न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
३२. सू० ] न्यायप्रकरणम् ४७
न्यायप्रकरणम् [ ३२-३९ ]
अथावयवाः ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः ॥ ३२ ॥
दशावयवानेके नैयायिका वाक्ये सञ्चक्षते-जिज्ञासा, संशयः, शक्यप्राप्तिः,
प्रयोजनम्, संशयव्युदास इति, ते कस्मान्नोच्यन्त इति ?
तत्राप्रतीयमानेऽर्थे प्रत्ययार्थस्य प्रर्वतिका जिज्ञासा । अप्रतीयमानमर्थं कस्मा-
ज्जिज्ञासते ? 'तं तत्त्वतो ज्ञातं हास्यामि वा, उपादास्ये वा, उपेक्षिष्ये वा' इति। ता
एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थः, तदर्थमयं जिज्ञासते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
तत्प्रतिषेधेन तत्त्वाभ्यनुज्ञानार्थम्, न त्वयं साधकवाक्यैकदेश इति। प्रकरणे तु
जिज्ञासादयः समर्थाः, अवधारणीयार्थोपकारात्। तत्त्वार्थसाधकभावात्तु प्रति-
ज्ञादयः साधकवाक्यस्य भागा एकदेशा अवयवा इति ॥ ३२ ॥
प्रतिज्ञालक्षणम्
तेषां तु यथाविभक्तानाम्—
साध्यनिर्देशः प्रतिज्ञा ॥ ३३ ॥
प्रज्ञापनीयेन धर्मेण धर्मिणो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६. सू० ] न्यायप्रकरणम् ४९
उदाहरणवैधर्म्याच्च साध्यसाधनं हेतुः । कथम् ? 'अनित्यः शब्दः, उत्पत्ति-
धर्मकत्वात्; अनुत्पत्तिधर्मकं नित्यम्, यथा आत्मादि द्रव्यम्' इति ॥ ३५ ॥
उदाहरणलक्षणम्
साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ ३६ ॥
साध्येन साधर्म्यम्-समानधर्मता । साध्यसाधर्म्यात्कारणात्तद्धर्मभावी दृष्टान्त
इति । तस्य धर्मस्तद्धर्मः । तस्य = साध्यस्य । साध्यं च द्विविधम्-धर्मिविशिष्टो
वा धर्मः-शब्दस्यानित्यत्वम्; धर्मविशिष्टो वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५० वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
इति । उदाह्रियतेऽनेन धर्मयोः साध्यसाधनभाव इत्युदाहरणम् ॥ ३६ ॥
तद्विपर्ययाद्वा विपरीतम् ॥ ३७ ॥
दृष्टान्त उदाहरणमिति प्रकृतम् । साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त
उदाहरणमिति । 'अनित्यः शब्दः, उत्पत्तिधर्मकत्वात्, अनुत्पत्तिधर्मकं नित्यमा-
त्मादि' । सोऽयमात्मादिर्दृष्टान्तः साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावी,
योऽसौ साध्यस्य धर्मोऽनित्यत्वं स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३८. सू० ] न्यायप्रकरणम् ५१
३८. सू० ] न्यायप्रकरणम् ५१
न सम्भवतीत्यहेतवो हेत्वाभासाः । तदिदं हेतूदाहरणयो सामर्थ्यं१ परमसूक्ष्मं
दुःखबोधं पण्डितरूपवेदनीयमिति ॥ ३७ ॥
उपनयलक्षणम्
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः ॥ ३८ ॥
उदाहरणापेक्षः = उदाहरणतन्त्रः, उदाहरणवशः । वशः = सामर्थ्यम् ।
साध्यसाधर्म्ययुक्ते उदाहरणे—स्थाल्यादि द्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टम्,
