अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
अत्राचार्यः सङ्घभद्र इदमविज्ञप्तिलक्षणं सूत्रं दूषयति—
"न्यूनं शास्त्रापेतं हानिरतस्याः प्रसज्यते तत्त्वम् ।
अपिशब्दाधिकवचनं विशेष्यमविशेषितं चात्र ॥
अनुबन्धो हि प्रवाहस्तेनैव व्याख्यातः । न चाद्यः क्षणः प्रवाहः, मा
भूदतिप्रसङ्गः । तस्मात् तस्यात्र लक्षणे नास्त्यवरोध इति न्यूनम् । प्रवाहस्य
चाद्रव्यत्वादद्रव्यमविज्ञप्तिरिति शास्त्रापेतम् । समाहितायाश्च नास्ति विक्षिप्त-
चित्ताचित्तकस्यानुबन्ध इति सा चाविज्ञप्तिर्न प्रसज्यत इति हानिः । अविक्षिप्त-
चित्तकस्य तदनुबन्धान्नैष दोष इति चेत् ? शुभाशुभाया विज्ञप्तेरविज्ञप्तिलक्षण-
प्रसङ्ग इत्यतस्याः प्रसज्यते तत्त्वम् । अचित्तकस्यापीति च अर्था[---]त् पूर्व-
पूर्वेणैव कृतत्वात् । विक्षिप्तचित्तकस्यापीत्यनेन हि सर्वसचित्तावस्थाग्रहणम् ।
का पुनरन्यावस्था ? या द्वितीयेनापिशब्देन संगृह्येतेत्यपिशब्दाधिकवचनम् ।
अचित्तकं चाधिकृत्य शुभोऽविज्ञप्त्यनुबन्धो विशेषणीयः, न च व्याख्यानेऽपि
विशेषित इति विशेष्यमविशेषितम् । इदं चापरं विशेष्यमविशेषितम्—अप्रतिघं
रूपमिति । एवमनेकद्दोषदुष्टत्वान्न सम्बद्धमेतल्लक्षणम्" इति ।
अत्र ब्रूमः—यत्तावदुक्तम् 'न्यूनम्, प्रवाहस्याविज्ञप्त्युपदेशादाद्यः क्षणो
नाविज्ञप्तिः स्याद्' इति । इदं तावदसौ प्रष्टव्यः—कोऽयं प्रवाहो नाम ? बहुषु क्षणेषु
प्रवाह इत्याख्या । यद्येवम्, आद्योऽपि क्षणः प्रवाहः सिध्यति, प्रथमक्षणप्रभृति
बहुषु क्षणेषु प्रवाह इति कृत्वा । तथा हि उत्सात् तडागाद्वा निर्गच्छतामुदकाना-
माद्योदकावयवप्रभृतिषु प्रवाहसंज्ञेति नास्त्यव्यापिता लक्षणस्य । यदा चानु-
बध्नातीत्यनुबन्ध इत्यच्छप्रत्ययान्तेन पदेन द्रव्यमेव निर्दिश्यते, तदा न्यूनताशङ्कापि
नास्ति । अत एव शास्त्रापेनतादोषोऽपि परिहृतो भवति । अथाप्यनुबन्धनमनु-
बन्ध इति स्रोतोऽभिधीयते, तथाप्यदोषः, रूपाधिकारात् । प्रवाहवर्तित्वात्तु
प्रवाहशब्देन प्रदर्श्यते । समाहिताया अप्यविज्ञप्तेरग्रहणं न भवति । सापि हि
यद्यपि विक्षिप्तचित्ताचित्तकसन्तानं नानुबध्नातीति, अविक्षिप्तचित्तकसचित्त-
सन्तानं त्वनुबध्नात्येव । अविज्ञप्तिजातिसामान्येन तु विक्षिप्ताचित्तकस्यापि
योऽनुबन्धः साविज्ञप्तिरित्युच्यते ।
यत् पुनरेतदुक्तम्—'अविक्षिप्तचित्तकस्य तदनुबन्धान्नैष दोष इति चेद्' इति ।
यद्यविक्षिप्तचित्तकस्य केवलस्य योऽनुबन्धः साप्यविज्ञप्तिरिति समाहिताया अवि-
ज्ञप्तेस्त्यागो न भवतीति ब्रवीषि, विज्ञप्तिरपि कुशलाकुशला तथैव भवतीत्य-
विज्ञप्तिस्ते प्राप्नोतीति ? स चाप्यदोषः, शुभाशुभ एवेत्यवधारणात् । विज्ञप्तिर्ह्य-
व्याकृतापि सम्भवतीति न विज्ञप्तिरविज्ञप्तिः प्रसज्यते । अथ वा—प्रकर्षगतेरेष
प्रसङ्गो न भविष्यति । प्रकर्षेण हि योऽनुबन्धः सैवाविज्ञप्तिः । न च विज्ञप्तिर्-
विज्ञप्तिवत् प्रकर्षेणानुबध्नाति; अविज्ञप्त्यनिरोधेऽपि तन्निरोधदर्शनात् ।
यदप्युक्तम्—'अपिशब्दाधिकवचनम्' इति, तदप्ययुक्तमुक्तम् । तथा हि—
एक एवेह सूत्रे पठितोऽपि-शब्दः । वृत्तौ तु तेन पुद्गलद्वयेन तदर्थः सम्बध्यत इति
द्विः पुनः पठितः । तेनैकेन सूत्रपठितेनापि-शब्देन विक्षिप्तविपरीतमविक्षिप्तम्,
अचित्तकविपरीतं च तमेव सचित्तकं तृतीयं पुद्गलमविज्ञप्त्याश्रयं ब्रुवन्नाचार्यः
स्वमतञ्च विक्षिप्ताचित्तकपुद्गलद्वयं जातिसामान्येनाविज्ञप्त्याश्रयं प्रदर्शयन्
विज्ञप्तिचित्तचैत्तेभ्योऽर्थान्तरभूतामविज्ञप्तिमाचष्टे । त्रय एव हि पुद्गला भवन्ति—
विज्ञप्तिचित्तविसभागचित्तः, विज्ञप्तिचित्तसभागचित्तः, अचित्तकश्च । तत्र विज्ञप्ति-
चित्तविसभागचित्तो विक्षिप्तचित्त इहाभिप्रेतः, तस्य सा वाक्कायविज्ञप्तिर्निरुद्धा
भवति । अचित्तकस्य तु चित्तचैत्ता अपि निरुद्धा इति तत्र विज्ञप्तेश्चित्तचैतसिक-
कलापाच्चार्थान्तरभूतेयमविज्ञप्तिः; यत एभ्योऽनुबन्धिनीत्वेन विशिष्यते । तमेवार्थं
दर्शयन्नाह—विक्षिप्ताचित्तकस्यापि इति ! अविक्षिप्तचित्तकस्याविज्ञप्तिर्वर्तत इति
नातिशयः, विज्ञप्तिरपि हि तस्य वर्तते । विक्षिप्तचित्तस्यापि तु वर्तत इत्यतिशयः,
विज्ञप्तिर्हि तस्य नास्ति । अविज्ञप्तिस्त्वनुबन्धिनीति विज्ञप्तेर्विशिष्यते । तथा
अविक्षिप्तचित्तकस्याविज्ञप्तिर्वर्तत इति नातिशयः, चित्तचैत्ता अपि हि तस्य
वर्तन्त एव । अचित्तकस्यापि तु वर्तत इत्यतिशयः, तस्य हि चित्तचैत्ता
निरुद्धाः । अविज्ञप्तिस्त्वनुबन्धिनीति चित्तचैत्तेभ्यो विशिष्यते । तदेवं धर्मान्तर-
विशेषणार्थमविक्षिप्तचित्तो विक्षिप्ताचित्तकतृतीयभूतस्तेनेकेन अपि-शब्देनाभिधी-
यते । अत एव चापिशब्देन 'अविक्षिप्तसचित्तकस्यापि' इत्युक्तमाचार्येण; तृतीयभू-
तत्वात् । इतरथा ह्यपिशब्देनाविक्षिप्तचित्तकस्यापि इत्येवावक्ष्यत्, सचित्तकस्या-
पीति वा । तद्यथा—त्रयो लोके मनुष्याः, एको धनवान्, इतरावपि जनमात्र-
वन्तौ; तावभिसमीक्ष्य विष्णुमित्रस्य धनमस्तीत्येकेनोक्तो द्वितीयो वक्ता भवेद्-
देवदत्तयज्ञदत्तयोरपि धनमस्तीति, अपिशब्देन विष्णुमित्रस्याप्यस्तीति देवदत्त
यज्ञदत्तगतेन द्वैतमिवापन्नेनापिशब्देन स एव विष्णुमित्रो लक्ष्यते, न त्ववसृज्यत
इत्यर्थः; तेन नात्रापिशब्दोऽधिक एव । तद्वदिहापि द्रष्टव्यम् ।
यत् पुनरेतदुक्तम्—'अचित्तकं चाधिकृत्य शुभोऽविज्ञप्त्यनुबन्धो विशेषणीयः'
इति, तदपि न किञ्चित् । अविज्ञप्तिजातिमधिकृत्यैतल्लक्षणं प्रणीतम् । सा चावि-
ज्ञप्तिजातिरचित्तकस्य भवतीत्येतावद् विवक्षितम्, किमनेन विशेषितेन ! त्वदीयेऽ-
प्यविज्ञप्तिलक्षणे शुभोऽविज्ञप्त्यनुबन्धोऽचित्तकमधिकृत्य न विशेषितः—
“कृतेऽपि विसभागेऽपि चित्ते चित्तात्यये च यत् ।
व्याकृताप्रतिघं रूपं सा ह्यविज्ञप्तिरिष्यते” ॥ ( )
इति । एषा च विज्ञप्तिसम्भूता कुशलेवाविज्ञप्तिरचित्तकस्य सम्भवतीति
चतुर्थे कोशस्थाने ज्ञापयिष्यते ।
महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि ?
