वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
द्वितीयोऽंशः २८१
शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ।
जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ॥
पञ्चभूतमयं विश्वं तन्मयी सा सदानधे ।
तन्मयी मूलविद्या च तदद्य कथयामि ते ॥
हकाराद् व्योम संभूतं ककारन्तु प्रभञ्जनः ।
रेफादग्निः सकाराच्च जलतत्त्वस्य संभवः ॥
लकारात् पृथिवी जाता तस्मात् विश्वमयी चसा ।
गुणाः पञ्चदश प्रोक्ता भूतानां तन्मयी शिवा ॥
यस्य यस्य पदार्थस्य या या शक्तिरुदीरिता ।
सा सा सर्वेश्वरी देवी स स सर्वो महेश्वर ॥
ब्रह्म एवं जगत् में अभेद की दार्शनिक दृष्टि इस प्रकार है—
ॐ ॐ
ॐ
गं
ॐ 15 • च ॐ ॐ
ॐ
अव्यक्त जगत = प्रलय
की अवस्था
ॐ ॐ
ॐ ॐ
परब्रह्म
शब्दब्रह्म
ॐ
↓
जगत
शब्द का व्यक्त जगत
विवर्त
ॐ ॐ
२८२ वरिवस्यारहस्ये
ॐ ॐ
परब्रह्म
शब्दातीत
परम पद ब्रह्म का प्रथम
↓ विवर्त
जगत की
शब्दब्रह्म आत्मा
'शब्दब्रह्म'
↓ का विवर्त
शब्द का
जगत शरीर
ॐ ॐ
अथ निगर्भार्थमाह—
परमशिवे निष्कलता तदभिन्नत्वं स्वदेशिकेन्द्रस्य ।
तत्करुणातः स्वस्मिन्नपि तदभेदो निगर्भार्थः ॥ ८२ ॥
('निगर्भार्थ' का स्वरूप)
परमशिव में तदितरपदार्थाभाव, अपने दीक्षागुरु एवं परमशिव में अभेद एवं
उन (गुरुदेव) की अनुकम्पा के कारण अपने एवं परमशिव में अभेद देखना ही
'निगर्भार्थ' है ॥ ८२ ॥
- प्रकाश *
परमशिवः कामकलास्वरूपनिर्णयावसरे निष्कृष्य कथितं ब्रह्म । तत्र निष्कलता
तदितरपदार्थाभावः, तदितरस्य सर्वस्यापि दुःखजनकत्वात्, 'द्वितीयाद्वै भयं भवति' इति
श्रुतेः । इति प्रथमकूटार्थः । तेन ब्रह्मणा स्वीयस्य देशिकेन्द्रस्य श्रीगुरुचरणानामभेदः,
तेषां ब्रह्माभेदभावनादाढ्र्येन तदभेदस्य सिद्धत्वादिति द्वितीयकूटार्थः । तत्करुणातः
स्वकृताव्यभिचरितभक्तिपुरः सरदृढतरसेवासंपादितप्रसादजन्यगुरुकरुणाकरम्बित-
कटाक्षनिरीक्षणबलात् स्वस्मिन्नपि साधके ब्रह्माभेदः सिध्यतीति तृतीयकूटार्थः । स्वस्य
गुरुद्वारा शिवगर्भे प्रवेशसंपादकत्वादेतज्ज्ञानस्य विषयः शिवगुर्वात्मैक्यं निगर्भार्थ-
पदवाच्यम् ॥ ८२ ॥
द्वितीयोंऽशः २८३
- सरोजिनी *
'परमशिवे'— परमशिव में 'परमशिव' कौन है? काश्मीर शैव दर्शन के
अनुसार 'परमशिव' शिव की विश्वोत्तीर्ण अवस्था है तथापि वह विश्वमय एवं
विश्वोत्तीर्ण दोनों एक साथ है । वह विश्वमय होकर अपने विश्वोत्तीर्ण स्वरूप से
किंचिन्मात्र भी च्युत नहीं होता । 'विश्वमयत्वेप्यस्य स्वस्वरूपात्र प्रच्यवः ॥'' इसलिए
'अतएवं अयं विश्वमयत्वेडिप विश्वोत्तीर्णस्तुत्तीर्णत्वेडिप तन्मयः ॥'¹ इस प्रकार एक
मात्र 'परमशिव' की नानात्मक विचित्रताओं के साथ विश्व भाव से स्फुरित हो रहा
है । वह स्वकारस्वरूप है और उससे भिन्न किसी भी पदार्थ की सत्ता नहीं है । वह
विश्वात्मक होते हुए ही विश्वोत्तीर्ण एवं विश्वोत्तीर्ण होते हुए भी विश्वमय है ।²
अथ परदेवताया विद्यायाश्चक्रराजस्य श्रीगुरोरात्मनश्चैक्यं कौलिकार्थ इत्युच्यते,
सर्वेषां ब्रह्माभेदेन सजातीयत्वात्, सजातीययूथस्य कुलपदवाच्यत्वात्, 'सजातीयैः कुलं
यूथम्' इत्यमरोक्तेः । अयं च पञ्चानामभेदः समानधर्मवत्वेन सिषाधयिषितः । स च
समानो धर्मः ।
'गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् ॥'
इति तन्त्रराजोक्तगणेशादिषट्कात्मकत्वाख्यः । तत्र परदेवतायां प्रथमं गणेशत्व-
मुपपादयति—
माता निरुपमतेजोमय्याः स्वस्या मरीचिरूपाणाम् ।
आवरणदेवतानामीशत्वादुच्यते गणेशीति ॥ ८३ ॥
(देवी की गणेशरूपता)
जगज्जनती (माता त्रिपुरसुन्दरी) अनुपमेय तेज संवलित अपनी प्रकाश-
रश्मियों के स्वरूपवाली आवरण देवताओं की स्वामिनी होने के कारण गणेशी कही
जाती हैं ॥ ८३ ॥ - प्रकाश *
'न तत्र सूर्यो भाति' इत्यादिश्रुत्या प्रतिपादितानवधिकतेजोरूपब्रह्मणो मरीचय
एवावरणदेवताः । ताश्चैकादशोत्तरशतसंख्याकाः । तन्त्रभेदेनान्या अपि प्रतिपादिताः ।
तादृशदेवतागणस्येशत्वाद् गणेशीत्युच्यते माता ॥ ८३ ॥ - सरोजिनी *
'न तत्र सूर्यो भाति' कहकर वेदों में जिस परमतेजोमय, अनधिगम्य, अज्ञेय
परात्पर तत्त्व के स्वरूप का वर्णन किया गया है उस अनवधिक तेजोमय ब्रह्म की
किरणें ही आवरण देवता हैं । ये सभी एकादशोत्तरशत संख्याक् हैं । इन आवरण
१-२. अभिनवगुप्त—'तन्त्रालोक' की टीका (पृ० १०५)
२८४ वरिवस्यारहस्ये
देवताओं की स्वामिनी होने के कारण जगज्जननी त्रिपुरसुन्दरी 'गणेशी' भी कही
जाती है ।
देवी की गणेशरूपात्मकता का प्रतिपादन—
देवी की गणेशात्मकता का प्रतिपादन करते हुए 'योगिनीहृदय' में कहा गया
है—'एकादशाधिकशतदेवतात्मतया पुनः । गणेशत्वं महादेव्याः ॥'१ 'कौलिकार्थ' की
व्याख्या करते हुए कहा गया था कि—'कौलिकं कथयिष्यामि चक्रदेवतयोरपि ।
विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते ॥'' 'कौलिकार्थ' का अभिप्राय है—चक्र,
देवता, श्रीचक्र, श्रीमाता, श्रीविद्या, श्रीगुरु एवं उपासक आत्मा का ऐक्य—श्रीचक्रं
श्रीमाता श्रीविद्या, श्रीगुरुरात्मा चेति पञ्चानामैक्यं कौलिकार्थ इत्युच्यते ।२ —अब यहाँ
देवी की इसी देवरूपता के प्रतिपादनार्थ उनके गणेशत्व की पुष्टि की गई है ।
दीपिकाकार अमृतानन्दनाथ कहते हैं—'गणेशत्वं इति । पुनः शब्दादेकादशाधिक शत
देवतात्मतया अस्या गणेशत्वम् । गणेशत्वं महादेव्या इत्यनेनापि काकाक्षिन्यायतः
पूर्वोक्तत्रिकोण दि चतुरस्रान्तपदमिवास्यैकादशाधिकशत देवतात्मतया तत्संख्याकदेवता-
समुदायो गणः ॥३
'कौलिकार्थ' में एकता-निरूपण—१. श्रीचक्र, २. देवता, ३. विद्या, ४. गुरु,
५. आत्मा की एकता—कौलिकं कौलिकार्थं कथयिष्यामि—चक्र-देवता-गुरु-विद्या-
