमुष्णाभिलाषकृदिति । सम्भवं प्रत्येवमुच्यते । यो धर्म उष्णाभिलाषं
कुर्यात् तच्छीतं नामोपादायरूपम् । ग्रीष्मे यद्यपि तन्न कुर्यात्, तज्जातीयत्वात्तु
शीतमेव तदवगन्तव्यम् । कारणे कार्योपचारादिति । अत्तुमिच्छा जिघत्सा चेतसिको
धर्मः, तस्य कारणम् । अन्तरुदरे कायेन्द्रियेण यः स्पृश्यते सा जिघत्सा नामो-
पादायरूपम् । यथा—“बुद्धानां सुखमुत्पादः” इत्यादि । अभ्युदयनिःश्रेयससुख-
कारणत्वाद् बुद्धोत्पादस्य स सुखमित्युच्यते, तद्वत् । एवं पिपासापि वक्तव्या ।
३६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
तत्र रूपधातौ जिघत्सापिपासे न स्तः, शेषमस्ति । यद्यपि तत्र वस्त्राण्येक-
शो न तुल्यन्ते, सञ्चितानि पुनस्तुल्यन्ते । शीतमपघातकं नास्ति, अनुग्राहकं
किलास्ति ।
यदेतद् बहुविधं रूपमुक्तम्, तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते
यदा तत्प्रकारव्यवच्छेदो भवति । कदाचिद् बहुभिर्यदा न व्यवच्छेदः, तद्यथा-
सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात् पश्यतः ।
एवं श्रोत्रादिविज्ञानं वेदितव्यम् ।
कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरूत्पद्यत इत्येके । चतुर्भिर्महाभूतैरेकेन
च श्लक्ष्णत्वादिना सर्वैरेकादशभिरित्यपरे ।
ननु चैवं समस्तालम्बनत्वात् सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति,
सञ्चितानि पुनस्तुल्यन्त इति सूक्ष्मगुरुत्वसद्भावादित्यभिप्रायः । अत्रानुमानम्—
'सगुरुत्वं रूपावचरं वस्त्रादि; आधाराधेयभावात्, कुण्डबदरवद्' इति ।
अनुग्राहकं किलास्तीति । किलशब्दो वैभाषिकमतद्योतनार्थम् । स्वमतं तु—
'समाधिरेवात्रानुग्राहकः, किमत्र शीतेन परिकल्पितेन' इति । यदा तत्प्रकार-
व्यवच्छेद इति । यदा नीलादिप्रकारनिमित्ताभोगः । 'एवं श्रोत्रादिविज्ञानमिति ।
य एष बहुविधः शब्द उक्तः, तत्र कदाचिदेकेन द्रव्येण श्रोत्रविज्ञानमुत्पद्यते,
यदा तत्प्रकारव्यवच्छेदो भवति; कदाचिद् बहुभिर्यदा न व्यवच्छेदः, तद्यथा
तूर्यशब्दसमूहमनेकाकारतारमन्द्रादिशब्दरूपं शृण्वतः ।
एवं घ्राणजिह्वाविज्ञाने अपि स्वविषये योज्ये ।
कायविज्ञानं तु परं पञ्चभिरिति । कथम् ? कदाचिदेकेन द्रव्येणोत्पद्यते यदा
तत्प्रकारव्यवच्छेदो भवति; कदाचिद् द्वाभ्यां यावत्पञ्चभिर्यदा न व्यव-
च्छेदः । एकेन च श्लक्ष्णत्वादिनेति । किमत्र कारणम् ? कर्कशत्वादीनामन्यभूत-
चतुष्काश्रितत्वात् ।
ननु चैवमिति । विस्तरः—यथा चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानालम्ब-
नान्यभिसमस्य मनोविज्ञानं गृह्णातीति कृत्वा सामान्यलक्षणविषयं तद् व्यवस्था-
प्यते, तथा नीलपीतलोहितावदातालम्बनानां चतुर्णां चक्षुर्विज्ञानानां तानि
चत्वारि बहुतराणि चालम्बनान्यभिसमस्य चक्षुर्विज्ञानमेकं गृह्णातीति सामान्य-
लक्षणविषयं तत् प्राप्नोति, रूपायतनसामान्यलक्षणमस्यालम्बनमिति कृत्वा ।