भूतानि पृथिवीधातुरप्तेजोवायुधातवः ।
इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद् धातवश्चत्वारि महाभूतान्यु-
च्यन्ते । महत्त्वमेषां सर्वान्यरूपोपाश्रयत्वेनोदारिकत्वात्, अथ वा—तदुद्भूत-
वृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महासन्निवेशत्वात् ।
ते पुनरेते धातवः कस्मिन् कर्मणि संसिद्धाः, किंस्वभावाश्च ? इत्याह—
धृत्यादिकर्मसंसिद्धाः,
धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः ।
व्यूहनं पुनः वृद्धिः प्रसर्पणं च वेदितव्यम् । इदमेषां कर्म ।
यच्च—'अप्रतिघमित्यविशेषितम्' इति, तदपि पश्चाद् दर्शयिष्यामः ।
“सप्रतिघा दश रूपिणः” ( अभि० को० १.२९ ) इत्यत्र दशैव धातवः सप्रतिघा
इत्यवधारणादविज्ञप्तिर्धर्मधातुपरिपठिता, सा त्वप्रतिघेति सेत्स्यति । तस्मा-
दिदमास्माकीनमेवमदोषदुष्टमविज्ञप्तिलक्षणमिति तदेवास्तु ॥ ११ ॥
“भूतानि पृथिवीधातुः” इति । विस्तरः—धातुग्रहणं वर्णसंस्थानात्मकपृथिव्या-
दिनिरासार्थम् । स्वलक्षणोपादायरूपधारणाद् वा धातव इति । काठिन्यादि-
स्वलक्षणं चक्षुराद्युपादायस्वरूपं च दधतीति धातवः । अष्टादश धातवस्तु
स्वसामान्यलक्षणधारणात् । गोत्रार्थो वा धात्वर्थो धारणार्थमनपेक्ष्य षड्धा
धातुदेशनायाम् । पुनर्भवबीजार्थो वा धात्वर्थः, भवं पुष्णन्तीति कृत्वा ।
महत्त्वमेषां सर्वान्यरूपोपाश्रयत्वेनोदारिकत्वादिति । सर्वोपादायरूपाश्रयत्वेन
महत्त्वाहित्यर्थः । तदुद्भूतवृत्तिष्विति । तेषांमहाभूतेरुद्भूता व्यक्ता वृत्तिर्धृत्यादिका
येषु त इमे तदुद्भूतवृत्तयः=पृथिव्यप्तेजोवायुस्कन्धाः, तेषु । एषां महाभूतानां
महासन्निवेशत्वात् महारचनत्वात् । भूतं तन्वन्तीति भूतानि ॥
“धृत्यादिकर्मसंसिद्धाः” इति । धृत्यादिकर्मनिर्देशः पृथिव्यादिषु शेषानुमा-
नार्थम् । उपलादिके हि पृथिवीद्रव्ये संग्रहपंक्तिव्यूहनदर्शनाच्छेषाणां जलतेजो-
वायूनामस्तित्वमनुमीयते । अप्सु नौसन्धारणोष्णतेरणकर्मदर्शनात् पृथिवीतेजो-
वायूनामस्तित्वम् । अग्निज्वालायां स्थैर्यसम्पिण्डनचलनदर्शनात् पृथिव्युदकवायू-
नामस्तित्वम् । वायौ सन्धारणशीतोष्णस्पर्शदर्शनात् पृथिव्यप्तेजसामस्तित्वमिति
वैभाषिकाः । व्यूहनं पुनर्वृद्धिः प्रसर्पणं वेति । वृद्धिः=सम्बन्धाधिका शरीराङ्गाव-
वयवोत्पत्तिः । प्रसर्पणम्=शरीरादीनां प्रबन्धेन देशान्तरोत्पत्तिः ॥
[निर्देश: ] प्रथमं कोशस्थानम् ४३
स्वभावस्तु यथाक्रमं
खरस्नेहोष्णतेरणाः ॥ १२ ॥
खरः पृथिवीधातुः । स्नेहोऽब्धातुः । उष्णता तेजोधातुः । ईरणा
वायुधातुः । ईर्यतेऽनया भूतस्रोतो देशान्तरोत्पादनात् प्रदीपेरणवदितीरणा ।
“वायुधातुः कतमः ? लघुसमुदीरणत्वम्” ( ) इति प्रकरणेषु
निर्दिष्टं सूत्रे च । तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु । अतो य ईरणा-
स्वभावो धर्मः स वायुरिति कर्मणास्य स्वभावोऽभिव्यक्तः ॥ १२ ॥
कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः ?
पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
तथा हि—पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति ।
यथा पृथिवी, एवम्
आपस्तेजश्च,
वर्णसंस्थानमेवोच्यते लोकसंज्ञया ।
वायुस्तु धातुरेव,
य एव तु वायुधातुः स एव लोके वायुरित्युच्यते ।
तथापि च ॥ १३ ॥
यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया, तथा वायुरपि—नीलिका
वात्या, मण्डलिका वात्येति ।
“उष्णता” इति । स्वभावाभिधानेऽपि भावप्रत्ययः—उष्ण एवोष्णतेति ।
देशान्तरोत्पादनात् प्रदीपेरणवदिति । क्षणिकानां नास्ति देशान्तरगमनम्, यत्रै-
वोत्पत्तिस्तत्रैव विनाशः । तेनैवमुच्यते—देशान्तरोत्पादनस्वभावा भूतस्रोतस
ईरणा; क्षणिकत्वात्, प्रदीपवत् । क्षणिकानि च भूतानि; रूपत्वात्, प्रदीपवत् ।
प्रदीपश्च क्षणिकः प्रसिद्ध इत्युदाहरणम् । कर्मणास्य स्वभावोऽभिव्यक्त इति ।
ईरणाकर्मणा लघुत्वं विशिष्यते—प्रदीरणात्मकं लघुत्वं स वायुधातुरिति ।
लघुसमुदीरणो वायुधातुः लघ्वेव तु यत्तदुपादायरूपम् ॥ १२ ॥
प्रवचने पृथिवीधात्वादयः पृथिव्यादयश्चोक्ता इति । अतः पृच्छति—
कः पुनरेषां विशेष इति ?
“लोकसंज्ञया” इति । लोकसंव्यवहारेण । वात्येति । वातानां समूहो
कस्मात् पुनरयमविज्ञप्तिपर्यन्तः 'रूपस्कन्धः' इत्युच्यते ? रूपणात् । उक्तं
भगवता—"रूप्यते रूप्यत इति भिक्षवः, तस्माद्रूपोपादानस्कन्ध इत्युच्यते । केन
रूप्यते ? पाणिसंस्पर्शेनापि स्पृष्टो रूप्यते” इति ( अ० व० सं० नि० २२.
