सौन्दरनन्द महाकाव्य (महाकवि अश्वघोष - विमला संस्कृत एवं हिन्दी व्याख्या सहित सम्पूर्ण १८ सर्ग)
Saundarananda Mahakavya of Ashvaghosha
महाकवि अश्वघोष (व्याख्याकार: आचार्य जगदीशचन्द्र मिश्र) द्वारा
पृष्ठ 95, कुल 496 में से
संदर्भ में पढ़ेंराजवर्णनम् ] द्वितीयः सर्गः ४१
अन्वयः—तेन शरणागतः दुःखार्त्तः अरिः अपि न अत्याजि दृप्तान् रिपून् जित्वा
अपि तेन विस्मयः न अकारि ॥ ४१ ॥
व्याख्या—तेन=राज्ञा शुद्धोदनेन, शरणागतः—शरणे=आश्रये, आगतः=
सम्प्राप्तः, शरणागतः, दुःखार्त्तः—दुःखेन=पीडया, आर्तः=पीडितः, इति दुःखार्त्तः,
अरिः=वैरिः, अपि=चेत्, न=नहि, अत्याजि=पर्यहारि, दृप्तान्=अहङ्कारिणः,
रिपून्=शत्रून्, जित्वा=विजित्य, अपि=चेत्, तेन=शुद्धोदनेन, विस्मयः=अभि-
मानः ( मनुना प्रयुक्तः शब्दोऽयमस्मिन्नेवार्थे दृश्यते एकस्मिन् स्थाने यथा—'यज्ञोऽनृ-
तेन क्षरति तपः क्षरति विस्मयात्' ४।२३७ ) न=नहि, अकारि=क्रियतेस्म ॥४१॥
हिन्दी—अपनी शरण में आये हुए दुःखी दुश्मन का भी उसने कभी परित्याग नहीं
किया । अभिमानी दुश्मनों को जीतकर भी उसने कभी घमण्ड नहीं किया ॥ ४१ ॥
न तेनाभेदि मर्यादा कामाद् द्वेषाद्द्भयादपि ।
तेन सत्स्वपि भोगेषु नासेवीन्द्रियवृत्तिता ॥ ४२ ॥
अन्वयः—तेन कामाद् द्वेषाद् भयात् अपि मर्यादा न अभेदि भोगेषु सत्सु अपि तेन
इन्द्रियवृत्तिता न असेवि ॥ ४२ ॥
व्याख्या—तेन=नृपेन, कामात्=मनोरथात्, द्वेषात्=विरोधात्, भयात्=त्रासात्,
अपि=चेत्, मर्यादा=राजर्षियोग्याचरणः, न=नहि, अभेदि=अत्याजि, भोगेषु=
सुखेषु, सत्सु=( √ अस् + शतृ, सप्तम्येकवचने 'यस्य च भावेन भावलक्षणम्'ित्यनेन
सप्तमी ), इन्द्रियाणाम्=करणानाम्, वृत्तिः=चित्तावस्था, तस्याः भावः इन्द्रियवृत्तिता
=इन्द्रियाणामधीनता (√ वृत् + क्तिन् + तल् + टाप् ), असेवि=( √ सिव् + णिच्
कर्मणि लुङि प्रथमपुरुषैकवचने रूपमिदम् ) सेवित इति ॥ ४२ ॥
हिन्दी—उसने काम, द्वेष या भय के कारण कभी मर्यादा नहीं तोड़ी, भोगों का
उपभोग करते हुए भी उसने कभी इन्द्रियों की गुलामी नहीं की ॥ ४२ ॥
न तेनादर्शि विषमं कार्यं क्वचन किञ्चन ।
विप्रियप्रियोः कृत्ये न तेनागामि निष्क्रियाः ॥ ४३ ॥
अन्वयः—तेन किञ्चन क्वचन विषमं कार्यं न अदर्शि तेन विप्रियप्रियोः कृत्ये
निष्क्रियाः न अगामि ॥ ४३ ॥
व्याख्या—तेन=नृपेन, किञ्चन=किमपि, क्वचन=कुत्रापि, विषमम्=अनु-
चितम्, कार्यम्=कृत्यम्, न=नहि, अदर्शि=दृष्टः, तेन=बुद्धेन, विप्रियप्रियोः=
शत्रु-सुहृदोः, कृत्ये=कार्ये, निष्क्रियाः=निम्नक्रियाः, न=नहि, अगामि=गतः ॥४३॥
हिन्दी—उसने कभी कोई प्रपञ्च किया हो—ऐसा कभी देखा नहीं गया । उसने
अपने मित्र या शत्रु किसी के लिए कभी कोई नीच कर्म नहीं किया ॥ ४३ ॥
तेनापायि यथाकल्पं सोमश्च यश एव च ।
वेदश्चाम्नायि सततं वेदोक्तो धर्म एव च ॥ ४४ ॥