न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
१९४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
र्भवन्ती सङ्कल्पादन्यस्मिन् रागकारणे सति वाच्या, कार्यद्रव्यगुणवत् । न
चात्मोत्पादः सिद्धः, नापि सङ्कल्पादन्यद्रागकारणमस्ति । तस्मादयुक्तम्-‘सगुण-
द्रव्योत्पत्तिवत् तस्योत्पत्तिः’ इति ।
अथापि सङ्कल्पादन्यद्रागकारणं धर्माधर्मलक्षणमदृष्टमुपादीयते, तथापि
पूर्वशरीरयोगोऽप्रत्याख्येयः । तत्र हि तस्य निर्वृत्तिः, नास्मिन् जन्मनि, तन्मय-
त्वाद्राग इति । विषयाभ्यासः खल्वयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३०. सू० ] शरीरपरीक्षाप्रकरणम् १९५
३०. सू० ] शरीरपरीक्षाप्रकरणम् १९५
पार्थिवं गुणान्तरोपलब्धेः ॥ २७ ॥
तत्र मानुषं शरीरं पार्थिवम् । कस्मात् ? गुणान्तरोपलब्धेः । गन्धवती
पृथिवी, गन्धवच्च शरीरम् । अबादीनामगन्धत्वात् तत्प्रकृत्यगन्धं स्यात् । न
त्विदमबादिभिरसम्पृक्तया पृथिव्याऽऽरब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्पते इत्यतः
पञ्चानां भूतानां संयोगे सति शरीरं भवति । भूतसंयोगो हि मिथः पञ्चानां
न निषिद्ध इति । आप्यतैजसवायव्यानि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१९६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
च प्रकृतिभावे भूतानां धर्मोपलब्धिरसति च संयोगाप्रतिषेधात् सन्निहितानामिति ।
यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति । तदिदमनेकभूतप्रकृति शरीरमगन्ध-
मरसमरूपमस्पर्शं च प्रकृत्यनुविधानात् स्यात् । न त्विदमित्थम्भूतम्, तस्मात्
‘पार्थिवं गुणान्तरोपलब्धेः’ ॥ २८-३० ॥
श्रुतिप्रामाण्याच्च ॥ ३१ ॥
‘सूर्यं ते चक्षुर्गच्छतात्’ इत्यत्र मन्त्रे ‘पृथिवीं ते शरीरम्’ इति श्रूयते, तदिदं
प्रकृतौ
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३३. सू० ] इन्द्रिपरीक्षाप्रकरणम् १९७
३३. सू० ] इन्द्रिपरीक्षाप्रकरणम् १९७
कुतः संशयः ?
कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः ॥ ३२ ॥
कृष्णसारं भौतिकम्, तस्मिन्ननुपहते रूपोपलब्धिः, उपहते चानुपलब्धिरिति ।
व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्य उपलम्भः, न कृष्णसारप्राप्तस्य ।
न चाप्राप्यकारित्वमिन्द्रियाणां तदिदमभौतिकत्वे विभुत्वात्सम्भवति । एवमुभय-
धर्मोपलब्धेः संशयः ॥ ३२ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१९८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
न महदणुग्रहणमात्रादभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम्।
इदं खलु—
रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ॥ ३४ ॥
तयोर्महदण्वोर्ग्रहणं चक्षूरश्मेरर्थस्य च सन्निकर्षविशेषाद्भवति, यथा-प्रदीप-
रश्मेरर्थस्य चेति । रश्म्यर्थसन्निकर्षश्चावरणलिङ्गः । चाक्षुषो हि रश्मिः कुड्या-
दिभिरावृतमर्थं न प्रकाशयति, यथा-प्रदीपरश्मिरिति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३८. सू० ] इन्द्रियपरीक्षाप्रकरणम् १९९
३८. सू० ] इन्द्रियपरीक्षाप्रकरणम् १९९
लब्धिर्नासावभावं प्रतिपादयति, यथा—चन्द्रमसः परभागस्य, पृथिव्याश्चाधो-
भागस्य ॥ ३६ ॥
द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ॥ ३७ ॥
भिन्नः खल्वयं द्रव्यधर्मो गुणधर्मश्च, महदनेकद्रव्यञ्च १विषक्तावयवमाप्यं
