न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
३१. सू० ] अनुपलब्धिसमप्रकरणम् ३६१
३१. सू० ] अनुपलब्धिसमप्रकरणम् ३६१
आवरणाद्यनुपलब्धिर्नास्ति; अनुपलब्भादित्यहेतुः । कस्मात् ? अनुप-
लम्भात्मकत्वाद्वनुपलब्धेः । उपलम्भाभावमात्रत्वाद्वनुपलब्धेः । यदस्ति तदुप-
लब्धेर्विषयः, 'उपलब्ध्या तदस्ति' इति प्रतिज्ञायते । यन्नास्ति तदनुपलब्धेर्विषयः,
'अनुपलभ्यमानं नास्ति' इति प्रतिज्ञायते । सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ
उपलब्ध्व्यभावेऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वं विषयं प्रतिषेधयति ।
अप्रतिषिद्धा चावरणाद्यनुपलब्धिर्हेतुत्वाय कल्पते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
संवेदनीयौ—'अस्ति मे संशयज्ञानम्, नास्ति मे संशयज्ञानम्' इति। एवं प्रत्यक्षानु-
मानागमस्मृतिज्ञानेषु। सेयमावरणाद्यनुपलब्धिरुपलब्ध्यभावः स्वसंवेद्यः--'नास्ति
मे शब्दस्याऽऽवरणाद्युपलब्धिः' इति, नोपलभ्यन्ते शब्दस्याग्रहणकारणान्या-
वरणादीनीति। तत्र यदुक्तम्-'तदनुपलब्धेरनुपलम्भादभावसिद्धिः' इति, एतन्नो-
पपद्यते ॥ ३१ ॥
अनित्यसमप्रकरणम् [
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५. सू० ] अनित्यसमप्रकरणम् ३६३
३५. सू० ] अनित्यसमप्रकरणम् ३६३
सिद्धिः ? साधर्म्यादसिद्धिः प्रतिषेधस्याप्यसिद्धिः, प्रतिषेध्येन साधर्म्यादिति ॥३३॥
दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथा
भावान्नाविशेषः ॥ ३४ ॥
दृष्टान्ते यः खलु धर्मः साध्यसाधनभावेन प्रज्ञायते, स हेतुत्वेनाभिधीयते।
स चोभयथा भवति—केनचित् समानः, कुतश्चिद्विशिष्टः। सामान्यात्साधर्म्यम्,
विशेषाच्च वैधर्म्यम्। एवं साधर्म्यविशेषो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
शब्द इति। अथ न सर्वदा भवति, अनित्यत्वस्याभावान्नित्यः शब्दः। एवं
नित्यत्वेन प्रत्यवस्थानात्—नित्यसमः ॥ ३५ ॥
अस्योत्तरम्—
प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥ ३६ ॥
प्रतिषेध्ये शब्दे नित्यमनित्यत्वस्य भावादित्युच्यमाने, अनुज्ञातं शब्दस्या-
नित्यत्वम्। अनित्येऽनित्यत्वोपपत्तेश्च नानित्यः शब्द इति प्रतिषेधो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३८. सू० ] कार्यसमप्रकरणम् ३६५
३८. सू० ] कार्यसमप्रकरणम् ३६५
कार्यसमप्रकरणम् [ ३७-३८ ]
प्रयत्नकार्यनिकत्वात् कार्यसमः ॥ ३७ ॥
प्रयत्नानन्तरीयकत्पादनित्यः शब्द इति-यस्य प्रयत्नानन्तरमात्मलाभः
तत् खल्वभूत्वा भवति, यथा घटादिकार्य्यम्, अनित्यमिति च भूत्वा न भवती-
त्येतद् विज्ञायते । एवमवस्थिते प्रयत्नकार्यनिकत्वादिति प्रतिषेध उच्यते ।
प्रयत्नानन्तरमात्मलाभश्च दृष्टो घटादीनाम्, व्यवधानापोहाच्चाभिव्यक्तिर्व्य-
वहितानाम्, तत्किं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inषट्पक्षीप्रकरणम् [ ३९-४० ]
३६६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
मपोहाच्छब्दस्योपलब्धिलक्षणाऽभिव्यक्तिर्भवतीति। तस्मात् 'उत्पद्यते शब्दो
नाभिव्यज्यते' इति ॥ ३८ ॥
षट्पक्षीप्रकरणम् [ ३९-४० ]
हेतोश्चेदनेकान्तिकत्वमुपपाद्यते, अनैकान्तिकत्वादसाधकः स्याद् इति। यदि
चानैकान्तिकत्वादसाधकत्वम्;
प्रतिषेधेऽपि समानो दोषः ॥ ३९ ॥
प्रतिषेधोऽप्यनैकान्तिकः। किञ्चित् प्रतिषेधति,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४२. सू० ] षट्पक्षीप्रकरणम् ३६७
४२. सू० ] षट्पक्षीप्रकरणम् ३६७
सर्वेषु साधर्म्यप्रभृतिषु प्रतिषेधहेतुषु यत्र यत्राविशेषो दृश्यते, तत्रोभयोः
पक्षयोः समः प्रसज्यत इति ॥ ४० ॥
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ॥ ४१ ॥
योऽयं प्रतिषेधेऽपि समानो दोषः-अनैकान्तिकत्वमापद्यते, सोऽयं प्रतिषेधस्य
प्रतिषेधेऽपि समानः । तत्र 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्' इति साधन-
वादिनः स्थापना, प्रथमः पक्षः । 'प्रयत्नकार्यनेकत्वात् कार्यसमः' इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो
दोष इति ॥ ४३ ॥
स्थापनापक्षे प्रयत्नकार्यानिकत्वादिति दोषः स्थापनाहेतुवादिनः स्वपक्ष-
लक्षणो भवति । कस्मात् ? स्वपक्षसमुत्थत्वात् । सोऽयं स्वपक्षलक्षणं दोष-