साधकानामैक्यानुसंधान कौलिकार्थ इत्यर्थः ।४
'इत्थं माताविद्या चक्रं स्वगुरुः स्वयं चेति ।
पञ्चनामपि भेदाभावो मन्त्रस्य कौकिकार्थोऽयम् ॥५
इच्छादित्रिसमष्टिर्गुणत्रयाढ्यानलेन्दुरविनेत्रा ।
एवं नवभिर्योगाद् ग्रहरूपेत्युच्यते माता ॥ ८४ ॥
(देवी की ग्रहरूपता का प्रतिपादन)
इच्छा आदि (इच्छा-ज्ञान एवं क्रिया) की समष्टिरूपागुणत्रयात्मिका,
अग्नि-सोम-सूर्यरूपा एवं त्रिनेत्री देवी—इस प्रकार नौ के संयोग से ग्रहरूपा है—इस
प्रकार कही जाती है ॥ ८४ ॥
- प्रकाश *
इच्छा ज्ञाना क्रियेति शक्तित्रयसमष्टिरूपा माता । तदुक्तं सङ्केत-पद्धतौ—'इच्छा
शिरःप्रदेशे ऽथ ज्ञाना च तदधोगता । क्रिया पदगता ह्यास्याः' इति । गुणविशिष्टस्य
शबलब्रह्मणोऽवयवरूपा एव गुणा इति व्यवह्रियन्ते । आदित्यादिग्रहाणां नवसंख्याक-
त्वान्नवसंख्याकावयवशालित्वमेव प्रकृते ग्रहत्वं विवक्षितम् । एवमेव नक्षत्रादिषु
बोद्धव्यम् ॥ ८४ ॥
१. योगिनीहृदय (मन्त्रसंकेत श्लोक ५७) २. भास्कराचार्य—'सेतुबन्ध'
३-४. अमृतानन्दनाथ—'दीपिका' ५. कौलिकार्थ
द्वितीयोऽंशः २८५
- सरोजिनी *
“ग्रहरूपेत्युच्यते माता”—“माता ग्रहरूपा है”—ऐसा कहा जाता है । ग्रह नौ
है—सूर्य, चन्द्र, मङ्गल, बुध, बृहस्पति, शुक्र, शनि, राहु, केतु ।। देवी
ग्रहरूपात्मिका भी है । देवी इसलिए ग्रहरूपा है क्योंकि उनके भी नौ अङ्ग हैं—
यथा (क) इच्छा-ज्ञान-क्रिया—३ प्रमुख शक्तियाँ (ख) सतोगुण-रजोगुण एवं
तमोगुण—३ गुणत्रय; (ग) अग्नि-सोम-सूर्य- ३ = ३ + ३ + ३ = ९ ॥
‘योगिनीहृदय’ में भी देवी के इस ग्रहरूपता का प्रतिपादन किया गया है यथा—
“महादेव्याः ससोमरविविपावकैः । इच्छा ज्ञान क्रियाभिश्च गुणत्रययुतैः पुनः ग्रहरूपा च
सा देवीः ........।”¹ ‘सङ्केतपद्धति’ में देवी की ग्रहरूपता का वर्णन इस प्रकार प्राप्त
होता है—‘इच्छाशिरः प्रदेशस्था ज्ञाना च तदधोगता । क्रिया पादगता ह्यस्याः शान्ता
द्वार्धार्धमध्यगा ।।' देवी, गणेश, ग्रह, नक्षत्र, योगिनी, राशि एवं मंत्र सभी का
मूर्तिमान्² स्वरूप हैं—
‘गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृका पीठरूपिणीम् ॥’³
इन्द्रियदशकेनान्तःकरणचतुष्केण विषयदशकेन ।
प्रकृतिपुरुषगुणतत्त्वैर्जाता नक्षत्ररूपिणी माता ॥ ८५ ॥
(देवी की नक्षत्र-रूपता का प्रतिपादन)
दश इन्द्रियों, चार अन्तःकरणों, दश विषयों तथा प्रकृति, पुरुष एवं
गुणतत्त्वों से (संयुक्त होने के कारण)—देवी ग्रहरूपात्मिका है—इस प्रकार कही
जाती है ॥ ८५ ॥ - प्रकाश *
ज्ञानेन्द्रियाणि श्रोत्रादीनि पञ्च, कर्मेन्द्रियाणि वागादीनि पञ्चेति दशेन्द्रियाणि, मनो
बुद्धिरहङ्कारश्चित्तं चेत्यन्तःकरणचतुष्कम्, शब्दादयो वचनादयश्च विषया दश । प्रकृति-
र्गुणत्रयसाम्यावस्था, पुरुषः, सत्त्वादिगुणत्रयसमष्टिरूपं सुखदुःखमोहमूलं गुणतत्त्वम् ।
एवं सप्तविंशतिसंख्याकत्वान्नक्षत्ररूपत्वं मातुः ॥ ८५ ॥ - सरोजिनी *
‘योगिनीहृदय’ में देवी की नक्षत्ररूपता का प्रतिपादन इन शब्दों में किया गया
है—“ज्ञानकर्मेन्द्रियैरपि । तदर्थैरिव देवेशि कारणैरन्तरैः पुनः । प्रकृत्या च गुणो नापि
पुंस्त्वबंधेन चात्मना । नक्षत्रविग्रहा जाता ॥”⁴ “ज्ञानकर्मेन्द्रियैरपि ।।” १० इन्द्रियाँ,
४ अन्तःकरण (मन । बुद्धि । चित्त । अहङ्कार) १० विषय, १ प्रकृति, १ पुरुष,
१. योगिनीहृदय २. संकेतपद्धति
३. तन्त्रराजतन्त्र ४. योगिनीहृदय
२८६ वरिवस्यारहस्ये
१ गुणत्रय = ये २७ का समूह है । (नक्षत्र—अश्विनी, भरणी, कृत्तिका, रोहिणी,
मृगशिरा, आर्द्रा, पुनर्वसु, पुष्य, आश्लेषा, मघा । पूर्वा फा० उत्तरा फा०, हस्त,
चित्रा, स्वाती, विशाखा, अनुराधा, ज्येष्ठा, मूल, पूर्वाषाढ़, उत्तराषाढ़, श्रवण,
धनिष्ठा, शतभिषा, पूर्व भाद्रपदा, उत्तर भाद्रपदा रेवती = २७ नक्षत्र) ॥
अमृतानन्दनाथ नक्षत्ररूपता का वर्णन इस प्रकार करते हैं—
‘एवं स्वावयवभूतैः सप्तविंशतिभिर्नक्षत्रविग्रहा जाता देवी स्वेच्छागृहीतविग्रहा ॥’१
‘सङ्केतपद्धति’, में देवी के अङ्गों की कल्पना इस प्रकार की गई है—१. शिर
प्रदेश—‘इच्छा’ २. अधःप्रदेश—‘ज्ञान’ ३. पाद-‘क्रिया’—‘इच्छाशिर- प्रदेशस्था
ज्ञाना च तदधोगता । क्रिया पादगता ह्यस्याः ॥’२
‘इति सङ्केतपद्धत्युक्तरीत्या इच्छादिका भूर्ध्वाद्यवयवाः, गुणाः सत्वरजस्तमांसि एवं
स्वावयवभूतैस्तैर्नवभिर्गृह रूपा च सा देवी ॥’३ भास्कराचार्य ने काश्मीरकि त्रिकदर्शन
में प्रतिपादित ३६ तत्त्वों में २७ की गणना अन्तर्भूत करते हुए भी देवी की
नक्षत्ररूपता का प्रतिपादन किया है—‘देव्या नक्षात्मकत्वमाह । शिवादिक्षित्यन्तेषु
षटत्रिंशत्तत्वेषु नियतेः पराणि पंचविंशतिः । ..........सप्तविंश आत्मत्येवं नक्षत्रशरीरा
जातेत्यर्थः ॥’४
नरपतिरविकाष्ठाषट्समुद्रद्विसंख्यै-
रकडबवहपूर्वैर्क्षरैर्वेष्टिताभिः ।
डरलकसहवर्णाद्याकिनीमिस्तु षड्भि-
र्घटिततनुरितीयं कथ्यते योगिनीति ॥ ८६ ॥
(देवी की योगिनीरूपता)
नरपति (अर्थात् सोलह), रवि (अर्थात् बारह), काष्ठा (अर्थात् १० दिशायें),
समुद्र (अर्थात् छः), ‘अ क ड ब व ह’ रूप पूर्वाक्षरों से संवेष्टित तथा ‘ड, र,
ल, क, स’ एवं ह से प्रारंभ होने वाली छः आकिनियों के द्वारा सङ्घटित शरीर
वाली देवी—‘योगिनी’ हैं—ऐसा कही जाती है ॥ ८६ ॥
- प्रकाश *
नरपतयो राजानः षोडश । रवयो द्वादश । काष्ठा दिशो दश, ऊर्ध्वाधो-
दिग्द्वयस्याप्यष्टभिर्दिग्भिः साहित्यात् । समुद्राश्चत्वारः, ‘पयोधरीभूतचतुःसमुद्राम्’ इत्यादौ
तथैव समुद्रगतसंख्याप्रसिद्धेः । षोडशादिसंख्यानामकाराद्यक्षरैर्यथासंख्यमन्वयः ।
अकाराद्याः षोडश स्वरा अमृतादितद्देवतोपलक्षकाः । कादिठान्ता द्वादश वर्णाः काल-
