न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
१६४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० २. आ०
विकारानुपपत्तिः । नित्यत्वेऽविनाशित्वात् कः कस्य विकार इति ! अथानित्या
वर्णा इति पक्षः ? एवमप्यनवस्थानं वर्णानाम् । किमिदमनवस्थानं वर्णानाम् ?
उत्पद्य निरोधः । उत्पद्य निरुद्धे इकारे यकार उत्पद्यते, यकारे चोत्पद्य निरुद्धे
इकार उत्पद्यत इति कः कस्य विकारः ! तदेतदवगृह्य सन्धाने सन्धाय चावग्रहे
वेदितव्यमिति ॥ ५२ ॥
नित्यपक्षे तु तावत् समाधिः—
नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पाच्च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५५. सू० ] शब्दपरिणामपरीक्षाप्रकरणम् १६५
५५. सू० ] शब्दपरिणामपरीक्षाप्रकरणम् १६५
अनित्यपक्षे समाधि :—
अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः ? ॥ ५४ ॥
यथाऽनवस्थायिनां वर्णानां श्रवणं भवत्येवमेषां विकारो भवतीति ?
असम्बन्धादसमर्था अर्थप्रतिपादिका १ वर्णोपलब्धिर्न विकारेण सम्बन्धाद-
समर्था, या गृह्यमाणा वर्णविकारमर्थमनुमापयेदिति । तत्र यादृगिदम् यथा
गन्धगुणा पृथिव्येवं शब्दसुखादिगुणापीति, तादृगेतद्भवतीति । न च वर्णो-
पलब्धिर्वर्णानिवृत्तौ वर्णान्तरप्रयोगस्य निवर्तिका
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० २. आ०
अत्रेति प्रयुज्य चिरं स्थित्वा ततः संहितायां प्रयुङ्क्ते-दध्यत्रेति। चिरनिवृत्ते
चायमिवर्णे यकारः प्रयुज्यमानः कस्य विकार इति प्रतीयते ! कारणाभावात्
कार्याभाव इति अनुयोगः प्रसज्यत इति ॥ ५५ ॥
५. इतश्च वर्णविकारानुपपत्तिः-
प्रकृत्यनियमात् १ ॥ ५६ ॥
इकारस्थाने यकारः श्रूयते, यकारस्थाने खल्विकारो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५९. सू० ] शब्दपरिणामपरीक्षाप्रकरणम् १६७
५९. सू० ] शब्दपरिणामपरीक्षाप्रकरणम् १६७
योश्च व्याघातादनर्थान्तरत्वं न भवति । अनियमश्च नियतत्त्वान्नियमो न भव-
तीति नात्रार्थस्य तथाभावः प्रतिषिध्यते, किं तर्हि ? तथाभूतस्यार्थस्य नियम-
शब्देनाभिधीयमानस्य नियतत्त्वान्नियमशब्द एवोपपद्यते । सोऽयं नियमादनियमे
प्रतिषेधो न भवतीति ॥ ५८ ॥
६. न चेयं वर्णविकारोपपत्तिः परिणामात्, कार्यकारणभावाद्वा; किं तर्हि ?
गुणान्तरापत्त्युपमर्द्धह्रासवृद्धिलेशश्लेषेभ्यस्तु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशब्दशक्तिपरीक्षाप्रकरणम् [ ६०-७१ ]
१६८ . वात्स्यायनभाष्यसहिते न्यायदर्शने [ २ अ० २. आ०
शब्दशक्तिपरीक्षाप्रकरणम् [ ६०-७१ ]
पद-अर्थनिरूपणम्
ते विभक्त्यन्ताः पदम् ॥ ६० ॥
यथादर्शनं विकृता वर्णा विभक्त्यन्ताः पदसंज्ञा भवन्ति । विभक्तीर्द्वयी-
नामिकी, आख्यातिकी च । ब्राह्मणः, पचतीत्युदाहरणम् ।
उपसर्गनिपातास्तर्हि न पदसंज्ञा, लक्षणान्तरं वाच्यमिति ? शिष्यते च
