Skip to content
SarvaKosh
Back to the archive

न्याय दर्शन (वात्स्यायन भाष्य सहित)

Nyaya Darshan with Vatsyayana Bhashya

by महर्षि गौतम / महर्षि वात्स्यायन

Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)

Report a copyright issue

DevanagariSanskritpublished410 pages

About this granth

Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.

This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.

The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.

Page 348
Page 348 scan

३३० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
भागवानवायमिति ? उक्तं चात्र विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्राव-
स्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेध इति ।
मूर्तिमत्तां च संस्थानोपपत्तेः संयोगोपपत्तेश्च परमाणूनां सावयवत्वम् ? इति
हेत्वोः—
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ २५ ॥
यावन्मूर्तिमद्यावच्च संयुज्यते तत् सर्वं सावयवम्—इत्यनवस्थाकारिणाविमौ
हेतू, सा चानवस्था नोपपद्यते ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

२८. सू० ] वाह्यार्थभङ्गनिराकरणप्रकरणम् ३३१

Page 349
Page 349 scan

२८. सू० ] वाह्यार्थभङ्गनिराकरणप्रकरणम् ३३१
यदि हि तत्त्वबुद्धयः स्युः, बुद्ध्या विवेचने क्रियमाणे याथात्म्यं बुद्धिविषयाणा-
मुपलभ्येत—
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्तवपकर्षेण
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ? ॥ २६ ॥
यथाऽयं तन्तुरयं तन्तुरिति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चि-
दुपलभ्यते यत्पटबुद्धेर्विषयः स्यात्, याथात्म्यानुपलब्धेरसति विषये पटबुद्धिर्भ-
वन्ती

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 350
Page 350 scan

३३२ . वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
कार्यद्रव्यं कारणद्रव्याश्रितं तत्कारणेभ्यः पृथङ् नोपलभ्यते, विपर्यये पृथ-
ग्ग्रहणात्, यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणमिति । बुद्ध्या विवेचनात्तु
भावानां पृथग्ग्रहणम्, अतीन्द्रियेष्वणुषु यदिन्द्रियेण गृह्यते तदेतया बुद्ध्या
विविच्यमानमन्यदिति ॥ २८ ॥
प्रमाणतश्चार्थप्रतिपत्तेः ॥ २९ ॥
बुद्ध्या विवेचनाद्भावानां याथात्म्योपलब्धिः । यदस्ति यथा च यत्रास्ति
यथा च तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति, या

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३३. सू० ] वाह्यार्थभङ्गनिराकरणप्रकरणम् ३३३

Page 351
Page 351 scan

३३. सू० ] वाह्यार्थभङ्गनिराकरणप्रकरणम् ३३३
स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ? ॥ ३१ ॥
मायागन्धर्वनगरमृगतृष्णिकावद्वा ? ॥ ३२ ॥
यथा स्वप्ने न विषयाः सन्त्यथ चाभिमानो भवति, एवं न प्रमाणानि प्रमे-
यानि च सन्त्यथ च प्रमाणप्रमेयाभिमानो भवति ? ॥ ३१-३२ ॥
हेत्वभावादसिद्धिः ॥ ३३ ॥
स्वप्नान्ते विषयाभिमानवत् प्रमाणप्रमेयाभिमानो न पुनर्जागरितान्ते विषयो-
पलब्धिवदित्यत्र हेतुर्नास्तीति हेत्वभावादसिद्धिः । स्वप्नान्ते

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

मानस्य निमित्तविकल्पाद्विकल्पोपपत्तिः॥ ३३ ॥

Page 352
Page 352 scan

३३४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
स्वप्नान्तविकल्पे च हेतुवचनम्। स्वप्नविषयाभिमानवदिति ब्रुवता स्वप्ना-
न्तविकल्पे हेतुर्वाच्यः। कश्चित्स्वप्नो भयोपसंहितः, कश्चित्प्रमादोपसंहितः, कश्चि-
दुभयविपरीतः, कदाचित्स्वप्नमेव न पश्यतीति। निमित्तवतस्तु स्वप्नविषयाभि-
मानस्य निमित्तविकल्पाद्विकल्पोपपत्तिः॥ ३३ ॥
स्मृतिसङ्कल्पवच्च स्वप्नविषयाभिमानः ॥ ३४ ॥
पूर्वोपलब्धविषयः। यथा स्मृतिश्च सङ्कल्पश्च पूर्वोपलब्धविषयौ न तस्य
प्रत्याख्यानाय