रात्र्यादीनामुपलक्षकाः । डाडिफान्ता दश डामर्यादीनाम् । बादिलान्ताः षड् बन्धिन्या-
दीनाम् । वादिसान्ताश्चत्वारो वरदादीनाम् । हक्षौ द्वौ हंसवतीक्षमावत्योरूपलक्षकौ ।
१. योगिनीहृदय ‘दीपिका’—अमृतानन्दनाथ २. संकेतपद्धति
३. अमृतानन्दनाथ—‘दीपिका’ ४. सेतुबन्ध
द्वितीयोंऽशः २८७
डकारादि वर्णषट्कमादिभूतं यासामाकिनीनां ता डाकिन्यादयः । तेनामृताद्यावृता
डाकिनी, कालरात्र्याद्यावृता राकिनी, इति प्रकारेण षड्भिस्त्वगसृङ्मांसमेदोऽस्थि-
मज्जाधिपतिभिर्विशुद्धयनाहत-मणिपूरस्वाधिष्ठानमूलाधाराज्ञाचक्राणां तत्तद्देवतावरण-
शक्तिसमानसंख्याकतत्तदीयदलनिविष्टावत्तावत्संख्यकदेवीसंवृतानां कर्णिकासु निविष्ट
भिर्दाकिनीराकिनीलाकिनीकाकिनीसाकिनीहाकिनीभिर्घटिता तनूर्यस्याः सा योगिनी-
त्युच्यत इत्यर्थः । यद्यपि 'त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' इति भिषजां
घण्टाघोषेण धातवः सप्त, तदधिपतिरपि याकिनीनाम्ना सहस्रारपद्मेऽमृतादिसकल-
शक्तिबृन्दाधिष्ठितदलकिर्मिरिते तिष्ठतीति तन्त्रेषु प्रसिद्धम्, षोढान्यासे ऽपि क्वचित्तन्त्रेषु
तस्या न्यासो दृश्यते; तथापि योगिनीहृदये षण्णामेव न्यासविधानादमृतादि-
शक्त्यतिरिक्तशक्तेरावरणरूपाया अभावेनैतत्षट्कसमष्ट्यात्मकमातृत्वेन च पार्थक्या-
भावाद्योगिन्यः षडेव । यदाह—
'विशुद्धौ हृदये नाभौ स्वाधिष्ठाने च मूलके ।
आज्ञायां धातुनाथश्च न्यस्तव्या दादिदेवताः ।
अमृतादियुताः सम्यग् ध्यातव्याश्च सुरेश्वरि ॥' इति ॥ ८६ ॥
- सरोजिनी *
'योगिनीहृदय' में देवी को योगिनीरूपा कहा गया है—'वर्गाष्टकनिविष्टाभि-
र्योगिनीभिश्च संयुता । योगिनीरूप मास्थाय राजते विश्वविग्रहा ।।' 'योगिनीत्वमथोच्यते ।
त्वगादिधातुनाथाभिर्दाकिन्यादिभिरप्यसौ ।।'
आचार्य भास्कर कहते है—'त्वग्सृङ्मांसमेदोस्थिमज्जनाथा डाकिनी राकिणी
लाकिनी काकिनी साकि हाकिन्यः षट् । एतदात्मकत्वाद्देवी योगिनीमयी । वर्गाष्टक
म क च ट त प य श रूपं तन्निविष्टा वशिन्यादयोष्टौ तदात्मकतया वा योगिनी-
रूपेति विभावयेत् ।। अतएव 'गणेश-ग्रह-नक्षत्र-योगिनी-राशिरूपिणीम्' इति श्लोके
योगिनीपदस्य वशिन्यादिपरत्वेन काश्मीराणां मनोरमाकारस्य च व्याख्यानमुपपद्यते ।'१
'त्वगादिधातवस्त्वगसृङ्मांसमेदोमज्जा शुक्राणि धातवः, तेषां नाथा अधिष्ठात्र्यो
डाकिन्याद्याः । डाकिनी, राकिनी लाकिनी, काकिनी, साकिनी, हाकिनी, याकिनी च
वर्गा अ क च ट त प य शाः तेषामष्के निविष्टाः ब्रह्माण्याद्या योगिन्यः ।। तदुक्तं
स्वच्छन्दसंग्रहे—
'सर्वावांङ्मयस्थूला या वर्गाष्टकसमावृता । विश्वोत्पत्ति क्रमान्ताष्टशक्तिप्रसृत
भैरवैः । शक्तिभिश्च समायुक्ता अज्ञान्ता मातृकावलिः ।।'२ चतुःशती में भी कहा गया
है—'वर्गानुक्रमयोगेन यस्यां मात्राष्टकं स्थितम् ।।'
पञ्चभिर्नागकूर्माद्यैः प्राणापानादिपञ्चभिः ।
जीवात्मपरमात्मभ्यां चैषा राशिस্বরূপिणी ॥ ८७ ॥
१-२. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका'
२८८ वरिवस्यारहस्ये
(देवी की प्राण, जीव एवं राशि के साथ तदात्मकता)
नाग, कूर्म (कृकर, देवदत्त, धनञ्जय) आदि पाँच, प्राण, अपान (व्यान,
उदान, समान) आदि पाँच एवं जीवात्मा तथा परमात्मा के साथ (तादात्म्य रखने
वाली) यह (माता) राशिरूपा है ॥ ८७ ॥
- प्रकाश *
आद्यादिपदाभ्यां कृकरदेवदत्तधनञ्जयानां व्यानोदानसमानानां च संग्रहः । एवं
द्वादशात्मकत्वाद्रशिरूपिणी जगन्माता । पीठानां गणेशादिसमानसंख्याकत्वात् तदात्म-
कत्वोक्त्यैव तदुक्तप्रायमिति न पुनः पृथक् संरम्भः ॥ ८७ ॥ - सरोजिनी *
१. देवी की राशि के साथ एकात्मकता—'योगिनीहृदय' में देवी के
राशिरूपा होने का इस प्रकार प्रतिपादन किया गया है—'प्राणापानौ
समानश्चोदानव्यानौ तथा पुनः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः । जीवात्मा
परमात्मा चेत्येतै राशिरूपिणी ॥''१ व्याख्याकार भास्कराचार्य व्याख्या करते हुए
देवी की राशिरूपता की पुष्टि में कहते हैं—'प्राणादिकपंचकं नागादिपंचकं च
शरीराधिष्ठिता वायुविशेषा वैद्यक तंत्रे प्रसिद्धाः । जीवात्मा पशुः सकलादिरूपत्वे-
नोक्तः । परमात्मा तु निखिलान्तर्यामित्वेनान्तर्यामिब्रह्मणे प्रतिपादितः । एवं
द्वादशात्मकत्वाद्राशिमयी ॥''२ भाव यह है कि—दस प्राण एवं जीवात्मा तथा
परमात्मा—इन १२ तत्त्वों से एकाकार होने के कारण देवी राशि भी है । 'प्राणादि
धनञ्जयान्ता दश वायवः जीवात्मा उक्तलक्षणः पशुः, परमात्मा 'एष तु आत्मा-
ऽन्तर्याम्यमृतः'—इत्युपनिषदुक्तसर्व भूतान्तर्यामी । एतैर्द्वादशमयी राशिरूपिणी ॥''३
२. देवी की प्राणरूपात्मकता—भगवती एवं विद्या दोनों प्राण-अपान-समान-
उदान-व्यान-नाग-कूर्म-कृकर-देवदत्त-धनञ्जय नामक प्राण एवं जीवात्मा तथा परमात्मा
के साथ अभिन्नरूपा होने के कारण ही—राशिरूपिणी है—
'प्राणापानौ समानश्चोदान व्यानौ तथा पुनः ।
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ६२ ॥
जीवात्मा परमात्मा चेत्येतै राशिरूपिणी ।।' (यो० हृ०)
३. देवी की जीवात्मा के साथ एकात्मकता—'माता, विद्या, चक्र, स्वगुरु
एवं स्वयं इन पाँचों में अभेद ही 'कौलिकार्थ' है अतः जीवात्मा के साथ माता
(देवी) के साथ अभेदात्मकता स्वयं सिद्ध है—'इत्थं माता विद्या चक्रं स्वगुरुः स्वयं
चेति । पंचानामपि भेदाभावो मंत्रस्य कौलिकार्थोऽयम् ।।' (१०२) ॥
'निगर्भार्थ' भी इस एकात्मता का प्रतिपादन करता है—''शिवगुर्वात्मनामैक्यानु-
संधानात्तदात्मकम् ।।'' अर्थात् परमात्मा, गुरु एवं जीवात्मा इनमें एकता की भावना
१. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका' २. भास्करराय—'सेतुबन्ध'
