न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
सूत्रकार का यह आदेश उन जिज्ञासुओं के लिये है जिनको तत्त्वज्ञान न हुआ हो,
३४२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
एतन्निगदेनैव नीतार्थमिति ॥ ४८ ॥
यदिदं मन्येत—पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति ?
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४९ ॥
तमभ्युपेयादिति वर्तते । परतः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन
स्वपक्षमनावस्थापयन् स्वदर्शनं परिशोधयेदिति ॥ ४९ ॥
तत्त्वज्ञानपरिपालनप्रकरणम् [ ५०-५१ ]
अन्योन्यप्रत्यनीकानि च प्रावादुकानां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५१. सू० ] तत्त्वज्ञानपरिपालनप्रकरणम् ३४३
५१. सू० ] तत्त्वज्ञानपरिपालनप्रकरणम् ३४३
विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य—
ताभ्यां विगृह्य कथनम् ॥ ५१ ॥
विगृह्य इति विजिगीषया, न तत्त्वबुभुत्सयेति । तदेतद् विद्यापालनार्थम्, न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसत्प्रतिपक्षदेशनाभासप्रकरणम् [ १-३ ]
अथ पञ्चमोऽध्यायः
प्रथममाह्निकम् [ १-३ ]
सत्प्रतिपक्षदेशनाभासप्रकरणम् [ १-३ ]
'साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वम्' ( १.२.१८ ),
इति संक्षेपेणोक्तम्, तद्विस्तरेण विभज्यते । ताः खल्विमा जातयः, स्थापना-
हेतौ प्रयुक्ते, चतुर्विंशतिः प्रतिषेधहेतवः-
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रति-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२. सू० ] सत्प्रतिपक्षदेशनाभासप्रकरणम् ३४५
२. सू० ] सत्प्रतिपक्षदेशनाभासप्रकरणम् ३४५
लक्षणं तु—
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ २ ॥
साधर्म्येणोपसंहारे—साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम-
विशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनम्—‘क्रियावानात्मा,
द्रव्यस्य क्रियाहेतुगुणयोगात्; द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान्, तथा
चात्मा, तस्मात् क्रियावान्’ इति । एवमुपसंहृते, परः साधर्म्येणैव प्रत्यवतिष्ठते—
‘निष्क्रिय आत्मा; विभुनो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
वत्साधर्म्यात् क्रियावता भवितव्यम्, न पुनः क्रियावद्वैधर्म्यादक्रियेणेति । विशेष-
हेत्वभावाद् वैधर्म्यसमः ।
वैधर्म्येण चोपसंहारे—'निष्क्रिय आत्मा, विभुत्वात्; क्रियावद् द्रव्यमविभु
दृष्टम्—यथा, लोष्टः, न च तथाऽऽत्मा, तस्मान्निष्क्रियः' इति । वैधर्म्येण प्रत्यव-
स्थानम्–'निष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टम्, न तथाऽऽत्मा,
तस्मान्न निष्क्रियः' इति । न चास्ति विशेषहेतुः—क्रियावद्वैधर्म्यान्निष्क्रियेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in'४. सू० ] उत्कर्षसमादिजातिषट्कप्रकरणम् ३४७
'४. सू० ] उत्कर्षसमादिजातिषट्कप्रकरणम् ३४७
सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज्जातिविशेषाद् गौः सिद्ध्यति,
न तु सास्नादिसम्बन्धात्¹। अश्वादिवैधर्म्याद् गोत्वादेव च गौः सिद्ध्यति, न
गुणादिभेदात्। तच्चैतत् कृतव्याख्यानमवयवप्रकरणे—'प्रमाणानामभिसम्ब-
न्धाच्चैकार्थकारित्वं समानं वाक्ये' इति ( १.१.३९ ) । हेत्वाभासाश्रया खल्विय-
मव्यवस्थेति ॥ ३ ॥
उत्कर्षसमादिजातिषट्कप्रकरणम् [ ४-६ ]
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३४८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
वर्ण्यावर्ण्यसमौ भवतः ।
साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो
विकल्पसमः । क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः, किञ्चिल्लघु यथा
वायुः । एवं क्रियाहेतुगुणयुक्तं किञ्चित्क्रियावत् स्यात् यथा लोष्टः, किञ्चिद-
क्रियं यथा आत्मा । विशेषो वा वाच्य इति ।
हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः, तं दृष्टान्ते प्रसजतः साध्यसमः ।
'यदि यथा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८. सू० ] प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ३४९
८. सू० ] प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ३४९
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ६ ॥
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतोऽर्थोऽतिदिश्यते प्रज्ञाप-
नार्थम् । एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति ॥ ६ ॥
प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् [ ७-८ ]
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधकत्वाच्च
प्राप्त्यप्राप्तिसमौ ॥ ७
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रसङ्गप्रतिदृष्टान्तसमप्रकरणम् [ ९-११ ]
३५० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
उभयथा खल्व्युक्तः प्रतिषेधः। कर्तृकरणाधिकरणानि प्राप्य मृदं घटादि-
कार्यं निष्पादयन्ति, अभिचाराच्च पीडने सति दृष्टमप्राप्य साधकत्वमिति ॥ ८ ॥
प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम् [ ९-११ ]
दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन
प्रसङ्गप्रतिदृष्टान्तसमौ ॥ ९ ॥
साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः
प्रतिषेधः। 'क्रियाहेतुगुणयोगो क्रियावान् लोष्टः' इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in११. सू०] प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम् ३५१
११. सू०] प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम् ३५१
अनयोरुत्तरम्—
प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तन्निवृत्तिः ॥ १० ॥
इदं तावदयं पृष्टो वक्तुमर्हति–अथ के प्रदीपमुपाददते ? किमर्थं वेति ?
