सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 53, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 53

३४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे
शब्दस्त्वष्टविधः,
उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति¹ चतुर्विधः । स पुन-
र्मनोज्ञामनोज्ञभेदादष्टविधो भवति । तत्रोपात्तमहाभूतहेतुको यथा—हस्तवाक्छब्दः,
अनुपात्तमहाभूतहेतुको यथा—वायुवनस्पतिनदीशब्दः, सत्त्वाख्यो वाग्विज्ञप्ति-
शब्दः, असत्त्वाख्योऽन्यः । उपात्तानुपात्तमहाभूतहेतुकोऽप्यस्ति शब्द इत्यपरे,
तद्यथा—हस्तमृदङ्गसंयोगज इति । स तु यथैको वर्णपरमाणुर्न भूतचतुष्कद्वय-
मुपादाय² वर्तते², तथा नैवैष्टव्य इति ।
उक्तः शब्दः ॥
सत्त्वासत्त्वाख्यश्चेति वाग्विज्ञप्तिशब्दः, तद्व्यतिरिक्तश्चेत्यर्थः । सत्त्वासत्त्व-
संख्यातश्चेति केचित् पठन्ति । अयमेव चेहार्थोऽभिप्रेतः । यदि हि 'सत्त्वासत्त्व-
सन्तानजः' इत्ययमर्थोऽभिप्रेतो भवेत्, सत्त्वाख्यो वाग्विज्ञप्तिशब्दोऽसत्त्वाख्योऽन्य
इत्येवं वक्ष्यमाणकं विवरणं निःप्रयोजनमेव । तस्मात् 'सत्त्वासत्त्वाख्यश्च' इति पाठः
स्फुटः पठितव्यः । उपात्तमहाभूतहेतुक इति । प्रत्युत्पन्नानीन्द्रियाविनिर्भागानि
भूतान्युपात्तानि, अन्यान्यनुपात्तानि । उपात्तानि महाभूतानि हेतुरस्येत्युपात्त-
महाभूतहेतुकः । यथा हस्तवाक्छब्द इति । यदि सत्त्वसन्तानज इत्यभिप्रेतः,
बाह्योऽपि हि निर्मितो मानुषाकारो हस्तवाक्छब्दं कुर्यात् । स चानुपात्तमहा-
भूतहेतुकस्वभावोऽवगन्तव्यः; इन्द्रियविनिर्भागवर्तित्वात् । स च मानुषीमपि
वाचं निर्मातृवशाद् भाषेत । वक्ष्यति हि—
“एकस्य भाषमाणस्य भाषन्ते सर्वनिर्मिताः ।
एकस्य तूष्णीम्भूतस्य सर्वे तूष्णीम्भवन्ति ते ॥”
तस्य च बाह्यनिर्मितशब्दस्यानुपात्तमहाभूतहेतुक इत्यत्र ग्रहणम् । यथा
वायुवनस्पतिनदीशब्द इति । यथाशब्दस्योदाहरणार्थत्वात् । सत्त्वाख्यो वाग्विज्ञप्ति-
शब्दोऽसत्त्वाख्योऽन्य इति । सत्त्वमाचष्टे सत्त्वाख्यः । वाग्विज्ञप्तिशब्देन हि
'सत्त्वोऽयम्' इति विज्ञायते, तं वाग्विज्ञप्तिशब्दं वर्जयित्वान्यः शब्दो हस्त-
शब्दोऽपि यावदसत्त्वाख्य एव, किमङ्ग असत्त्वसन्तानज इति व्याख्यातं भवति ।
तदेवमुपात्तमहाभूतहेतुकः सत्त्वाख्यश्चासत्त्वाख्यश्च भवति; अनुपात्तमहाभूत-
हेतुकोऽपि निर्मितशब्दो वाग्विज्ञप्तिस्वभावः सत्त्वाख्यः, तन्मेव हस्तशब्दो वायु-
वनस्पत्यादिशब्दश्चासत्त्वाख्य इति चतुर्विधः शब्दो मनोज्ञामनोज्ञभेदात् पुनरष्ट-
विधो भवति । यथैको वर्णपरमाणुरिति न भूतचतुष्कद्वयमुपादाय वर्तते शब्दः;
१. सत्त्वासत्त्वसंख्यातश्चेति—का० । २-२. •मुपादायेष्यते—का० ।