द्रव्यं प्रत्यक्षतो नोपलभ्यते, स्पर्शस्तु शीतो गृह्यते, तस्य द्रव्यस्यानुबन्धात् हेमन्त-
शिशिरौ कल्पेते, तथाविधमेव च तैजसं द्रव्यमनुद्भूतरूपं सह रूपेण नोपलभ्यते,
स्पर्शस्त्वस्योष्ण उपलभ्यते;
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२०० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
इति । दृष्टश्च तेजसो धर्मभेदः—उद्भूतरूपस्पर्शं प्रत्यक्षं तेजः, यथा-आदित्य-
रश्मयः; उद्भूतरूपमनुद्भूतस्पर्शं च प्रत्यक्षं तेजः, यथा-प्रदीपरश्मयः; उद्भूत-
स्पर्शमनुद्भूतरूपमप्रत्यक्षम्, यथा-अवादिसंयुक्तं तेजः। अनुद्भूतरूपस्पर्शोऽ-
प्रत्यक्षश्चाक्षुषो रश्मिरिति ॥ ३८ ॥
कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ३९ ॥
यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४०. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०१
४०. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०१
व्यभिचरति, नाभौतिकं प्रतिघातधर्मकं दृष्टमिति । अप्रतिघातस्तु व्यभिचारी;
भौतिकाभौतिकयोः समानत्वादिति ।
यदपि मन्यते—प्रतिघाताद् भौतिकानीन्द्रियाणि, अप्रतिघातादभौतिकानीति
प्राप्तम् ? दृष्टश्चाप्रतिघातः काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ? तन्न युक्तम्;
कस्मात् ? यस्माद्भौतिकमपि न प्रतिहन्यते, काचाभ्रपटलस्फटिकान्तरितप्रका-
शात् प्रदीपरश्मीनाम्, स्थाल्यादिषु पाचकस्य तेजसोऽप्रतिघातः ॥ ३९ ॥
उपपद्यते चानुपलब्धिः, कारणभेदात् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२०२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
यो हि ब्रवीति—'लोष्टप्रकाशो मध्यन्दिने आदित्यप्रकाशाभिभावान्नोलभ्यते'
इति, तस्यैतत् स्यात्—
न; रात्रावप्यनुपलब्धेः ॥ ४१ ॥
अप्यनुमानतोऽनुपलब्धेरिति । एवमत्यन्तानुपलब्धेर्लोष्टप्रकाशो नास्ति, न
त्वेवं चाक्षुषो रश्मिरिति ॥ ४१ ॥
उपपन्नरूपा चेयम्—
बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः ॥ ४२ ॥
बाह्ये न प्रकाशेनानुगृहीतं चक्षुर्विषयग्राहकं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४५. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०३
४५. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०३
प्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवः, विपर्ययेऽभिभवाभावात् । अनुद्भूत-
रूपत्वाच्चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच्चोपलभ्यमानं नाभिभूयत इति
एवमुपपन्नम्—अस्ति चाक्षुषो रश्मिरिति ॥ ४३ ॥
नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ ४४ ॥
दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनाम् । तेन शेष-
स्यानुमानमिति ।
जातिभेदवदिन्द्रियभेद इति चेत् ? धर्मभेदमात्रं चानुपपन्नम्; आवरणस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२०४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
स्फटिकान्तरितोपलब्धिः, सा ज्ञापयति—अप्राप्यकारीणीन्द्रियाणि, अत एवा-
भौतिकानि । प्राप्यकारित्वं हि भौतिकधर्म इति ॥ ४५ ॥
कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥ ४६ ॥
अप्राप्यकारित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर्न स्यात् ॥ ४६ ॥
प्राप्यकारित्वेऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर्न स्यात् ?