७९. ८५ ) विस्तरः । रूप्यते बाध्यत इत्यर्थः । तथा ह्यर्थवर्गीयेषूक्तम्—
"तस्य चेत् कामयानस्य च्छन्दजातस्य देहिनः ।
ते कामा न समृध्यन्ते१ शल्यविद्ध इव रूप्यते ॥" ( सु० नि० अ० २)
रूपस्य पुनः का बाधना ? विपरिणामोत्पादना । प्रतिघातो रूपेणेत्यपरे ।
परमाणुरूपं तर्हि रूपं न प्राप्नोति, अरूपणात् ? न वै परमाणुरूपमेकं पृथग्
भूतमस्ति । सङ्घातस्थं तु तद् रूप्यत एव ।
वात्या, ब्राह्मणादिभ्यो यन्२ ( पा० सू० ४.२.४२ ) इति समूहार्थे यन्प्रत्ययः ।
स्त्रीत्वाट्टाप्प्रत्ययः ।
तथा ह्यर्थवर्गीयेषूक्तमिति । अर्थवर्गीयाणि सूत्राणि, यानि क्षुद्रके पठ्यन्ते ।
तेषूक्तम्—"तस्य चेत् कामयानस्य” (सु० नि० अ० व० २) इति । विस्तरः—तस्य
देहिनः कामयानस्य छन्दजातस्य यदि कामा विषया न समृध्यन्ते न सम्पद्यन्ते ।
शल्यविद्ध इव असौ रूप्यते बाध्यत इत्यर्थः । बाधनार्थपरिच्छिन्नेनानेन रूप्यते-
शब्देन "रूप्यते रूप्यत इति भिक्षवः” ( सं० नि० २२. ७९ ८५ ) इत्यत्र सूत्रे
रूप्यतेशब्दो बाधनार्थ एव परिच्छिद्यते । शल्यविद्धः कामयानश्च दुःखवेदियत्-
त्वाद् बाध्यत इति युक्तम् । रूपं तु कथं बाध्यते ? अत आह—विपरिणामोत्पाद-
नेति । विक्रियोत्पादनेत्यर्थः । तथा च इहार्थे सति 'शल्यविद्ध इव रूप्यते' इत्यत्रापि
यदि विक्रियत इत्यर्थो गृह्यते सुतरामर्थो युज्यते । प्रतिघात इति । स्वदेशे पर-
स्योत्पत्तिप्रतिबन्धः । परमाणुरूपं तर्हीति । द्रव्यपरमाणुरूपं न रूपं प्राप्नोति ।
कस्मात् ? अरूपणात् । निरवयवत्वे सत्यरूपणादित्यभिप्रायः । पक्षद्वयेऽप्येत-
च्चोद्यमुपन्यस्तम्—बाधनरूपणे प्रतिघातरूपणे च द्रव्यपरमाणुर्निरवयवत्वान्न
शक्यते रूपयितुमिति । न वै परमाणुरूपमेकं पृथग्भूतमस्तीति । एकमिति ग्रहणं
द्रव्यपरमाणुसन्दर्शनार्थम् । पृथग्भूतम्—सङ्घातव्यतिरिक्तम् । तदीदृग्नास्ति ।
सङ्घातस्थं नित्यं भवति; "कामेऽष्टद्रव्यकोऽशब्दः” ( अभि० को० २.२३ )
इत्यादिवचनात् । सङ्घातस्थं तद्रूप्यत एवेत्यर्थादेतदभीष्टं भवति । तद् द्रव्यपर-
माणुरूपं सङ्घातस्थं रूप्यते, बाध्यते प्रतिहन्यते च ।
१. समृध्यन्ति—का० । २ वस्तुतस्तु वातशब्दस्य पाशादिगणे पाठात् "पाशा-
दिभ्यो यः” ( ४. २. ४९ ) इति सूत्रेण यः प्रत्ययो भवति ।
अतीतानागतं तर्हि रूपं न प्राप्नोति ? तदपि रूपितं रूपयिष्यमाणं
तज्जातीयं चेति रूपम्, इन्धनवत् ।
अविज्ञप्तिस्तर्हि न रूपं¹ प्राप्नोति ? सापि विज्ञप्तिरूपणाद् रूपिता भवति,
वृक्षप्रचलने छायाप्रचलनवत्, नाविकारात् । विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः²
स्याद्, वृक्षाभावे छायाऽभाववत् ।
आश्रयभूतरूपणादित्यपरे ।
अतीतानागतं तर्हीति । विस्तरः—अतीतानागतमदेशत्वान्न रूप्यते, न
बाध्यते, नापि प्रतिहन्यते । तदपीति । विस्तरः—तदपि रूपितमित्यतीतबाधन-
प्रतिघानानयेन । रूपयिष्यमाणमित्युत्पत्तिधर्मकमनागतम् । तेनैवार्थद्वयेन—
तज्जातीयं चेत्युत्पत्तिधर्मकजातीयमनुत्पत्तिधर्मकमनागतम् । इन्धनवत् । यदपीद्धं
यदपीन्धिष्यमाणं तज्जातीयं च तदपीन्धनम् । तज्जातीयं पुनरिन्धनं यदिन्धनार्थे
कल्पितमप्राप्यैवाग्निमन्तरा नङ्क्ष्यति ।
अविज्ञप्तिस्तर्हि न रूपं प्राप्नोति । कस्मात् ? अप्रतिघत्वात् । अप्रतिघत्वेन
हि सा न बाध्यते, नापि प्रतिहन्यते । सापि विज्ञप्तिरूपणादिति । विस्तरः—
विज्ञप्तिरविज्ञप्तिसमुत्थापिका । तस्याः प्रणिधाया रूपणादविज्ञप्तिरपि रूप्यते ।
यथा छायासमुत्थापकस्य वृक्षस्य प्रचलनाच्छाया प्रचलति तद्वत् । न अविकारा-
दिति । अनेन प्रतिज्ञादोष उद्ग्राह्यते । परेण ह्येवं प्रतिज्ञातम्—स्वसमुत्थापक-
विकारानुविधायिनी अविज्ञप्तिः; समुत्थाप्यत्वात्, वृक्षच्छायावदिति । सेयं
पूर्वाभ्युपगमविरोधिनी प्रतिज्ञा, अभ्युपगतो हि विज्ञप्तिविकारेऽप्यविज्ञप्तेर-
विकारः। तथा हि—अञ्जलिं भङ्क्त्वा कपोतं कुर्वतः कायविज्ञप्तिर्विक्रियत इत्य-
भ्युपगम्यते, न त्वविज्ञप्तिः। तस्मादमाथनमेतत् । विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः
स्यादिति । अनेन धर्मविशेषविपर्ययोऽप्यस्याः प्रतिज्ञाया उद्ग्राह्यते, यदि वृक्ष-
च्छायाधर्म इष्यते । वृक्षनिवृत्तौ छायानिवृत्तिर्दृष्टेति तद्वत् स्यात् ।
अत्र कश्चिद् 'न अविकारात्' इति न सम्यगेतदुक्तमिति दूषयति—
विक्रियत एवाविज्ञप्तिर्विज्ञप्तिविकारे सति, मृदुमध्याधिमात्रत्वे हि विज्ञप्तेर्मृदु-
मध्याधिमात्रता भवत्यविज्ञप्तेः' इति, तदेतदयुक्तम्, कस्मात् ? उत्पत्तिरेवा-
विज्ञप्तेरेवं भवति मृदुर्मध्याधिमात्रा वा, न तु विकारः । उत्पन्नस्य हि धर्मस्य
पुनरन्यथोत्पादनं विकारः, तच्च रूपणमभिप्रेतम् ।
आश्रयभूतरूपणादित्यपर इति । वृद्धाचार्यवसुबन्धुः । भूतग्रहणमाश्रयभूतप्रदर्शन-
१. का० पुस्तके नास्ति । २. वा०—पाठ० ।
एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात् रूपत्वप्रसङ्गः ?
