सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 57, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 57

३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते१ ॥ ११ ॥
विक्षिप्ताचित्तकस्येति तदन्यचित्तस्यापि । अचित्तकस्यापीत्यसंज्ञिनिरोध-
समापत्तिसमापन्नस्यापि। अपिशब्देनाविक्षिप्तसचित्तकस्यापीति२ विज्ञायते । योऽनु-
बन्ध इति । यः प्रवाहः । शुभाशुभ इति कुशलाकुशलः ।
कुशलाकुशले प्राप्तिप्रवाहोऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते—महा-
( अभि० को० १.९ ) इत्यविज्ञप्तिरेवावशिष्यते, तस्या लक्षणनिर्देशावसर इति
वक्तव्यः ।
“विक्षिप्ताचित्तकस्य” इति केचिदेवं वृत्तिं पठन्ति । अस्मिन् पाठ एवं
सूत्रविग्रहः—विक्षिप्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः । अथ वा—
विक्षिप्तं चित्तं नास्ति वा चित्तमस्येति विक्षिप्ताचित्तकः । एकस्य चित्त-
शब्दस्य लोपः ।
केचिदेवं पठन्ति—विक्षिप्तस्येति । अस्मिन् पाठ उत्तरपदद्वयस्य बहुव्रीहिं
कृत्वा पश्चादेवं विग्रहः—विक्षिप्तश्चाचित्तकश्च विक्षिप्ताचित्तकः । विक्षिप्तः पुद्गलो
विक्षिप्तचित्त इत्यर्थः । विक्षिप्ताचित्तस्येति तदन्यचित्तस्यापीति । अविक्षिप्तचित्ता-
दन्यचित्तस्येत्यर्थः । तद्यथा—कुशलाया अविज्ञप्तेः समुत्थापकं चित्तं कुशलम्,
तदन्यचित्तोऽकुशलाव्याकृतचित्तः, स इह विक्षिप्तचित्तोऽभिप्रेतः । अकुशला-
यास्त्वविज्ञप्तेरकुशलं चित्तं समुत्थापकम्, तदन्यचित्तः कुशलाव्याकृतचित्तः, स
चापि विक्षिप्तचित्तो वेदितव्यः । तस्य तदन्यचित्तस्यापि । अचित्तकस्यापीत्य-
संज्ञिनिरोधसमापत्तिसमापन्नस्यापि । अपिशब्देनाविक्षिप्तसचित्तकस्यापीति विज्ञायत
इति । एतत्पुद्गलद्वयव्यतिरिक्ततृतीयस्याप्यर्थः ।
योऽनुबन्ध इति । प्रवाह इति । यो धर्मो नित्यप्रवाहयुक्त इत्यर्थः । प्रवाहेण
प्रवाही निर्दिश्यते; प्रवाहोपलक्ष्यत्वात् । अथ वा—अनुबध्नातीत्यनुबन्धः । प्रवाह
इति च व्याख्यापदं कृतबहुव्रीहिकम्—प्रवृत्तः प्रकृष्टो वा वाहोऽस्येति प्रवाहो
धर्मः । स एव निर्दिश्यते, न तत्स्रोतः ।
कुशलाकुशल इति । कुशलाकुशल एवेत्यवधारणम् । अव्याकृतो नास्तीत्यर्थः ।
एतेन चक्षुरादयो व्युदस्ता वेदितव्याः । प्राप्तिप्रवाहोऽप्यस्तीदृश इति । तत्प्राप्ति-
रपि विक्षिप्ताविक्षिप्ताचित्तस्यापि प्रवाहिणी कुशलाकुशलैव चेति तद्विशेषणार्थ-
१. ॰रिष्यते—पाठा० ।
२. ॰सुचित्तस्यापीति—का० ।