न्याय दर्शन (वात्स्यायन भाष्य सहित)
Nyaya Darshan with Vatsyayana Bhashya
by महर्षि गौतम / महर्षि वात्स्यायन
Source: बौद्ध भारती वाराणसी · बौद्ध भारती वाराणसी · 1950 (origin)
About this granth
Nyaya is the school of Indian philosophy devoted to the means of valid knowledge, reasoning and the rules of debate. Its root text, the Nyaya Sutras of Gautama (Akshapada), sets out in five books the sixteen categories, from the means of knowledge and the objects of knowledge through doubt, example, inference, debate and fallacies to the points of defeat. The bhashya of Vatsyayana (Pakshilasvamin) is the oldest surviving commentary on the sutras and the foundation of the later Nyaya tradition.
This is no. 11 of the Bauddha Bharati Series, Nyaya Darshan (न्याय दर्शन), in which the sutras and Vatsyayana's commentary are critically edited and translated into Hindi by Swami Dwarikadas Shastri, a scholar of grammar, Pali and Buddhist philosophy. It was published by Bauddha Bharati, Varanasi, in 1976.
The introduction discusses the sutra author's style and the Nyaya literature. The main text gives sutra, bhashya and Hindi rendering together, through topics such as the senses, mind, cognition, the self, the non-eternity of sound and the critique of Samkhya, and ends with an index of sutras. At about 410 pages, it is an accessible way into Nyaya.
१७ सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ९१
१७ सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ९१
प्रत्यक्षादीनि प्रमाणानि—प्रत्यक्षेणोपलभे, अनुमानेनोपलभे, उपमानेनोपलभे,
आगमेनोपलभे; प्रत्यक्षम् मे ज्ञानम्, आनुमानिकं मे ज्ञानम्, औपमानिकं मे
ज्ञानम्, आगमिकं मे ज्ञानमिति विशेषा१ गृह्यन्ते । लक्षणतश्च ज्ञाप्यमानानि
ज्ञायन्ते विशेषेण—‘इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम्’ इत्येवमादिना ।
सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः, अथान्तरेण प्रमाणा-
न्तरमसाधनेति ?
कश्चात्र विशेषः ?
प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ? ॥ १७ ॥
यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते ? येन प्रमाणेनोपलभ्यन्ते तत् प्रमा-
णान्तरमस्तीति प्रमाणान्तरसद्भावः प्रसज्यत इति अनवस्थामाह—तस्याप्यन्येन,
तस्याप्यन्येनेति । न चानवस्था शक्याऽनुज्ञातुम्; अनुपपत्तेरिति ॥ १७ ॥
अस्तु तर्हि प्रमाणान्तरमन्तरेण निःसाधनेति ?
विभक्त प्रमाणरूप से प्रत्यक्षादि का ग्रहण करता है। इसी तरह ‘मेरा यह ज्ञान प्रत्यक्ष से
हुआ है’, ‘अनुमान से हुआ है’, ‘उपमान से हुआ है’, ‘आगम से हुआ है’, ऐसे भेद से
भी ये प्रमाण गृहीत होते हैं। ये प्रत्यक्षादि, लक्षण से जाने जाते हुए ‘यह ज्ञान इन्द्रिया-
र्थसन्निकर्षजन्य है, अतः प्रत्यक्ष है’—ऐसे अपनी विशेषताओं से पृथक् हैं।
हमारा आशय यह है कि प्रत्यक्षादि का यह उपर्युक्त ज्ञान क्या किसी प्रमाणान्तर
से होता है ? या किसी प्रमाणान्तर के बिना ही असाधन हैं ?