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३५. सू० ] बाह्यार्थभङ्गनिराकरणप्रकरणम् ३३५

Page 353
Page 353 scan

३५. सू० ] बाह्यार्थभङ्गनिराकरणप्रकरणम् ३३५
अतस्मिंस्तदिति च व्यवसायः प्रधानाश्रयः । अपुरुषे स्थाणौ पुरुष इति
व्यवसायः स प्रधानाश्रयः, न खलु पुरुषेऽनुपलब्धे 'पुरुषः' इत्यपुरुषे व्यवसायो
भवति । एवं स्वप्नविषयस्य व्यवसायः—हस्तिनमद्राक्षं पर्वतमद्राक्षमिति
प्रधानाश्रयो भवितुमर्हति ॥ ३४ ॥
एवं च सति—
मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत्प्रतिबोधे ॥ ३५ ॥
स्थाणौ पुरुषोऽयमिति व्यवसायो मिथ्योपलब्धिः, अतस्मिंस्तदिति ज्ञानम्;
स्थाणौ स्थाणुरिति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 354
Page 354 scan

३३६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
साधनवान् परस्य मिथ्याध्यवसायं करोति, सा माया। नीहारप्रभृतीनां नगरसरूप-
सन्निवेशे दूरान्नगरबुद्धिरुत्पद्यते; विपर्यये तदभावात् । सूर्यमरीचिषु भौमेनोष्मणा
संसृष्टेषु स्पन्दमानेषूदकबुद्धिर्भवति; सामान्यग्रहणात्, अन्तिकस्थस्य विपर्यये
तदभावात् । क्वचित्-कदाचित् कस्यचिच्च भावान्नानिमित्तं मिथ्याज्ञानम्। दृष्टं
च बुद्धिद्वैतं मायाप्रयोक्तुः, परस्य च दूरान्तिकस्थयोर्गन्धर्वनगरमृगतृष्णिकासु,
सुप्तप्रतिबुद्धयोश्च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

३८. सू० ] तत्त्वज्ञानविवृद्धिप्रकरणम् ३३७

Page 355
Page 355 scan

३८. सू० ] तत्त्वज्ञानविवृद्धिप्रकरणम् ३३७
तत्त्वं स्थाणुरिति, प्रधानं पुरुष इति—तत्त्वप्रधानयोरलोपाद् = भेदात्,
स्थाणौ 'पुरुषः' इति मिथ्याबुद्धिरुत्पद्यते; सामान्यग्रहणात् । एवं पताकायां
बलाकेति, लोष्टे कपोत इति । तत्र समाने विषये मिथ्याबुद्धीनां समावेशः,
सामान्यग्रहणव्यवस्थानात् । यस्य तु निरात्मकं निरुपाख्यम्, सर्वं तस्यासमा-
वेशः प्रसज्यते !
गन्धादौ च प्रमेये गन्धादिबुद्धयो मिथ्याभिमतास्तत्त्वप्रधानयोः सामान्य-
ग्रहणस्य चाभावात्

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 356
Page 356 scan

३३८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
यदुक्तम्—'सति हि तस्मिन् इन्द्रियार्थेषु बुद्धयो नोत्पद्यन्ते' इत्येतत्—
न; अर्थविशेषप्राबल्यात् ? ॥ ३९ ॥
अनिच्छतोऽपि बुद्धयुत्पत्तेर्नैतद् युक्तम् । कस्मात् ? अर्थविशेषप्राबल्याद्
अबुभुत्समानस्यापि बुद्धयुत्पत्तिर्दृष्टा, यथा—स्तनयित्नुशब्दप्रभृतिषु । तत्र
समाधिविशेषो नोपपद्यते ? ॥ ३९ ॥
क्षुदादिभिः प्रवर्त्तनाच्च ? ॥ ४०