द्वितीयोंऽशः २८९
रखना ही निगर्भार्थ है ।१
४. देवी की परमात्मा के साथ एकरूपता—भगवान् शङ्कराचार्य ने
'सौन्दर्यलहरी' में इस एकात्मता का इस प्रकार उल्लेख किया है—'शिवःशक्त्या
युक्तो यदि भवति शक्तः प्रभवितुं । न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ॥''
'शिवचक्र' एवं 'शक्तिचक्र' दोनों मिलकर ही नवयोन्यात्मक श्रीचक्र का निर्माण
करते हैं—'चतुर्भिः शिवचक्रैश्च शक्ति चक्रैश्च पंचभिः । शिवशक्त्यात्मकं ज्ञेयं श्रीचक्रं
शिवयोर्वपुः ॥'' शिव-शक्ति अभिन्न है क्योंकि—'परोऽपिशक्तिरहितः शक्त्या युक्तो
भवेद्यदि । सृष्टि स्थितिलयान् कर्तुमशक्तः शक्त एव हि ॥''२
अथ विद्यायां गणेशादिरूपत्वमुपपादयति—
अकथादिकषोडशाक्षरात्मकतार्तीयककामवाग्भवैः ।
घटिता च परादिवाग्गणैरिति विद्यापि गणेशरूपिणी ॥ ८८ ॥
(श्रीविद्या की कूटत्रयात्मकता एवं वाक्चतुष्टयात्मकता)
श्रीविद्या गणेशरूपत्मिका भी है (क्योंकि यह श्रीविद्या) अ-क-थ वर्गों से आरंभ
होने शक्तिकूट (अकारादिषोडशक स्वरात्मक) कामराजकूट (कादि तान्ताक्षरस्वरूप)
एवं वाग्भवकूट (थकारादि सकारान्ताक्षरमय) के सोलह अक्षरों एवं परा (पश्यन्ती,
मध्यमा, वैखरी) आदि वाक्चतुष्टय के द्वारा निर्मित है ॥ ८८ ॥
- प्रकाश *
अकारादिषोडशस्वरात्मकं तार्तीयं शक्तिकूटम् । कादितान्ताक्षररूपं द्वैतीयीकं
कामराजकूटम् । थकारादिसकारान्ताक्षरमयं प्राथमिकं वाग्भवकूटम् । परादि-
वाक्चतुष्टयरूपं चैतद्व्यष्टिसमष्टिभेदेन । अतः शब्दगणस्येशत्वाच्छ्रीविद्यापि गणेशरूपा ।
वैतालीयं छन्दः ॥ ८८ ॥ - सरोजिनी *
'विद्या' कुण्डलिनीरूपा है । 'कुण्डलिनी' वाक्चतुष्टयात्मिका है । वाक्चतुष्टय
वर्णमाला, समस्त अक्षर एवं समस्त ध्वनियाँ कुण्डलिनी हैं । इसलिए कुण्डलिनी
वाक्चतुष्टयात्मिका है । विद्या को कुण्डलिनी भी कहा गया है—"विद्या कुण्डलिनी
रूपा मण्डलत्रयभेदिनी ।'' (यो०हृ०) ॥ अर्थात् विद्या कुण्डलिनी होने के 'कारण
वाक्चतुष्टय से समन्वित है ।
अकारादि, ककारादि १६, १६, वर्ण है । उसमें 'तृतीयकूट' अकारादि
स्वरूप एवं हकार व्यञ्जन रूप है । 'द्वितीयकूट' ककारादि रूप एवं लकाररूप
हैं । प्रथमकूट थकारादिरूप एवं षकारादिरूप हैं । इस प्रकार ५० की संख्या होने
के कारण विद्या का गणेशत्व सिद्ध है—'एवमेक पंचाशत् संख्याकत्वाद्विद्याया
१. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका' २. चतुश्शती
१९ वरि.
२९० वरिवस्यारहस्ये
गणेशत्वम् ॥'१
'मन्त्र' निर्मित होते हैं शब्दों से या वाणियों से । देवी वाक्चतुष्टयात्मिका एवं
मंत्रात्मिका है—'सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रिया । सर्वेश्वरी सर्वमयी सर्वमन्त्र-
स्वरूपिणी (ललिता सहस्रनाम) 'विद्या' अक्षरस्वरूपा है—'अष्टात्रिंशत्कलायुक्त
पंचाशद्वर्णविग्रहा ।। (यो०ह०) भगवती भी परा-पश्यन्ती-मध्यमा-वैखरी (वाक्चतुष्टया)
भी है—
'परा प्रत्यक्चितीरूपा पश्यन्ती पर देवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ।। (ल०सह०)
आचार्य भास्कर 'योगिनीहृदय' की अपनी टीका 'सेतुबंध' में कहते हैं कि—
'श्रीविद्या गणेशरूपिणी है'—'गणेशोऽभून्महाविद्या परावागादिवाङ्मयी'२ महाविद्या
गणेशरूपा तो है साथ ही साथ परा, पश्यन्ती, मध्यमा एवं वैखरी रूपा भी है ।३
अमृतानन्दनाथ कहते हैं—'चतुर्विधमातृकामयत्वात् अकथादि वैखर्यादिवर्गगणत्रयबीज-
त्रयावयवत्वाच्च, सेयं महाविद्या गणेशोऽभूदित्यर्थः ।।'४ आचार्य भास्करराय कहते हैं
कि 'अ क थ' का कथन है कि—'अ' = अकारादिषोडशस्वरात्मक तार्तीय
शक्तिकूट ।। 'क' = कादिदान्ताक्षररूप द्वैतीयीक कामराजकूट । 'थ' = थकारादि
सकारान्ताक्षरमयं प्राथमिक वाग्भव । 'विद्या' = गणेश ।। 'विद्या' = शक्ति, कामराज
एवं वाग्भव । 'विद्या' = कूटों के वर्णों एवं परा-पश्यन्ती-मध्यमा एवं वैखरी ।।
बिन्दुत्रयनादत्रयतदन्यकूटत्रयैर्ग्रहत्वमिह ।
नक्षत्रत्वं च दशाकाराणां व्यञ्जनैरपार्थक्यात् ॥ ८९ ॥
(श्रीविद्या की ग्रहरूपत्मकता एवं नक्षत्र रूपात्मकता )
तीन बिन्दु, तीन नाद एवं तीनों कूटों (वाग्भव, कामराज एवं शक्तिकूट) के
अवशिष्टांशों के द्वारा निर्मित होने के कारण (यह विद्या) ग्रहरूपात्मिका भी है ।
(उसी भाँति) व्यंजनों से दश अक्षरों के पृथक् न होने के कारण (सत्ताईस अक्षरों
से युक्त यह श्रीविद्या) नक्षत्ररूपात्मिका भी है ॥ ८९ ॥
- प्रकाश *
बिन्दुनादनिर्मुक्तं कूटमेकं बिन्दुरेको नाद एकः, एवं प्रतिकूटं त्रयं त्रयमित्यर्थः ।
तदुक्तम्—'बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका' इति । बिन्दवश्च ध्वनयश्चेति
द्वन्द्वोत्तरं बीजानां बिन्दुध्वनय इति तत्पुरुषात् । तेन च बीजबिन्दुध्वनीनामिति पदेन षड्
गणिता भवन्ति । तेषां षण्णां त्रिकूटेषु; अर्थात् तदतिरिक्तेषु त्रिषु मेलनेनेति शेषः ।
षष्ठ्या वा संबन्धित्वमर्थः । तैः षड्भिः संमेल्य गणितेषु कूटेषु सत्सु ग्रहात्मिका विद्या
भवतीति योजना । ये तु बीजपदेन हकाररेफेकारसमूहमात्रम्, तानि च बिन्दवश्च
१. भास्करराय—'सेतुबन्ध' (श्लोक ६३ : 'मन्त्रसंकेत')
२-४. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका' ('मन्त्रसंकेत' ६३-६४)
द्वितीयोऽंशः २९१
ध्वनयश्चेति त्रिपदद्वन्द्व इति व्याख्याय 'बीजमात्रेणावयवविश्लेषसचिवेन ग्रहत्वमुप-
पादयन्ति तेषामितरांशवैयर्थ्यम्, संपूर्णाया विद्याया एव गणेशनक्षत्राद्यात्मकत्वोक्त्या
प्रकृते विद्येकदेशस्यैव ग्रहत्वोपपादने क्वचिदेकदेशे क्वचित् संपूर्णायामिति वैरूप्यं च ।
यथा च योगिन्यादेरपि नैकदेशरूपतापत्तिस्तस्यानुपदमेव वक्ष्यामः । किं च, बिन्दु-
