सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 49, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 49

“पञ्च रूपादयः स्कन्धाः” ( अभि० को० १.७ ) इत्युक्तम्, तत्र—
रूपं पञ्चेन्द्रियाण्यथाः पञ्चाविज्ञप्तिरेव च ।
पञ्चेन्द्रियाणि चक्षुः-श्रोत्र-घ्राण-जिह्वा-कायेन्द्रियाणि, पञ्चार्थास्तेषामेव
चक्षुरादीन्निन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः,
अविज्ञप्तिश्च—इति एतावान् रूपस्कन्धः ।
तत्र य एते पञ्च रूपादयोऽर्था उक्ताः,
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ॥ ९ ॥
संस्कारदुःखतया आर्याणां प्रतिकूला दुःखानिरोधिनः तदुत्पादकाः प्रसिद्धा दृष्टि-
पुष्टिजनका अनादिमति च संसारे विनश्यन्ति, भवन्ति तेष्वेवामी दुःखादय
आर्यैः सङ्केतिताः, न मार्गसत्ये । तस्मात् सास्रवा एव धर्मा दुःखशब्दाद्य-
भिधेया भवन्ति, नानास्रवाः । न हि ‘गच्छतीति गौः’ इत्य