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

४४. सू० ] तत्त्वज्ञानविवृद्धिप्रकरणम् ३३९

Page 357
Page 357 scan

४४. सू० ] तत्त्वज्ञानविवृद्धिप्रकरणम् ३३९
भ्याससामर्थ्यम्, निष्फले ह्यभ्यासे नाभ्यासमाद्रियेरन् । दृष्टं हि लौकिकेषु कर्म-
स्वभ्याससामर्थ्यम् ॥ ४१ ॥
प्रत्यनीकपरिहारार्थं च
अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ॥ ४२ ॥
योगाभ्यासजनितो धर्मो जन्मान्तरेऽप्यनुवर्तते । प्रचयकाष्ठागते तत्त्वज्ञानहेतौ
धर्मे प्रकृष्टायां समाधिभावनायां तत्त्वज्ञानमुत्पद्यते इति । दृष्टश्च

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 358
Page 358 scan

३४० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
कर्मवशान्निष्पन्ने शरीरे चेष्टेन्द्रियार्थाश्रये निमित्तभावादवश्यम्भावी बुद्धीना-
मुत्पादः, न च प्रबलोऽपि सन् बाह्योऽर्थ आत्मनो बुद्धयुत्पादे समर्थो भवति,
तस्येन्द्रियेण संयोगाद् बुद्धयुत्पादे सामर्थ्यं दृष्टमिति ॥ ४४ ॥
तदभावश्चापवर्गे ॥ ४५ ॥
तस्य बुद्धिनिमित्ताश्रयस्य शरीरेन्द्रियस्य धर्माधर्मभावादभावोऽपवर्गे । तत्र
यदुक्तम्-‘अपवर्गेऽप्येवं प्रसङ्गः’ इति तदयुक्तम् । तस्मात्सर्वदुःखविमोक्षोऽपवर्गः ।

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

४८. सू० ] तत्त्वज्ञानविवृद्धिप्रकरणम् ३४१

Page 359
Page 359 scan

४८. सू० ] तत्त्वज्ञानविवृद्धिप्रकरणम् ३४१
पचयश्च, योगशास्त्राच्चाध्यात्मविधिः प्रतिपत्तव्यः । स पुनस्तपः, प्राणायामः,
प्रत्याहारः, ध्यानम्, धारणेति । इन्द्रियविषयेषु प्रसंख्यानाभ्यासो रागद्वेषप्रहा-
णार्थः । उपायस्तु योगाचारविधानमिति ॥ ४६ ॥
ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ॥ ४७ ॥
तदर्थमिति प्रकृतम् । ज्ञायतेऽनेनेति ज्ञानम् = आत्मविद्याशास्त्रम्, तस्य ग्रहण-
मध्ययनधारणे । अभ्यासः = सततक्रियाध्ययनश्रवणचिन्तनानि । तद्विद्यैश्च सह
संवाद इति

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

सूत्रकार का यह आदेश उन जिज्ञासुओं के लिये है जिनको तत्त्वज्ञान न हुआ हो,

Page 360
Page 360 scan

३४२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
एतन्निगदेनैव नीतार्थमिति ॥ ४८ ॥
यदिदं मन्येत—पक्षप्रतिपक्षपरिग्रहः प्रतिकूलः परस्येति ?
प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे ॥ ४९ ॥
तमभ्युपेयादिति वर्तते । परतः प्रज्ञामुपादित्समानस्तत्त्वबुभुत्साप्रकाशनेन
स्वपक्षमनावस्थापयन् स्वदर्शनं परिशोधयेदिति ॥ ४९ ॥
तत्त्वज्ञानपरिपालनप्रकरणम् [ ५०-५१ ]
अन्योन्यप्रत्यनीकानि च प्रावादुकानां

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

५१. सू० ] तत्त्वज्ञानपरिपालनप्रकरणम् ३४३

Page 361
Page 361 scan

५१. सू० ] तत्त्वज्ञानपरिपालनप्रकरणम् ३४३
विद्यानिर्वेदादिभिश्च परेणावज्ञायमानस्य—
ताभ्यां विगृह्य कथनम् ॥ ५१ ॥
विगृह्य इति विजिगीषया, न तत्त्वबुभुत्सयेति । तदेतद् विद्यापालनार्थम्, न

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

सत्प्रतिपक्षदेशनाभासप्रकरणम् [ १-३ ]