सिद्धान्ती पूछता है—यह ज्ञान तुम्हारे बताये प्रकारों में से किसी भी प्रकार से हो,
विशेषता क्या आयेगी ? प्रश्नकर्ता उत्तर देता है—
यदि यह ज्ञान अन्य प्रमाण से सिद्ध होता है तो ( इनसे भिन्न ) प्रमाणान्तर मानना
पड़ेगा ? ॥ १७ ॥
यदि प्रत्यक्षादि प्रमाण से उपलब्ध होते हैं तो ये जिस प्रमाण से उपलब्ध होते हों
उस प्रमाणान्तर की सत्ता माननी पड़ेगी । इससे अनवस्था यह पैदा होगी कि उस उस
ज्ञान के लिये पूर्व-पूर्व प्रमाणान्तर की अनन्त कल्पनायें करनी पड़ेंगी । प्रायः अयुक्त होने
के कारण इस अनवस्था का मानना उचित नहीं है ॥ १७ ॥
तो दूसरा पक्ष—प्रमाणान्तर के बिना ही असाधन है—यह मान लें ? पूर्वपक्षी
कहता है—
१. ‘ज्ञानविशेषाः’ इति पाठ० ।
CC-0. Jangamwadi Math Collection. Digitized by eGangotri
९२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
तन्निवृत्तेर्वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः ? ॥ १८ ॥
यदि प्रत्यक्षाद्युपलब्धौ प्रमाणान्तरं निवर्तते, आत्माद्युपलब्धावपि प्रमाणान्तरं
निवत्स्य॑ते, अविशेषात् ? ॥ १८ ॥
एवं च सर्वप्रमाणविलोप इत्यत आह—
न; प्रदीपप्रकाशवत् तत्सिद्धेः ॥ १९ ॥
यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वात् दृश्यदर्शने प्रमाणम्, स च प्रत्यक्षान्तरेण
चक्षुषः सन्निकर्षेण गृह्यते। प्रदीपभावाभावयोर्दर्शनस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१९. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ९३
१९. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ९३
प्रमाणविशेषी विभज्य वचनीयः । यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां
दर्शनहेतुरिति दृश्यदर्शनव्यवस्थां लभते, एवं प्रमेयं सत्किञ्चिदर्थजातमुपलब्धि-
हेतुत्वात् प्रमाणप्रमेयव्यवस्थां लभते । सेयं प्रत्यक्षादिभिरेव प्रत्यक्षादीनां यथा-
दर्शनमुपलब्धिर्न प्रमाणान्तरतः, न च प्रमाणमन्तरेण निःसाधनेति ।
तेनैव तस्याग्रहणमिति चेद् ? न; अर्थभेदस्य लक्षणसामान्यात् । प्रत्यक्षा-
दीनां प्रत्यक्षादिभिरेव ग्रहणमित्ययुक्तम्, अन्येन ह्यन्यस्य ग्रहणं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in९४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
निमित्तभेदोऽत्रेति चेत् ? समानम् । न निमित्तान्तरेण विना ज्ञाताऽऽत्मानं
जानीते, न च निमित्तान्तरेण विना मनसा मनो गृह्यत इति ? समानमेतत्;
प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणमित्यत्राप्यर्थभेदो न गृह्यत इति ।
प्रत्यक्षादीनां चाविषयस्यानुपपत्तेः । यदि स्यात् किञ्चिदर्थजातं प्रत्यक्षा-
दीनामविषयः-यत्प्रत्यक्षादिभिर्न शक्यं ग्रहीतुम्, तस्य ग्रहणाय प्रमाणान्तरमुपा-
दीयेत, तत्तु न शक्यं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२०. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ९५
२०. सू० ] प्रमाणसामान्यपरीक्षाप्रकरणम् ९५
प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते, एवं प्रमाणसाधनायाप्युपादेयः; विशेष-
हेत्वभावात् । सोऽयं विशेषहेतुपरिग्रहमन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो
न प्रतिपक्ष इत्यनेकान्तः । एकस्मिंश्च पक्षे दृष्टान्त उपादेयो न प्रतिपक्षे दृष्टान्त
इत्यनेकान्तः; विशेषहेत्वभावादिति ।
विशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानादप्रतिषेधः¹ । विशेषहेतुपरिगृही-
तस्तु दृष्टान्त एकस्मिन् पक्षे उपसंह्रियमाणो न शक्योऽननुज्ञातुम् । एवं च
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inन्तरमनवस्थासाधनीयम्, येन प्रयुक्तोऽनवस्थामुपाददीतेति ॥ २० ॥
९६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
प्रयोजनश्च व्यवहार उपपद्यते । सोऽयं तावत्येव निर्वर्त्तते । न चास्ति व्यवहारा-
न्तरमनवस्थासाधनीयम्, येन प्रयुक्तोऽनवस्थामुपाददीतेति ॥ २० ॥
प्रत्यक्षपरीक्षाप्रकरणम् [ २१-३७ ]
प्रत्यक्षलक्षणपरीक्षा
सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते । तत्र—
[ पूर्वपक्षः ]
प्रत्यक्षलक्षणानुपपत्तिरसमग्रवचनात् ॥ २१ ॥
आत्ममनःसन्निकर्षो हि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२४. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् ९७
२४. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् ९७
आत्ममनसोः सन्निकर्षाभावे नोत्पद्यते प्रत्यक्षम्, इन्द्रियार्थसन्निकर्षाभाव-
वदिति ॥ २२ ॥
सति चेन्द्रियार्थसन्निकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवतः-
दिग्देशकालाकाशेष्वप्येवं प्रसङ्गः ? ॥ २३ ॥
दिगादिषु सत्सु ज्ञानभावात् तान्यपि कारणानीति ? ।
अकारणभावेऽपि ज्ञानोत्पत्तिः, दिगादिसन्निधेरवर्जनीयत्वात् । यदाप्यकारणं
दिगादीनि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in९८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
ज्ञानमात्मलिङ्गम्; तद्गुणत्वात् । न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्यो-
त्पत्तिरस्तीति ॥ २४ ॥
तदयौगपद्यलिङ्गत्वाच्च न मनसः ॥ २५ ॥
अनवरोध इति वर्त्तते । 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' ( १. १. १६ )
इत्युच्यमाने सिद्धत्येव मनःसन्निकर्षापेक्ष इन्द्रियार्थसन्निकर्षो ज्ञानकारण-
मिति ॥ २५ ॥
प्रत्यक्षनिमित्तत्वाच्चेन्द्रियार्थयोः सन्निकर्षस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२८. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् ९९
२८. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् ९९
इन्द्रियार्थसन्निकर्षस्य ग्रहणम्, नात्ममनसोः सन्निकर्षस्येति । एकदा खल्वयं
प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते । यदा तु तीव्रौ ध्वनि-
स्पर्शा प्रबोधकारणं भवतः, तदा प्रसुप्तस्येन्द्रियार्थसन्निकर्षनिमित्तं प्रबोधज्ञान-
मुत्पद्यते, तत्र न ज्ञातुर्मनसश्च सन्निकर्षस्य प्राधान्यं भवति, किं तर्हि ? इन्द्रि-
यार्थयोः सन्निकर्षस्य । न ह्यात्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरयतीति ।
एकदा खल्वयं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१०० वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
तैरिन्द्रियैरर्थैश्च व्यपदिश्यन्ते ज्ञानविशेषाः । कथम् ? घ्राणेन जिघ्रति,
चक्षुषा पश्यति, रसनया रसयतीति; घ्राणविज्ञानं चक्षुर्विज्ञानं रसनविज्ञानं
गन्धविज्ञानं रूपविज्ञानं रसविज्ञानमिति च । इन्द्रियविषयविशेषाच्च पञ्चधा
बुद्धिर्भवति । अतः प्राधान्यमिन्द्रियार्थसन्निकर्षस्येति ॥ २८ ॥
यदुक्तम्—‘इन्द्रियार्थसन्निकर्षग्रहणं कार्यम्, नात्ममनसोः सन्निकर्षस्येति,