निर्देशः ] प्रथमं कोशस्थानम् ३७
न स्वलक्षणविषयाः ? आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते, न
द्रव्यस्वलक्षणमित्यदोषः ।
इदं विचार्यते—कायजिह्वेन्द्रिययोर्युगपद् विषयप्राप्तौ सत्यां कतरद् विज्ञानं
पूर्वमुत्पद्यते ? यस्य विषयः पटीयान् । सम्प्राप्ते तु विषये जिह्वाविज्ञानं पूर्व-
मुत्पद्यते; भोक्तुकामतावर्जितत्वात् सन्ततेः ॥ १० ॥
उक्ताः पञ्चेन्द्रियार्थाः, यथा च तेषां ग्रहणम् ॥
अविज्ञप्तिरिदानीं वक्तव्या । सेयमुच्यते—
तथा श्रोत्रादीनामपि विज्ञानकायानि स्वविषयेषु योज्यानि । आयतनस्वलक्षणं
प्रतीति । स्वं लक्षणं स्वलक्षणम्, आयतानां स्वलक्षणम् आयतनस्वलक्षणम्
चक्षुर्विज्ञानविज्ञेयत्वादि, रूपायतनत्वादि वा; तत् प्रति एते पञ्च विज्ञानकायाः
स्वलक्षणविषया इष्यन्ते प्रवचने । न द्रव्यस्वलक्षणं प्रति । स्वलक्षणविषया इष्यन्त
इति प्रकृतम् । द्रव्याणां नीलादिकानां स्वलक्षणं नीलाद्याकारचक्षुर्विज्ञानादि-
विज्ञेयत्वम्, नीलाकारादि वा । न तत् प्रत्येते पञ्च विज्ञानकायाः स्वलक्षणविषया
इष्यन्त इत्यदोषः । युगपद्विषयसम्प्राप्ताविति । कायजिह्वेन्द्रिययोर्युगपद्विषय-
सम्प्राप्तिः सम्भवति । द्वयोश्च विज्ञानयोर्युगपत् प्रवृत्तिर्न सम्भवति ।
अतः पृच्छति—कतरद् विज्ञानं पूर्वमुत्पद्यत इति । यस्य विषयः पटीयान् ।
यदि कायेन्द्रियस्य विषयः पटुतरः, कायविज्ञानं पूर्वमुत्पद्यते । अथ जिह्वेन्द्रि-
यस्य विषयः पटीयान्, जिह्वाविज्ञानं पूर्वमुत्पद्यते । समे प्राप्ते तु विषये । तुल्य
इत्यर्थः । जिह्वाविज्ञानं पूर्वमुत्पद्यते । कस्मात् ? भोक्तुकामतावर्जितत्वात् सन्ततेः ।
भोजनेच्छाप्रवणत्वादात्मभावस्येत्यर्थः । 'पूर्वं जिह्वाविज्ञानमुत्पद्यते' इति वच-
नात् 'पश्चात् कायविज्ञानमुत्पत्स्यते' इत्यर्थादुक्तं भवति । तेनात्र विचार्यते—
किं योऽसौ जिह्वाविषयक्षणेन सह प्राप्तः कायविषयक्षण आसीत्, तत्र तत्काय-
विज्ञानमुत्पद्यते ? आहोस्विदन्यस्मिन् कायविज्ञानविषयक्षण इति ? अन्यस्मि-
न्नित्याह । कथमालम्बननियमो न भिद्यते ? नैष दोषः; यत्तद्विषयालम्बनं
विज्ञानं तदप्रतिसंख्यानिरोधनिरुद्धम्, अन्यत्तु तत्सदृशं कायविज्ञानमुत्पद्यत
इत्यतः पश्चात् तदुत्पद्यत इत्युच्यते; जातिसामान्येनैकत्वोपचारात् ॥ १० ॥
अनेककथाप्रपञ्चव्यवहितत्वान्नष्ट इवाविज्ञप्तेरुद्देशाधिकार इत्यत इदमुपन्य-
स्यति—उक्ताः पञ्चेन्द्रियार्था यथा च तेषां ग्रहणमिति । 'कदाचिदेकेन द्रव्येण
चक्षुर्विज्ञानमुत्पद्यते' इत्येवमादिना । तेषां तु ग्रहणमिति कर्मणि षष्ठी ।
अविज्ञप्तिरिदानीं वक्तव्येति । "रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च"
३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते१ ॥ ११ ॥
विक्षिप्ताचित्तकस्येति तदन्यचित्तस्यापि । अचित्तकस्यापीत्यसंज्ञिनिरोध-
समापत्तिसमापन्नस्यापि। अपिशब्देनाविक्षिप्तसचित्तकस्यापीति२ विज्ञायते । योऽनु-
