सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 99, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 99

राजवर्णनम् ] । द्वितीयः सर्गः ४५
उर्वी = पृथिवी, तरङ्गाभिहताः- तरङ्गैः = लहरैः, अभिहताः = प्रताडिताः इति
तरङ्गाभिहता = विस्फूर्जिततरङ्गोत्तोलिता, नौः= नौका, इव = यथा, प्रचचाल
चकम्पे । तरङ्गाभिहता नौरिवात्रोपमालङ्कारः ॥ ५२ ॥
हिन्दी—जन्म-विनाश की जो अभिलाषा रखता हो वही प्राणी स्वयं जन्म ग्रहण
कर रहा है, यह जानकर धरती उस नाव की तरह कांप उठी जैसे तरङ्गों से उद्वेलित
होकर कांपती रहती है ॥ ५२ ॥
सूर्यरश्मिभिरक्लिष्टं पुष्पवर्षं पपात खात् ।
दिग्वारणकराधूताद्गगनाच्चैत्ररथादिव ॥ ५३ ॥
अन्वयः—सूर्यरश्मिभिः अक्लिष्टं दिग्वारणकराधूतात् चैत्ररथात् वनात् इव,
पुष्पवर्षं खात् पपात ॥ ५३ ॥
व्याख्या—सूर्यरश्मिभिः—सूर्यस्य = दिनकरस्य, रश्मयः = किरणानि, ताभिः
सूर्यरश्मिभिः = रविमयूखैः, अक्लिष्टम्—न क्लिष्टम् अक्लिष्टम् = अम्लानम्, दिशाम्
= आशाम्, वारणाः = गजास्तेषाम्, करैः = शुण्डदण्डैः, आधूतम् = कम्पितम्, तस्माद्
दिग्वारणकराधूतात् = दिग्गजकरकम्पितात् ('ऐरावतः पुण्डरीको वामनः कुमुदो-
ऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।।' ), चैत्ररथात्—चित्ररथस्य
इदमिति चैत्ररथम्, तस्मात् चैत्ररथात् = सूर्यात्, वनात् = उपवनात्, इव = यथा,
सम्भावनायाम्, पुष्पवर्षम्—पुष्पाणाम् = कुसुमानाम्, वर्षम् = वृष्टिः, खात् =
आकाशात्, पपात = अभवत् । पुष्पवृष्ट्याः पुष्पाणि सूर्यरश्मिभिरम्लानमासन्,
तेन कविरत्र कल्पना करोति यदिमानि पुष्पाणि सूर्योपवनात् एव सन्ति । असम्भाव-
नात्वेनोत्प्रेक्षाऽलङ्कारोऽस्ति । 'भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मनः ।' ( का० प्र० )
हिन्दी—सूर्यकिरणों का सम्पर्क पाकर भी बिना मुरझाये हुए फूल आकाश से
गिरे, मानो दिग्गजों ने अपनी सूंड से सूर्यवन को हिलाकर पुष्पवृष्टि की हो ॥ ५३ ॥
दिवि दुन्दुभयो नेदुर्दीव्यतां मरुतामिव ।
दिदीपेऽभ्यधिकं सूर्यः शिवश्च पवनो ववौ ॥ ५४ ॥
अन्वयः—दिवि दीव्यताम् इव मरुतां दुन्दुभयः नेदुः, सूर्यः अभ्यधिकं दिदीपे च
शिवः पवनः ववौ ॥ ५४ ॥
व्याख्या—दिवि = आकाशे, दीव्यताम् = अन्तःप्रसादेन क्रीडमानानाम्, इव मरुताम् =
पवमानानाम्, दुन्दुभयः = भेर्यः, ('भेरी दुन्दुभिरीष्यते' इति हलायुधः) नेदुः = निनाद,
सूर्यः = रविः, अभ्यधिकम् = अधिकतरम्, दिदीपे = चकाशे, च = पुनः, शिवः =
मङ्गलकरः, पवनः = वायुः, ववौ = उवाह । दीव्यतामिवेत्यत्रोत्प्रेक्षालङ्कारः ॥ ५४ ॥
हिन्दी—आकाश में दुन्दुभियां बजीं, मानों मरुद्गण खेल रहे हों । सूर्य अत्यधिक
प्रकाशित हुआ और कल्याणकारी पवन बहने लगा ॥ ५४ ॥
सौ०-7