विषमोऽयमुपन्यासः; अविज्ञप्तिर्हि छायेव वृक्षं प्रभेव मणिं भूतान्या-
श्रित्य वर्तते, न त्वेवं चक्षुरादीन्याश्रित्य वर्तन्ते चक्षुर्विज्ञानादीनि । केवलं
तूत्पत्तिनिमित्तमात्रं तानि तेषां भवन्तीति ।
इदं तावद्वैभाषिकीयम्—वृक्षमाश्रित्य च्छाया वर्तते, मणिं चाश्रित्य
प्रभेति । छायादिवर्णपरमाणूनां प्रत्येकम्,
सत्यपि च तदाश्रितत्वे छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता युज्यते । निरुद्धेष्वपि
अविज्ञप्त्याश्रयेषु महाभूतेषु तस्या अनिरोधाभ्युपगमात्¹ । तस्मात्² न भवत्येष
परिहारः ।
अन्ये पुनरत्र परिहारमाहुः— चक्षुर्विज्ञानादीनाश्रयो भेदं गतः ।
नार्थम् । अतश्चेतरः प्रसञ्जयति—एवं तर्हि
चक्षुराद्याश्रयरूपणात् तद्विज्ञानानामपि रूपत्वप्रसङ्गः ।
विषमोऽयमुपन्यास इति । वृद्धाचार्यवसुबन्धुदेशीयः कश्चित् परिहरति । अविज्ञ-
प्तिर्हीति । विस्तरः—छाया वृक्षमुपश्लिष्याश्रित्य वर्तते, प्रभापि मणिं तथैव ।
उत्पत्तिनिमित्तमात्रं तानि तेषामिति नोपश्लिष्टानीति भावः ।
तमितरः प्रत्याह—इदं तावद्वैभाषिकीयमिति । विस्तरः—नैतद् वैभाषिक-
मतम् । वैभाषिकमतं तु छायावर्णपरमाणुः स्वभूतचतुष्कमाश्रित्य वर्तते, न वृक्षम् ।
तथा प्रभावर्णपरमाणुः स्वभूतचतुष्कमाश्रित्य वर्तते, न मणिम्; पृथग्द्रव्यत्वा-
दिति । एवमनाश्रयकारणत्वान्निश्रितवृक्षयोर्न प्रभावन्नाविज्ञप्तिवृद्धिलिष्टे छाया-
प्रभे इत्यसामान्यं दृष्टान्तदार्ष्टान्तिकयोः । सत्यपि च तदाश्रितत्व इति विस्तरः ।
अथापि पारम्पर्येण तदाश्रितत्वमभ्युपगम्यते—छाया स्वभूताश्रिता, तानि तु
भूतानि वृक्षमाश्रितानि; प्रभापि स्वभूताश्रिता, तानि च भूतानि मणिमाश्रि-
तानि; तदनुविधायित्वात् । तथाप्यसामान्यम्; निरुद्धेष्वप्यविज्ञप्त्याश्रयेषु महा-
भूतेषु तस्या अनिरोधाभ्युपगमादिति । "कामाप्तातीतभूतजा"
(अभि० को० ४.६) इति सिद्धान्तात् । तस्मान्न भवत्येष परिहार इति ।
य उक्तोऽभूत्—अविज्ञप्तिर्हि छायेव वृक्षमिति विस्तरेण ।
अन्ये पुनरत्र परिहारमाहुरिति । अयमेवाचार्यस्तन्मतं समर्थयन्नाह ।
आश्रयो भेदं गत इति । द्विविध इत्यर्थः । कश्चिद् रूप्यते चक्षुरादिः सप्रतिघत्वात्,
१. अनिरोधोऽभ्युपगम्यते—का० ।
२. अतो—का० ।
निर्देशः ] प्रथमं कोशस्थानम् ४७
कश्चिद् रूप्यते चक्षुरादिः, कश्चिन्न रूप्यते; यथा—मनः । न त्वेवमविज्ञप्तिः ।
तस्मादसमानः प्रसङ्ग इति । अत उपपन्नमेतद्—रूपणाद्¹ रूपमिति ॥१३॥
य एव रूपस्कन्धस्वभावा उक्ताः,
इन्द्रियार्थास्त एवेष्टा दशायतनधातवः ।
आयतनव्यवस्थायां दशायतनानि—चक्षुरायतनम्, रूपायतनम्, यावत्
कायायतनम्, स्प्रष्टव्यायतनमिति । धातुव्यवस्थायां त एव दश धातवश्चक्षुर्धातु
रूपधातुर्यावत् कायधातुः, स्प्रष्टव्यधातुरिति ।
उक्तो रूपस्कन्धः, तस्य चायतनव्यवस्थानम् ॥
कश्चिन्न रूप्यते मनो विपर्ययात् । तस्मादसमानः प्रसङ्ग इति । चक्षुर्विज्ञानादीना-
मप्याश्रयभूतरूपणाद् रूपत्वप्रसङ्ग इति । रूपणाद्रूपमिति । आश्रयरूपादित्यर्थः ।
अत्र चोदयन्ति—विज्ञप्तिसम्भूतया अविज्ञप्तेरेवं परिकरेण रूपत्वं भवद्
भवेत्, समाधिसम्भूतायास्तु कथं रूपत्वमिति ? तज्जातीयत्वात् तदपि रूपम् ।
किं पुनस्तज्जातीयत्वम् ? महाभूतान्युपादायेति भावः । तेषामुपादायरूप-
जननादिहेतुभूतत्वादिति ॥ १३ ॥
“इन्द्रियार्थास्त एव” इति । भगवतो विनेयवशात् तिस्रो देशनाः—
स्कन्धायतनधातुदेशनाः । तासु च ये स्कन्धेषु देशिता धर्मास्त एवायतनधातुषु
देशिताः । असंस्कृतास्त्वत्र केवलमतिरिक्ताः । सर्वश्चाभिधर्मः सूत्रव्याख्यानम् ।
अत इदमुक्तम्—'इन्द्रियार्थास्त एव' इति विस्तरेण । लाघवकामश्चायमाचार्यः
वेदनादिस्कन्धलक्षणमनुक्त्वैव लाघवेन रूपस्कन्धस्वभावान् धर्मानायतनधातुषु
दर्शयति । इन्द्रियाणि च इन्द्रियार्थाश्च इन्द्रियार्थाः । 'त एव' इति विशेषणमन्ये-
न्द्रियनिरासार्थम्, अन्यार्थनिरासार्थं च । आयतनव्यवस्थायां तु यथासंख्येन दशा-
यतनानि चक्षुरायतनं रूपायतनं यावत्कायायतनं स्प्रष्टव्यायतनमिति । धातुव्य-
वस्थायां त एव दश धातवः चक्षुर्धातु रूपधातुर्यावत्कायधातुः स्प्रष्टव्यधातुरिति ।
उक्तो रूपस्कन्धस्तस्य चायतनधातुव्यवस्थानमिति । न सकलस्य रूपस्कन्ध-
स्यायतनधातुव्यवस्थानमुक्तम्; अविज्ञप्तिरूपस्य वक्ष्यमाणत्वात्, कथमिद-
मुच्यते—उक्तमिति । बाहुलिको निर्देशः । बाहुल्येन रूपस्कन्धस्यायतनधातु-
व्यवस्थानमुक्तमित्यर्थः । कतिपयमुद्गगुलिकासम्भवेऽपि माषराशिव्यपदेशवत् ।
१. आश्रयरूपणाद्—का०
४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
वेदनादयो वक्तव्याः। तत्र—
वेदनाऽनुभवः
त्रिविधोऽनुभवो वेदनास्कन्धः—सुखः, दुःखः, अदुःखासुखश्च। स
पुनर्भिद्यमानः षड् वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावन्मनःसंस्पर्शजा वेदनेति।
संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १४ ॥
यावन्नीलपीतदीर्घह्रस्वस्त्रीपुरुषमित्रामित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञा-
स्कन्धः। स पुनर्भिद्यमानः षट् संज्ञाकाया वेदनावत् ॥ १४ ॥
चतुर्भ्योऽन्ये तु संस्कारस्कन्धः
रूप-वेदना-संज्ञा-विज्ञानेभ्यश्चतुर्भ्योऽन्ये तु संस्काराः संस्कारस्कन्धः।
भगवता तु सूत्रे "षट् चेतनाकायाः" (सं० नि० ) इत्युक्तम्; प्राधान्यात्।
सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना। अत एवोक्तं भगवता—“संस्कृत-
त्रिविधोऽनुभव इति। अनुभूतिरनुभवः=उपभोगः। कस्य ? चित्तस्य, पुद्गलस्य
वा। स च त्रिविधः—सुखो दुःखोऽदुःखासुखश्च। वस्तुनो ह्लाद-परिताप-तदुभय-
विनिर्मुक्तस्वरूपसाक्षात्कारणस्वभावः। अनुभूयते वानेन विषय इत्यनुभवः।
अनुभवतीति वानुभवः। शब्दादिनोपभोगाच्चानुभवविनिर्मुक्तव्यवस्थाप्रकृत-
श्चैतसिकविशेषस्पर्शानुभव इत्यपरे। “अनुलक्षणे” (पा० सू० १. ४. ८४)।
स्पर्शचिह्नः, स्पर्शनिमित्तोऽनुभव इत्यर्थः। स वेदनास्कन्धः।
“निमित्तोद्ग्रहणात्मिका” इति। निमित्तं वस्तुनोऽवस्थाविशेषो नीलत्वादि,
तस्योद्ग्रहणम् = परिच्छेदः, तदात्मिका तत्स्वभावा। दुःखादित्यादिशब्देन
लोहितादीनां ग्रहणम्। असौ संज्ञास्कन्धः। यदि परिच्छेदात्मिका संज्ञा,
तत्सम्प्रयोगे निमित्तमुद्गृह्णन्तीति पञ्चापि विज्ञानकाया विकल्पकाः स्युः ? न
स्युः; न हि पञ्चविज्ञानसम्प्रयोगिणी संज्ञा पट्वी। मनोविज्ञानकायसम्प्रयोगिणी
तु पट्वीति तदेव विकल्पकमुक्तम्। षट् संज्ञाकाया वेदनावदिति। यथा चक्षुः-
संस्पर्शजा वेदनेति विस्तरेणोक्तम्, तथा चक्षुःस्पर्शजा संज्ञेति विस्तरेण
वक्तव्यम् ॥ १४ ॥
“चतुर्भ्योऽन्ये” इति। चतुर्भ्यः स्कन्धेभ्यः, स्कन्धाधिकारात्। रूपस्कन्धा-
दिभ्यस्त्रिभ्य उक्तेभ्यो विज्ञानस्कन्धाच्चोद्दिष्टवक्ष्यमाणाच्चतुर्भ्योऽन्ये संस्काराः
“संस्कारस्कन्धः”। सूत्रे षट् चेतनाकाया इत्युक्तमिति। “संस्कारस्कन्धः कतमः ?
