वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 389, कुल 530 में से
संदर्भ में पढ़ेंद्वितीयोंऽशः २८७
डकारादि वर्णषट्कमादिभूतं यासामाकिनीनां ता डाकिन्यादयः । तेनामृताद्यावृता
डाकिनी, कालरात्र्याद्यावृता राकिनी, इति प्रकारेण षड्भिस्त्वगसृङ्मांसमेदोऽस्थि-
मज्जाधिपतिभिर्विशुद्धयनाहत-मणिपूरस्वाधिष्ठानमूलाधाराज्ञाचक्राणां तत्तद्देवतावरण-
शक्तिसमानसंख्याकतत्तदीयदलनिविष्टावत्तावत्संख्यकदेवीसंवृतानां कर्णिकासु निविष्ट
भिर्दाकिनीराकिनीलाकिनीकाकिनीसाकिनीहाकिनीभिर्घटिता तनूर्यस्याः सा योगिनी-
त्युच्यत इत्यर्थः । यद्यपि 'त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' इति भिषजां
घण्टाघोषेण धातवः सप्त, तदधिपतिरपि याकिनीनाम्ना सहस्रारपद्मेऽमृतादिसकल-
शक्तिबृन्दाधिष्ठितदलकिर्मिरिते तिष्ठतीति तन्त्रेषु प्रसिद्धम्, षोढान्यासे ऽपि क्वचित्तन्त्रेषु
तस्या न्यासो दृश्यते; तथापि योगिनीहृदये षण्णामेव न्यासविधानादमृतादि-
शक्त्यतिरिक्तशक्तेरावरणरूपाया अभावेनैतत्षट्कसमष्ट्यात्मकमातृत्वेन च पार्थक्या-
भावाद्योगिन्यः षडेव । यदाह—
'विशुद्धौ हृदये नाभौ स्वाधिष्ठाने च मूलके ।
आज्ञायां धातुनाथश्च न्यस्तव्या दादिदेवताः ।
अमृतादियुताः सम्यग् ध्यातव्याश्च सुरेश्वरि ॥' इति ॥ ८६ ॥
- सरोजिनी *
'योगिनीहृदय' में देवी को योगिनीरूपा कहा गया है—'वर्गाष्टकनिविष्टाभि-
र्योगिनीभिश्च संयुता । योगिनीरूप मास्थाय राजते विश्वविग्रहा ।।' 'योगिनीत्वमथोच्यते ।
त्वगादिधातुनाथाभिर्दाकिन्यादिभिरप्यसौ ।।'
आचार्य भास्कर कहते है—'त्वग्सृङ्मांसमेदोस्थिमज्जनाथा डाकिनी राकिणी
लाकिनी काकिनी साकि हाकिन्यः षट् । एतदात्मकत्वाद्देवी योगिनीमयी । वर्गाष्टक
म क च ट त प य श रूपं तन्निविष्टा वशिन्यादयोष्टौ तदात्मकतया वा योगिनी-
रूपेति विभावयेत् ।। अतएव 'गणेश-ग्रह-नक्षत्र-योगिनी-राशिरूपिणीम्' इति श्लोके
योगिनीपदस्य वशिन्यादिपरत्वेन काश्मीराणां मनोरमाकारस्य च व्याख्यानमुपपद्यते ।'१
'त्वगादिधातवस्त्वगसृङ्मांसमेदोमज्जा शुक्राणि धातवः, तेषां नाथा अधिष्ठात्र्यो
डाकिन्याद्याः । डाकिनी, राकिनी लाकिनी, काकिनी, साकिनी, हाकिनी, याकिनी च
वर्गा अ क च ट त प य शाः तेषामष्के निविष्टाः ब्रह्माण्याद्या योगिन्यः ।। तदुक्तं
स्वच्छन्दसंग्रहे—
'सर्वावांङ्मयस्थूला या वर्गाष्टकसमावृता । विश्वोत्पत्ति क्रमान्ताष्टशक्तिप्रसृत
भैरवैः । शक्तिभिश्च समायुक्ता अज्ञान्ता मातृकावलिः ।।'२ चतुःशती में भी कहा गया
है—'वर्गानुक्रमयोगेन यस्यां मात्राष्टकं स्थितम् ।।'
पञ्चभिर्नागकूर्माद्यैः प्राणापानादिपञ्चभिः ।
जीवात्मपरमात्मभ्यां चैषा राशिस্বরূপिणी ॥ ८७ ॥
१-२. अमृतानन्दनाथ—योगिनीहृदय 'दीपिका'