तथा 'शब्द उत्पत्तिधर्मकः' इति साध्यस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
निगमनलक्षणम्
हेत्वपदेशात् प्रतिज्ञाया पुनर्वचनं निगमनम् ॥ ३९ ॥
साधर्म्योक्ते वा वैधर्म्योक्ते वा यथोदाहरणमुपसंह्रियते, 'तस्मादुत्पत्ति-
धर्मकत्वादनित्यः शब्दः' इति निगमनम् । निगम्यन्ते अनेनेति प्रतिज्ञाहेतूदाहरणो-
पनया एकत्रेति निगमनम् । निगम्यन्ते = समर्थ्यन्ते, सम्बध्यन्ते ।
तत्र साधर्म्योक्ते तावद्धेतौ वाक्यम् —'अनित्यः शब्दः' इति प्रतिज्ञा,
'उत्पत्तिधर्मकत्वात्' इति हेतुः, 'उत्पत्तिधर्मकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३९. सू० ] न्यायप्रकरणम् ५३
३९. सू० ] न्यायप्रकरणम् ५३
प्रतिसन्धानाद्, अनुह्वेश्च स्वातन्त्र्यानुपपत्तेः । अनुमानं हेतुः, उदाहरणे सादृश्य-
प्रतिपत्तेः। तच्चोदाहरणभाष्ये १ (१.१.३६) व्याख्यातम् । प्रत्यक्षविषयमुदाहरणम्,
दृष्टेनादृष्टसिद्धेः । उपमानमुपनयः, 'तथा' इत्युपसंहारात्, 'न च तथा' इति
वोपमानधर्मप्रतिषेधे विपरीतधर्मोपसंहारसिद्धेः। २सर्वेषामेकार्थप्रतिपत्तौ सामर्थ्य-
प्रदर्शनं निगमनमिति ।
इतरेतराभिसम्बन्धोऽपि-असत्यां प्रतिज्ञायामनाश्रया हेत्वादयो न प्रवर्त्तेरन् ।
असति हेतौ कस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
उदाहरणेन समानस्य विपरीतस्य वा साध्यस्य धर्मस्य साधकभाववचनं हेत्वर्थः,
धर्मयोः साध्यसाधनभावप्रदर्शनमेकत्रोदाहरणार्थः, साधनभूतस्य धर्मस्य साध्येन
धर्मेण सामानाधिकरण्योपपादनमुपनयार्थः, उदाहरणस्थयोर्धर्मयोः साध्यसाधन-
भावोपपत्तौ साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं निगमनम् ।
न चैतस्यां हेतूदाहरणपरिशुद्धौ सत्यां साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४०. सू० ] न्यायोत्तराङ्गप्रकरणम् ५५
४०. सू० ] न्यायोत्तराङ्गप्रकरणम् ५५
स्विन्नेत्थमिति । विमृश्यमानयोर्धर्मयोरेकं कारणोपपत्त्या अनुजानाति—सम्भ-
वत्यस्मिन् कारणं प्रमाणं हेतुरिति, कारणोपपत्त्या स्यात्-एवमेतन्नेतरदिति ।
तत्र निदर्शनम्-योऽयं ज्ञाता ज्ञातव्यमर्थं जानीते तं 'तत्त्वतो भो जानीयं' इति
जिज्ञासते । 'स किमुत्पत्तिधर्मकः ? अनुत्पत्तिधर्मकः ?' इति विमर्शः । विमृश्य-
मानेऽविज्ञाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपद्यते तमनुजानाति-‘यद्य-
यमनुत्पत्तिधर्मकः, ततः स्वकृतस्य कर्मणः फलमनुभवति ज्ञाता ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
कथं पुनरयं तत्त्वज्ञानार्थः, न तत्त्वज्ञानमेवेति ? अनवधारणात् । अनुजा-
नात्ययमेकतरं धर्मं कारणोपपत्त्या, न त्ववधारयति, न व्यवस्यति, न निश्चि-
नोति—'एवमेवेदम्' इति ।
कथं तत्त्वज्ञानार्थ इति ? तत्त्वज्ञानविषयाभ्यनुज्ञालक्षणानुग्रहभावितात् १
प्रसन्नादनन्तरप्रमाणसामर्थ्यात्तत्त्वज्ञानमुत्पद्यत इत्येवं तत्त्वज्ञानार्थ इति ।
सोऽयं तर्कः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसूत्र में ‘विमृश्य’ का अर्थ है विमर्श करके। यह विमर्श पक्ष-प्रतिपक्ष को नियम से