षट् चेतनाकायाः” ( ) इति। अभिसंस्करणे प्रधाना इति।
निर्देशः ] प्रथमं कोशस्थानम् ४९
मभिसंस्करोति तस्मात् संस्कारा उपादानस्कन्ध इत्युच्यते" ( सं० नि० २२.
७८. ८५ ) इति । अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां
स्कन्धासंग्रहाद् दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे' न' स्याताम् ।
उक्तं च भगवता — "नाहमेकधर्ममपि अनभिज्ञायपरिज्ञाय दुःखस्यान्तक्रियां
वदामि" इति । एवम् "अप्रहाय" ( ) इत्युक्तम् ।
तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहोऽभ्युपगन्तव्यः ॥
एते पुनस्त्रयः ।
इति । 'एवं चैवं च स्याम्' इत्यभिसंस्करणे प्रधानाः, "कर्महेतूपपत्तयः" इति
वचनात् । छन्दप्राप्त्यादयस्तु चेतनानुविधायित्वात् तदाकारहेतुभावानुविधानात्:
संस्कारस्कन्ध एव वेदितव्याः । तदेवं सति संस्कररो प्रवृत्तो धर्मराशिः संस्कार
इत्युक्तं भवति ।
अपरे पुनराहुः—संस्कृताभिसंस्करणे चेतनायाः प्राधान्यमुक्तम्, अतः सूत्रे
चेनाग्रहणम् । सम्प्रयुक्तविप्रयुक्तसंस्कृतधर्मसंग्रहेण तु प्राधान्यादयमेव स्कन्धः
संस्कारस्कन्धः उक्तः, संस्कृतराशिरिति कृत्वा । संस्कृतमभिसंस्करोतीति भाविन्या
संज्ञयानागतं स्कन्धपञ्चकं संस्कृतमित्युक्तम् । अन्यथा हीति । विस्तरः-यदि
यथासूत्रनिर्देशम्, चेतनैव केवला संस्कारस्कन्ध इष्यते, नान्ये । शेषाणां च्छन्दादीनां
चैतसिकानां प्राप्त्यादीनां च चित्तविप्रयुक्तानां स्कन्धासंग्रहात् । रूपादिषु स्कन्धेषु
रूपणादिलक्षणाभावेनासंग्रहात्, संस्कारस्कन्धे चैवं सूत्रे यथारुतग्रहणेनासंग्र-
हादिति स्कन्धेष्वसंग्रहात् । दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञाप्रहाणे न
स्याताम् । परिज्ञा दुःखस्य, प्रहाणं समुदयस्य । अनभिज्ञाय लौकिकेन मार्गेण,
अपरिज्ञाय लोकोत्तरेण । अथ वा—अनभिज्ञाय दर्शनमार्गेण, अपरिज्ञाय
भावनामार्गेण । एवमप्रहायेत्युक्तमिति सूत्रान्तरम् । नाहमेकधर्ममप्यप्रहाय प्रहा-
दुःखस्यान्तक्रियां वदामीति । दुःखनिरोधं वदामीत्यर्थः । ननु चाकाशाप्रति-
संख्यानिरोधौ लोकोत्तरेण मार्गेण न परिज्ञायेते, अथ च दुःखस्यान्तक्रियेष्यते;
संक्लेशवस्त्वभिसन्धिवचनात् ? सौत्रान्तिकदर्शनेन च प्रज्ञप्तिसत्त्वाददोषः । न हि
तौ संक्लेशवस्तु, किमनयोः परिज्ञेयत्वेन । निरोधमार्गसत्ये अपि तर्हि न
संक्लेशवस्तु इति न परिज्ञेये स्याताम् ? दुःखसमुदयसत्यसम्बन्धसद्भावात् तयोः
परिज्ञेयत्वं व्यवस्थाप्यते । तथा हि योगिन एवं विचारयन्ति—अस्य सहेतुकस्य
दुःखस्य को निरोधः ? केन चोपायेन स निरोधः प्राप्यते ?, इति निरोधमार्ग-
१-१. ०प्रहाणे अपि—का०।
अभि० को० ४
५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
वेदना-संज्ञा-संस्कारस्कन्धाः आयतनधातुव्यवस्थायाम्—
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः ॥ १५ ॥
इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते ॥ १५ ॥
विज्ञानं प्रतिविज्ञप्तिः,
विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञानस्कन्ध इत्युच्यते । स पुनः
षड् विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति ।
य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायाम्,
मनआयतनं च तत् ।
धातुव्यवस्थायां स एव—
धातवः सप्त च मताः,
कतमे सप्त ?