कस्मात् ? सुप्तव्यासक्तमनसामिन्द्रियार्थयोः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३०. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०१
३०. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०१
नार्थविशेषप्राबल्यात् ॥ ३० ॥
नास्ति व्याघातः, न ह्यात्ममनःसन्निकर्षस्य ज्ञानकारणत्वं व्यभिचरति ।
इन्द्रियार्थसन्निकर्षस्य प्राधान्यमुपादीयते ; अर्थविशेषप्राबल्याद्धि सुप्तव्यासक्त-
मनसां ज्ञानोत्पत्तिरेकदा भवति । अर्थविशेषः = कश्चिदेवेन्द्रियार्थः, तस्य
प्राबल्यम् = तीव्रता-पटुते । तच्चार्थविशेषप्राबल्यमिन्द्रियार्थसन्निकर्षविषयम्,
नात्ममनसोः सन्निकर्षविषयम् । तस्मादिन्द्रियार्थसन्निकर्षः प्रधानमिति ।
असति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१०२ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
अन्यथा हि चतुर्विधानामणूनां भूतसूक्ष्माणां मनसां च ततोऽन्यस्य क्रियाहेतो-
रसम्भवात् शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः ॥ ३० ॥
विषयपरीक्षा
प्रत्यक्षमनुमानमेकदेशग्रहणादुपलब्धेः ? ॥ ३१ ॥
यदिदमिन्द्रियार्थसन्निकर्षादुत्पद्यते ज्ञानम् 'वृक्ष' इति एतत् किल प्रत्यक्षम्,
तत् खल्वनुमानमेव । कस्मात् ? एकदेशग्रहणात् वृक्षस्योपलब्धेः । अर्वाग्भागमयं
गृहीत्वा वृक्षमुपलभते; न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३२. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०३
३२. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०३
माणैकदेशवदिति । अथ एकदेशग्रहणादेकदेशान्तरानुमाने समुदायप्रतिसन्धानात्
तत्र वृक्षबुद्धिः ? न तर्हि वृक्षबुद्धिरनुमानमेवं सति भवितुमर्हतीति । द्रव्यान्तरो-
त्पत्तिपक्षे नावयव्यनुमेयः, अस्यैकदेशसम्बद्धस्याग्रहणात्, ग्रहणे चाविशेषादनु-
मेयत्वाभावः । तस्माद् वृक्षबुद्धिरनुमानं न भवति ।
एकदेशग्रहणमाश्रित्य प्रत्यक्षस्यानुमानत्वमुपपाद्यते । तच्च—
न; प्रत्यक्षेण यावत्तावदप्युपलम्भात् ॥ ३२ ॥
न प्रत्यक्षमनुमानम् । कस्मात् ? प्रत्यक्षेणैवोपलम्भात्
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१०४ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
ग्रहणम्, नेतदन्तरेणानुमानस्य प्रवृत्तिरस्ति । नत्वेतदनुमानम्; इन्द्रियार्थसन्निकर्ष-
जत्वात् । न चानुमेयस्येन्द्रियेण सन्निकर्षादनुमानं भवति । सोऽयं प्रत्यक्षानु-
मानयोर्लक्षणभेदो महानाश्रयितव्य इति ॥ ३२ ॥
न चैकदेशोपलब्धिरवयविसद्भावात् १ ॥ ३३ ॥
न चैकदेशोपलब्धिमात्रम् । किं तर्हि ? एकदेशोपलब्धिः, तत्सहचरितावयव्यु-
पलब्धिश्च । कस्मात् ? अवयविसद्भावात् । अस्ति ह्ययमेकदेशव्यतिरिक्तोऽवयवी,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३३. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०५
३३. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०५
कृत्स्ना गृह्यन्ते, अवयवैरेवावयवान्तरव्यवधानाद्; नावयवी कृत्स्नो गृह्यते इति,
नायं गृह्यमाणेष्ववयवेषु परिसमाप्त इति सेयमेकदेशोपलब्धिरनिवृत्तैवेति ? कृत्स्न-
मिति वै खल्वशेषतायां सत्यां भवति, अकृत्स्नमिति शेषे सति । तच्चैतत्तदवयवेषु
बहुष्वस्ति, अव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणादिति ।