दिदृक्षमाणा दृश्यदर्शनार्थमिति। अथ प्रदीपं दिदृक्षमाणाः प्रदीपान्तरं
कस्मान्नोपाददते ? अन्तरेणापि प्रदीपान्तरं दृश्यते प्रदीपः, तत्र प्रदीपदर्शनार्थं
प्रदीपोपादानं निरर्थकम्। अथ दृष्टान्तः किमर्थमुच्यत इति ? अप्रज्ञातस्य
ज्ञापनार्थमिति। अथ दृष्टान्ते कारणापदेशः किमर्थं मृग्यते ? यदि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअनुत्पत्तिसमप्रकरणम् [ १२-१३ ]
३५२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १ आ०
अनुत्पत्तिसमप्रकरणम् [ १२-१३ ]
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ १२ ॥
'अनित्यः शब्दः प्रयत्ननान्तरीयकत्वाद् घटवत्' इत्युक्ते, अपर आह—
प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्ननान्तरीयकत्वमनित्यत्वकारणं नास्ति, तदभावाद्
नित्यत्वं प्राप्तम्, नित्यस्य चोत्पत्तिर्नास्ति । अनुत्पत्त्या प्रत्यवस्थानम् अनु-
त्पत्तिसमः ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१५. सू० ] संशयसमप्रकरणम् ३५३
१५. सू० ] संशयसमप्रकरणम् ३५३
प्रत्यवतिष्ठते—सति प्रयत्नानन्तरीयकत्वे अस्त्येवास्य नित्येन सामान्येन साधर्म्य-
मैन्द्रियकत्वम्, अस्ति च घटेनानित्येन । अतो नित्यानित्यसाधर्म्यादनिवृत्तः
संशय इति ॥ १४ ॥
अस्योत्तरम्—
साधर्म्यात् संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्तसंशयप्रसङ्गो
नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः ॥ १५ ॥
विशेषाद् वैधर्म्यादवधार्यमाणेऽर्थे ‘पुरुष:’ इति, न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रकरणसमप्रकरणम् [ १६-१७ ]
३५४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
प्रकरणसमप्रकरणम् [ १६-१७ ]
उभयसाधर्म्यात्१ प्रक्रियासिद्धेः प्रकरणसमः ॥ १६ ॥
'उभयेन नित्येन चानित्येन च साधर्म्यात् पक्षप्रतिपक्षयोः प्रवृत्तिः = प्रक्रिया ।
'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्' इत्येकः पक्षं प्रवर्त्तयति, द्वितीयश्च
नित्यसाधर्म्यात् । एवं च सति 'प्रयत्नानन्तरोयकत्वात्' इति हेतुरनित्यसाधर्म्ये-
णोच्यमानो न प्रकरणमतिवर्त्तते । प्रकरणानतिवृत्तेर्निर्णयानतिवर्तनम् । समानं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रकरणावसानात् । तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति ॥ १७ ॥
१९. सू० ] अहेतुसमप्रकरणम् ३५५
धोपपत्तिश्चेति विप्रतिषिद्धमिति । तत्त्वानवधारणाच्च प्रक्रियासिद्धिः, विपर्यये
प्रकरणावसानात् । तत्त्वावधारणे ह्यवसितं प्रकरणं भवतीति ॥ १७ ॥
अहेतुसमप्रकरणम् [ १८-२० ]
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ॥ १८ ॥
हेतुः = साधनम्, तत् साध्यात् पूर्वं पश्चात् सह वा भवेत् ? यदि पूर्वं साधनम्,
असति साध्ये कस्य साधनम् ? अथ पश्चात्, असति साधने कस्येदं साध्यम् ?