षड् विज्ञानान्यथो मनः ॥ १६ ॥
चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुर्मनोधातुश्च । एवमत्र पञ्च स्कन्धाः,
सत्ये अपि परिजानन्ति । न त्वाकाशाप्रतिसंख्यानिरोधयोर्दुःखेन सम्बन्ध इति
न तौ परिजानन्ति । प्रयोगावस्थायां तु लौकिकेन ज्ञानेन तावपि सामान्य-
रूपेण ‘सर्वधर्मा अनात्मानः’ इति भावयन्ति ।
“धर्मायतनधात्वाख्याः” इति । आयतनं च धातुश्चायतनधातुः, धर्मश्चा-
सावायतनधातुश्च धर्मायतनधातुः, तदाख्यैषां त इमे धर्मायतनधात्वाख्याः ।
के ? वेदनासंज्ञासंस्कारस्कन्धाः ।
“सहाविज्ञप्त्यसंस्कृतैः” इति । सहाविज्ञप्त्या, सहासंस्कृतैश्चाकाशादिभिः ।
आयतनदेशनायां धर्मायतनमिति, धातुदेशनायां च धर्मधातुरिति । सप्त
द्रव्याणीति । अविज्ञप्तिः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, आकाशम्
प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्चेति ॥ १५ ॥
“विज्ञानं प्रतिविज्ञप्तिः” इति । विज्ञानस्कन्धः प्रतिविज्ञप्तिरित्यर्थः, स्कन्धा-
धिकारात् । प्रतिर्वीप्सार्थः, विषयं विषयं प्रतीत्यर्थः । उपलब्धिवस्तुमात्रग्रहणम् ।
वेदनादयस्तु चेतसा विशेषग्रहणरूपाः । षड् विज्ञानकाया इति । षड् विज्ञान-
समूहाः ।
“षड् विज्ञानान्यथो मनः” इति । षड् विज्ञानधातवो यथासंख्येन, यच्चक्षु-
निर्देशः ] प्रथमं कोशस्थानम् ५१
द्वादशायतनानि, अष्टादश धातवो निर्दिष्टा भवन्ति । अविज्ञप्तिवर्ज्यो रूपस्कन्धो
दशायतनानि दश धातवः। वेदनादयः स्कन्धास्त्रयोऽविज्ञप्तिरसंस्कृतानि च
धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मनायतनं षड् विज्ञानधातवो मनो-
धातुश्चेति ॥ १६ ॥
ननु च षड् विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् । अथ कोऽयं पुनस्तेभ्यो-
ऽन्यो मनोधातुः ? न खलु कश्चिदन्यः, किं तर्हि ? तेषामेव
षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।
यद्यत् समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्यते । तद्यथा स एव
पुत्रोऽन्यस्य पित्राख्यां¹, लभते¹, तदेव फलमन्यस्य बीजाख्याम्², तथेहापि स एव
मनोधात्वाख्यां लभते² ।
एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति, द्वादश वा; षड्विज्ञानधातुमनो-
५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
षष्ठाश्रयप्रसिद्धयर्थं धातवोऽष्टादश स्मृताः ॥ १७ ॥
पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः । षष्ठस्य मनो-
विज्ञानधातोराश्रयोऽन्यो नास्ति । अतस्तदाश्रयप्रसिद्धयर्थं मनोधातुरुपदिष्टः ।
एवमाश्रयाश्रितालम्बनषट्कव्यवस्थानेनाष्टादश¹ धातवो भवन्तीति ।
अर्हतस्तर्हि चरमं चित्तं न मनो भविष्यति, नहि तदस्ति यस्य तत् सम-
नन्तरातीतं स्यादिति ? न; तस्यापि मनोभावेनावस्थितत्वात् । अन्यकारण-
वैकल्यात्तु नोत्तरविज्ञानसम्भूतिः ॥ १७ ॥
भावः । यदि षड् विज्ञानधातवो गृह्येरन्, नार्थो मनोधातुनेति सप्तदश धातवो
भवन्ति । यदि मनोधातुर्गृह्येत, नार्थः षड्विज्ञानधातुभिरिति द्वादश धातवो
भवन्ति ।
“षष्ठाश्रयप्रसिद्धयर्थम्” इति । पञ्चानां विज्ञानधातूनामाश्रयप्रसिद्धिर्नाङ्गी-
क्रियते; चक्षुरादिष्वाश्रयसम्भवात् । मनोविज्ञानस्याश्रयो नास्तीति तदाश्रय-
प्रसिद्धयर्थं मनोधातुर्व्यवस्थाप्यते । आश्रयादि-षट्कव्यवस्थानेन अष्टादश धातवो
भवन्ति । आश्रयषट्कं चक्षुरादि मनोऽन्तकम्, आश्रितषट्कं चक्षुर्विज्ञानादि
मनोविज्ञानान्तम्, आलम्बनषट्कं रूपादिधर्मान्तमिति । योगाचारदर्शनेन तु
षड्विज्ञानव्यतिरिक्तोऽप्यस्ति मनोधातुः । ताम्रपर्णीया अपि हृदयवस्तु मनो-
विज्ञानधातोराश्रयं कल्पयन्ति, तच्चारूप्यधातावपि विद्यत इति वर्णयन्ति ।
आरूप्यधातावपि हि तेषां रूपमभिप्रेतम् । आरूप्य इति च ईषदर्थे आङ्,
आपिङ्गलवदिति ।
चरमं चित्तमिति । निरुपधिशेषनिर्वाणकाले । न मनो भविष्यतीति । न
मनोधातुर्भविष्यतीत्यर्थः । न हि तदस्तीति । नोत्पद्यत इत्यर्थः । न; तस्यापि
मनोभावेनेति । विस्तरः—नैतदेवम्, कस्मात् ? तस्यापि चरमचित्तस्य मनो-
भावेनाश्रयत्वेनावस्थितत्वात् । अन्यकारणवैकल्यादिति । पौनर्भविककर्मक्लेश-
कारणवैकल्यात् । नोत्तरविज्ञानसम्भूतिरिति । न पुनर्भवप्रतिसन्धिविज्ञानमित्य-
भिप्रायः ।
इदमिह विचार्यते—उक्तमेतत् ‘आश्रयाश्रितालम्बनषट्कव्यवस्थानादष्टादश
धातवो भवन्ति' इति । अश्रितषट्कं तावद् व्यवस्थाप्यते—चक्षुर्विज्ञानधातु-
र्यावन्मनोविज्ञानधातुरिति । किमस्याश्रितषट्कस्य यथासंख्यमाश्रयषट्कं
व्यवस्थाप्यते—चक्षुर्विज्ञानधातोराश्रयश्चक्षुर्धातुर्यावन्मनोविज्ञानधातोर्मनोधातु-
१. ०व्यवस्थानादष्टादश—का० ।
ामाश्रयः स इति कृत्वा षष्ठाश्रयप्रसिद्धिर्न भवति । षष्ठस्याप्य-
Line 16:
यमाश्रयो भवति, सम्भवतः । आलम्बनषट्कमपि, चक्षुर्विज्ञानधातोरालम्बनं
Line 17:
रूपधातुर्यवन्मनोविज्ञानधातोर्धर्मधातुरालम्बनमिति ।
Wait, "रूपधातुर्यवन्मनोविज्ञानधातोर्धर्मधातुरालम्बनमिति ।" - let's check "र्यवन्" vs "र्यावन्". It is printed as "र्यवन्" (or "र्यावन्" with very faint aa-matra, but clearly "र्यवन्" is visible).
Line 18:
तदिदं विचार्यते—किं यथा चक्षुर्विज्ञानधातोर्यावन्ति रूपाण्यालम्बनं स
Line 19:
रूपधातुः, एवं यावत्कायविज्ञानधातोर्यावन्ति स्प्रष्टव्यान्यालम्बनं स स्प्रष्टव्य-
Line 20:
धातुः, एवं मनोविज्ञानधातोर्यावन्तो धर्मा आलम्बनं स धर्मधातुरिति ? अत्र
Line 21:
स्थविर आह—सर्वधर्मस्वभावो धर्मधातुः । अष्टादशधातुस्व
समासतस्तु ज्ञातव्यः—
सर्वसंग्रह एकेन स्कन्धेनायतनेन च।
धातुना च,
रूपस्कन्धेन मनआयतनकेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः।
स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः—
स्वभावेन,
न परभावेन। किं कारणम् ?
