न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
६४. सू० ] अपवर्गपरीक्षाप्रकरणम् ३१३
६४. सू० ] अपवर्गपरीक्षाप्रकरणम् ३१३
च्छेदप्रसङ्गः । द्रष्टृप्रवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः । य एव मन्त्रब्राह्मणस्य
द्रष्टारः प्रवक्तारश्च ते खल्वितिहासपुराणस्य धर्मशास्त्रस्य चेति ।
विषयव्यवस्थानाच्च यथाविषयं प्रामाण्यम् । अन्यो मन्त्रब्राह्मणस्य विषयः,
अन्यच्चेतिहासपुराणधर्मशास्त्राणामिति । यज्ञो मन्त्रब्राह्मणस्य, लोकवृत्तमितिहास-
पुराणस्य, लोकव्यवहारव्यवस्थानं धर्मशास्त्रस्य विषयः । तत्रैकेन न सर्वं व्यव-
स्थाप्यत इति यथाविषयमेतानि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० १. आ०
निवृत्तौ पुनर्जन्म, तच्च तृष्णाकारितम्१, तस्यां प्रहीणायां पूर्वजन्मभावे जन्मान्त-
राभावोऽप्रतिसन्धानमपवर्गः । कर्मवैफल्यप्रसङ्ग इति चेद् ? न; कर्मविपाकप्रति-
संवेदनस्याप्रत्याख्यानात् । पूर्वजन्मनिवृत्तौ पुनर्जन्म न भवतीत्युच्यते, न तु कर्म-
विपाकप्रतिसंवेदनं प्रत्याख्यायते । सर्वाणि पूर्वकर्माणि ह्यन्ते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६८. सू० ] अपवर्गपरीक्षाप्रकरणम् ३१५
६८. सू० ] अपवर्गपरीक्षाप्रकरणम् ३१५
यथानादिरणुश्यामता अथ चाग्निसंयोगादनित्या, तथा क्लेशसन्ततिरपीति ।
सतः खलु धर्मो नित्यत्वमनित्यत्वं च । तत्त्वं भावेऽभावे भाक्तमिति । 'अनादि-
रणुश्यामता' इति हेत्वभावादयुक्तम् । अनुत्पत्तिधर्मकमनित्यमिति नात्र हेतु-
रस्तीति ॥ ६७ ॥
अयं तु समाधिः—
न; सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ६८ ॥
कर्मनिमित्तत्वादितरेतरनिमित्तत्वाच्चेति समुच्चयः । मिथ्यासङ्कल्पेभ्यो
रञ्जनीयकोपनीयमोहनीयेभ्यो रागद्वेषमोहा उत्पद्यन्ते,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
'अनादिश्च क्लेशसन्ततिः' इत्यप्युक्तम्, सर्वे इमे खल्वाध्यात्मिका भावा
अनादिना प्रबन्धेन प्रवर्त्तन्ते शरीरादयः । न जात्वत्र कश्चिदनुत्पन्नपूर्वः प्रथमत
उत्पद्यतेऽन्यत्र तत्त्वज्ञानात् । न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिद्व्ययधर्मकं प्रतिज्ञा-
यते इति । कर्म च सत्त्वनिकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्यासङ्कल्पविधातान्न
रागाद्युत्पत्तिनिमित्तं भवति,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१. सू० ] तत्त्वज्ञानोत्पत्तिप्रकरणम् ३१७
१. सू० ] तत्त्वज्ञानोत्पत्तिप्रकरणम् ३१७
यत्र विषये प्रवर्त्तमानं संसारबीजं भवति स विषयस्तत्त्वतो ज्ञेय इति। किं
पुनस्तन्मिथ्याज्ञानम् ? अनात्मन्यात्मग्रहः, ‘अहमस्मि’ इति मोहोऽहङ्कार इति।
अनात्मानं खलु ‘अहमस्मि’ इति पश्यतो दृष्टिरहङ्कार इति।
किं पुनस्तदर्थजातं यद्विषयोऽहङ्कारः ? शरीरेन्द्रियमनोवेदनाबुद्धयः। कथं
तद्विषयोऽहङ्कारः संसारबीजं भवति ? अयं खलु शरीराद्यर्थजातमहमस्मीति
व्यवसितः तदुच्छेदेनात्मोच्छेदं मन्यमानोऽनुच्छेदतृष्णापरिल्लुतः पुनः पुनस्त-
दुपादत्ते,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३१८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
विभक्तमासेवमानस्याभ्यस्यतो भावयतः सम्यग्दर्शनं यथाभूतावबोधस्तत्त्वज्ञान-
मुत्पद्यते । एवं च—
दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ॥ १ ॥
शरीरादि दुःखान्तं प्रमेयं दोषनिमित्तम्; तद्विषयत्वान्मिथ्याज्ञानस्य । तदिदं
तत्त्वज्ञानं तद्विषयमुत्पन्नमहङ्कारं निवर्त्तयति; समानविषये तयोर्विरोधात् । एवं
तत्त्वज्ञानाद् 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायाद-
पवर्गः' (१.१.२) इति । स चायं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३. सू० ] तत्त्वज्ञानोत्पत्तिप्रकरणम् ३१९
३. सू० ] तत्त्वज्ञानोत्पत्तिप्रकरणम् ३१९
अतः परं काचित्संज्ञा हेया, काचिद्भावयितव्येत्युपदिश्यते, नार्थनिराकरणम्,
अर्थोपादानं वा । कथमिति ?