मपेक्षमाणोऽनुद्धृत्यानुज्ञाय प्रतिषेधेऽपि समानो दोष इत्युपपद्यमानं दोषं परपक्षे
उपसंहरति । इत्थं चानैकान्तिकः प्रतिषेध इति हेतुं निर्दिशति । तत्र स्वपक्ष-
लक्षणापेक्षयोपपद्यमानदोषोपसंहारे हेतुनिर्देशे च सत्यनेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४३. सू० ] षट्पक्षीप्रकरणम् ३६९
४३. सू० ] षट्पक्षीप्रकरणम् ३६९
विशेषात् पुनरुक्तदोषप्रसङ्गः । चतुर्थपक्षे समानदोषत्वं परस्योच्यते-प्रतिषेध-
विप्रतिषेधे प्रतिषेधदोषवद्दोष इति; षष्ठेऽपि परपक्षाभ्युपगमात् समानो दोष
इति समानदोषत्वमेवोच्यते, नार्थविशेषः कश्चिदस्ति । समानस्तुतीयपञ्चमयोः
पुरुक्तदोषप्रसङ्गः । तृतीयपक्षेऽपि 'प्रतिषेधेऽपि समानो दोषः' इति समानत्व-
मभ्युपगम्यते । पञ्चमपक्षेऽपि प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गोऽभ्यु-
गम्यते, नार्थविशेषः कश्चिदुच्यत इति । तत्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३७० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० २. आ०
[ द्वितीयमाह्निकम् ]
विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वमिति सङ्क्षेपेणोक्तम्
( १.२.२०), तदिदानीं विभजनीयम् । निग्रहस्थानानि खलु पराजयवस्तून्य-
पराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिनं
चाभिसम्प्लवन्ते । तेषां विभागः—
प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरमर्थान्तरं
निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३. सू० ] निग्रहस्थानपञ्चकप्रकरणम् ३७१
३. सू० ] निग्रहस्थानपञ्चकप्रकरणम् ३७१
शब्दो घटवत्' इति कृते, अपर आह—'दृष्टमैन्द्रियकत्वं सामान्ये नित्ये, कस्मान्न
तथा शब्दः' इति प्रत्यवस्थिते, इदमाह—'यद्यैन्द्रियकं सामान्यं नित्यं कामं घटो
नित्योस्तु' इति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव
पक्षं जहाति, पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते; प्रतिज्ञाश्रयत्वात् पक्षस्येति ॥ २ ॥
प्रतिज्ञातार्थ प्रतिषेधेधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ ३ ॥
प्रतिज्ञातार्थः अनित्यः शब्द ऐन्द्रियकत्वात् घटवत्' इत्युक्ते योऽस्य प्रतिषेधः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३७२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० २. आ०
प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥ ४ ॥
गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा, रूपांदितोऽर्थान्तरस्यानुपलब्धेरिति
हेतुः, सोऽयं प्रतिज्ञाहेत्वोर्विरोधः । कथम् ! यदि गुणव्यतिरिक्तं द्रव्यम्,
रूपादिभ्योऽर्थान्तरस्यानुपलब्धिर्नोपपद्यते । अथ रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः,
'गुणव्यतिरिक्तं द्रव्यम्' इति नोपपद्यते, गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश्चा-
र्थान्तरस्यानुपलब्धिरिति विरुध्यते = व्याहन्यते, न सम्भवतीति ॥ ४ ॥
पक्षप्रतिषेधे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपादानात् । अथ नोपादीयते ? दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकाभावानु-
७. सू० ] निग्रहस्थानचतुष्कप्रकरणम् ३७३
अस्ति चेदं परिमाणं प्रतिव्यक्तम्, तदेकप्रकृतीनां विकाराणां परिमाणात्पश्यामः-
व्यक्तमिदमेकप्रकृतीति ।
अस्य व्यभिचारेण प्रत्यवस्थानम्-नानाप्रकृतीनामेकप्रकृतीनां च विकाराणां
दृष्टं परिमाणमिति । एवं प्रत्यवस्थिते आह-एकप्रकृतिसमन्वये सति शरावादि-
विकाराणां परिमाणदर्शनात्, सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं
गृह्यते, तत्र प्रकृत्यन्तररूपसमन्वयाभावे सत्येकप्रकृतित्वमिति ।
तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुवतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३७४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० २. आ०
पदं च नामाख्यातोपसर्गनिपाताः, अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः
शब्दो नाम१, क्रियाकारक समुदायः, कारकसङ्ख्याविशिष्टक्रियाकालयोगाभि-
धाय्याख्यातम्, धात्वर्थमात्रं च कालाभिधानविशिष्टम्, प्रयोगेष्वर्थादभिद्य-
