सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
DevanagariHindipublished496 पृष्ठ
पृष्ठ 105, कुल 496 में से
संदर्भ में पढ़ेंपृष्ठ 105
तृतीयः सर्गः
तथागतवर्णनम्
जननमरणरुजमुक्तसृष्टिका करने नव निर्माण ।
मायासुतमाया तज जगका अपनाया निर्वाण ॥
तपसे ततः कपिलवास्तुं हयगजरथौघसङ्कुलम् ।
श्रीमदभयमनुरक्तजनं स विहाय निश्चितमना वनं ययौ ॥ १ ॥
अन्वयः—ततः निश्चितमनाः सः हयगजरथौघ-सङ्कुलं श्रीमद् अभयम् अनुरक्त-
जनं कपिलवास्तुं विहाय तपसे वनं ययौ ॥ १ ॥
व्याख्या—ततः = तदनन्तरम्, निश्चितमनाः—निश्चितम् = संशयशून्यम्, मनः =
चित्तः, यस्यासौ=प्रतिज्ञातमनाः, सः=शुद्धोदनसुतः, हयगजरथौघसङ्कुलम्—हयाश्च=
घोटकाश्च, गजाश्च = द्विपाश्च, रथाश्च=स्यन्दनाश्च, तेषाम् ओघः = समूहः, तेन सङ्कुलम्
=आकुलम्, श्रीमत्—श्रीः=लक्ष्मीः, अस्ति अस्येति ( श्री + मतुप् ) = लक्ष्मीयुक्तः,