तन्निमित्तं त्ववयव्यभिमानः ॥ ३ ॥
तेषां दोषाणां निमित्तं त्ववयव्यभिमानः । सा च खलु स्त्रीसंज्ञा सपरिष्कारा
पुरुषस्य, पुरुषसंज्ञा च स्त्रियाः । परिष्कारश्च निमित्तसंज्ञा, अनुव्यञ्जनसंज्ञा च ।
निमित्तसंज्ञा—रसनाश्रोत्रम्, दन्तोष्ठम्, चक्षुर्नासिकम् । अनुव्यञ्जनसंज्ञा-इत्थं
दन्तौ इत्थमोष्ठाविति । सेयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रासङ्गिकम् अवयविप्रकरणम् [ ४-१७ ]
३२० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
प्रासङ्गिकम् अवयविप्रकरणम् [ ४-१७ ]
अथेदानीमर्थं निराकरिष्यताऽवयव्युपपाद्यते—
विद्याऽविद्याद्वैविध्यात् संशयः ? ॥ ४ ॥
सदसतोरुपलम्भाद्विद्या द्विविधा, सदसतोरनुपलम्भादविद्यापि द्विविधा । उप-
लभ्यमानेऽवयविनि विद्याद्वैविध्यात् संशयः, अनुपलभ्यमाने चाविद्याद्वैविध्यात्
संशयः । सोऽयमवयवी यद्युपलभ्यते, अथापि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in९. सू० ] अवयविप्रकरणम् ३२१
९. सू० ] अवयविप्रकरणम् ३२१
कृत्स्नैकदेशावृत्तित्वादवयवानामनवयव्यभावः ? ॥ ७ ॥
एकैकोऽवयवो न तावत् कृत्स्नेऽवयविनि वर्त्तते; तयोः परिमाणभेदात्, अवय-
वान्तरसम्बन्धाभावप्रसङ्गाच्च । नाप्यवयव्येकदेशेन, न ह्यस्यान्ये अवयवा एक-
देशभूताः सन्तोति ? ॥ ७ ॥
अथावयवेष्वेवावयवी वर्त्तते ?
तेषु चावृत्तेरवयव्यभावः ? ॥ ८ ॥
न तावत् प्रत्यवयवं वर्त्तते, तयोः परिमाणभेदाद्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
न चावयव्यवयवाः ? ॥ १० ॥
न चावयवानां धर्मोऽवयवी । कस्मात् ? धर्ममात्रस्य धर्मिभिरवयवैः
पूर्ववत् सम्बन्धानुपपत्तेः । पृथक् चावयवेभ्यो धर्मिभ्यो धर्मस्याग्रहणादिति
समानम् ॥ १० ॥
एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ॥ ११ ॥
किं प्रत्यवयवं कृत्स्नोऽवयवी वर्त्तते, अथैकदेशेन ? इति नोपपद्यते प्रश्नः ।
कस्मात् ? एकस्मिन् भेदाभावाद्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१३. सू० ] अवयविप्रकरणम् ३२३
१३. सू० ] अवयविप्रकरणम् ३२३
वयविनो नैकदेशेन वृत्तिरन्यावयवाभावादित्यहेतुः । वृत्तिः कथमिति चेत् ?