निर्मुक्तस्य बीजत्वाभावाद् बीजपदेन परामर्शो ऽपि नोचितः । कथमन्यथा 'शुद्धं
बिन्दुयुतम्' इत्यादिदशविधमातृकान्यासान्तर्गतशुद्धमातृकान्यासप्रकरणे बिन्दुविनिर्मोके
सति केवलानामक्षराणां बीजत्वाभावापत्त्या बिन्दुयुतन्यासे पौनरुक्त्ये ऽपि सबिन्दुक एवं
शुद्धन्यासः कार्य इति सांप्रदायिकानामुक्तिः सङ्गच्छत इति दिक् । संप्रदायार्थप्रकरणे
सप्तत्रिंशद्वर्णा उक्ताः । तेषु दश श्रीकण्ठानां स्वस्वव्यञ्जनैः सह गणने दशसंख्याया
बाधे सप्तविंशतिरवशिष्यन्ते; तेन च नक्षत्रात्मकत्वं सिद्धमित्याह—नक्षत्रत्वं चेति ।
तदुक्तम्—
'हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः ।
अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥' इति ॥ ८९ ॥
- सरोजिनी *
श्रीविद्या ग्रहरूपा एवं नक्षत्ररूपा भी है—
१. बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥ ६४ ॥²
२. हल्लेखात्रय संभूतैस्तिथिसंख्यैस्तथाक्षरैः ।
अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥ ६५ ॥³
आचार्य अमृतानन्दनाथ 'दीपिका' में इसकी व्याख्या करते हुए इसकी पुष्टि में
कहते है—"कूटशब्दोऽत्राक्षर पिण्डपरः । यथोक्तमभियुक्तैः "कूटेषु त्रिषु कार्यवशादी-
कारशृङ्गक्रमात्' इति । सौभाग्यविद्याया अकार पिण्डेषु बीजबिन्दुध्वनीनां च बीजं
ईकारान्तम्' बिन्दुरू
२९२ वरिवस्यारहस्ये
हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः । अन्यै द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥१
अर्थात् २७ अक्षरों से युक्त होने के कारण विद्या नक्षत्ररूपा भी है । “बीजत्रय त्रय
शिखरवर्ति हृल्लेखात्रयसंभूतैस्तथाक्षरैर्हकार रेफ ईकार बिन्दु नादात्मकैस्तिथिसंख्यकैः
पंचदशभिरन्यैहृल्लेखात्रय वर्जितै द्वादशवर्णौ कूटत्रयावयवैः पंचदशभिर्द्वादशभिश्च
सप्तविंशतिवर्णैः सर्वैनक्षत्ररूपिणीत्यर्थः ॥२ इस दृष्टि की पुष्टि करते हुए आचार्य
भास्करराय ने 'सेतुबन्ध' में कहा है—'हकार रेफेकार बिन्दुनादाः प्रति हृल्लेखं
पञ्चतित्थिसंख्यैः पंचदशसंख्यैः । अन्यैः सव्यञ्जन रूपैर्वर्णै द्वादशभिर्मिलित्वा
सप्तविंशत्या नक्षत्ररूपैषा विद्या ।
हृल्लेखाभिस्तिसृभिस्तदन्यकूटैश्च योगिनी योगात् ।
राशीभूताप्येषा तिसृणां पूर्वाक्षरैरैक्यात् ॥ ९० ॥
(श्रीविद्या की योगिनीरूपात्मकता एवं राशिरूपात्मिकता)
हृल्लेखात्रितय एवं तदितर कूटत्रय के योग से यह श्रीविद्या योगिनीरूपात्मिका
है । तीन (हृल्लेखात्रय) एवं पूर्ववर्ती (ल) अक्षरों के योग से निर्मित होने के कारण
(यह श्रीविद्या) राशिरूपात्मिका भी है ॥ ९० ॥
- प्रकाश *
हृल्लेखात्रयं तद्विनिर्मुक्तं कूटत्रयं चेति षड्भिर्योगोदेषा विद्या योगिनी । तिसृणां
हृल्लेखानां पूर्ववर्णैलकारैः सह गणनायां द्वादशसंख्याकावयवशालित्वात् राशि-
रूपाप्येषा । उक्तं च—
'विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः षड्भिरथाक्षरैः ।
योगिनीत्वं च विद्याया राशित्वं चान्त्यवर्जितैः ॥'
इति । विद्यान्तर्भूता ये शक्तेराद्यभागाश्चतुःपञ्चत्र्यक्षररूपास्त्रयः; तैः शाक्तैः
शक्तिनिः । स्वार्थे तद्धितः । साहित्यरूपसंबन्धार्थे वा । तिसृभिः शक्तिभिः सहितैः । तेन
षट्संख्यामापन्नैरित्यर्थः । केचित्तु—शाक्तपदेन लकारास्त्रयः; तेषामेव शक्त्याद्यैरिति
विशेषणम्; तच्च शक्तिसाहित्यद्योतनाय; तेन च षट्संख्यापूर्तिः एवं च त्रिभिर्लकारैस्ति-
सृभिर्लज्जाभिश्चेत्यर्थः—इति व्याचक्षते । तेषां मते विद्यैकदेशस्यैव योगिनीरूपत्वात्
'योगिनीत्वं च विद्यायाः' इत्युक्ति-स्वारस्यभङ्गापत्तिः, विद्यैकदेशे विद्यापदस्य लक्षणा-
पत्तेः । इदं तु चिन्त्यम्—शक्त्याद्या लकारास्त्रयः शाक्ताः सकारास्त्रय इति स्पष्टतरम्;
हादिविद्यापक्ष एवास्य स्वारस्ये सत्यपि शक्तपद लकारार्थकत्वेन किमिति व्याख्यातं
तत्पक्षपातिभिरिति । 'अन्त्यवर्जितैः' इत्यस्यान्त्यानां मायानां पार्थक्येन गणनं वर्जनीय-
मित्यर्थः । अर्थात् संनिहितैर्लकारैर्मेलनेनेति भावः । ये तु यथाश्रुतं व्याचक्षते तेषाम्
'विद्यायाः' इति स्वारस्यं भज्येत । अथ वा, राशीनां सपादनक्षत्रद्वयात्मकत्वेन
नक्षत्रत्वोक्त्यैव पूर्णविद्याया राशित्वं सिद्धम्; एकदेशे ऽपि तदस्तीति विशेषद्योत-
नायान्त्यवर्जितैरित्युक्तिः ॥ ९० ॥
१. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका' २. सेतुबन्ध
द्वितीयोंऽशः २९३
- सरोजिनी *
'विद्या' की योगिनीरूपता एवं राशिरूपता—"योगिनीहृदय" में विद्या की
योगिनीरूपता एवं राशिरूपता की पुष्टि करते हुए कहा गया है कि—
“विद्यान्तर्भूतशक्त्याद्यैः षड्भिस्तथाक्षरैः । योगिनीत्वं च विद्याया राशित्वं चान्त्य-
वर्जितैः ॥” अमृतानन्द योगी ने इसकी पुष्टि में कहा है कि—१. पंचदशी में १५
अक्षर है । २. तीन हल्लेखायें हैं ३. तीन लकार हैं—अतः विद्या के षडक्षरात्मिका
होने के कारण इसे 'योगिनी' कहा गया है—'विद्यायाः पंचदशाक्षर्या अन्तर्भूताः
शक्तयो हल्लेखास्तिस्रः, तदाद्याश्च लकारास्त्रयः शाक्तैरेतैः षड्भिरक्षरैर्विद्यायाः
योगिनीत्वम् । योगिन्य डाकिन्याद्याः षट् ॥'१ अमृतानन्दजी ने 'षड्भिरक्षरैर्विद्याया'
कहकर 'विद्या' को षडाक्षरी क्यों कहा? विद्या तो पंचदशाक्षरी है फिर षडाक्षरी
कैसे? वस्तुतः इस विद्या में पुनरावृत्ति का त्याग करने पर इसमें मात्र मूलतः ६
अक्षर ही पाये जाते हैं यथा “क ए ई ल ह्रीं । ह स क ह ल ह्रीं । स क ल
ह्रीं”—में ३ कार, ३ लकार, २ हकार, २ सकार एवं ३ ह्रींकार है । इनकी
पुनरावृत्ति—शून्य वर्णसंख्या निम्नानुसार मात्र ६ हैं—“१. क, २. ए, ३. ई, ४.