बन्ध इति । यः प्रवाहः । शुभाशुभ इति कुशलाकुशलः ।
कुशलाकुशले प्राप्तिप्रवाहोऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते—महा-
( अभि० को० १.९ ) इत्यविज्ञप्तिरेवावशिष्यते, तस्या लक्षणनिर्देशावसर इति
वक्तव्यः ।
“विक्षिप्ताचित्तकस्य” इति केचिदेवं वृत्तिं पठन्ति । अस्मिन् पाठ एवं
सूत्रविग्रहः—विक्षिप्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः । अथ वा—
विक्षिप्तं चित्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः । एकस्य चित्त-
शब्दस्य लोपः ।
केचिदेवं पठन्ति—विक्षिप्तस्येति । अस्मिन् पाठ उत्तरपदद्वयस्य बहुव्रीहिं
कृत्वा पश्चादेवं विग्रहः—विक्षिप्तश्चाचित्तकश्च विक्षिप्ताचित्तकः । विक्षिप्तः पुद्गलो
विक्षिप्तचित्त इत्यर्थः । विक्षिप्ताचित्तस्येति तदन्यचित्तस्यापीति । अविक्षिप्तचित्ता-
दन्यचित्तस्येत्यर्थः । तद्यथा—कुशलाया अविज्ञप्तेः समुत्थापकं चित्तं कुशलम्,
तदन्यचित्तोऽकुशलाव्याकृतचित्तः, स इह विक्षिप्तचित्तोऽभिप्रेतः । अकुशला-
यास्त्वविज्ञप्तेरकुशलं चित्तं समुत्थापकम्, तदन्यचित्तः कुशलाव्याकृतचित्तः, स
चापि विक्षिप्तचित्तो वेदितव्यः । तस्य तदन्यचित्तस्यापि । अचित्तकस्यापीत्य-
संज्ञिनिरोधसमापत्तिसमापन्नस्यापि । अपिशब्देनाविक्षिप्तसचित्तकस्यापीति विज्ञायत
इति । एतत्पुद्गलद्वयव्यतिरिक्ततृतीयस्याप्यर्थः ।
योऽनुबन्ध इति । प्रवाह इति । यो धर्मो नित्यप्रवाहयुक्त इत्यर्थः । प्रवाहेण
प्रवाही निर्दिश्यते; प्रवाहोपलक्ष्यत्वात् । अथ वा—अनुबध्नातीत्यनुबन्धः । प्रवाह
इति च व्याख्यापदं कृतबहुव्रीहिकम्—प्रवृत्तः प्रकृष्टो वा वाहोऽस्येति प्रवाहो
धर्मः । स एव निर्दिश्यते, न तत्स्रोतः ।
कुशलाकुशल इति । कुशलाकुशल एवेत्यवधारणम् । अव्याकृतो नास्तीत्यर्थः ।
एतेन चक्षुरादयो व्युदस्ता वेदितव्याः । प्राप्तिप्रवाहोऽप्यस्तीदृश इति । तत्प्राप्ति-
रपि विक्षिप्ताविक्षिप्ताचित्तस्यापि प्रवाहिणी कुशलाकुशलैव चेति तद्विशेषणार्थ-
१. ॰रिष्यते—पाठा० ।
२. ॰सुचित्तस्यापीति—का० ।
निर्देशः ] प्रथमं कोशस्थानम् ३९
भूतान्युपादायेति । हेत्वर्थ उपादायार्थ इति वैभाषिकाः; जननादिहेतुभावात् ।
स ह्यविज्ञप्तिरिति । हिशब्दस्तन्नामकरणज्ञापनार्थः । रूपक्रियास्वभावापि सती
विज्ञप्तिवत् परं न विज्ञापयतीत्यविज्ञप्तिः¹ । उच्यत इति आचार्यवचनं दर्शयति।
समासतस्तु विज्ञप्तिसमाधिसम्भूतं कुशलाकुशलं रूपमविज्ञप्तिः ॥ ११ ॥
त्युच्यते । महाभूतान्युपादायेति । महाभूतहेतुक इत्यर्थः । यथा इन्धनमुपादायाग्नि-
भवतीत्युक्ते इन्धनहेतुकोऽग्निरिति गम्यते । जननादिहेतुभावादिति । “जनना-
न्निश्रयात् स्थानादुपस्तम्भोपबृंहणात्” ( ) । जननहेतुस्तेभ्य
उत्पत्तेः । निश्रयहेतुर्जातस्य भूतानुविधायित्वादाचार्यादिनिश्रयवत्, प्रतिष्ठा-
हेतुराधारभावाच्चित्रकुड्यवत्, उपस्तम्भहेतुर