एकस्यानेकत्राश्रयाश्रितसम्बन्धलक्षणा प्राप्तिः । आश्रयाश्रितभावः कथमिति
चेत् ? यस्य यतोऽन्यत्रात्मलाभानुपपत्तिः स आश्रयः । न कारणद्रव्येभ्योऽन्यत्र
कार्यद्रव्यमात्मानं लभते, विपर्ययस्तु कारणद्रव्येष्विति । नित्येषु कथमिति चेत् ?
अनित्येषु दर्शनात् सिद्धम् । नित्येषु द्रव्येषु कथमाश्रयाश्रयिभाव इति चेत् ?
अनित्येषु द्रव्यगुणेषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२४ वात्स्यायनभाष्यसहिते न्यायदर्शने [४. अ० २. आ०
स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य
तथाभावो नाविषये प्रवृत्तिः ॥ १४ ॥
यथाविषयमिन्द्रियाणां पटुमन्दभावाद्विषयग्रहणानां पटुमन्दभावो भवति ।
चक्षुः खलु प्रकृष्यमाणं नाविषयं गन्धं गृह्णाति, निकृष्यमाणं च न स्वविषयात्
प्रच्यवते । सोऽयं तैमिरिकः कश्चिच्चक्षुर्विषयं केशं न गृह्णाति, कश्चिद् गृह्णाति
केशसमूहम्; उभयं ह्यतैमिरिकेण चक्षुषा गृह्यते । परमाणवस्त्वतीन्द्रिया इन्द्रिया-
विषयभूता न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६. सू० ] अवयविप्रकरणम् ३२५
१६. सू० ] अवयविप्रकरणम् ३२५
नातीन्द्रियाश्रयः। भवति हि-'इदमनेन संयुक्तम्' इति, तस्मादयुक्तमेतदिति।
गृह्यमाणस्य चेन्द्रियेण विषयस्याऽऽवरणाद्यनुपलब्धिकारणमुपलभ्यते। तस्मा-
न्नेन्द्रियदौर्बल्यादनुपलब्धिरणूनाम्, यथा-नेन्द्रियदौर्बल्याच्चक्षुषाऽनुपलब्धि-
र्गन्धादीनामिति ॥ १४ ॥
अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ॥ १५ ॥
यः खल्ववयविनोऽवयवेषु वृत्तिप्रतिषेधादभावः, सोऽयमवयवस्यावयवेषु
प्रसज्यमानः सर्वप्रलयाय वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
माणोर्निवर्तते न सर्वप्रलयाय कल्पते । निरवयवत्वं खलु परमाणोर्विभागैरल्पतर-
प्रसङ्गस्य यतो नाल्पीयस्तत्रावस्थानात् । लोष्टस्य खलु प्रविभज्यमानावयवस्या-
ल्पतरमल्पतममुत्तरमुत्तरं भवति । स चायमल्पतरप्रसङ्गो यस्मान्नाल्पतरमस्ति यः
परमोऽल्पस्तत्र निवर्त्तते, यतश्च नाल्पीयोऽस्ति तं परमाणुं प्रचक्ष्महे इति ॥१६॥
परं वा त्रुटेः १ ॥ १७ ॥
अवयवविभागस्यानवस्थानाद्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२२. सू० ] निरवयवप्रकरणम् ३२७
२२. सू० ] निरवयवप्रकरणम् ३२७
आकाशासर्वंगतत्वं वा ? ॥ १९ ॥
अथैतन्नेष्यते—परमाणोरन्तर्नास्त्याकाशमिति असर्वंगतत्वं प्रसज्यते इति ?
अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ॥ २० ॥
अन्तरिति पिहितं कारणान्तरैः कारणमुच्यते । बहिरिति च व्यवधायक-
मव्यवहितं कारणमेवोच्यते । तदेतत् कार्यद्रव्यस्य सम्भवति; नाणोरकार्यत्वात् ।
अकार्ये हि परमाणौवन्तर्बहिरित्यस्याभावः । यत्र चास्य भावोऽणुकार्यं तन्न
परमाणुः, यतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
संसर्पता प्रतिघातिना द्रव्येण न व्यूह्यते यथा काष्ठेनोदकम् । कस्मात् ?