ल, ५. ह, ६. स”
'विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः षड्भिरथाक्षरैः ।
योगिनीत्वं च विद्याया राशित्वं चान्त्यवर्जितैः ॥'
अमृतानन्द जी कहते हैं कि इस विद्या में १५ अक्षर हैं, अन्त में ३
हल्लेखायें हैं यदि हल्लेखाओं को छोड़ दिया जाय तो विद्या में मात्र १२ अक्षर ही
रह जाएँगे । अतः 'विद्या' राशिरूपिणी भी है—'अस्या विद्यायाः पंचदशाक्षर्या अन्त्या
हल्लेखास्तिस्रः, तद्वर्जितैर्द्वादशभिर्वर्णै राशित्वं भवेदिति । राशियाँ भी १२ हैं—
“राशयो मेषाद्या द्वादश” विद्या में गणेशत्व भी कहा गया है—
‘एकादशाधिकशतदेवतात्मतया पुनः ।
गणेशत्वं महादेव्याः इत्यादिना ॥’३
आचार्य भास्करराय कहते हैं कि—‘विद्यान्तर्भूता शक्तिर्हल्लेखान्त्य ईकारः ।
तस्मादाद्यं रेफान्तं कूटमेकम् । शक्त ईकार एक इति प्रतिकूटं द्वौ द्वाविति षड्भिरक्षरै
र्योगिनीत्वम् । अथवा शक्तेर्हल्लेखाया आद्या लकारास्त्रयः शाक्ताः सकारा स्त्रयः इति
षट् ।। प्रथमपक्षे सम्पूर्णाया विद्यायाः योगिनीत्वं अस्मिन् पक्षे तु एकदेशस्य ॥’४
भास्करराय का कथन है कि यदि प्रत्येक कूट के अन्त में प्रयुक्त ‘ह्रीं’ को हटा
दिया जाय तो १५ के स्थान पर विद्या में मात्र १२ अक्षर रह जायेंगे—इससे भी
द्वादशसंख्यात्मा राशियों की भाँति विद्या भी द्वादशाक्षरी सिद्ध होने से ‘राशि’ सिद्ध
होगी—‘लज्जाबीजानि त्रीणि तैर्वर्जितैः पूर्वाक्षरे मेलनेन गणितैरक्षरैर्द्वादशमी
राशित्वम् ॥’५
१-३. अमृतानन्द—योगिनीहृदय ‘दीपिका’ ४-५. सेतुबन्ध
२९४ वरिवस्यारहस्ये
एवं गणेशादिषट्कत्वस्य विद्यायां देव्यभेदसाधकत्वे स्थिते ऽपि विद्यायां
देवीरूपान्तरत्वस्य वचनबलादेव सिद्धत्वेन रामकृष्णादिवदभेदस्यापि सिद्धत्वेनाभेदेनैव
हेतुना षट्कत्वं साधयति—
देव्या रूपान्तरत्वेन विद्यायास्तदभेदतः ।
गणेशग्रहनक्षत्रयोगिनीराशिपीठता ॥ ९१ ॥
(पंचदशी विद्या एवं देवी में अभेदात्मकता)
देवी का रूपान्तर होने के कारण विद्या का उससे (देवी के साथ) अभेद होने
से उसका गणेश, ग्रह, नक्षत्र, योगिनी एवं राशि रूप युक्ति-सङ्गत है ॥ ९१ ॥
- सरोजिनी *
“विद्या समस्तास्तव देवि! भेदाः ।।” कहकर श्रीविद्या एवं देवी दोनों में
अभिन्नता स्थापित की गई है ।
उपर्युक्त श्लोक में निम्न अभिन्नताओं को रेखांकित किया गया है— १.