मानरूपा निपाताः, उपसृज्यमानाः क्रियाद्योतका उपसर्गा इत्येवमादि—
तदर्थान्तरं वेदितव्यमिति ॥ ७ ॥
वर्णक्रमनिर्देशवन्निरर्थकम् ॥ ८ ॥
यथा 'नित्यः शब्दः कचटतपाः,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२. सू० ] निग्रहस्थानत्रिकप्रकरणम् ३७५
१२. सू० ] निग्रहस्थानत्रिकप्रकरणम् ३७५
शब्दमप्रतीतप्रयोगमतिद्रुतोच्चरितमित्येवमादिना कारणेन तदविज्ञातम्—
अविज्ञातार्थम् । असामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति ॥ ९ ॥
पौर्वापर्ययोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ १० ॥
यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येणान्वययोगो नास्ति इत्यसम्बद्धार्थ-
त्वं गृह्यतं तत्समुदायार्थस्यापायादपार्थकम् । यथा—दश दाडिमानि, षडपूपाः,
कुण्डम्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपुनरुक्तनिग्रहस्थानप्रकरणम् [ १४-१५ ]
३७६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० २. आ०
हेतूदाहरणाधिकमधिकम् ॥ १३ ॥
एकेन कृतत्वाद् अन्यतरस्यानर्थक्यमिति तदेतन्नियमाभ्युपगमे वेदित-
व्यमिति ॥ १३ ॥
पुनरुक्तनिग्रहस्थानप्रकरणम् [ १४-१५ ]
शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ॥ १४ ॥
अन्यत्रानुवादात् शब्दपुनरुक्तमर्थपुनरुक्तं वा, नित्यः शब्दो नित्यः शब्द इति
शब्दपुनरुक्तम्। अर्थपुनरुक्तम्-अनित्यः शब्दो निरोधधर्मको ध्वनिरिति ॥ १४ ॥
अनुवादे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२०. सू० ] उत्तरविरोघिनिग्रहस्थानचतुष्कप्रकरणम् ३७७
२०. सू० ] उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् ३७७
उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम् [ १७-२० ]
विज्ञातस्य परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणमननुभाषणम् ॥ १७ ॥
विज्ञातस्य वाक्यार्थस्य परिषदा, प्रतिवादिना वा त्रिरभिहितस्य यदप्रत्यु-
च्चारणं तदननुभाषणं नाम निग्रहस्थानमिति । अप्रत्युच्चारयन् किमाश्रयं
परपक्षप्रतिषेधं ब्रूयात् ! ॥ १७ ॥
अविज्ञातं चाज्ञानम् ॥ १८ ॥
विज्ञातार्थस्य परिषदा, प्रतिवादिना त्रिरभिहितस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम् [ २१-२३ ]
३७८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० २. आ०
मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम् [ २१-२३ ]
स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥ २१ ॥
यः परेण चोदितं दोषं स्वपक्षेऽभ्युपगम्यानुद्धृत्य वदति—भवत्पक्षेऽपि
समानो दोष इति—स स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषं प्रसञ्जयन् परमत-
मनुजानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यत इति ॥ २१ ॥
निग्रहस्थानप्राप्तस्यानिग्रहः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४. सू० ] कथकान्त्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम् ३७९
२४. सू० ] कथकान्त्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम् ३७९
कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय प्रतिज्ञातार्थविपर्ययाद् अनियमात् कथां
प्रसञ्जयतोऽपसिद्धान्तो वेदितव्यः। यथा 'न सदात्मानं जहाति, न सतो विनाशः,
नासदात्मानं लभते, नासदुत्पद्यते' इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति-
'एकप्रकृतीदं व्यक्तं विकाराणामन्वयदर्शनात् । मृदन्वितानां शरावादीनां
दृष्टमेकप्रकृतित्वम्, तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते, तस्मात्
समन्वयदर्शनात् सुखादिभिरेकप्रकृतीदं शरीरम्' इति । एवमुक्तवाननुयुज्यते-'अथ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसूत्रकार को कहना चाहिये था ? इसी के समाधान के लिये सूत्र में 'यथोक्त' पद दिया
३८० वात्स्यायनभाष्यसहितं न्यायदर्शने [ ५. अ० २. आ०
हेत्वाभासाश्च यथोक्ताः ॥ २५ ॥
हेत्वाभासाश्च निग्रहस्थानानि ।
किं पुनर्लक्षणान्तरयोगाद् हेत्वाभासा निग्रहस्थानत्वमापन्नाः, यथा प्रमाणानि
प्रमेयत्वम् ? इत्यत आह—यथोक्ता इति । हेत्वाभासलक्षणेनैव निग्रहस्थानभाव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in