परभाववियोगतः ॥ १८ ॥
वियुक्ता हि परभावेन धर्माः। तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते।
तद्यथा—चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां¹ दुःखसमुदयसत्याभ्यां
च संगृहीतम्; तत्स्वभावत्वात्। नान्यैः स्कन्धादिभिः; तद्भाववियुक्तत्वात्;
समासतस्तु ज्ञातव्यः सर्वसंग्रह इति। आयतनादिभिरपि सर्वसंग्रहः, न तु
समासतः, किं तर्हि ? विस्तरतः। अयं तु देशनात्रयान्निष्कृष्य समासतः उक्तः।
रूपस्कन्धेन रूपस्कन्धः संगृहीतः, दश चेन्द्रियार्थस्वभावान्यायतनानि धातवश्च,
धर्मायतनधात्वेकदेशश्चाविज्ञप्तिः। मनआयतनकेन विज्ञानस्कन्धः, तदेव च
मनआयतनम्, सप्त चित्तधातवश्च संगृहीताः। धर्मधातुना वेदनासंज्ञासंस्कार-
स्कन्धाः संगृहीता धर्मायतनं धर्मधातुश्च। अविज्ञप्तिरिह द्विः संगृहीता।
तद्यथा चक्षुरिन्द्रियमिति। चक्षुरिन्द्रियं वेदनादिस्कन्धश्रोत्राद्यायतनधातु-
निरोधसत्यमार्गसत्यस्वभावेन वियुक्तम्। अत एतदुक्तम्—चक्षुरिन्द्रियं रूप-
स्कन्धेन चक्षुरायतनधातुभ्यां दुःखसमुदयसत्याभ्यां च संगृहीतम्, तत्स्वभावत्वात्;
नान्यैः स्कन्धादिभिः, तद्भाववियुक्तत्वादिति। महतात्राल्पकं संगृहीतम्, न तु
महदल्पकेन। कथमिति? रूपस्कन्धो महान् सर्वरूपसंग्राहकत्वात्। चक्षु-
रिन्द्रियमल्पकं रूपस्कन्धैकदेशत्वात्। रूपस्कन्धेन चक्षुरिन्द्रियं संगृहीतम्, न तु
चक्षुरिन्द्रियेण रूपस्कन्धः; चक्षुरिन्द्रियव्यतिरिक्त रूपस्कन्धसद्भावात्। तद्यथा—
हस्तिपदेन पक्षिपदं संगृहीतम्, न तु पक्षिपदेन हस्तिपदं संगृहीतम्, तद्वत्। समेन
तु सममन्योन्यं संगृहीतम्। तद्यथा चक्षुरिन्द्रियं चक्षुरायतनेन, चक्षुरायतनमपि
चक्षुरिन्द्रियेणेत्ययमभिधर्मनयो वेदितव्यः।
१. चक्षुरायतनधातुभ्यां च—का०।
निर्देशः ] प्रथमं कोशस्थानम् ५५
यस्त्वन्येनान्यस्य संग्रह उच्यते, यथा संग्रहवस्तुभिः पर्षदाम्; स हि
कादाचित्कः¹ साङ्केतिको वेदितव्यः ॥ १८ ॥
ननु चैकविंशत्या धातुभिर्भवितव्यम्, चक्षुषो द्वित्वात् श्रोत्रघ्राणयोश्च ? न
भवितव्यम् । यस्मात्—
जातिगोचरविज्ञानसामान्याद् एकधातुता ।
द्वित्वेऽपि चक्षुरादीनाम्,
तत्र जातिसामान्यम्; उभयोश्चक्षुःस्वभावत्वात् । गोचरसामान्यम्;
उभयोः रूपविषयत्वात् । विज्ञानसामान्यम्; उभयोरेकचक्षुर्विज्ञानाश्रयत्वात् ।
तस्मादेक एव चक्षुर्धातुः । एवं श्रोत्रघ्राणयोरपि योज्यम् ।
शोभार्थं तु द्वयोद्भवः ॥ १९ ॥
एकधातुत्वेऽपि तु चक्षुरादीनां द्वयोः सम्भवः, आश्रयस्य शोभार्थम् । अन्यथा
हि एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसम्भवात् महत् वैरूप्यं स्यादिति ॥ १९ ॥
उक्ताः स्कन्धायतनधातवः ॥
यथा संग्रहवस्तुभिः पर्षदामिति । चत्वारि संग्रहवस्तूनि—दानम्, प्रिय-
वादिता, अर्थचर्या, समानार्थता च । चतस्रः पर्षद—भिक्षुभिक्षुण्युपासको-
पासिका । तैस्तासां संग्रहः । स तु कादाचित्कः । कदाचिद्भवः कादाचित्कः ।
कदाचिदासां दीयते, प्रियं चोच्यते। न च संग्रह इति। सांकैतिकः सांव्यवहारिकः।
स्वभावसंग्रहस्तु पारमार्थिक इत्युक्तम् ॥ १८ ॥
“जातिगोचरविज्ञानसामान्यादेकधातुता, द्वित्वेऽपि चक्षुरादीनाम्” इति। अर्था-
देतदुक्तम्—जात्यादिभेदाद् यथासम्भवं धातुभेदव्यवस्थानम्, न त्वधिष्ठानभेदा-
दिति । तत्र चक्षुर्धात्वादीनामन्योन्यं जातिगोचरविज्ञानभेदो भवति । रूप-
धात्वादीनां जातिविज्ञानभेदः, विज्ञानधातूनां जातिगोचरभेदः। मनोविज्ञान-
स्यापि हि धर्मधातुरसाधारणा गोचरः । एवं श्रोत्रघ्राणयोरपि योज्यमिति ।
जातिसामान्यमुभयोः श्रोत्रस्वभावत्वात्, गोचरसामान्यमुभयोः शब्दविषयत्वात्,
विज्ञानसामान्यमुभयोरेकश्रोत्रविज्ञानाश्रयत्वात् । तस्मादेक एव श्रोत्रधातुः ।
एवं घ्राणस्यापि योज्यम् ।
कार्यान्तराभावात् र्तार्ह द्वयानुत्पत्तिप्रसङ्गः स्याद् ? इत्यत आह—“शोभार्थं
तु द्वयोद्भवः” इति । एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसम्भवान्महद् वैरूप्यं
१ कादाचित्कत्वात्—का० ।
५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
इदं तु वक्तव्यम्—कः स्कन्धायतनधात्वर्थ इति ?
राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः ।
"यत् किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं बाह्यम्, औदारकं वा सूक्ष्मं
वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वा अन्तिके, तत् सर्वमैकध्यमभिसंक्षिप्य रूप-
स्कन्ध इति संख्यां गच्छति" (विम० १.१.१.२) इति सूत्रे¹ वचनात् सूत्रे
स्यादिति । एकस्य चक्षुःश्रोत्राधिष्ठानस्य एकस्य च नासिकाबिलस्य सम्भवात्
महद् वैरूप्यं स्यात् । ननु, चोष्ट्रमार्जारोलूकप्रभृतीना चक्षुरादिद्वयोद्भवेऽपि न
भवत्याश्रयशोभा ? जात्यन्तरापेक्षया न तेषामाश्रयशोभा, स्वजात्यपेक्षया
तु यस्य चक्षुरादिद्वयमस्ति तस्य तस्या स्वजातावाश्रयशोभा, यस्य नास्ति
तस्य वैरूप्यमिति अदूष्यमेतत् ।
आचार्यसङ्घभद्रस्त्वस्य सूत्रस्यार्थं विवब्रे—"शोभार्थमित्याधिपत्यार्थमित्यर्थे' ।
आधिपत्यसम्पन्नो हि लोके शोभत इत्यपदिश्यते । येषां चेन्द्रियाणामून्यधिष्ठा-
नानि तेषा परिशुद्धदर्शनश्रवणघ्राणाच्चाधिपत्यं स्यात् । न हि यथा
निर्देशः ] प्रथमं कोशस्थानम् ५७
राश्यर्थः स्कन्धार्थ इति सिद्धम् । तत्रातीतं रूपमनित्यता/निरुद्धम् । अनागत-
मनुत्पन्नम् । प्रत्युत्पन्नमुत्पन्नानिरुद्धम् । आध्यात्मिकं स्वासान्तानिकम्, बाह्यमन्यदा-
यतनतो वा । औदारिकं सप्रतिघं सूक्ष्मम्, अप्रतिघमापेक्षिकं वा । आपेक्षिकत्वाद-
सिद्धमिति चेत् ? न, अपेक्षाभेदात् । यदेवापेक्ष्यौदारिकं १ न जातु तदपेक्ष्य
सूक्ष्मम्, पितृपुत्रवत् २ ।
