सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 111, कुल 496 में से
संदर्भ में पढ़ेंतथागतवर्णनम् ] तृतीयः सर्गः ५७
विषयात्मकस्य हि जनस्य बहुविविधमार्गसेविनः।
सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः ॥ १६ ॥
अन्वयः—बहुविविधमार्गसेविनः विषयात्मकस्य जनस्य हि तमः अभ्युदितः सूर्य
इव सूर्यसदृशवपुः गौतमः विजहार ॥ १६ ॥
व्याख्या—बहून् = विपुलान्, विविधान् = अनेकान्, मार्गान् = पथः, सेवितुम्
गृहीतुम्, शीलम् = स्वभावम्, अस्य इति, बहुविविधमार्गसेविनः = अनेकप्रकारकमार्ग-
गामिनः, विषयः आत्मा यस्य इति विषयात्मकस्य = भोगासक्तस्य, जनस्य = लोकस्य,
हीति निश्चयेन, तमः = अन्धकारः, अभ्युदितः = उदयाचलमागतः, सूर्यः = रविः,,
इव = यथा, सूर्यसदृशवपुः, सूर्यस्य = रवेः, सदृशम् = तुल्यम्, वपुः = शरीरम्, यस्यासौ,
गौतमः = बुद्धः, विजहार = व्यहरत् । इवेन सह समासत्वादुपमाऽलङ्कारोऽत्र ॥१६॥
हिन्दी—उगता हुआ सूरज जैसे अन्धेरे को मिटा देता है, उसी तरह दिव्य देहवाले
महर्षि गौतम ने बहुत सारी राहों पर अनेक तरह से चलने वाले विषय-वासना में
आकण्ठ डूबे हुए लोगों के अज्ञान रूपी अन्धकार को मिटा दिया ॥ १६ ॥
अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतम् ।
वस्तुमतिशुचिः शिवोपवनं स ददर्श निःस्पृहतया यथा वनम् ॥ १७ ॥
अन्वयः—ततः सः अभितः परमशुभवास्तुसंस्तुतं वस्तुमतिशुचिः शिवोपवनं
कपिलवास्तु निःस्पृहतया वनं यथा ददर्श ॥ १७ ॥
व्याख्या—ततः = तत्पश्चात्, सः = गौतमः, अभितः = सर्वतः, परमशुभवास्तु-
संस्तुतम्—परमम् = अत्यन्तम्, शुभम् = कल्याणकरम्, च वास्तु = भवनम्, तेभ्यः
संस्तुतम् = प्रसिद्धम्, वस्तुमतिशुचिः—वस्तु = अर्थः, मतिश्च = बुद्धिश्च, वस्तुमती,
ताभ्यां शुचिः = पवित्रः, शिवोपवनम्—शिवम् = कल्याणकरम्, उपवनम् = उद्यानम्,
यस्मिन् तत्, कपिलवास्तु = एतदाख्यनगरम्, निःस्पृहतया = निरभिलाषतया, वनम् =
अरण्यम्, यथा = इव, ददर्श = अपश्यत् । उपमालङ्कारोऽत्र ॥ १७ ॥
हिन्दी—इसके बाद उन्होंने अति सुन्दर सौधों के लिए प्रसिद्ध, पवित्र बुद्धि और
सम्पत्ति के लिए ख्यात कल्याणकारी उपवनों वाले उस कपिलवस्तु नामक नगर को
बड़े ही निःस्पृह भाव से जंगल की तरह देखा ॥ १७ ॥
अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः ।
नैकविधभयकरेषु किमु स्वजनस्वदेशजनमित्रवस्तुषु ॥ १८ ॥
अन्वयः—किमु हि नियतमतिः आत्मनीश्वरः सः नैकविधभयकरेषु स्वजनस्वदेश-
जनमित्रवस्तुषु अपरिग्रहः बभूव ॥ १८ ॥
व्याख्या—किमु हि=यतो हि, नियतमतिः—नियता = स्थिरा, मतिः = बुद्धिर्यस्य,
आत्मनीश्वरः=जितेन्द्रियः, सः =गौतमः, नैकविधभयकरेषु—न एकविधाः भयकरा-
करास्तेषु, भयकरः—भयङ्करोतीति भयकरः, अर्थात् अनेकप्रकारकोपद्रवकारकेषु,