श्रीविद्या एवं देवी में अभिन्नता २. श्रीविद्या का गणेशरूपत्व, ग्रहत्व, नक्षत्रत्व,
योगिनीरूपत्व ,एवं राशिरूपत्व स्वसिद्ध है ।
श्रीविद्या एवं देवी में अभेद—इस संदर्भ में निम्न तर्क उक्त बिन्दु को संपुष्ट
करते हैं—१. समस्त ‘मन्त्र’ मातृकाओं से से उद्भूत होते हैं अतः मातृकात्मक हैं ।
मातृकाओं का मूलकेन्द्र ‘परावाक्’ है । ‘परमाकला’ रूपादेवी स्वयं ‘परावाक्’ है—
“आत्मनः स्फुरणं पश्येद्यदा सा परमा कला । अम्बिकारूपमापन्ना परावाक्’
समुदीरिता ॥”
२. परमेश्वरी कुण्डली (देवी) मंत्रों के प्राणस्वरूप मातृकाओं का स्वस्वरूप
है—‘‘इच्छाज्ञानक्रियारूपा कुण्डली परमेश्वरीम् । प्रसुप्त भुजगाकारां मातृकारूपिणीं
शिवाम् ।।’’१
३. समस्त मंत्र शिव-शक्ति से समुत्पन्न हैं—‘‘शिवशक्ति समायोज्जनितो
मंत्रराजकः ।।’’२
४. पराशक्ति मंत्ररूपिणी एवं मातृकारूपा दोनों है—‘‘ज्ञातृज्ञानमया
कारमननान्मंत्ररूपिणी । तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ।।’’३ ‘तेषां
समष्टिरूपेण पराशक्तिं तु मातृकाम् ।’४
५. मन्त्र कूटत्रयात्मक है और देवी —त्रयात्मिका है—
“कूटत्रयात्मिकां देवीं समष्टि व्यष्टिरूपिणीम्’’५
६. देवी मूलविद्या है—‘‘तन्मयी मूलविद्या च तदद्य कथयामि ते ।।’’६ सारे
१. स्वच्छन्द संग्रह २-६. योगिनीहृदय ‘दीपिका’
द्वितीयोंऽशः २९५
मंत्र श्रीविद्या में स्थित है और विद्या स्वयं देवी है—(क) तथा मंत्राः समस्ताश्च
विद्यायामत्र संस्थितः ।१ (ख) विद्या समस्तास्तव देवि भेदाः ॥
७. 'चक्र' मंत्रात्मक है और चक्र देवीरूप है—देवी का शरीर है
“इत्थं मंत्रात्मकं चक्रं देवतायाः परं वपुः ॥”२
जहाँ तक देवी का गणेशत्व, ग्रहरूपत्व, नक्षत्ररूपत्व, योगिनीरूपत्व है वह
सिद्ध ही है अतः उससे अभिन्न विद्या भी गणेश, ग्रह, नक्षत्र, योगिनी आदि के
साथ अभिन्न है । देवी के इन स्वरूपों की पुष्टि इस प्रकार है—१. गणेशत्वं
महादेव्याः २. ग्रहरूपा च सा देवी ३. नक्षत्रविग्रहा जाता ४. योगिनी त्वमथोच्यते ॥३
इसी भाँति विद्या भी गणेशरूपा, परावाक्रूपा, ग्रहात्मिका, नक्षत्ररूपा, राशिरूपा
है—१. गणेशोऽभून्महाविद्या २. परावागादिवाङ्मयी ३. बीजबिन्दुध्वनीनां च त्रिकूटेषु
ग्रहात्मिका ४. अन्यैर्द्वादशभिर्वर्णैरिक्षा नक्षत्ररूपिणी ॥ ५. योगिनीत्वं च विद्याया
राशित्वं चान्त्यवर्जितैः ॥
आचार्य अमृतानन्द ग्रहरूपता की पुष्टि करते हुए कहते हैं—
(क) त्रिषु कूटेषु नवत्वमापन्ना विद्या ग्रहात्मिका भवति ।४ (ख) नक्षत्ररूपता—
हकार रेफेकार बिन्दुनादाः प्रतिहल्लेखां पंचेति तिथिसंख्यैः पंचदशसंख्यैः । अन्यैः
सव्यञ्जनरूपैर्वर्णैर्द्वादशभिर्मिलित्वा सप्तविंशत्या नक्षत्ररूपैषा विद्या ॥”५
'ललितासहस्रनाम' में भगवती राजराजेश्वरी त्रिपुरा को 'सर्वमंत्रस्वरूपिणी' कहा
गया है—'सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रिया । सर्वेशी सर्वमयी सर्वमंत्रस्वरूपिणी ।६
समस्त सात करोड़ मंत्र भगवती के स्वस्वरूप हैं—'सर्वे सप्तकोटिसंख्या मंत्राः
स्वरूपमस्याः ॥ श्रूयते च 'सुन्दरीतापनीये'—'पूर्वोत्ताराभ्यां विद्याया अनेकाः
परिक्लृप्ता' 'विद्या समस्तास्तव देवि भेदाः' कहकर भी इसी तथ्य की पुष्टि की गई
है । गौड़पाद ने भी “विद्याः या पूर्वोत्तराभ्यामनेका जाता' आदि सात सूत्रों द्वारा
भगवती त्रिपुरा के सर्वमंत्रात्मकत्व का प्रतिपादन किया है ।७ भगवती को
'मूलमंत्रात्मिका' भी कहा गया है १. 'मूलमंत्रात्मिका मूल कूटत्रय कलेवरा' । वह
पंचदशी मंत्र के 'वाग्भव' 'कामराज' एवं 'शक्ति' नामक कूटों का विग्रह है । यह
भी कहा गया है कि भगवती 'पंचदशी' नामक मंत्र की शरीरं के रूप में धारण
करती हैं—
१. कण्ठ से कटिपर्यन्त ┐ 'कण्ठाधः कटिपर्यन्तमध्यकूट स्वरूपिणी ।
२. कटि से नीचे का भाग ┤ शक्तिकूटैकतापन्न कट्यधोभाग धारिणी ॥'
३. मुख भाग ┘ 'श्रीमद्वाग्भवकूटैकस्वरूपमुख पङ्कजा ॥'
१-५. योगिनीहृदय 'दीपिका' ६. ललितासहस्रनाम (श्लोक १०३)
७. भासुरानन्दनाथ—'सौभाग्यभास्कर' (श्लोक १०३)
२९६ वरिवस्यारहस्ये
देवी को 'महातंत्रा' 'महामंत्रा' एवं 'महासना' के साथ 'महायंत्रा' भी कहा गया
है—'महातंत्रा महामंत्रा महायंत्रा महासना” भगवती सिद्धेश्वरी । सिद्धमाता के साथ ही
'सिद्धविद्या' (पंचदशी विद्या = पंचदशाक्षरी मंत्र) भी है— 'सिद्धेश्वरी सिद्धविद्या''।।
वे विमर्शरूपिणी एवं 'विद्या' भी है— 'विमर्शरूपिणी विद्या' वे आत्मविद्या, के साथ
ही साथ कामसेविता 'महाविद्या' एवं 'श्रीविद्या' भी है— 'आत्मविद्या महाविद्या श्रीविद्या
कामसेविता' वह त्रिकूटा 'षोडशाक्षरी विद्या' भी है— "श्रीषोडशाक्षरी विद्या त्रिकूटा
काम कोटिका” जो मंत्र स्त्रीदेवतात्मक होते हैं उन्हें 'विद्या' एवं जो पुरुषदेवतात्मक
होते हैं उन्हें 'मंत्र' कहा जाता है— 'स्त्रीदेवतास्तुविद्याः स्युर्मंत्रा पुंदेवतामता' —अतः
यहाँ देवी को जो 'विद्या' कहा गया है वह विद्या भी मंत्र का ही वाचक है ।
'तोडल तंत्र' में उन्हें— 'परमाविद्या' कहा गया है— 'या चाद्या परमाविद्या' भगवती
'मंत्ररूपिणी' है— “ज्ञातृज्ञानमयाकारमननान्मंत्ररूपिणी ।।'”¹ कूट मंत्र के भाग है अतः
देवी को 'कूटत्रयात्मिका' भी कहा गया है— "कूटत्रयात्मिका देवी समष्टि व्यष्टि
रूपिणीम् ।।'”² 'सूतसंहिता' में भी उन्हें 'विद्यारूपा' कहा गया है³— 'विद्यारूपा या
शिवा वेदवेद्या सत्यानन्दानन्त संवित्स्वरूपा'— 'स्कन्दपुराण' में उन्हें परमाविद्या कहा
गया है— "ईदृशी परमा विद्या शाङ्करी भवनाशिनी ।'”४
अथ चक्रराजे गणेशादित्वमाह—
रेखादलकोणगणैर्घटनाच्चक्रे गणेशत्वम् ।
त्रैलोक्यमोहनाद्यैर्नवभिश्चक्रैर्ग्रहत्वं च ॥ ९२ ॥
(श्रीचक्र की ग्रहरूपात्मकता)
रेखा-समूह, दल-समूह एवं कोण-समूह द्वारा घटित होने के कारण श्रीचक्र में
गणेशत्व एवं त्रैलोक्यमोहन आदि नौ चक्रों के द्वारा विरचित होने के कारण (श्रीचक्र
की) गहरूपता (सिद्ध होती) है ॥ ९२ ॥
- प्रकाश *