धैवेकध्यम् । अनित्यता/निरुद्धमिति । अनित्यतया संस्कृतलक्षणेन निरुद्धमित्यर्थः ।
अनित्यताग्रहणमन्यनिरोधनिरासार्थम् । पञ्चविधो हि निरोध —लक्षणनिरोधः,
समापत्तिनिरोधः, उपपत्तिनिरोधः, प्रतिसंख्यानिरोधः, अप्रतिसंख्यानिरोधश्च ।
तद्यद्यतीतं रूपं निरुद्धमित्येवं ब्रूयात्, अविशेषितत्वात् समापत्तिनिरोधादीनामपि
प्रसङ्गः स्यात् । न च तैरतीतार्थतेष्यते । समापत्तिनिरोधो ह्यनागतानामेव
चित्तचैत्तानाम्, उपपत्तिनिरोधोऽप्येषामेव, प्रतिसंख्यानिरोधः सास्रवाणामेव,
अप्रतिसंख्यानिरोधं ह्यनुत्पत्तिधर्माणामेवानागतानाम् । तस्माल्लक्षणनिरोध-
ग्रहणार्थमिदमनित्यताग्रहणम् ।
अनागतमनुत्पन्नमिति । प्रत्युत्पन्नतामसम्प्राप्तम् । प्रत्युत्पन्नमुत्पन्नानिरुद्धमिति ।
उत्पन्नग्रहणमनागतविशेषणार्थम् । अनिरुद्धग्रहणमतीतविशेषणार्थम् । अनागतं
यद्यप्यनिरुद्धं न तूत्पन्नम् । अतीतमपि यद्यप्युत्पन्नं न त्वनिरुद्धमिति । आध्यात्मिकं
स्वासान्तानिकमिति । चक्षुरादिकं रूपादिकं च । बाह्यमन्यदिति । तदेव परसान्ता-
निकम्, असत्त्वसंख्यातं च । आयतनतो वेति । आध्यात्मिकं चक्षुरादिपञ्चकं स्व-
परसन्ततिपतितम्, "द्वादशाध्यात्मिका" (अभि० को० १।३९) इति वचनात् ।
बाह्यमन्यद् रूपादिकं विषयपञ्चकं स्वपरसन्ततिपतितम् असत्त्वसंख्यातं चाविज्ञ-
प्तिश्च, बाह्यायतनस्वभावमिति कृत्वा । औदारिकं सप्रतिघमिति । परमाणुसञ्चय-
स्वभावम् । सूक्ष्ममप्रतिघम् । अविज्ञप्तिरूपम् । आपेक्षिकं वेति । अपेक्षया वौदा-
रिकं सूक्ष्मं च भवति, तद्यथा—लिक्षामपेक्ष्यौदारिकी यूका, यूकामपेक्ष्य सूक्ष्मा
लिक्षेति । तदेवं सति सप्रतिघमेवौदारिकं च सूक्ष्मं भवति । अप्रतिघं तु सूक्ष्म-
मेव, असञ्चितत्वात् । आपेक्षिकत्वादसिद्धमिति । सैव सूक्ष्मा लिक्षा वातायनरजो-
ऽपेक्ष्यौदारिकी, सैव चौदारिकी यूकामपेक्ष्य सूक्ष्मेत्यव्यवस्थितमौदारिकसूक्ष्मत्वं
पारापारवत् । कथं हि नामौदारिकं सूक्ष्मं भवति, सूक्ष्मं चौदारिकमिति ?
न; अपेक्षाभेदादिति । अपेक्षया भेदोऽपेक्षाभेदः, तस्मान्नासिद्धम् । यदेवापेक्ष्यौ-
दारिकं न जातु तदपेक्ष्य सूक्ष्मम् । न कदाचित् तदेवापेक्ष्यमित्यर्थः । पितृपुत्रवदिति ।
१. यदपेक्ष्यौदारिक—का० ।
२. पितापुत्रवद्—का० ।
५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
हीनम् = क्लिष्टम् । प्रणीतम् - अक्लिष्टम् । दूरम् = अतीतानागतम् ।
अन्तिकम् = प्रत्युत्पन्नम् । एवं यावद् विज्ञानम् ।
अयं तु विशेषः — औदारिकं पञ्चेन्द्रियाश्रयं सूक्ष्मं मानसम् । भूमितो वेति
वैभाषिकाः । भदन्त आह — “औदारिकरूपं पञ्चेन्द्रियग्राह्यम् । सूक्ष्ममन्यत् ।
हीनममनापम् । प्रणीतं मनापम् । दूरमदृश्यदेशम् । अन्तिकं दृश्यदेशम् ; ,
तद्यथा—देवदत्तस्य पुत्रो यज्ञदत्त , यज्ञदत्तस्य पुत्रो विष्णुमित्र., स यज्ञदत्तो
विष्णुमित्रमपेक्ष्य पिता, देवदत्तमपेक्ष्य पुत्र । न चापेक्षिकत्वादस्य पितृपुत्रभावो
न सिध्यति, अपेक्षाभेदात् । न हि स यज्ञदत्तस्तमेव विष्णुमित्रमपेक्ष्य पुत्र , नापि
तमेव देवदत्तमपेक्ष्य पितेति, तद्वत् । हीनं क्लिष्टम्; सद्भिस्त्यक्तमिति कृत्वा ।
प्रणीतमक्लिष्ट
निर्देशः ] प्रथमं कोशस्थानम् ५९
अतीतादीनां स्वशब्देनाभिहितत्वात् । एवं वेदनादयोऽपि वेदितव्याः । दूरान्तिकत्वं
तु तेषामाश्रयवशात् । औदारिकसूक्ष्मत्वं¹ पूर्ववद् ( ) इति ।
चित्तचैत्तायद्वारार्थ आयतनार्थः । निर्वचनं तु—चित्तचैत्तानामायं
तन्वन्तीति आयतनानि । विस्तृण्वन्तीत्यर्थः । गोत्रार्थो धात्वर्थः । यथैकस्मिन्
पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्राणि धातव उच्यन्ते, एवमेकस्मिन्नाश्रये
सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते । आकरास्तत्र
गोत्राण्युच्यन्ते ।
त इमे चक्षुरादयः कस्याकराः ? स्वस्या जातेः; सभागहेतुत्वात् ।
असंस्कृतं न² धातुः स्यात् । चित्तचैत्तानां तर्हि जातिवाचकोऽयं धातुशब्द
चात्र द्रष्टव्यम्—"पूर्वत्रासिद्धम्" ( पा० सू० ८.२.१ ) इति ईषदर्थे नञ्परि-
ग्रहात् किञ्चित्सिद्धमित्येकसवर्णदीर्घत्वम् । दूरमदृश्यदेशमिति । आधारदेशमा-
श्रयाधारदेशं चाधिकृत्य । द्रष्टुं शक्यो दृश्य, दृश्यो देशोऽस्येति दृश्यदेशं
दृश्याधारदेशम्, दृश्याश्रयाधारदेशं वा । तद्यथा -कुण्डे बदरम्, चक्षुरादि
वा । तदन्तिकम् । अदृश्यदेशं तु तद्विपरीतं दूरम् । दूरमदृश्यमिति नोक्तम्,
- आसन्नमपि हि किञ्चिदतिसूक्ष्मत्वान्न दृश्यते । न च तद् दूरमिष्यते, दृश्यदेशत्वात् ।
किमर्थं पुनरेवं भदन्तेन व्याख्यायते ? अतीतादीना स्वशब्देनाभिहितत्वात् ।
अन्यथा हि पुनरुक्तदोषः स्यात् । दूरान्तिकत्वं तु तेषामाश्रयवशादिति । तेषा
वेदनादीनाम्, अमूर्तत्वेनादेशस्थत्वात् । तस्मादेवं वक्तव्यम्—दूरेऽदृश्यमाना-
श्रया वेदनादय., अन्तिके दृश्यमानाश्रया इति । औदारिकसूक्ष्मत्वं पूर्ववदिति ।
औदारिकं पञ्चेन्द्रियाश्रयम्, सूक्ष्मं मानसमिति ।
चित्तचैत्तानामायम् उत्पत्ति तन्वन्तीत्यायतनानि । द्वयं प्रतीत्य विज्ञानस्यो-
त्पत्तिरिति सर्वेषामायतनत्वसिद्धिः । एकस्मिन्नाश्रये संताने वेति । आश्रये=
समुदायलक्षणे शरीरे, सन्ताने वा चित्तादीना प्रवाहलक्षणे ।
स्वस्या जातेः । किम् ? आकरा इति प्रकृतम् । सभागहेतुत्वात् । पूर्वोत्पन्नं
चक्षुः पश्चिमस्य सभागहेतुरित्याकरो धातुः । यतो हि सुवर्णाद्युत्पत्तिस्ते तेषा-
माकरा. । असंस्कृतं न धातुः स्यात् । न ह्यसंस्कृतस्यान्यस्य वा सभागहेतु. ।
चित्तचैत्तानां तर्हीति । किम् ? आकरा इति प्रकृतम् । द्वयं प्रतीत्य विज्ञान-
१. ०सूक्ष्मत्वं तु—का० ।
२. तर्हि न—का० ।