Page 362
Page 362 scan

अथ पञ्चमोऽध्यायः
प्रथममाह्निकम् [ १-३ ]
सत्प्रतिपक्षदेशनाभासप्रकरणम् [ १-३ ]
'साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जातिबहुत्वम्' ( १.२.१८ ),
इति संक्षेपेणोक्तम्, तद्विस्तरेण विभज्यते । ताः खल्विमा जातयः, स्थापना-
हेतौ प्रयुक्ते, चतुर्विंशतिः प्रतिषेधहेतवः-
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रति-

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

२. सू० ] सत्प्रतिपक्षदेशनाभासप्रकरणम् ३४५

Page 363
Page 363 scan

२. सू० ] सत्प्रतिपक्षदेशनाभासप्रकरणम् ३४५
लक्षणं तु—
साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ॥ २ ॥
साधर्म्येणोपसंहारे—साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम-
विशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनम्—‘क्रियावानात्मा,
द्रव्यस्य क्रियाहेतुगुणयोगात्; द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान्, तथा
चात्मा, तस्मात् क्रियावान्’ इति । एवमुपसंहृते, परः साधर्म्येणैव प्रत्यवतिष्ठते—
‘निष्क्रिय आत्मा; विभुनो

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 364
Page 364 scan

३४६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
वत्साधर्म्यात् क्रियावता भवितव्यम्, न पुनः क्रियावद्वैधर्म्यादक्रियेणेति । विशेष-
हेत्वभावाद् वैधर्म्यसमः ।
वैधर्म्येण चोपसंहारे—'निष्क्रिय आत्मा, विभुत्वात्; क्रियावद् द्रव्यमविभु
दृष्टम्—यथा, लोष्टः, न च तथाऽऽत्मा, तस्मान्निष्क्रियः' इति । वैधर्म्येण प्रत्यव-
स्थानम्–'निष्क्रियं द्रव्यमाकाशं क्रियाहेतुगुणरहितं दृष्टम्, न तथाऽऽत्मा,
तस्मान्न निष्क्रियः' इति । न चास्ति विशेषहेतुः—क्रियावद्वैधर्म्यान्निष्क्रियेण

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

'४. सू० ] उत्कर्षसमादिजातिषट्कप्रकरणम् ३४७

Page 365
Page 365 scan

'४. सू० ] उत्कर्षसमादिजातिषट्कप्रकरणम् ३४७
सा तु धर्मविशेषे नोपपद्यते, गोसाधर्म्याद् गोत्वाज्जातिविशेषाद् गौः सिद्ध्यति,
न तु सास्नादिसम्बन्धात्¹। अश्वादिवैधर्म्याद् गोत्वादेव च गौः सिद्ध्यति, न
गुणादिभेदात्। तच्चैतत् कृतव्याख्यानमवयवप्रकरणे—'प्रमाणानामभिसम्ब-
न्धाच्चैकार्थकारित्वं समानं वाक्ये' इति ( १.१.३९ ) । हेत्वाभासाश्रया खल्विय-
मव्यवस्थेति ॥ ३ ॥
उत्कर्षसमादिजातिषट्कप्रकरणम् [ ४-६ ]

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in
Page 366
Page 366 scan

३४८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ५. अ० १. आ०
वर्ण्यावर्ण्यसमौ भवतः ।
साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो
विकल्पसमः । क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः, किञ्चिल्लघु यथा
वायुः । एवं क्रियाहेतुगुणयुक्तं किञ्चित्क्रियावत् स्यात् यथा लोष्टः, किञ्चिद-
क्रियं यथा आत्मा । विशेषो वा वाच्य इति ।
हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः, तं दृष्टान्ते प्रसजतः साध्यसमः ।
'यदि यथा

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in

८. सू० ] प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ३४९

Page 367
Page 367 scan

८. सू० ] प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् ३४९
साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ ६ ॥
यत्र लौकिकपरीक्षकाणां बुद्धिसाम्यं तेनाविपरीतोऽर्थोऽतिदिश्यते प्रज्ञाप-
नार्थम् । एवं साध्यातिदेशाद् दृष्टान्ते उपपद्यमाने साध्यत्वमनुपपन्नमिति ॥ ६ ॥
प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम् [ ७-८ ]
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधकत्वाच्च
प्राप्त्यप्राप्तिसमौ ॥ ७

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in