सामग्री पर जाएँ
सर्वकोश
सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)

Saundarananda Mahakavya of Ashvaghosha

महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा

DevanagariHindipublished496 पृष्ठ

पृष्ठ 96, कुल 496 में से

संदर्भ में पढ़ें
पृष्ठ 96

४२ सौन्दरनन्दं महाकाव्यम्
अन्वयः—तेन यथाकल्पं सोमः ( अपायि ) यश एव च अपायि सततं वेदः वेदोक्तः
धर्म एव च आम्नायि ॥ ४४ ॥
व्याख्या—तेन = शुद्धोदनेन, यथाकल्पम्—कल्पम् = धर्मकृत्यविधायको वेदाङ्ग-
भेदं तम्, अनतिक्रम्य = अनुल्लङ्घ्य इति यथाकल्पम् = सविधिम्, सोमः = यज्ञा-
नुष्ठाने पेयपवित्ररसम्, अपायि, यशः = कीर्त्तिः, एव = मात्रं, च = पुनः, अपायि =
पानं कृतम्, यशःपक्षे रक्षां कृतः, सततम् = सर्वदा, वेदः = आगमः, वेदोक्तः—वेदे
= आगमे, उक्तः = कथितः, धर्मः = कर्त्तव्यः, एव = केवलम्, च = पुनः, आम्नायि =
अपालि । श्लोकेऽस्मिन् 'अपायि' एवम् 'आम्नायि' इति पदद्वयस्य श्लिष्टत्वात्
श्लेषाऽलङ्कारोऽस्ति ॥ ४४ ॥
हिन्दी—उसने विधिवत् सोमरस का पान किया और अपने यश की सदैव रक्षा
की । उसने निरन्तर वेदों का अध्ययन किया और वेद-विहित धर्मों का पालन
किया ॥ ४४ ॥
एवमादिभिरत्यक्तो बभूवासुलभैर्गुणैः ।
अशक्तः शक्यसामन्तः शाक्यराजः स शक्रवत् ॥ ४५ ॥
अन्वयः—एवमादिभिः असुलभैः गुणैः अत्यक्तः अशक्तः शक्यसामन्तः सः शाक्य-
राजः शक्रवत् बभूव ॥ ४५ ॥
व्याख्या—एवमादिभिः = एवंविधैरन्यैरपि, असुलभैः = असामान्यैः, गुणैः =
सदाचरणैः, अत्यक्तः = युक्तः, अशक्तः = विजेतुमसम्भवः, शक्यसामन्तः—शक्याः
सामन्तः यस्यासौ, शाक्यः = नृपः, सः = असौ, शाक्यराजः—शाक्यानां राजा =
अधिपतिः, अर्थात् शुद्धोदनः, शक्रवत् = देवराज इन्द्रवत्, बभूव = आसीत् । यमकोपमे-
ऽलङ्कारौ स्तः ॥ ४५ ॥
हिन्दी—अपने वशवर्त्ती एवं विजीत सामन्तों से घिरे, दुर्लभ गुणों से युक्त वह
शाक्यराज इन्द्र की तरह मालूम पड़ता था ॥ ४५ ॥
अथ तस्मिन् तथा काले धर्मकामा दिवौकसः ।
विचेरुर्दिशि लोकस्य धर्मचर्यां दिदृक्षवः ॥ ४६ ॥
अन्वयः—अथ तस्मिन् तथा काले धर्मचर्यांः दिदृक्षवः धर्मकामाः दिवौकसः
लोकस्य दिशि विचेरुः ॥ ४६ ॥
व्याख्या—अथ = अनन्तरम्, तस्मिन् = एतस्मिन्, तथा = तादृशः, काले = शोद्धो-
दने काले, धर्मचर्याः—धर्मस्य = सत्कर्मणः, चर्याः = आचरणान्, दिदृक्षवः=( √ दृश् +
सन् + उ 'सनाशंसभिक्ष उः' प्रथमपुरुषैकवचने ) द्रष्टुमिच्छुकाः, धर्मकामाः—धर्मस्य
= सत्कार्यस्य, कामः = इच्छा, येषां ते धर्मकामाः = धर्माभिलाषिणः, दिवौकसः =
देवताः, लोकस्य = संसारस्य ( 'भुवनं विष्टपं लोको जगदेकार्थवाचकाः'—इति हला-
युधः ), दिशि = आशासु, समन्तादित्याशयः, विचेरुः = बभ्रमुः ॥ ४६ ॥