अथ युगपत् साध्यसाधने, द्वयोर्विद्यमानयोः किं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअर्थापत्तिसमप्रकरणम् [ २१-२२ ]
३५६ : वात्स्यायनभाष्यसंहिते न्यायदर्शने [ ५. अ० १. आ०
प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ २० ॥
पूर्वं पश्चाद्युगपद्वा प्रतिषेध इति नोपपद्यते । प्रतिषेधानुपपत्तेः स्थापनाहेतुः
सिद्ध इति ॥ २० ॥
अर्थापत्तिसमप्रकरणम् [ २१-२२ ]
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ॥ २१ ॥
'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्' इति स्थापिते पक्षे
अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः । यदि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४. सू० ] अविशेषसमप्रकरणम् ३५७
२४. सू० ] अविशेषसमप्रकरणम् ३५७
उभयपक्षसमा चेयमर्थापत्तिः—यदि नित्यसाधर्म्यादस्पर्शंत्वादाकाशवच्च नित्यः
शब्दः, अर्थादापन्नम्—'नित्यसाधर्म्यात् प्रयत्नानन्तरीकत्पादनित्यः' इति । न चेयं
विपर्ययमात्रादेकान्तेनार्थापत्तिः, न खलु वै 'घनस्य ग्राव्णः पतनम्' इति अर्थादा-
पद्यते—'द्रवाणामपां पतनाभावः' इति ॥ २२ ॥
अविशेषसमप्रकरणम् [ २३-२४ ]
एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भावोपपत्तेरविशेषसमः ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३५८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
धर्मान्तरमविशेषेण, नैवं सर्वभावानां सद्भावोपपत्तिनिमित्तं धर्मान्तरमस्ति
येनाविशेषः स्यात् ।
अथ मतम् 'अनित्यत्वमेव धर्मान्तरं सद्भावोपपत्तिनिमित्तं भावानां सर्वत्र
स्यात्'—इति ? एवं खलु वै कल्प्यमाने अनित्याः सर्वे भावाः सद्भावोपपत्तेरिति
पक्षः प्राप्नोति, तत्र प्रतिज्ञार्थव्यतिरिक्तमन्यदुदाहरणं नास्ति, अनुदाहरणश्च
हेतुर्नास्तीति । प्रतिज्ञैकदेशस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८. सू० ] उपलब्धिसमप्रकरणम् ३५९
२८. सू० ] उपलब्धिसमप्रकरणम् ३५९
उपपत्तिकारणाभ्यनुज्ञानादप्रतिषेधः ॥ २६ ॥
'उभयकारणोपपत्तेः' इति ब्रुवता नानित्यत्वकारणोपपत्तेरनित्यत्वं प्रति-
षिध्यते, यदि प्रतिषिध्यते, नोभयकारणोपपत्तिः स्यात्। उभयकारणोपपत्ति-
वचनादनित्यकारणोपपत्तिरभ्यनुज्ञायते, अभ्यनुज्ञानादनुपपन्नः प्रतिषेधः।
व्याघातात् प्रतिषेध इति चेत् ? समानो व्याघातः। एकस्य नित्यत्वानित्यत्व-
प्रसङ्गं व्याहतं ब्रुवतोक्तः प्रतिषेध इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inअनुपलब्धिसमप्रकरणम् [ २९-३१ ]
३६० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
कारणनियमः । यदि च कारणान्तरादप्युपपद्यमानस्य शब्दस्य तदनित्यत्व-
मुपपद्यते, किमत्र प्रतिषिध्यत इति ! ॥ २८ ॥
अनुपलब्धिसमप्रकरणम् [ २९-३१ ]
न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः, कस्मात् ? आवरणाद्य-
नुपलब्धेः । यथा विद्यमानस्योदकादेरर्थस्याऽऽवरणादेरनुपलब्धिः, नैवं शब्दस्या-
ग्रहणकारणेनाऽऽवरणादिनाऽनुपलब्धिः, गृह्येत चैतदस्याग्रहणकारणमुदका-
दिवत्, न गृह्यते,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१. सू० ] अनुपलब्धिसमप्रकरणम् ३६१
३१. सू० ] अनुपलब्धिसमप्रकरणम् ३६१
आवरणाद्यनुपलब्धिर्नास्ति; अनुपलब्भादित्यहेतुः । कस्मात् ? अनुप-
लम्भात्मकत्वाद्वनुपलब्धेः । उपलम्भाभावमात्रत्वाद्वनुपलब्धेः । यदस्ति तदुप-
लब्धेर्विषयः, 'उपलब्ध्या तदस्ति' इति प्रतिज्ञायते । यन्नास्ति तदनुपलब्धेर्विषयः,
'अनुपलभ्यमानं नास्ति' इति प्रतिज्ञायते । सोऽयमावरणाद्यनुपलब्धेरनुपलम्भ
उपलब्ध्व्यभावेऽनुपलब्धौ स्वविषये प्रवर्त्तमानो न स्वं विषयं प्रतिषेधयति ।
अप्रतिषिद्धा चावरणाद्यनुपलब्धिर्हेतुत्वाय कल्पते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in