अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 47, कुल 1258 में से
संदर्भ में पढ़ें२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
ये सास्रवा उपादानस्कन्धास्ते,
अतः किं सिद्धम् ? 'ये उपादानस्कन्धाः स्कन्धा अपि ते स्युः स्कन्धा एव,
नोपादानस्कन्धाः, अनास्रवाः संस्काराः' इति। तत्र उपादानानि = क्लेशाः,
तत्सम्भूतत्वादुपादानस्कन्धाः, तृणतुषाग्निवत्। तद्विधेयत्वाद्वा, राजपुरुषवत्।
उपादानानि वा तेभ्यः सम्भवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत्।
त एव सास्रवा धर्मा उच्यन्ते—
संयोजनेनापि तस्मिन्निति। हेतौ—सवस्तुका धर्माः। कतमे ? सर्वे संस्कृता
धर्मा इति। परिग्रहे—क्षेत्रवस्तु, गृहवस्तु, आपणवस्तु, धनवस्तु। परिग्रहं प्रहाय
ततः प्रतिविरतो भवतीति। इह हेतौ वस्तुशब्दो वेदितव्यो हेतुवचनः। किलेति
किलशब्दः परमतं¹ दर्शयति। स्वमतं त्वस्य लक्ष्यते। सवस्तुकाः सस्वभावाः
संस्कृताः। असंस्कृतास्त्ववस्तुकाः, प्रज्ञप्तिसत्त्वादिति॥ ७॥
त एव पुनः संस्कृता इति ये सास्रवा अनास्रवाः पूर्वमुक्ता इति दर्शयति—
“ये सास्रवा उपादानस्कन्धास्ते” इति। 'तेषाम्' इत्यत्राध्याहार्यम्। किं सिद्धमिति।
यदर्थापन्नं तद्विचारयति। उपादानस्कन्धादयः सूत्रेषूक्ताः, तेनेह ते न व्याख्या-
यन्ते। सर्वोऽभिधर्मः सूत्रार्थ इति विस्तरेणोक्तमेतत्। तत्सम्भूतत्वादुपादान-
स्कन्धा इति। उपादानसम्भूताः स्कन्धा उपादानस्कन्धाः, मध्यमपदलोपात्।
यथा तृणसम्भूतोऽग्निस्तृणाग्निः,। उपादानानां
स्कन्धा उपादानस्कन्धा इति षष्ठीसमासेनेव मध्यमपदलोपमकृत्वाऽन्ये साधयन्ति,
एवं च निदर्शयन्ति—यथा तृणानामग्निस्तृणाग्निरिति। युक्तम् ये सत्त्व-
संख्यातास्त उपादानस्कन्धाः, क्लेशाभिस्यन्दितकर्महेतुकत्वात्; बाह्यास्तु
भावाः कथमुपादानस्कन्धाः ? तेऽप्युपादाननिर्वृत्ताः, “कर्मजं लोकवैचित्र्यम्”
(अभि० को० ४. १) इति सिद्धान्तात्।
तद्विधेयत्वाद्वा राजपुरुषवदिति। यथा राज्ञो विधेयः पुरुषः, एवमुपादानानां
विधेयाः स्कन्धाः, तद्वशेनालम्बनगत्यन्तरप्रवृत्तेः। उपादानानि वा तेभ्यः सम्भ-
वन्तीति। अर्थकथनमात्रमेतत्। पदानि त्वेवं वक्तव्यानि—उपादानानां सम्भवा
हेतवो वा स्कन्धा उपादानस्कन्धाः। पुष्पफलवृक्षवत्। यथा पुष्पाणां फलानां
वा सम्भवो हेतुर्वृक्षः, पुष्पवृक्ष इति वा, तद्वत्। अर्हत्स्कन्धा अपि पारसान्ता-
निकोपादानविधेयाः, विक्रियापादनात्। तेभ्योऽपि पारसान्तानिकान्युपादानानि
सम्भवन्तीत्यविरुद्धमेषामुपादानस्कन्धत्वम्।
१. वैभाषिकमतमित्यर्थः।