खलु नामिक्या विभक्तेरव्ययाल्लोपः, तयोः पदसंज्ञार्थमिति ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६२. सू०] शब्दशक्तिपरीक्षाप्रकरणम् १६९
६२. सू०] शब्दशक्तिपरीक्षाप्रकरणम् १६९
याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धाना
व्यक्तावुपचाराद् व्यक्तिः ? ॥ ६२ ॥
व्यक्तिः पदार्थः, कस्मात् ? याशब्दप्रभृतीनां व्यक्तावुपचारात् । उपचारः =
प्रयोगः ।
या गौस्तिष्ठति, या गौर्निषण्णेति नेदं वाक्यं जातेरभिधायकम्; अभेदात् ।
भेदात्तु द्रव्याभिधायकम् । गवां समूह इति भेदाद् द्रव्याभिधानम्, न जातेः;
अभेदात् । चैत्राय गां ददातीति द्रव्यस्य त्यागः, न जातेः; अमूर्त्तत्वात्, प्रति-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७० वात्स्यायनभाष्यसहिते न्यायदर्शने [२. अ० २. आ०
गोसुखमिति द्रव्यस्य सुखादियोगः, न जातेरिति । अनुबन्धः-सरूपप्रजननसन्तानः,
गौर्गां जनयतीति तदुत्पत्तिधर्मत्वाद् द्रव्ये युक्तं न जातौ, विपर्ययादिति । द्रव्यं
व्यक्तिरिति हि नार्थान्तरम् ? ॥ ६२ ॥
अस्य प्रतिषेधः-
न; तदनवस्थानात् ॥ ६३ ॥
न व्यक्तिः पदार्थः । कस्मात् ? अनवस्थानात् । 'या' शब्दप्रभृतिभिर्यो विशेष्यते
स गोशब्दार्थः । 'या गौस्तिष्ठति', 'या गौर्निषण्णा' इति, न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in६४. सू० ] शब्दशक्तिपरीक्षाप्रकरणम् १७१
६४. सू० ] शब्दशक्तिपरीक्षाप्रकरणम् १७१
सहचरणात्–'यष्टिकां भोजय' इति यष्टिकासहचरितो ब्राह्मणोऽभिधीयत
इति । स्थानात्–मञ्चाः क्रोशन्तीति मञ्चस्थाः पुरुषा अभिधीयन्ते । तादर्थ्यात्–
कटार्थेषु वीरणेषु व्यूह्यमानेषु कटं करोतीति भवति । वृत्ताद्–यमो राजा, कुबेरो
राजेति तद्वद् वर्त्तते इति । मानाद्–आढकेन मिताः सक्तवः आढकसक्तव इति ।
धारणात्–तुलायां धृतं चन्दनं तुलाचन्दनमिति । सामीप्याद्–गङ्गायां गावश्च-
रन्तीति देशोऽभिधीयते सन्निकृष्टः । योगात्–कृष्णेन रागेण
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० २. आ०
वस्थानं सिध्यति-अयं गौरयमश्व इति, नागृह्यमाणायाम् । यस्य ग्रहणात् सत्त्व-
व्यवस्थानं सिद्धयति तं शब्दोऽभिधातुमर्हति, सोऽस्यार्थ इति ।
नैतदुपपद्यते; यस्य जात्या योगस्तत्र जातिविशिष्टमभिधीयते-गौरिति ।
न चावयव्यूहस्य जांत्या योगः, कस्य तर्हि ? नियतावयव्यूहस्य द्रव्यस्य ।
तस्मान्नाकृतिः पदार्थः ॥ ६५ ॥
जातिवादः
अस्तु तर्हि जातिः पदार्थः-
व्यक्त्याकृतियुक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inसूत्र में 'तु' शब्द तीनों की विशिष्टता के बोध के लिये है । क्या विशेष बोध होता
६८. सू० ] शब्दशक्तिपरीक्षाप्रकरणम् १७३
सिद्धान्तवादः
न वै पदार्थेन न भवितुं शक्यम्, कः खल्विदानीं पदार्थ इति ?
