सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 42, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 42

निर्देशः ] प्रथमं कोशस्थानम् २३
यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपान्तराणि १ शब्दगन्धरसस्प्रष्टव्यानि
चात्यन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यमुत्पत्तुम् २, न हि ते
समर्था ३ अतीतं विषयमालम्बयितुमिति । अतः स तेषामप्रतिसंख्यानिरोधः
प्रत्ययवैकल्यात् प्राप्यते ।
यथैकरूपव्यासक्तचक्षुर्मनस इति । विस्तरः—यथेत्युदाहरणकथनम् । यथै-
कस्मिन्नीले रूपे व्यासक्तं चक्षुर्मनश्च यस्य स एकरूपव्यासक्तचक्षुर्मनाः, तस्य
यानि रूपान्तराणि गृह्यमाणान्नीलादन्यानि नीलान्तरपीतलोहितावदातादीनि
वर्णरूपाणि संस्थानरूपाणि च शब्दगन्धरसस्प्रष्टव्यानि च सर्वाणि अत्यन्ते प्रत्यु-
त्पन्नमध्वानमतिक्रामन्ति । अतीतमध्वानं प्रतिपद्यन्त इत्यर्थः । तदालम्बनैरिति ।
तानि नीलान्तरादीन्यनन्तरोक्तान्यालम्बनान्तराणि येषां ते तदालम्बनाः ।
के ? पञ्च विज्ञानकायाः, तैः न शक्यमुत्पत्तुमिति भावसाधनमेतत् । न हि ते
समर्था इति । विस्तरः—न हि ते पञ्च विज्ञानकाया अतीतं विषयं स्वालम्बन-
मपि शक्ता ग्रहीतुम्; वर्तमानालम्बनत्वात् पञ्चानां विज्ञानकायानाम् । अथान्यदि-
दानीं नीलान्तरादिकं वर्तमानमालम्ब्य कस्मान्नोत्पद्यन्ते ? न शक्यमेवं भवितुम्;
सर्वधर्माणां चतुष्के नियतत्वात्—हेतौ, फले, आश्रये, आलम्बने चेति । यस्य
विज्ञानस्य यदालम्बनं तदेव तस्यालम्बनं भवेत्, भवेन्नान्यदिति आलम्बन-
प्रत्ययवैकल्यात् ते पञ्च विज्ञानकाया न पुनरुत्पद्यन्ते । अत आह—स तेषाम-
प्रतिसंख्यानिरोध इति । विस्तरः—तेषां पञ्चानां विज्ञानकायानां प्रत्यय-
वैकल्यात् प्राप्यत आलम्बनप्रत्ययवैकल्यात् । चतुर्भिरेव हि प्रत्ययैर्हेतुसमनन्तरा-
लम्बनाधिपतिप्रत्ययैश्चित्तचैत्ता उत्पद्यमाना उत्पद्यन्ते । तेषामन्यतरवैकल्ये-
ऽप्यनुत्पत्तिः; समनन्तरप्रत्ययवैकल्यादित्यपरे । समनन्तरप्रत्ययो हि तदानीं
चित्तचैत्तलक्षण एकस्यैव तस्य नीलविज्ञ स्योत्पत्ताववकाशं ददाति, नेतरेषां
नीलान्तरादिविज्ञानानाम्; युगपद्विज्ञानोत्पत्त्यसम्भवात् । उदाहरणमात्रं चैतत् ।
एवं क्षान्तिलाभ्यादीनां पञ्चानामप्यापायिकानामनागतानां स्कन्धानां तदु-
त्पत्तिविरुद्धप्रत्ययसम्मुखीभावेन प्रत्ययवैकल्यादप्रतिसंख्यानिरोधः प्राप्यत इत्यु-
दाहार्यम् । अप्रतिसंख्यानिरोधमेव वाभिसन्धाय स्रोतआपन्नं पुद्गलमधिकृत्योक्तं
भगवता—“निरुद्धा अस्य नरकास्तिर्यञ्चः प्रेताः” ( ) इति ।
तदेवञ्जातीयकानामनागतानां धर्माणां प्रत्ययवैकल्यात्प्रतिसंख्यामन्तरेणोत्पादस्य
नियतरोधभूतो यो धर्मः सोऽप्रतिसंख्यानिरोध इत्युच्यते । न हि प्रत्ययवैकल्य-
१. रूपाणि—का० । २. पुनरुत्पत्तुम्—का० ।
३. सस्या—का० ।