निरवयवत्वात् । सर्पच्च प्रतिघाति न विष्टभ्नाति—नास्य क्रियाहेतुं गुणं प्रति-
बध्नाति, कस्मात् ? अस्पर्शत्वात्, विपर्यये हि विष्टम्भो दृष्ट इति स भवान्
सावयवे स्पर्शवति द्रव्ये दृष्टं धर्मं विपरीते नाशङ्कितुमर्हति ।
अण्ववयवस्याणुतरत्वप्रसङ्गादणुकार्यप्रतिषेधः ।
सावयवत्वे चाणोरण्ववयवोऽणुतर इति प्रसज्यते । कस्मात् ? कार्यकारण-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४. सू० ] निरवयवप्रकरणम् ३२९
२४. सू० ] निरवयवप्रकरणम् ३२९
संयोगोपपत्तेश्च ? ॥ २४ ॥
मध्ये सन्नणुः पूर्वापराभ्याम् अणुभ्यां संयुक्तस्तयोर्व्यवधानं कुरुते । व्यव-
धानेनानुमीयते—पूर्वभागेन पूर्वेणाणुना संयुज्यते परभागेन परेणाणुना संयुज्यते,
यौ तौ पूर्वापरौ भागौ तावस्यावयवौ । एवं सर्वतः संयुज्यमानस्य सर्वतो भागा
अवयवा इति ? ॥ २४ ॥
यत्तावत् 'मूर्तिमतां संस्थानोपपत्तेरवयवसद्भावः' इति ? अत्रोक्तम् । किमु-
क्तम् ? विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्र
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३३० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
भागवानवायमिति ? उक्तं चात्र विभागेऽल्पतरप्रसङ्गस्य यतो नाल्पीयस्तत्राव-
स्थानात् तदवयवस्य चाणुतरत्वप्रसङ्गादणुकार्यप्रतिषेध इति ।
मूर्तिमत्तां च संस्थानोपपत्तेः संयोगोपपत्तेश्च परमाणूनां सावयवत्वम् ? इति
हेत्वोः—
अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ॥ २५ ॥
यावन्मूर्तिमद्यावच्च संयुज्यते तत् सर्वं सावयवम्—इत्यनवस्थाकारिणाविमौ
हेतू, सा चानवस्था नोपपद्यते ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८. सू० ] वाह्यार्थभङ्गनिराकरणप्रकरणम् ३३१
२८. सू० ] वाह्यार्थभङ्गनिराकरणप्रकरणम् ३३१
यदि हि तत्त्वबुद्धयः स्युः, बुद्ध्या विवेचने क्रियमाणे याथात्म्यं बुद्धिविषयाणा-
मुपलभ्येत—
बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्तवपकर्षेण
पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ? ॥ २६ ॥
यथाऽयं तन्तुरयं तन्तुरिति प्रत्येकं तन्तुषु विविच्यमानेषु नार्थान्तरं किञ्चि-
दुपलभ्यते यत्पटबुद्धेर्विषयः स्यात्, याथात्म्यानुपलब्धेरसति विषये पटबुद्धिर्भ-
वन्ती
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३३२ . वात्स्यायनभाष्यसहिते न्यायदर्शने [ ४. अ० २. आ०
कार्यद्रव्यं कारणद्रव्याश्रितं तत्कारणेभ्यः पृथङ् नोपलभ्यते, विपर्यये पृथ-
ग्ग्रहणात्, यत्राश्रयाश्रितभावो नास्ति तत्र पृथग्ग्रहणमिति । बुद्ध्या विवेचनात्तु
भावानां पृथग्ग्रहणम्, अतीन्द्रियेष्वणुषु यदिन्द्रियेण गृह्यते तदेतया बुद्ध्या
विविच्यमानमन्यदिति ॥ २८ ॥
प्रमाणतश्चार्थप्रतिपत्तेः ॥ २९ ॥
बुद्ध्या विवेचनाद्भावानां याथात्म्योपलब्धिः । यदस्ति यथा च यत्रास्ति
यथा च तत्सर्वं प्रमाणत उपलब्ध्या सिध्यति, या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in