व्यक्त्याकृतिजातयस्तु पदार्थः ॥ ६८ ॥
तुशब्दो विशेषणार्थः । किं विशिष्यते ? प्रधानाङ्गभावस्यानियमेन पदार्थ-
त्वमिति । यदा हि भेदविवक्षा विशेषगतिश्च, तदा व्यक्तिः प्रधानम्, अङ्गं तु
जात्याकृती । यदा तु भेदोऽविवक्षितः सामान्यगतिश्च, तदा जातिः प्रधानम्,
अङ्गं तु व्यक्त्याकृती ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० २. आ० ७१. सू० ]
यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृतिं विद्यात् । सा च नान्या
सत्त्वावयवानां तदवयवनां च नियताद् व्यूहादिति । नियतावयव्यूहाः खलु
सत्त्वावयवा जातिलिङ्गम्, शिरसा पादेन गामनुमिन्वन्ति । नियते च सत्त्वा-
वयवानां व्यूहे सति गोत्वं प्रख्यायत इति । अनाकृतिव्यङ्ग्यायां जातौ मृत्,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inइन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणम् [ १-३ ]
अथ तृतीयोऽध्यायः
[ प्रथममाह्निकम् ]
इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणम् [ १-३ ]
परीक्षितानि प्रमाणानि, प्रमेयमिदानीं परीक्ष्यते । तच्चात्मादीत्यात्मा
विविच्यते—किं देहेन्द्रियमनोबुद्धिवेदनासङ्घातमात्रमात्मा ? आहोस्वित् तद्व्यति-
रिक्त इति ? । कुतस्ते संशयः ? व्यपदेशस्योभयथा सिद्धेः । क्रियाकरणयोः
कर्त्रा सम्बन्धस्याभिधानं व्यपदेशः । स द्विविधः—अवयवेन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
दर्शनेन कश्चिदर्थो गृहीतः, स्पर्शनेनापि सोऽर्थो गृह्यते—'यमहमद्राक्षं चक्षुषा
तं स्पर्शनेनापि स्पृशामीति, यं चास्पाक्षं स्पर्शनेन तं चक्षुषा पश्यामि' इति ।
एकविषयौ चेमौ प्रत्ययावेककर्तृकौ प्रतिसन्धियेते, न च सङ्घातकर्तृकौ, नेन्द्रियेणै-
ककर्तृकौ । तद्योऽसौ चक्षुषा त्वगिन्द्रियेण चैकार्थस्य ग्रहीता भिन्ननिमित्ताव-
नन्यकर्तृकौ प्रत्ययौ समानविषयौ प्रतिसन्दधाति, सोऽर्थान्तरभूत आत्मा ।
कथं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३. सू० ] इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणम् १७७
३. सू० ] इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणम् १७७
सति न भवति सति भवति, तस्य तदिति विज्ञायते । तस्माद् रूपग्रहणं चक्षुषः,
चक्षू रूपं पश्यति । एवं घ्राणादिष्वपीति । तानीन्द्रियाणीमानि स्वस्वविषय-
ग्रहणाच्चेतनानि; इन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावात् । एवं
सति किमन्येन चेतनेन ?
सन्दिग्धत्वादहेतुः । योऽयमिन्द्रियाणां भावाभावयोर्विषयग्रहणस्य तथाभावः,
स किमयं चेतनत्वात् ? आहोस्वित् चेतनोपकरणानां ग्रहणनिमित्तत्वात् ? इति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१७८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
रसं गन्धं वा पूर्वगृहीतमनुमिनोति, गन्धप्रतिसंवेदी च रूपरसावनुमिनोति । एवं
विषयशेषेष्वपि वाच्यम्। रूपं दृष्ट्वा गन्धं जिघ्रति, घ्रात्वा च गन्धं रूपं पश्यति ।
तदेवमनियतपर्यायं सर्वविषयग्रहणमेकचेतनाधिकरणमनन्यकर्तृकं प्रतिसन्धत्ते,
प्रत्यक्षानुमानागमसंशयान् प्रत्ययांश्च नानाविषयान् स्वात्मकर्तृकान् प्रतिसन्द-
धाति, प्रतिसन्धाय वेदयते । सर्वविषयं च शास्त्रं प्रतिपद्यते । अर्थमविषयभूतं
श्रोत्रस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in५. सू० ] शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम् १७९
५. सू० ] शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम् १७९