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in४९. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०५
४९. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०५
प्राप्तौ हि द्रव्यान्तरगुणस्य उष्णस्य स्पर्शस्य ग्रहणम्, तेन च शीतस्पर्शाभिभव
इति । स्फटिकान्तरितेऽपि प्रकाशनीये प्रदीपपरश्मीनामप्रतिघातः, अप्रतिघातात्
प्राप्तस्य ग्रहणमिति । भर्जनकपालादिस्थं च द्रव्यमाग्नेयेन तेजसा दह्यते, तत्रा-
विघातात् प्राप्तिः, प्राप्तौ तु दाहः । नाप्राप्यकारि तेज इति ।
अविघातादिति च केवलं पदमुपादीयते । कोऽयमविघातो नाम ? अव्यूह्य-
मानावयवेन व्यवधायकेन द्रव्येण सर्वतो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपादन होने लगे, या जल की तरह अग्नि का भी प्रतिपादन न हो । कारण क्या है ?
२०६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत्तदुपलब्धिः ॥ ५० ॥
आदर्शोदकयोः प्रसादो रूपविशेषः स्वो धर्मः, नियमदर्शनात्; प्रसादस्य वा
स्वो धर्मो रूपोपलम्भनम् । यथाऽऽदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन
मुखेन सन्निकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यमादर्शरूपानुग्रहात्
तन्निमित्तं भवति, आदर्शरूपोपघाते तदभावाद्, कुड्यादिषु च प्रतिबिम्बग्रहणं
न भवति; एवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५३. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०७
५३. सू० ] इन्द्रियपरीक्षाप्रकरणम् २०७
विषयकं हि प्रमाणमिति । इमी खलु नियोगप्रतिषेधौ भवता देशितौ—काचाभ्र-
पटलादिवद्वा कुड्यादिभिरप्रतिघातो भवतु, कुड्यादिवद्वा काचाभ्रपटलादिभिर-
प्रतिघातो मा भूदिति ? न; दृष्टानुमिताः खल्विमे द्रव्यधर्माः, प्रतिघाताप्रति-
घातयोर्ह्युपलब्ध्यनुपलब्धी व्यवस्थापिके। व्यवहितानुपलब्ध्याऽनुमीयते—कुड्या-
दिभिः प्रतिघातः, व्यवहितोपलब्ध्याऽनुमीयते—काचाभ्रपटलादिभिरप्रतिघात
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२०८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
निन्द्रियाधिष्ठानं न प्राप्तम्, न चासत्यां त्वचि किञ्चिद्विषयग्रहणं भवति, यया
सर्वेन्द्रियस्थानानि व्याप्तानि, यस्यां च सत्यां विषयग्रहणं भवति, सा त्वगेक-
मिन्द्रियमिति ?
न; इन्द्रियान्तरार्थानुपलब्धेः। स्पर्शोपलब्धिलक्षणायां सत्यां त्वचि गृह्यमाणे
त्वगिन्द्रियेण स्पर्शे इन्द्रियान्तरार्था रूपादयो न गृह्यन्ते अन्धादिभिः। न स्पर्श-
ग्राहकादिन्द्रियादिन्द्रियान्तरमस्तीति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५५. सू० ] इन्द्रियनानात्वपरीक्षाप्रकरणम् २०९
५५. सू० ] इन्द्रियनानात्वपरीक्षाप्रकरणम् २०९
सन्दिग्धश्चाव्यतिरेकः । पृथिव्यादिभिरपि भूतैरिन्द्रियाधिष्ठानानि व्याप्तानि,
न च तेष्वसत्सु विषयग्रहणं भवतीति । तस्मान्न त्वगन्यद्वा सर्वविषयमेक-