अङ्ग तु भवान् पृष्टो व्याचष्टाम्-गृह्यमाणस्यावयविनः किमगृहीतं मन्यते,
येनैकदेशोपलब्धिः स्यादिति; न ह्यस्य कारणेभ्योऽन्ये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१०६ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
इति । अवयवैस्तावदवयवान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते । प्राप्तिग्रहण-
मपि नोपपद्यते; प्राप्तिमतामग्रहणात् । सेयमेकदेशग्रहणसहचरिता वृक्षबुद्धि-
र्द्रव्यान्तरोत्पत्तौ कल्पते, न समुदायमात्रे इति ॥ ३३ ॥
प्रसङ्गोपात्ता अवयविपरीक्षा
साध्यत्वादवयविनि सन्देहः ? ॥ ३४ ॥
यदुक्तम्—'अवयविसद्भावात्' इति, अयमहेतुः, साध्यत्वात् । साध्यं तावत्-
एतत्कारणेभ्यो द्रव्यान्तरमुत्पद्यते इति, अनुपपादितमेतत् । एवं च सति विप्रति-
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३६. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०७
३६. सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०७
'कुम्भोऽयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश्च' इति । सन्ति चेमे
गुणादयो धर्मा इति । तेन सर्वस्य ग्रहणात् पश्यामः—अस्ति द्रव्यान्तरभूतोऽव-
यवीति ॥ ३५ ॥
धारणाऽऽकर्षणोपपत्तेश्च ॥ ३६ ॥
अवयव्यर्थान्तरभूत इति ।
संग्रहकारिते वै धारणाऽऽकर्षणे । संग्रहो नाम संयोगसहचरितं गुणान्तरं
स्नेहद्रवत्वकारितमपां संयोगादामे कुम्भे, अग्निसंयोगात् पक्वे । यदि त्ववयवि-
कारिते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१०८ वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
आहोस्वित् भिन्नार्थविषयेति ? अभिन्नार्थविषयेति चेद्, अर्थान्तरानुज्ञानादव-
यविसिद्धिः। नानार्थविषयेति चेद्, भिन्नेष्वेकदर्शनानुपपत्तिः। अनेकस्मिन्नेक
इति व्याहता बुद्धिर्न दृश्यत इति ॥ ३६॥
सेनावनवद् ग्रहणमिति चेन्नातीन्द्रियत्वादणूनाम् ॥ ३७ ॥
यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेष्वेकमिदमित्युपपद्यते बुद्धिः,
एवमणुषु
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in३७ सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०९
३७ सू० ] प्रत्यक्षपरीक्षाप्रकरणम् १०९
इदमेव च परीक्ष्यते—किमेकप्रत्ययोऽणुसञ्चयविषयः, आहोस्वन्नेति ?
अणुसञ्चय एव सेनावनाङ्गानि । न च परीक्ष्यमाणमुदाहरणमिति युक्तम्;
साध्यत्वादिति ।
दृष्टमिति चेत् ? न; तद्विषयस्य परीक्षोपपत्तेः । यदपि मन्यते—दृष्टमिदं
सेनावनाङ्गानां पृथक्त्वस्याग्रहणादभेदेनैकमिति ग्रहणम्, न च दृष्टं शक्यं प्रत्या-
ख्यातुमिति ? तच्च नैवम्; तद्विषयस्य परीक्षोपपत्तेः । दर्शनविषय एवायं परी-
क्ष्यते । योऽयमेकमिति प्रत्ययो दृश्यते, स
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in११० वात्स्यायनभाष्यसहिते न्यायदर्शने [ २. अ० १. आ०
स्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषोऽयमिति । एवं नानाभूतेष्वेक-
मिति सामान्यग्रहणात् प्रधाने सति भवितुमर्हति । प्रधानं च सर्वस्याग्रहणादिति
नोपपद्यते । तस्मादभिन्न एवायमभेदप्रत्यय एकमिति ।
इन्द्रियान्तरविषयेष्वभेदप्रत्ययः प्रधानमिति चेद्, न; विशेषहेत्वभावात्
दृष्टान्ताव्यवस्था । श्रोत्रादिविषयेषु शब्दादिष्वभिन्नेष्वेकप्रत्ययः प्रधानमने-
कस्मिन्नेकप्रत्ययस्येति । एवं च सति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in