४१. सू०] न्यायोत्तराङ्गप्रकरणम् ५७
पक्षाश्रयौ व्यतिषक्तावनुबन्धेन प्रवर्त्तमानो पक्षप्रतिपक्षावित्युच्येते। तयोरन्यतरस्य
निवृत्तिः, एकतरस्यावस्थानमवश्यम्भावि। यस्यावस्थानं तस्यावधारणं निर्णयः।
नेदं पक्षप्रतिपक्षाभ्यामर्थावधारणं सम्भवतीति, एको हि प्रतिज्ञातमर्थं हेतुतः
स्थापयति, प्रतिषिद्धं१ चोद्धरति द्वितीयस्य। द्वितीयेन स्थापनाहेतुः प्रतिषिद्ध्यते,
तस्यैव प्रतिषेधहेतुश्चोद्ध्रियते स निवर्त्तते, तस्य निवृत्तौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० १. आ०
‘क्रियावद् द्रव्यम्’ इति लक्षणवचने यस्य द्रव्यस्य क्रियायोगो हेतुतः सम्भवति
तत् क्रियावत्, यस्य न सम्भवति तदक्रियमिति । एकधर्मिस्थयोश्च विरुद्धयोर्धर्म-
योरयुगपद्भाविनोः कालविकल्पः, यथा—तदेव द्रव्यं क्रियायुक्तं क्रियावत्, अनु-
त्पन्नोपरतक्रियं पुनरक्रियमिति ।
न चायं निर्णये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inकथालक्षणप्रकरणम् [ १-३ ]
[ अथ द्वितीयमाह्निकम् ]
कथालक्षणप्रकरणम् [ १-३ ]
वादलक्षणम्
तिस्रः कथा' भवन्ति—वादः, जल्पः, वितण्डा चेति । तासाम्—
प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न पक्षप्रतिपक्ष-
परिग्रहो वादः ॥ १ ॥
एकाधिकरणस्थौ विरुद्धौ धर्मो पक्षप्रतिपक्षौ, प्रत्यनीकभावाद्-अस्त्यात्मा,
नास्त्यात्मेति । नानाधिकरणस्थौ विरुद्धौ न पक्षप्रतिपक्षौ, यथा—नित्य आत्मा,
अनित्या बुद्धिरिति । परिग्रहः = अभ्युपगमव्यवस्था । सोऽयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६० वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
जल्पे निग्रहस्थानविनियोगाद् वादे तत्प्रतिषेधः । प्रतिषेधे कस्यचिदभ्यनुज्ञा-
नार्थम् ‘सिद्धान्ताविरुद्धः’ इति वचनम् । ‘सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः’
( १. २. ६ ) इति हेत्वाभासस्य निग्रहस्थानस्याभ्यनुज्ञा वादे ।
‘पञ्चावयवोपपन्नः’ इति—‘हीनमन्यतमेनाप्यवयवेन न्यूनम्’ (५. २. १२),
‘हेतूदाहरणाधिकमधिकम्’ (५. २. १३) इति च—एतयोरभ्यनुज्ञानार्थामिति ।
अवयवेषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२. सू० ] कथालक्षणप्रकरणम् ६१
२. सू० ] कथालक्षणप्रकरणम् ६१
विज्ञायि-इत्येवमर्थं पृथक् प्रमाणतर्कग्रहणमिति ॥ १ ॥
जल्पलक्षणम्
यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥ २ ॥
यथोक्तोपपन्न इति—प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चाव-
यवोपपन्नः पक्षप्रतिपक्षपरिग्रहः१। छलजातिनिग्रहस्थानसाधनोपालम्भ इति—
छलजातिनिग्रहस्थानैः साधनम्, उपालम्भश्चास्मिन् क्रियत इति एवंविशेषणो
जल्पः।
न खलु वै
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
यन्तीति, छलजातिनिग्रहस्थानोपालम्भो जल्प इत्येवमप्युच्यमाने विज्ञायत
एतदिति ?