शरीरं दहतः प्राणिहिंसाकृतपापं पातकमित्युच्यते, तस्याभावः, तत्फलेन
कर्तुरसम्बन्धात्, अकर्तुश्च सम्बन्धात् । शरीरेन्द्रियबुद्धिवेदनाप्रबन्धेन खल्वन्यः
सङ्घात उत्पद्यते, अन्यो निरुध्यते । उत्पादनिरोधसन्ततिभूतः प्रबन्धो नान्यत्वं
बाधते; देहादिसङ्घातस्यान्यत्वाधिष्ठानत्वात् । अन्यत्वाधिष्ठानो ह्यसौ प्रख्या-
यत इति । एवं च सति यो देहादिसङ्घातः प्राणिभूतो हिंसां करोति, नासौ
हिंसाफलेन सम्बध्यते; यश्च सम्बध्यते न तेन हिंसा कृता । तदेवं सत्त्वभेदे कृत-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८० वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
न, कार्याश्रयकर्तृवधात् ॥ ६ ॥
न ब्रूम :—‘नित्यस्य सत्त्वस्य वधो हिंसा’, अपि त्वनुच्छित्तिधर्मकस्य
सत्त्वस्य कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणामुपघातः
पीडा, वैकल्यलक्षणः प्रबन्धोच्छेदो वा, प्रमापणलक्षणो वधो वा हिंसेति । कार्यं तु
सुखदुःखवेदनम्, तस्यायतनमधिष्ठानमाश्रयः शरीरम्; कार्याश्रयस्य शरीरस्य
स्वविषयोपलब्धेश्च कर्तॄणामिन्द्रियाणां वधो हिंसा, न नित्यस्यात्मनः । तत्र
यदुक्तम्—'तदभावः सात्मकप्रदाहेऽपि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८. सू० ] चक्षुरद्वैतपरीक्षाप्रकरणम् १८१
८. सू० ] चक्षुरद्वैतपरीक्षाप्रकरणम् १८१
न तमन्तरेणेति । तस्य वधः, उपघातः, पीडा, प्रमापणं वा = हिंसा, न नित्यत्वे-
नात्मोच्छेदः। तत्र यदुक्तम्—'तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात्',
एतन्नेति ॥ ६ ॥
प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम् [ ७-१४ ]
२. इतश्च देहादिव्यतिरिक्त आत्मा;
सव्यदृष्टस्येतरेण प्रत्यभिज्ञानात् ॥ ७ ॥
पूर्वपरयोर्विज्ञानयोरेकविषये प्रतिसन्धिज्ञानं प्रत्यभिज्ञानम्—'तमेवैतर्हि
पश्यामि यमज्ञासिषं स एवायमर्थः' इति, सव्येन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ ३. अ० १. आ०
एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ९ ॥
एकस्मिन्नुपहते चोद्धृते वा चक्षुषि द्वितीयमवतिष्ठते चक्षुर्विषयग्रहणलिङ्गम् ।
तस्मादेकस्य व्यवधानानुपपत्तिः ॥ ९ ॥
अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः ? ॥ १० ॥
एकविनाशे द्वितीयाविनाशादित्यहेतुः । कस्मात् ? वृक्षस्य हि कासुचिच्छा-
खासु छिन्नासूपलभ्यत एव वृक्षः ? ॥ १० ॥
दृष्टान्तविरोधादप्रतिषेधः ॥ ११ ॥
न कारणद्रव्यस्य विभागे कार्यद्रव्यमवतिष्ठते; नित्यत्वप्रसङ्गात् । बहुष्वव-
यविषु यस्य कारणानि विभक्तानि तस्य विनाशः, येषां कारणान्यविभक्तानि
तानि अवतिष्ठन्ते ।
अथवा, दृश्यमानार्थविरोधो दृष्टान्तविरोधः । मृतस्य हि शिरःकपाले द्वाव-
वटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते । न चैतदेकस्मिन्नासास्थि-
व्यवहिते सम्भवति ।
एक का विनाश होने पर भी अन्य विनाश न होने से एकत्वसिद्धि नहीं ॥ ९ ॥
एक चक्षु के नष्ट होने या निकाल लेने पर भी दूसरी रहती है; क्योंकि प्रमाता
उस समय भी दूसरी अवशिष्ट चक्षु से विषय को गृहीत करता हुआ देखा जाता है।
इसलिए 'नासिकास्थि के व्यवधान से वहाँ द्वित्वभ्रम हो रहा हैं'-ऐसा मानना
अयुक्तियुक्त है ॥ ९ ॥
शङ्का-( आपका उक्त हेतु भी नहीं बनता; क्योंकि )
लोक में अवयव के खण्डित होने पर भी अवयवी से काम चलता हुआ देखा जाता
है ? ॥ १० ॥
एक के नाश होने पर भी दूसरे का नाश नहीं होता—अतः आपका हेतु असिद्ध है।