रेखाश्चतुरश्रास्तिस्रो वर्तुलास्तिस्रः । दलानि चतुर्विंशतिः । कोणाः पञ्च-
चत्वारिंशत् । त्रैलोक्येति । सर्वानन्दमयान्तैरिति शेषः । रेखाभिस्तिसृभिरकथादिमयीभि-
र्मध्यत्रिकोणगाभिर्गणेशत्वं वदतां चक्रैकदेशे तदापत्त्या वैरूप्यं दोषः ॥ ९२ ॥ - सरोजिनी *
'कामकला विलास' में कहा गया है—'पंचदशाक्षरी विद्या भी उसी प्रकार
(त्रिपुरावत, चिदानन्दस्वरूपिणी, विश्वात्मिका एवं विश्वोत्तीर्ण) है । वह परिच्छेदशून्य
(सूक्ष्म) त्रिपुरासुन्दरी देवी है । तत्त्वविद्योगियों ने पंचदशीविद्या एवं वेद्य
(महात्रिपुरसुन्दरी देवी) दोनों में शाश्वतिक साम्य सामरस्य (अभेदात्मकता) का
१-२. योगिनीहृदय 'दीपिका' ३. सूत संहिता
४. स्कन्दपुराण
प्रतिपादन किया है—
‘विद्यापि तादृगात्मा सूक्ष्मा सा त्रिपुरसुन्दरी देवी ।
विद्यावेद्यात्मकयोर त्यन्ताभेदमामन्त्यार्थः ॥१
नटनानन्दनाथ ‘चिद्वल्ली’ में कहते हैं—इतः परं विद्यादैवतयोरपि न
भेदलेशोऽपि वेद्यवेदकयोरिक्ति इति उक्तमेवार्थं दृढयितुं देवतावद्विद्याया अपि विश्वात्मक-
त्वात्तदुत्तीर्णत्वं व्यक्तमाह ।’’ अर्थात् विद्या (पंचदशी विद्या) एवं देवता (त्रिपुरसुन्दरी)
में रंचमात्र भी भेद नहीं है इसी तथ्य को दृढ़ीभूत करने की दृष्टि से ग्रंथकार ने
वेद्य-वेदक भाँति में अभिन्नता दिखाई है तथा इसके दृढ़ीकरण हेतु ग्रंथकार ने देवता
की भाँति विद्या को भी विश्वात्मक एवं विश्वोत्तीर्ण कहा है ।२
‘चिद्वल्ली’ की भाँति ‘चिदम्बरसंहिता’३ में भी कहा गया है—‘‘अहं
पंचाक्षरस्साक्षात् त्वं तु पंचदशाक्षरी’’ ‘चतुश्शती’ में भी कहा गया है—‘यस्य यस्य
पदार्थस्य या या शक्तिरुदाहृता । सा सा सर्व
२९८ वरिवस्यारहस्ये
(श्रीचक्र की नक्षत्ररूपता)
तीन वृत्तों, तीन भूगृह-रेखाओं तथा चतुर्दश कोणों एवं अन्य सात चक्रों की
पृथक्-पृथक् गणना करने से इसकी नक्षत्ररूपता (सिद्ध होती) है ॥ ९३ ॥
- प्रकाश *
द्वयोः पद्मयोः कर्णिकावृत्ते द्वे, एकं बहिर्वृत्तमिति त्रयम् । धरणीत्रयं भूगृह-
रेखास्तिस्रः । मन्वश्राणि चतुर्दश कोणाः । इतरैः, त्रैलोक्यमोहनसर्वसौभाग्य-
दायकातिरिक्तैः । वृत्तत्रयमन्वश्रबहिर्दशारैरिति केचित् ॥ ९३ ॥ - सरोजिनी *
“एवं विश्वप्रकारा च चक्ररूपा महेश्वरी” । चूँकि देवी चक्ररूपा है अतः यदि
श्रीचक्र नक्षत्ररूपात्मक है तो देवी भी नक्षत्ररूपा मानी जानी चाहिए । ‘योगिनीहृदय’
में श्रीविद्या को नक्षत्ररूपिणी कहा गया है ।
‘हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः ।
अन्यद्वादशभिर्वर्णैरैषा नक्षत्ररूपिणी ॥’
‘श्रीचक्र’ भी नक्षत्ररूप है—
१. ३ वृत्त २. ३ भूगृहरेखा ३. १४ कोण ४. ७ अन्य चक्र सभी को
मिलाकर जो २७ संख्यायें होती है वह २७ संख्या वाले नक्षत्रों का प्रतीक है ।
दो कर्णिकावृत्त, एक बहिर्वृत्त, धरणीत्रय (तीन भूगृहरेखायें), मन्वश्रादिक चौदह
कोण, त्रैलोक्यमोहन, सर्वसौभाग्यदायक आदि चक्र को मिलाकर श्रीचक्र के २७
अङ्ग हो जाते हैं अतः चक्र की नक्षत्ररूपता सिद्ध है ।१
स्थितिसंहृतिचक्रे द्वे पद्मे द्वे वृत्तभूगृहे च द्वे ।
एवं षड्भिर्योगाच्छ्रीचक्रं योगिनीरूपम् ॥ ९४ ॥
(श्रीचक्र की योगिनीरूपात्मकता )
स्थिति एवं संहार नामक दो चक्र, दो पद्म तथा दो अन्य वृत्त एवं भूगृह
आदि छः के योग से यह ‘श्रीचक्र’ योगिनीरूप है ॥ ९४ ॥ - प्रकाश *
बिन्दुत्रिकोणवसुकोणाः संहृतिचक्रम्, दशारे द्वे चतुर्दशारं च स्थितिचक्रम्,
अवशिष्टं सृष्टिचक्रमित्येतत् त्रिप्रकारकत्वं चक्रसङ्केते स्पष्टम् । पद्मे वसुदलषोडशदले ।
वृत्तमेकं भूगृहत्वेनैकम् । अष्टभिः कोणैर्ब्राह्म्यादियोगिनीरूपत्वं वदतां त्वति-
वैरूप्यम् ॥ ९४ ॥
१. भास्करराय—‘प्रकाश’ (श्लोक ९२)
द्वितीयोंऽशः २९९
- सरोजिनी *
'श्रीचक्र' योगिनीरूप भी है ।
१. स्थिति २. संहार नामक चक्रद्वय दो पद्म ३. दो अन्य वृत्त एवं ४. भूगृह
आदि छः के योग से श्रीचक्र योगिनीरूप है ।
'संहतिचक्र' = बिन्दु, त्रिकोण, वसुकोण ।
'स्थितिचक्र' = दशारद्वय, चतुर्दशार ।
'पद्मे'—वसुदल, षोडशदल । 'वृत्त' = वृत्त एक है—भूगृह एक है । आठ
कोणों द्वारा बाह्यादियोगिनीरूपत्व स्थापित है । इसी प्रकार विद्या भी योगिनीरूपा
है—
'विद्यान्तर्भूतशक्त्याद्यैः शाक्तैः षड्भिस्तथाक्षरैः ।
योगिनीत्वं च विद्याया राशित्वं चान्त्यवर्जितैः ।।'१
विद्या में १५ अक्षर है उसके अन्तर्भूत शक्तियाँ हैं—३ हल्लेखाएँ हैं, ३
लकार है । ६ शाक्त अक्षरों से युक्त होने के कारण योगिनीत्व स्वसिद्ध है ।
योगिनियाँ डाकिनी आदि की संख्या छः है । इन सभी कोणों से योगिनीत्व स्वसिद्ध
है—
'विद्यायाः पंचदशाक्षर्या अन्तर्भूताः शक्तयो हल्लेखा स्तिस्रः । तदाद्याश्च
लकारास्त्रयः, शाक्तैरैतैः षड्भिरक्षरैर्विद्याया योगिनीत्वम् । योगिन्यश्च डाकिन्याद्याः
षट् ।'२
'श्रीचक्र' का स्वरूप निम्नांकित है—
१. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका'
३०० वरिवस्यारहस्ये
बिन्दु-त्रिकोण-वसुकोण-दशारयुग्मम्,
मन्वस्र-नागदल-संयुत-षोडशारम् ।
वृत्त-त्रयं च धरणी-सदन-त्रयं च,
श्रीचक्रमेतदुदितं पर-देवतायाः ॥
पञ्चचतुःशक्त्यनला बिन्दुवृत्तं च भूबिम्बम् ।
एवं द्वादशसंख्यैर्घटनाच्चक्रस्य राशित्वम् ॥ ९५ ॥
(चक्र की राशिरूपता का प्रतिपादन)
पाँच शक्ति, चार अग्नि, (एक) बिन्दु, (एक) वृत्त एवं (एक) भूगृह—इस
प्रकार बारह संख्या के योग से चक्र की राशिरूपता (सिद्ध) होती है ॥ ९५ ॥
- प्रकाश *
स्वाभिमुखाग्रत्रिकोणानि शक्तय इत्युच्यन्ते । तानि पञ्च । पराङ्मुखाग्र-
त्रिकोणान्यनलाः । तानि चत्वारि । तदुक्तम्—'पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसंभवः'
इति । वृत्तं पद्मद्वयगर्भितम् । ये तु नव त्रिकोणानि द्वे पद्मे भूगृहमेकमित्याहुस्तेषां बिन्दु-
परित्यागो दोषः ॥ ९५ ॥ - सरोजिनी *
'चक्र राशिरूप है'—इसका ही यहाँ प्रतिपादन किया गया है। "प्राणपानौ
समानश्चोदानव्यानौ तथा पुनः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः । जीवात्मा