मिन्द्रियमिति ॥ ५३ ॥
न युगपदर्थानुपलब्धेः ॥ ५४ ॥
आत्मा मनसा सम्बध्यते, मन इन्द्रियेण, इन्द्रियं सर्वार्थैः सन्निकृष्टमिति—
आत्मेन्द्रियमनोऽर्थसन्निकर्षेभ्यो युगपद् ग्रहणानि स्युः । न च युगपद्रूपादयो
गृह्यन्ते,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inएकत्वप्रतिषेधाच्च नानात्वसिद्धौ स्थापनाहेतुरप्युपादीयते—
२१० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
सति नास्यावरणम्, आवरणानुपपत्तेश्च रूपमात्रस्य ग्रहणं व्यवहितस्य चाव्य-
वहितस्य चेति। दूरान्तिकानुविधानं च रूपोपलब्ध्यनुपलब्ध्योर्न स्यात्।
अप्राप्तं त्वचा गृह्यते रूपमिति दूरे रूपस्याग्रहणम्, अन्तिके च ग्रहणम्—इत्येतन्न
स्यादिति ॥ ५५ ॥
एकत्वप्रतिषेधाच्च नानात्वसिद्धौ स्थापनाहेतुरप्युपादीयते—
इन्द्रियार्थपञ्चत्वात् ॥ ५६ ॥
अर्थः प्रयोजनम्, तत् पञ्चविधमिन्द्रियाणाम्, स्पर्शनेनेन्द्रियेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५८. सू० ] इन्द्रियनानात्वपरीक्षाप्रकरणम् २११
५८. सू० ] इन्द्रियनानात्वपरीक्षाप्रकरणम् २११
मर्थानां बहुत्वात् । बहवः खल्विमे इन्द्रियार्थाः—स्पर्शास्तावच्छीतोष्णानुष्ण-
शीता इति, रूपाणि शुक्लहरितादीनि, गन्धा इष्टानिष्टोपेक्षणीयाः, रसाः
कटुकादयः, शब्दा वर्णात्मानो ध्वनिमात्राश्च भिन्नाः । तद्यस्येन्द्रियार्थपञ्च-
त्वात् पञ्चेन्द्रियाणि, तस्येन्द्रियार्थबहुत्वाद् बहूनि इन्द्रियाणि प्रसज्यन्त
इति ? ॥ ५७ ॥
गन्धत्वाद्यव्यतिरेकाद् गन्धादीनामप्रतिषेधः ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२१२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
गृह्यमाणे च शीतस्पर्शे, नोष्णस्यानुष्णाशीतस्य वा स्पर्शस्य ग्रहणं ग्राहकान्तरं
प्रयोजयति; स्पर्शभेदानामेकसाधनसाध्यत्वाद्-येनैव शोतस्पर्शो गृह्यते तेनैवे-
तरावपीति । एवं गन्धत्वेन गन्धानाम्, रूपत्वेन रूपाणाम्, रसत्वेन रसानाम्,
शब्दत्वेन शब्दानामिति । गन्धादिग्रहणानि पुनरसमानसाधनसाध्यत्वाद् ग्राह-
कान्तराणां प्रयोजकानि । तस्मादुपपन्नम्-‘इन्द्रियार्थपञ्चत्वात्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६०. सू० ] इन्द्रियनानात्वपरीक्षाप्रकरणम् २१३
६०. सू० ] इन्द्रियनानात्वपरीक्षाप्रकरणम् २१३
ग्रहणलिङ्गतत्वाद्विन्द्रियाणाम्, तदेतत् 'इन्द्रियार्थपञ्चत्वात्' ( ३. १. ५६ ) इत्ये-
तस्मिन् सूत्रे कृतभाष्यमिति । तस्माद् बुद्धिलक्षणपञ्चत्वात् पञ्चेन्द्रियाणि ।
अधिष्ठानान्यपि खलु पञ्चेन्द्रियाणाम् । सर्वशरीराधिष्ठानं स्पर्शनं स्पर्श-
ग्रहणलिङ्गम्, कृष्णताराधिष्ठानं चक्षुर्बहिर्निःसृतं रूपग्रहणलिङ्गम्, नासाधिष्ठानं
घ्राणम्, जिह्वाधिष्ठानं रसनम्, कर्णच्छिद्राधिष्ठानं श्रोत्रम्;
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in