जैसे वृक्ष की कुछ शाखाएँ काट दी जाने पर भी वह वृक्ष ही कहलाता है। तथा प्रमाता
को पूर्ववत् अर्थसाधन में कोई बाधा न होगी ? ॥ १० ॥
समाधान-
विरुद्ध दृष्टान्त देकर प्रतिषेध नहीं किया जा सकता ॥ ११ ॥
कारणद्रव्य के विभाग (विनाश) हो जाने पर कार्य द्रव्य की सत्ता नहीं रह जाती;
अन्यथा वह कार्य द्रव्य नित्य हो जायेगा । जहाँ बहुत से अवयवी हैं, उनमें जिसके
कारण नष्ट हो गये उसका नाश हो गया । जिनके कारण नष्ट नहीं हुए वे अवस्थित
रहते हैं। उक्त दृष्टा में 'पहले जैसा यह वृक्ष'-ऐसा प्रत्यभिज्ञान नहीं; अपितु 'कटी
शाखा वाला वृक्ष'—ऐसा प्रत्यभिज्ञान होता है ।
अथवा, इस सूत्र का व्याख्यान यों है—यहाँ प्रत्यक्ष दृश्यमान अर्थ का विरोध होने
से 'दृष्टान्तविरोध' हो गया ! मृतक के कङ्कालस्थ शिरःकपाल में नासास्थि से व्यवहित
१३. सू० ] । चक्षुरद्वैतपरीक्षाप्रकरणम् १८४
१३. सू० ] । चक्षुरद्वैतपरीक्षाप्रकरणम् १८४
अथ वा, एकविनाशस्यानियमाद् द्वाविमावर्थौ, तौ च पृथगावरणोपघातौ
अनुमीयेते—विभिन्नाविति ।
अवपीडनाच्चैकस्य चक्षुषो रश्मिविषयसन्निकर्षस्य भेदाद् दृश्यभेद इव
गृह्यते, तच्चैकत्वे विरुध्यते । अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानमिति । तस्मा-
देकस्य व्यवधानानुपपत्तिः ॥ ११ ॥
३. अनुमीयते चायं देहादिसङ्घातव्यतिरिक्तश्चेतन इति;
इन्द्रियान्तरविकारात् ॥ १२ ॥
कस्यचिदम्लफलस्य गृहीततद्रससाहचर्ये रूपे गन्धे वा केनचिदिन्द्रियेण
गृह्यमाणे रसनस्येन्द्रियान्तरस्य विकारो रसानुस्मृतौ रसगद्ध्प्रिवृत्तितोदन्तोदक-
सम्प्लवभूतो गृह्यते । तस्येन्द्रियचैतन्येऽनुपपत्तिः, नान्यदृष्टमन्यः स्मरति ॥१२॥
न; स्मृतेः स्मर्त्तव्यविषयत्वात् ? ॥ १३ ॥
स्मृतिर्नाम धर्मो निमित्तादुत्पद्यते, तस्याः स्मर्त्तव्यो विषयः, तत्कृत इन्द्रिया-
चक्षु के दो छिद्र (गड्ढे) अलग-अलग देखे जाते हैं । चक्षु के एक मानने पर, नासास्थि
के व्यवधान से ये दो छिद्र कैसे होते !
अथवा—'एक का विनाश दूसरे की स्थिति या विनाश का नियामक नहीं होता'
इस सिद्धान्त से ये चक्षु दो हैं, इन दोनों के अपने पृथक्-पृथक् आवरण और विनाश हैं,
अतः अनुमान होता है कि ये दोनों एक दूसरे से भिन्न हैं।
एक आंख को अंगुली से अवपीड़ित करने (कौंचने) पर उसी एक के रश्मिविषयक
सन्निकर्ष का भेद होने से सीमित मात्रा में दृश्यभेद (एक चांद के दो चांद दिखायी देना
आदि) दिखायी देता है, अवपीडन के निवृत्त होने पर वह भेद भी निवृत्त हो जाता है—
यह बात चक्षु के एकत्वसिद्धान्त में कैसे बनेगी । अतः एक में व्यवधानहेतु अनुपपन्न
ही है ॥ ११ ॥
३. इसलिए भी इस आत्मा का देहादिसङ्घात से पार्थक्य अनुमित होता है—
इन्द्रियान्तर में विकार होने से ॥ १२ ॥
किसी आम-इत्यादि खट्टे फल का पहले से रससाहचर्य गृहीत होने पर, किसी
अन्य इन्द्रिय द्वारा रूप या गन्ध के जान लेने के बाद इसकी अनुस्मृति होने पर दूसरी
इन्द्रिय रसना में अम्लरस की तृष्णा से जनित विकार (मुंह में पानी भर आना) देखा जाता
है । यह बात, इन्द्रियचैतन्य मानने पर कैसे बनेगी; क्योंकि अन्य द्वारा देखे गये का
अन्य कैसे स्मरण कर सकता है ! ॥ १२ ॥
शङ्का—
स्मृति के स्मर्त्तव्यविषयक होने से उससे आत्मा का पार्थक्य सिद्ध नहीं होता ॥१३॥
स्मृति नामक धर्म अपने संस्कारकारण से उत्पन्न होता है, स्मर्त्तव्य उसका विषय
है । उक्त इन्द्रियान्तरविकार तत्स्मृतिप्रयुक्त है, आत्मकृत नहीं ? ॥ १३ ॥