प्रमाणैः साधनोपालम्भयोश्छलजातिनिग्रहस्थानानामङ्गभावः, स्वपक्ष-
रक्षणार्थत्वात्, न स्वतन्त्राणां साधनभावः। यत्तत्प्रमाणैरर्थस्य साधनं तत्र
छलजातिनिग्रहस्थानानामङ्गभावः, स्वपक्षरक्षणार्थत्वात् । तानि हि प्रयुज्य-
मानानि परपक्षविघातेन स्वपक्षं रक्षन्ति । तथा चोक्तम्—'तत्त्वाध्यवसायसंरक्ष-
णार्थं जल्पवितण्डे,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inहेत्वाभासप्रकरणम् [ ४-९ ]
५. सू० ] हेत्वाभासप्रकरणम् ६३
अस्तु तर्हि स प्रतिपक्षहीनो वितण्डा ? यद्वै खलु तत्परप्रतिषेधलक्षणं
वाक्यं स वैतण्डिकस्य पक्षः, न त्वसौ साध्यं कञ्चिदर्थं प्रतिज्ञाय स्थापयतीति ।
तस्माद्यथान्यासमेवास्त्विति ॥ ३ ॥
हेत्वाभासप्रकरणम् [ ४-९ ]
हेतुलक्षणाभावादहेतवो हेतुसामान्याद्धेतुवदाभासमानाः । त इमे—
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६४ . वात्स्यायनभाष्यसहिते न्यायदर्शने [ १ . अ० २ . आ०
श्चाणुर्नित्यश्चेति । आत्मादौ च दृष्टान्ते-'उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः'
( १. १. ३४ ) इति अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति—'अस्पर्शा बुद्धिर-
नित्या च' इति । एवं द्विविधेऽपि दृष्टान्ते व्यभिचारात्साध्यसाधनभावो नास्तीति
लक्षणाभावादहेतुरिति ।
नित्यत्वमप्येकोऽन्तः, अनित्यत्वमप्येकोऽन्तः, एकस्मिन्नन्ते विद्यत इति
ऐकान्तिकः, विपर्ययादनैकान्तिकः, १उभयान्तव्यापकत्वादिति ॥ ५ ॥
(ख)
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in७. सू० ] हेत्वाभासप्रकरणम् ६५
७. सू० ] हेत्वाभासप्रकरणम् ६५
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात्प्रच्युतेरुपपत्तिः । यदात्मलाभात्प्रच्यवते
तदनित्यं दृष्टम्, यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं चात्म-
लाभात् प्रच्युतिरिति च-विरुद्धावेतौ धर्मौ न सह सम्भवत इति । सोऽयं हेतुर्यं
सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति ।
(ग) प्रकरणसमलक्षणम्
यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ १. अ० २. आ०
यत्र समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार
एव। या तु विमर्शस्य विशेषापेक्षिता उभयपक्षविशेषानुपलब्धिश्च सा प्रकरणं
प्रवर्तयति। यथा-- शब्दे नित्यधर्मो नोपलभ्यते, एवमनित्यधर्मोऽपि; सेयमुभय-
पक्षविशेषानुपलब्धिः प्रकरणचिन्तां प्रवर्तयति। कथम् ? विपर्यये हि प्रकरण-
निवृत्तेः। यदि नित्यधर्मः शब्दे गृह्येत, न स्यात्प्रकरणम् । यदि वा अनित्य-
धर्मो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in